32021: दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु ============================================================================================================================ **Padacheda:** दिवा-विभा-निशा-प्रभा-भास्-कार-अन्त-अनन्त-आदि-बहु-नान्दी-किम्-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-संख्या-जङ्घा-बाहु-अहस्-यत्-तत्-धनुष्-अरुष्षु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ट comes after the verb कृञ् 'to make' when the following words are in composition with it - 1. दिवा 'by day' 2. विभा 'light' 3. निशा 'night' 4. प्रभा 'splendour' 5. भाः 'light' 6. कार 'work' 7. अन्त 'end' 8. अनन्त 'endless' 9. आदि 'beginning' 10. बहु 'many' 11. नान्दी 'benediction' 12. किम् 'what' 13. लिपि 'writing' 14. लिबि 'writing' 15. बलि 'oblation' 16. भक्ति 'devotion' 17. कर्तृ 'agent' 18. चित्र 'painting' 19. क्षेत्र 'field' 20. संख्या - words denoting numerals 21. जङ्घा 'thigh' 22. बाहु 'hand' 23. अहः 'day' 24. यत् 'what' 25. तत् 'that' 26. धनुस् 'bow' 27. अरुस् 'wound'. Vasu English Translation ------------------------ The affix ट comes after the verb कृञ् 'to make' when the following words are in composition with it - 1. दिवा 'by day' 2. विभा 'light' 3. निशा 'night' 4. प्रभा 'splendour' 5. भाः 'light' 6. कार 'work' 7. अन्त 'end' 8. अनन्त 'endless' 9. आदि 'beginning' 10. बहु 'many' 11. नान्दी 'benediction' 12. किम् 'what' 13. लिपि 'writing' 14. लिबि 'writing' 15. बलि 'oblation' 16. भक्ति 'devotion' 17. कर्तृ 'agent' 18. चित्र 'painting' 19. क्षेत्र 'field' 20. संख्या - words denoting numerals 21. जङ्घा 'thigh' 22. बाहु 'hand' 23. अहः 'day' 24. यत् 'what' 25. तत् 'that' 26. धनुस् 'bow' 27. अरुस् 'wound'. Both the words '*karma*' and '*sup*' are understood in this aphorism; that is to say, sometimes these *upapadas* stand as accusative case and sometimes they have other cases, as the construction may require. This affix ट comes when the sense is not that of cause &c., as it was in the last *sutra*. Thus दिवाकरः 'the sun'. The word दिवा is an indeclinable and means 'in the day time'. There the *upapada*, therefore, is in the locative case. The sun is so called, because it makes creatures active in the day time. So विभाकरः 'the sun' (light-maker); निशाकरः 'the moon' (the night-maker); प्रभाकरः 'the sun'; भास्करः 'the sun' (the letter स is not changed into *visarga*, as it has been so read in the *sutra*); कारकरः 'agent'; अन्तकरः 'death' (end-maker); अनन्तकरः 'magnifying to any extent'; आदिकरः 'the creator'; बहुकरः 'the busy'; नान्दीकरः 'the speaker of benediction'; किङ्करः 'a servant'; लिपिकरः 'a scribe'; लिबिकरः 'a scribe'; बलिकरः 'offering sacrifice'; भक्तिकरः 'a devotee'; कर्तृकरः 'an agent'; चित्रकरः 'a painter'; क्षेत्रकरः 'a cultivator'; एककरः 'doing only one thing', द्विकरः 'doing two things'; त्रिकरः 'doing three things'; जङ्घाकरः 'a runner, an express'; बाहुकरः 'a hero', 'a manual labourer'; अहस्करः 'the sun'; तत्करः 'doing that'; यत्करः 'doing that'; धनुष्करः 'bow-maker'; अरुस्करः 'causing or inflicting wounds'. Var:- The affix अच् comes after the verb कृ when किम्, यत्, तद् and बहु are in composition with it. The speciality of ट affix is that the feminine of words derived from it is formed by long ई; while the feminine of words derived by अच् is formed by long आ. Thus किङ्करा, यत्करा, तत्करा and बहुकरा; these words might be said to belong to the अजादि class (See (4.1.31)). Bhashya ------- दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु।(788) (479 कृञ्ञष्टप्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ. 11 सूत्रम्) (2025 अच्प्रत्ययविधिवार्तिकम्॥ 1 ॥) - किंयत्तद्बहुषु कृञ्ञोऽज्विधानम्- (भाष्यम्) किंयत्तद्बहुषु कृञ्ञोज्विधानं कर्तव्यम्। किंकरा यत्करा तत्करा बहुकरा॥ दिवाविभा॥ 21 ॥ Kashika ------- कर्मणि सुपीति च द्वयमप्यनुवर्तते। तत्र यथायोगं सम्बन्धः। दिवादिषूपपदेषु करोतेर्धातोष्टप्रत्ययो भवति। अहेत्वाद्यर्थ आरम्भः। दिवाशब्दोऽधिकरणवचनः सुपीत्यस्य विशेषणम्। दिवा करोति प्राणिनश्चेष्टायुक्त ानिति दिवाकरः। विभां करोतीति विभाकरः। निशाकरः। प्रभाकरः। भास्करः। सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः। कारकरः। अन्तकरः। अनन्तकरः। आदिकरः। बहुकरः। नान्दीकरः। किंकरः। लिपिकरः। लिबिकरः। बलिकरः। भक्तिकरः। कर्तृकरः। चित्रकरः। क्षेत्रकरः। संख्या — एककरः। द्विकरः। त्रिकरः। जङ्घाकरः। बाहुकरः। अहस्करः। यत्करः। तत्करः। धनुष्करः। अरुष्करः॥ किंयत्तद्बहुषु कृञोऽज्विधानम्॥ किंकरा। यत्करा। तत्करा। बहुकरा। अथवाजादिषु पाठः करिष्यते॥ Siddhanta Kaumudi ----------------- एषु कृञष्टः स्याद् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्य (SK159) इति षत्वम् । धनुष्करः । अरुष्करः । (वार्तिकम्) ॥ इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीष् । किंकरी ॥ Balamanorama ------------ **दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी- किम्लिपि लिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु** - दिवाविभा । दिवा, विभाष निशा, प्रभा, भास्, कार, अन्त,अनन्त, आदि, बहु, नानदी, किम् लिपि लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र , सङ्ख्या, जङ्घा, बाहु, अहर्, यद् , तद्, धनुस्रुस् — एषां सप्तमविंशतेद्र्वन्द्वात्सप्तमी । एष्विति ।उपपदेष्वि॑ति शेषः । अहेत्यादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः । एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति । अत्र कर्मणीति सुपति चानुवृत्तं यथायोगमन्वेति । दिवाकर इति । दिवेत्याकारान्तमव्ययमह्नीत्यर्थे । तस्याऽधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् । दिवा = अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभाकर इति । विभां करोतीति विग्रहः । निशाकर इति । निशां करोतीति विग्रहः । एवं प्रभाकरः । भाः करोतीति विग्रहेअतः कृकमी॑त्यत्राऽत इति तपरकरणात्सत्वस्याऽप्राप्तेःकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । कारकरः, अन्तकरः, अनन्तकरः, आदिकर इति सिद्धवत्कृत्य आह — बहुकर इति । ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह — बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमितबहुगमवतुडति सङ्ख्ये॑त्यत्रोक्तम् । नान्दीकरः किह्कर इति सिद्धवत्कृत्य आह — लिपिलिशब्दाविति । तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह — सङ्ख्येति । 'उदाह्यियते' इति शेषः । जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्देकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । नञि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वात्अतः कृकमी॑त्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे आह — नित्यं समास इति । प्रत्ययवयवत्वात्इदुदुपधस्य चे॑त्यस्य न प्राप्तिरिति भावः । कृञोऽज्विधानमिति । टस्याऽपवादः । किङ्करेति । टप्रत्यये तु टित्त्वान्ङीपस्यादिति भावः । हेत्वादिषु पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः । तर्हि किङ्करीति कथमित्यत आह — पुंयोगे ङीषिति । कर्मणि भृतौ । कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणाऽर्थम् । कर्मकरो भृतक इति । वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक इत्युच्यते । Tattvabodhini ------------- **दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी- किम्लिपि लिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु** - दिवाविभा । ननु अन्तकरशब्देन नञ्समासे स्वीकृतेऽपीष्टसिद्धौ सूत्रे त्वन्तशब्दात्पृथगनन्तग्रहणं व्यर्थमिति चेत् । अत्राहुः — स्वरे तु विशेषोऽस्ति । नञ्समासे हि अव्ययपूर्वपदप्रकृतिस्वरेणाऽन्तोदात्त्वमिति । दिवाकर इति । दिवा = दिवसं करोतीति विग्रहः । दिवाभूता रात्रिरित्यादाविव दिवाशब्दस्य वृत्तिविषये शक्तिमत्परत्वात् । मूलेऽनुक्तान्यपि कानिचिदुदाहरणानि ऊह्रानि । कर एव कारः । प्रज्ञादित्वादण् । कारं करोतीति कारकरः,आदिकरः, नान्दीकरः, किंकरः, बलिकरः भक्तिकरः कर्तृकरः चित्रकरः, क्षेत्रकरः, जङ्घाकरः , बाहुकर इति । * किंयत्तद्बहुषु कृञोऽज्विधानम् । वार्तिकमिति — कैयटहरदत्तादिरीत्योक्तम् । माधवस्तु इष्टिरियमित्याह । पुंयोगे ङीषिति । यत्तु न्यासकृतोक्तं — हेत्वादिषु पूर्वसूत्रेण ट एव भवति, तेन किङ्करणशीला किङ्करीत्युपपन्नं भवतीत॑ति तन्नादर्तव्यम्, परत्वादचा टचो बाधितत्वात्, पूर्वविप्रतिषेधस्य निर्मूलत्वाच्चेति भावः । वृत्तौ तु पक्षान्तरमप्युक्तम् — अथवा पचादिषु पाठः करिष्यते॑ इति ।दिवाविभे॑त्यस्मिन् सूत्रे किमादिग्रहणमनीय पचादिष्वेवकिंयत्तद्बुहुषु कृञः॑ इति पठितव्यं, वार्तिकमपीत्थमेव नेयमिति तस्याशयः । अस्मिन्पक्षे कर्मण्यणं बाधित्वा चरितार्थमिदं वनं हेत्वादिविवक्षायां परत्वाट्टेन बाध्यते, तेन पुंयोगं विनापिकिङ्करी स्यादेव, पुंयोगविवक्षायां तु निर्विवादो ङीष्,किंयत्तद्बहुष्वज्वे॑ति प्रक्रियायां विकल्पोक्तिस्त्वाकरविरुद्धत्वात्कर्मण्यणोऽपि पक्षे प्रसङ्गाचाचऽयुक्तैव । न चाऽजभावेदिवाविभे॑ति टः स्यादिति वाच्यम्, सूत्रे किमादिग्रहणापनयनस्य हरदत्तादिभिरुक्तत्वात् । अथवा सूत्रे किमाद्यपनयनं मास्त्विति प्रौढिवादेन प्रक्रियाग्रन्थः प्रवृत्त इति स्वीक्रियते । तथा च हेत्वाद्यविवक्षायांकिंयत्त॑ दिति व#आर्तिकेनाऽच्, तद्विवक्षायां तु परत्वाट्ट इति विषयविशेषे व्याख्याभेदात् फलितं विकल्पमाश्रित्य प्रक्रियायामज्वेति प्राचोक्तमिति स्थितस्य गतिः समर्थनीया । Padamanjari ----------- दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रत्रेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु॥ यथायोगमिति। तत्र दिवाशब्दोऽह्रीति सप्तम्यन्तस्यार्थे वर्तत इति तस्य कर्मत्वानुपपतेः'सुपि' इत्यनेनाभिसम्बन्धः, शेषाणां तु कर्मणीत्यनेन। यदि तु दोषामन्यमहः, दिवामन्या रात्रिरितिवद् वृत्तिविषये कर्मत्वमभ्युपगम्येत, तदा दिवाशब्दस्यापि कर्मणीत्यनेन संबन्धः। सकारस्येति। भास्करान्तेति भाशब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते, तस्माद्भास्कर इत्यत्र विसर्जनीयजिह्वामूलीयौ न भवतः। अथ वा - सकारस्य विसर्जनीयजिह्वामूलीयौ न भवतः, कुतः? निपातनात्। भास्करान्तेति सूत्रे सकारोच्चारणमेव निपातनम्। कारकर इति। कर एव कारः, प्रज्ञादित्वात्स्वार्थेऽण। अनन्तकर इति। अन्तकरशब्देन नञ्समासेऽप्येतद्रूपं सम्भवति, स्वरे हि दोषः स्यात् - सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः प्रसज्येत, इष्यते हि गतिकारकोपपदात्कृदिति कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वम्। बहुकर इति। बहुशब्दो वैपुल्यवचनः, संख्यावचनस्य तु चसंख्याग्रहणेनैव सिद्धम्। लिपिलिबिशब्दौ पर्यायौ। अहस्कर इति। अहन् रोः सुपिऽ इति रोफः, पूर्ववत्सत्वम्। धनुष्करः, अरुष्कर इति।'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वम्,'किंयतद्वहुषु कृञो' ज्विधानम्ऽ इति वार्तिकेन सूत्रस्य बाधितत्वाट्टस्याभावाद्धेत्वादिष्वन्यत्र किंकरीत्यसाधुरित्याहुः। क्वचिद् ग्रन्थः - अथ वा वचादिषु पाठः करिष्यत इति। तत्रायमर्थः - इह किमादिग्रहणमपनीय पचादिष्वेव'किंयतद्वहुषु कृञः' इति पठितव्यमिति॥ Nyaas ----- `यथायोगम्` इति। दिवाशब्दस्य सुपीति सम्बन्धः, तस्याधिकरणस्य प्रधानत्वात् कर्मत्वानुपपत्तेः। शेषाणां तु सत्त्वप्रधानत्वात् करोतिसम्बन्धे कर्म चोपपद्यत इति कर्मणीत्यनेन सम्बन्धः। `अहेत्वाद्यर्थ आरम्भः` इति। हेत्वादिषु पूर्वेणैव सिद्धत्वात्। `भास्करः` इति। कथं पुनरत्र सकारः, यावता सकारस्य रुत्वविसर्जनीययोः `कुप्वो क पौ च` (8.3.37) इति विसर्जनीयजिह्वामूलीययोरन्यतरेण भवितव्यमित्याह - `सकारस्य निपातनात्` इत्यादि। भास्करान्तेति यत्सकारस्योच्चारणं तदेव निपातनम्। `बहुकरः` इति। बहुशब्दो वैपुल्यवाची। `अहस्करः` इति। अहन्नित्यस्य **रोऽसुपि** (8.2.69) इति नकारस्य रेफः, तस्य विसर्जनीयः। तस्य `अतः कृकमि` (8.3.46) इत्यादिना सत्वम्। `धनुष्करः, अरुष्करः` इति। **इसुसोः सामर्थ्ये** (8.3.44) , **नित्यं समासेऽनुत्तरपदस्थस्य** (8.3.45) इति षत्वम्। अथानन्तग्रहणं किमर्थम्, अन्तग्रहणादेवानन्तशब्देऽपि तदन्तविधिना भविष्यति? नैतदस्ति; सर्वस्मिन्नुपपदविधौ न हि तदन्तविधिरिष्यते। तथा हि `{ वार्तिककारः} पदकारः पठति - `उपपदविधौ भयाढआदिग्रहणं तदन्तविधिं प्रयोजयति` (1.1.73 वा।9) इति। एवं तर्हि नानतकरोऽनन्तकर इत्यन्तशब्देनापि नञ्समासो भविष्यति? नैवं शङ्क्यम्;स्वरे दोषः स्यात्। सति शिष्टे हि `तत्पुरुषे तुल्यार्थ` (6.2.2) इत्यादिना प्रकृतिस्वरे हि नञ्स्वरः प्रसज्येत। तथा चानन्तकरशब्द आद्युदात्तः, `निपाता आद्युदात्ताः` (फि।सू।4।80) इति नञ उदात्तत्वात्िष्यते च `{ गतिकारककोपपदात् कृत् इति सूत्रम्} गतिकारकोपपदानां कृत्` (6.2.138) इत्युत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वम्। तस्मादनन्तग्रहणं कर्तव्यम्।`किंयत्तद्बहुष्वज्विधानम्` इत्यादि। किमित्यादिषूपपदेष्वज्विधानं कर्तव्यम्, तत्कथमिह टोऽप्यनुवर्तते? माण्डूकल्पुतिन्यायेनाजपि, विभाषाग्रहणमपि। तद्वयवस्थितविभाषाविज्ञानात् किंयत्तद्बहुषु कृञोऽजेव भवति, शेषेषु दिवादिषु ट एव। अहेत्वाद्यर्थत्वाच्चारम्भस्य यदा हेत्वादयो विशेषा न विवक्ष्यन्तेतदा किंयत्तद्बहुषु कृञोऽज्विधानम्, तेषु विवक्षितेषु पूर्वसूत्रेण ट एव भवति। तथायं प्रयोग उपपन्नो भवति - जातिरियं किंकरीति। किंकरणशीला किंकरी, न किञ्चिदपि करोति। निष्प्रयोजननेति यावत्॥ Prakriyasarvasvam ----------------- एषु पूर्वेषु कृञष्ट एव । दिवाशब्दस्याहनीत्यर्थे । दिवा करोति प्राणिचेष्टा- मिति दिवाकरः । सप्तम्यर्थाभावमते दिनं करोतीत्येवार्थः । विभाकरः । निशां करोत्युद्द्योतयतीति निशाकर इत्यादि । कारः स्वामिभागः । कारकरः । अनन्तं कर्म कुर्वन् अनन्तकरः । नान्दी मङ्गलवाद्यशब्दो रङ्गपूजा वा । लिबिलिपिरेव । संख्यासु एककरः, द्विकरः । जङ्घाबाहुभ्यां तत्साध्यवेगगतिसम्यक्प्रवृत्ती लक्ष्येते । ‘किंयत्तद्बहुषु कृञोऽज्वे’ति कौमुदी । अचि टाप् । टे ङीप् । किङ्करा, किङ्करी इत्यादि । बहुप्रवृत्तिकृद् बहुकरः, पुञ्जीकर्ता वा । दिनरजन्यादिष्वपि टो भोजोक्तः । दिनकरः रजनिकरः । Vartika ------- किंयत्तद्बहुषु कृञ्ञोऽज्विधानम् । Sutra Prayogas -------------- * **दिवाकरात्** (कुमारसम्भवम्): `दिवाविभानिशाप्रभाभास्करे...` इति टप्रत्ययः। * **भास्करम्** (कुमारसम्भवम्): `दिवाविभानिशाप्रभाभास्करान्तानन्तादीनि` इति टप्रत्ययः। * **किङ्करः** (भट्टिकाव्यम्): `दिवाविभा` इति टः प्रत्ययः। * **अन्त-करो** (भट्टिकाव्यम्): `दिवा-विभा-` इति टप्रत्ययान्तौ। * **अरुष्-करं** (भट्टिकाव्यम्): `दिवा-वि- भा-` इति टः। * **बहु-करः** (भट्टिकाव्यम्): `दिवा - विभा` इति टः। * **किङ्कराणां** (भट्टिकाव्यम्): `दिवा - विभा` इत्यादिना टच्। * **किंकराः** (भट्टिकाव्यम्): `दिवा - विभा` इति टः। * **अरुष्-करान्** (भट्टिकाव्यम्): `दिवा- विभा` इत्यादिना टः।