32020: कृञो हेतुताच्छील्यानुलोम्येषु ==================================== **Padacheda:** कृञः | S | 5 | 1 | हेतु-ताच्छील्य-अनुलोम्येषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ट comes after the verb कृञ् 'to make' when the object is in composition with it denoting cause, habit and going with the grain (concession). Vasu English Translation ------------------------ The affix ट comes after the verb कृञ् 'to make' when the object is in composition with it denoting cause, habit and going with the grain (concession). The word हेतु of this *sutra* means the final or conclusive cause, and is not the grammatical हेतु meaning agent. ताच्छील्य means habit, and literally, the act of being accustomed to that. आनुलोम्य comes from अनुलोम meaning 'with the hair', that is to say, regular, in natural order, successive, and hence favourable, and agreeable complaisance, acquiescence &c. Of हेतु, we have शोककरी कन्या 'the daughter that causes sorrow'; यशस्करी विद्या 'honorable science'; कुलकरं धनं 'the family making wealth'. Of ताच्छील्य, we have श्राद्धकरः 'who performs obsequies'; अर्थकरः 'who amasses wealth'. Of आनुलोम्य, we have प्रैषकरः 'who promptly does what he is directed'; वचनकरः 'who regularly does what he is told'. Why do we say 'when having these senses'? Otherwise the affix will be अण्. As कुम्भकारः 'potter', नगरकारः 'city-maker'. Kashika ------- कर्मण्युपपदे करोतेर्धातोष्टप्रत्ययो भवति हेतौ, ताच्छील्ये, आनुलोम्ये च गम्यमाने। हेतुरैकान्तिकं कारणम्। ताच्छील्यं तत्स्वभावता। आनुलोम्यमनुकूलता। हेतौ तावत् — शोककरी कन्या। यशस्करी विद्या। कुलकरं धनम्। ताच्छील्ये — श्राद्धकरः। अर्थकरः। आनुलोम्ये — प्रैषकरः। वचनकरः। एतेष्विति किम्? कुम्भकारः। नगरकारः॥ Siddhanta Kaumudi ----------------- एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि (SK160) इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥ Laghu Siddhanta Kaumudi ----------------------- एषु द्योत्येषु करोतेष्टः स्यात्॥ Balamanorama ------------ **कृञो हेतुताच्छील्यानुलोम्येषु** - नाडीमुष्टओश्च । यथासङ्ख्यं नेष्यते इति । इदं तु भाष्ये स्पष्टम् । घटीखारीत्यादि स्पष्टम् । Tattvabodhini ------------- **कृञो हेतुताच्छील्यानुलोम्येषु** - कृञो हेतु । हेतुरिह लोकिको न तु तत्प्रयोजको हेतुश्चे॑ति कृत्रिमः, केवले कृञि तदसंभवात् । द्योत्येष्विति । न तु वाच्येषु,कर्तरि कृ॑ दित्यस्य बाधानुपत्तेरिति भावः । हेत्वादिषु क्रमेणोदाहरति — यशस्करीत्यादि । एषु किम् । कुम्भकारः । इह प्रसिद्धतरत्वाद्द्व्यनुबन्धोऽपि करोतिरेव गृह्रते, न तु कृञ् हिंसायामिति । हेतुः — कारणम् । आनुलोम्यमाराध्यित्तानुवर्तनम् । Padamanjari ----------- कृञो हेतुताच्छील्यानुलोम्येषु॥ करोतेर्द्धातोरिति। प्रसिद्धतरत्वाद् द्व्यनुबन्धकस्याप्यस्यैव ग्रहणम्, न तु'कृञ् हिसायाम्' इत्यस्येति भावः। आनुलोम्ये च गम्यमान इति। एतेन हेत्वादीनि नोपपदानीति दर्शयति, एतच्च'शमि धातोः' इत्यत्र धातुग्रहणात्कृञो हेत्वादिषु टप्रतिषेधार्थाद्विज्ञायते। उपपदत्वे हि शम्यपपदे टप्रत्ययस्य प्राप्त्यभावादनर्थकं तत्स्याद्। अतौ नैषामुपपदत्वम्, नापि प्रत्ययार्थत्वम्'कर्तरि कृत्' इत्सस्य बाधप्रसङ्गात्। न चासति विरोधे बाधा युक्ता। हेतुरैकान्तिक कारणमिति। एकान्तशब्दो विनयादिषु द्रष्टव्यः, नियतमव्यभिचारीत्यर्थः। एतेन लौकिकस्य हेतोर्ग्रहणमिति दर्शयति। न हि केवले कृञि प्रयोजककर्ता सम्भवतीति भावः। ननु लौकिकेनापि हेतुना कर्तुर्विशेषणमयुक्तम्, अव्यभिचारात्, न हि कर्तुरनिमितत्वमस्ति? सत्यम्; पुनर्हेतुशब्दोपादनादैकान्तिकत्वमाश्रीयते, अन्यथा निमितमात्रमुपादीयेत। अनुकूलताऊआराध्यचितानुवर्तनम्। यशस्करी विद्येति। ठतः कृकमिऽ इत्यादिना विसर्जनीयस्य सत्वम्॥ Nyaas ----- हेत्वादय एते, नोपपदानि। यदि ह्रुपपदानि स्युः, **शमि धातोः संज्ञायाम्** (3.2.14) इत्यत्र धातुग्रहणमनर्थकं स्यात्। तद्धि कृञो हेत्वादिषु टप्रतिषेधार्थं कृतम्। यद्येषामुपपदत्वं स्याट्टप्रत्ययस्य प्राप्तिरेव नास्तीति धातुग्रहणमनर्थकं स्यात्।अतो नैवामुपपदत्वम्, नापि प्रत्ययार्थत्वम्; `कर्तरि कृत्` (3.4.67) इति कर्त्तुः प्रत्ययार्थत्वात्। न च तैर्बाधा युक्ता, विरोधाभावात्। तस्मात् प्रत्ययार्थविशेषमत्वमेषां युक्तम्। तत्र कर्तरि प्रत्ययो भवति यस्मिन्नभिधीयमाने तद्विशेषो हेत्वादयो गम्यन्ते। अत एवाह - `हेतौ ताच्छील्ये आनुलोम्ये च गम्यमाने` इति। `हेतुरैकान्तिकं कारणम्` इति। एतेन लौकिकहेतोग्र्रहणम्, न पारिभाषिकस्येति दर्शयति। पारिभाषिको हेतुः स्वतन्त्रस्य कर्त्तुः प्रयोजकः, यदि तस्येह ग्रहणं स्यात कृञ इति नोपपद्यते; न ह्रण्यन्तात् प्रयोजककर्तरि प्रयोजक इत्पद्यते, अपि तु ण्यन्तादन्तर्भावितण्यर्थात् प्रत्यय उत्पद्यत इति चेत्? नैतदस्ति; टप्रत्ययान्तण्ण्यर्थस्याप्रतीतेः। ननु च लौकिकस्य हेतोग्र्रहणे सति निमित्ततया कर्ता विशिष्यते, तच्चायुक्तम्; न हि कर्त्तुरनिमित्वमस्ति यद्विशेषणेन व्यावर्त्त्येत? नैष दोषः सिद्धे कर्त्तुर्हि निमित्तत्वे पुनर्हेतुशब्द उपादीयमान ऐकान्तिकत्वं बोधयतीति - यः कर्ता यस्याः ऐकान्तिको हेतुरिति। अत एवोक्तम् - `हेतुरैकान्तिकं कारणम्` इति। आनुलोम्यम् = अनुकूलयामीत्याराध्यचित्तानुप्रवर्तनम्। `यशस्करी`इति। `अतः कृकमिकंस` (8.3.46) इत्यादिना विसर्जनीयस्य सत्वम्॥बाल-मनोरमाकृञो हेतुताच्छील्यानुलोम्येषु 748, 3.2.20 कृञो हेतु। हेतुः - कारणम्। आनुलोम्यम् - आराध्यचित्तानुवर्तनम्। द्योत्येष्विति। कर्तुरेव प्रत्ययवाच्यत्वादिति भावः। हेत्वादिषूपपदेष्विति तु नार्थः, व्याख्यानात्। कर्मण्युपपदे इत्यपि द्रष्टव्यम्। `कुप्वो`रिति जिह्वामूलीयमाशङ्क्याह - अत- कृकमीति। हेतावुदाहरति - यशस्करी विद्येति। विद्या यशोहेतुः। श्राद्धकर इति। श्राद्धक्रियाशील इत्यर्थः। वनकर इति। गुर्वादिवचनानुवर्तीत्यर्थः। बाल-मनोरमानाडीमुष्ट�ओश्च 758, 3.2.20 नाडीमुष्टओश्च। यथासङ्ख्यं नेष्यते इति। इदं तु भाष्ये स्पष्टम्। घटीखारीत्यादि स्पष्टम्। Prakriyasarvasvam ----------------- एषु द्योत्येषु कृञष्टः स्यात् । हेतौ यशस्करी विद्या शीले क्रीडाकरो हरिः । आनुलोम्ये कार्यकरः सचिवो भूपतेरिति ॥ ७९ ॥ Sutra Prayogas -------------- * **नगरन्ध्रुकरौजसः** (रघुवंशम्): `कृञो हेतुताच्छील्यानुलोम्येषु` इति टप्रत्ययः। * **कल्याणकरीम्** (किरातार्जुनीयम्): `कृञो हेतु-` इति टप्रत्यये ङीप् । * **निःश्रेयसकरीः** (किरातार्जुनीयम्): `कृञो हेतुताच्छील्यानुलोम्येषु` इति हेत्वर्थे टप्रत्ययः। * **शिवकरीम्** (किरातार्जुनीयम्): `कृञो हेतुताच्छील्यानुलोम्येषु` इत्यादिना टप्रत्यये ङीप् । * **समस्तजनहासकरः** (शिशुपालवधम्): `कृञो हेतुताच्छील्यानुलोम्येषु` इति टप्रत्ययः। * **गुरुहृद्रोगकरी** (शिशुपालवधम्): `कृञो हेतुताच्छील्यानुलोम्येषु` इत्यादिना ताच्छील्ये टप्रत्ययः। * **कारिकाकरः** (शिशुपालवधम्): `कृञो हेतु-` इत्यादिना ताच्छील्ये टप्रत्ययः। * **करीषु** (भट्टिकाव्यम्): `कृञो हेतु` इत्यादिना ताच्छील्ये टः । * **त्रपा-कर** (भट्टिकाव्यम्): `कृञो हेतु` इत्यादिना टः। * **योग-क्षेम-करं** (भट्टिकाव्यम्): `कृञो हेतु` इत्यादिना हेतौ टः। * **यशस्-कर-समाचारं** (भट्टिकाव्यम्): `कृञो हेतु` इत्यादिना टः। * **हृल्-लेख-करी** (भट्टिकाव्यम्): `कृञो हेतुताच्छील्य` इति टः।