31132: चित्याग्निचित्ये च ========================= **Padacheda:** चित्य-अग्निचित्ये | S | 1 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The words चित्य and ग्निचित्य are also irregularly formed. Vasu English Translation ------------------------ The words चित्य and ग्निचित्य are also irregularly formed. The word चित्यः comes from the root चि 'to collect', and means fire i. e. that which is collected. As चित्योऽग्निः 'the funeral pile fire'. The word अग्निचित्या means, arranging the fire. The affix य has been added to denote condition, together with the augment तुक् (त्). These words have *udatta* accent on the last vowel. The regular form is चेयम् 'to be gathered'. Bhashya ------- चित्याग्निचित्ये च (749) (460 निपातनसूत्रम्॥ 3 । 1 । 6 आ. 23 ) (1982 वार्तिकम्॥ 1 ॥) - अग्निचित्येत्यन्तोदात्तो भावे - (भाष्यम्) अग्निचित्येतिभावेन्तोदात्तो भवति। अग्निचयनमेवाग्निचित्या॥ चित्याग्नि॥ 132 ॥ (इति कृत्यप्रकरणम्) Kashika ------- चित्यशब्दोऽग्निचित्याशब्दश्च निपात्येते। चीयतेऽसौ चित्योऽग्निः। अग्निचयनमेवाग्निचित्या (शा०ब्रा० १९.७)। भावे यकारप्रत्ययस्तुक् च। तेनान्तोदात्तत्वं भवति। अग्नावित्येव — चेयमन्यत्॥ Siddhanta Kaumudi ----------------- चीयतेऽसौ चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च (SK2817) । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा माभूदिति पुनः कृत्यविधिः स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ।अर्हे कृत्यतृचश्च (SK2822) । स्तोतुमर्हः स्तुत्यः, स्तुतिकर्म । स्तोता, स्तुतिकर्ता । लिङा बाधा माभूदिति कृत्यतृचोर्विधिः ॥ Balamanorama ------------ **चित्याग्निचित्ये च** - चित्याग्निचित्ये च । चित्यश्च अग्निचित्या चेति द्वन्द्वः । अग्नौ निपात्येते । चित्योऽग्निरिति । कर्मणि ण्यत्,तुकच निपात्यते । अग्नेश्चयमिति । अग्निशब्दे षष्ठन्ते उपपदे चिणो ण्यत्,तुक् च । स्त्रीत्वं लोकात् ।प्रैषातिसर्गे॑ति व्याख्यातमपि स्मार्यते । गम्यमिति ।पोरदुपधा॑दिति ण्यदपवादः क्यप् । ननु सामान्येन बावकर्मणोर्विहितानां कृत्यानां प्रैषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिव्र्यर्थ इत्यत कृत्यानां प्रेषाद्यभावे भावकर्मणोश्चरितार्थत्वात् । अतः प्रैषादिषु कृत्यानां लोटा कृत्यानां बाधनिवृत्त्ये पुनः कृत्यविधिरित्यर्थः । ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह — स्त्र्यधिकारादूध्र्वमिति ।स्त्रियां क्ति॑न्नित्यत ऊध्र्वमित्यर्थः ।प्राक् स्त्रिया वासरूपविधिः॑ इति भाष्यम् । ननु स्त्र्यधिकारादूध्र्वं वाऽसरूपवदेरप्रवृत्तौस्त्रियां क्ति॑न्निति सामान्यविहितस्य कित्नः 'षिद्भिदादिभ्योऽभि' ति विशेषविहितेन नित्यबाधः स्यात्, ततः — क्षमा क्षान्ति, भिदा भित्तिरित्यादि न स्यादित्यत आह — क्वचिन्नेति ।क्वचि॑दित्यस्याऽनिर्धारणादाह — तेनेति । सिद्धमिति । एषु वासरूपविधित्यत्र सङ्कोचेति भावः । अत्र व्याख्यानमेव शरणम् । अर्हे कृत्यतृचश्चेति । प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते ।लिङ्यदी॑त्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक् । ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्र्यर्थ इत्यत आह — लिङा बाधेति ।अर्हे चे॑त्येतावत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात्, तथा च अर्हे कृत्यतृचोर्विधिर्न स्यात्, अर्हे विशेषविहितेन लिङा बाधात्, अनर्हे कृत्यतृचोश्चरितार्थत्वात् । वासरूपविधिस्तु स्त्र्यधिकारादूर्द्ध्वं न प्रवर्तते इत्युक्तमेव । अतो लिङा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः । Tattvabodhini ------------- **चित्याग्निचित्ये च** - चित्योऽग्निरिति । चिनोतेः कर्मणि क्यप् । यतोऽपवादः । इह सूत्रे अग्नावित्यनुवर्तते, तच्च चित्यशब्दस्यैव विशेषणं, न द्वितीयस्य । तस्य भावार्थकत्वेनाऽग्निवाचकत्वाऽसंभवात् । अग्नेरन्यत्र चेयमित्येव । शब्दकौस्तुभादौ तु अग्निचित्येत्यत्र भावे यकारप्रत्ययस्तुक् च निपात्यते न तु क्यप् । तेनान्तोदात्तत्वं भवति । क्यपि तुकृते क्यपः पित्त्वादनुदात्तत्वे धातुस्वरेण चित्य इवाद्युदात्तः स्यादिति स्थितम् । ननु वासरूपविधना कृत्या अपि भविष्यन्तीत्यत आह — स्त्र्यधिकारादूध्र्वमित्यादि । क्तल्युडिति । हसितं हसनं छात्रस्य ।नपुंसके भावे क्तः॑ल्युट् चे॑ त्यनयोर्विषये भावे इति घञ्न । इच्छति भोक्तुम् । अत्रइच्छार्थेषु लिङ्लोटौ॑ इति लोण्न । लिङ् तु भवत्येव,॒समानकर्तृकेषु तुमुन् लिङ् चे॑ति वचनात् । ईषत्पानः ।अतो यु॑जिति युच् । अत्रईषद्दुःसुषु॑इति खल् न । लिङा बाधेति । चकारेणलिङ् यदी॑त्यतो लङनुकृष्यत इति भावः । Padamanjari ----------- चित्याग्निचित्ये च॥ चित्योऽग्निरिति। कर्मणि यदपवादः क्यब् निपात्यते, तेनाद्यौदातत्वं भवति। भावे यकारप्रत्यय इति। किमर्थ पुनरत्रापि क्यबेव न निपातितः, एवं हि तुग निपात्यो न भवति, तत्राह - तेनान्तोदातत्वं भवतीति। अग्नावित्येवेति। तच्च चित्यशब्दस्यैव विशेषणार्थम्, नाग्निचित्याशब्दस्य; तस्य भावे निपातितत्वात्। तदेतद्दर्शितम् - चेयमन्यदिति॥ Nyaas ----- `तेनान्तोदात्तत्वं भवति` इति। यत्प्रत्ययान्तनिपातने हि प्रत्ययस्वरेणान्तोदात्तत्वं पदस्य भवति। ण्यति तु सति तित्स्वरितत्वं भवति। तस्मात् प्रकृतं त्यक्त्वा यप्रत्ययो निपात्यत इति भावः॥ Prakriyasarvasvam ----------------- एते च निपात्येते । चीयत इति चित्योऽग्निः । अग्निचयनमेवाग्निचित्या । Sutra Prayogas -------------- * **अग्निचित्या-वतां** (भट्टिकाव्यम्): `चित्याग्निचित्ये च` इति निपात्यते।