31129: पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु ========================================================== **Padacheda:** पाय्य-सान्नाय्य-निकाय्य-धाय्याः | S | 1 | 3 | मान-हविर्-निवास-सामिधेनीषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The words पाय्य , सान्नाय्य , निकाय्य and धाय्या are irregularly formed meaning 'a measure', 'an oblation to fire', 'a dwelling' and 'a sacrificial prayer', respectively. Vasu English Translation ------------------------ The words पाय्य , सान्नाय्य , निकाय्य and धाय्या are irregularly formed meaning 'a measure', 'an oblation to fire', 'a dwelling' and 'a sacrificial prayer', respectively. These words are supposed to be formed thus:- मा (to measure) + ण्यत् = पाय्यम्, the म being changed into प and another य being added by (7.3.33). The regular form is मेयम् 'to be measured' (मा + ण्यत् = मे + य (6.4.65) = मेय). सम् + नी (to lead) + ण्यत् = सान्नाय्यम् 'the oblation'. It being a crude form applies to a particular kind of oblation. The regular form is सन्नेयम् । नि + चि (to collect) + ण्यत् = नि + चै + य = नि + चाय + य = निकाय्यः 'a dwelling'. The regular form is निचेय । धा (to put) + ण्यत् = धाय्या (fem.). The *samadheni* is the name of certain *Rik* hymns used as supplemental verses in a Litany. The other form is धेय । Bhashya ------- पाय्यसान्नाय्यनिकाय्यधाय्यामानहविर्निवाससामिधेनीषु (743) (457 ण्यत्प्रत्ययादिनिपातनविधिसूत्रम् ॥ 3 । 1 । 6 आ.20) (आक्षेपभाष्यम्) पाय्यनिकाय्ययोः किं निपात्यते?। (1977 समाधानवार्तिकम् ॥ 1 ॥) - पाय्यनिकाय्ययोरादिपत्वकत्वनिपातनम्- (भाष्यम्) पाय्यनिकाय्ययोरादिपत्वमादिकत्वं च निपात्यते ॥ मेयं निचेयमित्येवान्यत्र ॥ पाय्यसा ॥ 129 ॥ Kashika ------- पाय्यादयः शब्दा निपात्यन्ते यथासंख्यं माने हविषि निवासे सामिधेन्यां चाभिधेयायाम्। पाय्य इति माङो ण्यत् प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम्। मेयमन्यत्। संपूर्वान्नयतेर्ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते। सान्नाय्यं (तै०सं० २.५.३.७) हविः। सन्नेयमन्यत्। रूढित्वाच्च हविर्विशेष एवावतिष्ठते। निपूर्वाच्चिनोतेर्ण्यदायादेशावादिकुत्वं च निपात्यते। निकाय्यो निवासः। निचेयमन्यत्। धाय्येति धाञो ण्यत् प्रत्ययो निपात्यते सामिधेनी चेत् सा भवति। धाय्या सामिधेनी। धेयमन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः। तत्र च धाय्येति न सर्वा सामिधेन्युच्यते। किं तर्हि? काचिदेव। रूढिशब्दो ह्ययम्। तथा चासामिधेन्यामपि दृश्यते — **धाय्याः शंसत्यग्निर्नेता त्वं सोमक्रतुभिः** (ऐ०ब्रा० ३.१८; ५.१) इति॥ Siddhanta Kaumudi ----------------- मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः पत्वं च । आतो युक् (SK2761) इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥ Balamanorama ------------ **पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु** - पाय्यसांनाय्य । पाय्य, सांनाय्य, निकाय्य, धाय्य — एषां द्वन्द्वात्प्रथमाबहुवचनम् । मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी । मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते । मीयते अनेनेति । माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः । आत इति.ण्यतिमीनातीत्यात्त्वे कृते आतो युगिति भावः । ण्यदिति । संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः । आयादेशिति । सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः । निवास इति । कुसलादिरित्यर्थः । अधिकरणे इति । चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः । आयिति । अच्परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः । धाय्या ऋगिति । धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः । सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः । तत्र 'समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्यापृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा । Tattvabodhini ------------- **पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु** - पाय्यसान्नाय्य । चतुर्षु अर्थेषु चत्वारो निपात्यन्ते । पीयतेऽनेनेति माङः करणे ण्यत् । पेयमन्यत् । हविर्विशेष इति ।ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया॑मिति विहितो दधिपयोविशेषरूपः । धीयते अनयेति । अत्र सर्वा सामिधेनी न ग्राह्रा, किंतु समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणापृथृपाजा अमत्र्यः॑ इत्यादिकैव । अयं च विशेषो निपातनस्य रूढर्थत्वाल्लभ्यते । नन्वेवं निपातनात्सामिदेनीविसेषवाचकत्वे सामिधेनीग्रहणं व्यर्थमिति चेत् । अत्राहुः- सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपक्षणार्थम् । तथा चाऽसामिधेन्यामपि दृश्यते — धाय्या शंसती॑ति । न हि शस्त्रेण समित् प्रक्षिप्यते । Padamanjari ----------- पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु॥ मीयतेऽनेनेति मानम्, हूयत इति हविः, निवसत्यस्मिन्निति निवासः, समिधामाधानी ऋक् सामिधेनी। माङे ण्यत्प्रत्यय इति। करणे तत्र ठातो युक् चिण्कृतोःऽ इति युक्। मेयमन्यदिति। भावकर्मणोर्यदेव भवतीत्यर्थः। सान्नाय्यमिति। सम्यग्नीयते होमार्थमग्निं प्रतीति कर्मणि ण्यत्। हविर्विशेष इति। ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्यायामिति विहितयोर्दधिपयसोः। माघस्तु यथाश्रुतार्थग्राही हविर्मात्रे प्रायुङ्क्त -'हुतमयमवलीढेअ साधु सान्नाय्यमग्निः' इति। निचीयतेऽस्मिन्धान्यादिकमिति अधिकरणे ण्यत्। धाय्येति। धीयतेऽनया समिदिति करणे ण्यत्, पूर्ववद्यौक्। ऋग्विशेषस्येति।'प्रवोवाजा अभिद्यवः' इत्यादिकस्य। कि तर्हि काचिदेवेति। समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा पृथुयाजा अमर्त्य इत्यादिका। कथं पुनरयं विशेषो लभ्यत इत्याह - रूढिशब्दोह्य यमिति। अत एव निपातनाश्रयणमिति भावः। रूढित्वमेव द्रढयति - तथा चेति। धाय्याः शंसतीति ज्योतिष्टोमे मरुत्वतीये शस्त्रे विधानमेतत्। सामिधेनीग्रहणं प्रयोगविषयोपलक्षणार्थमिति भावः॥ Nyaas ----- `पाय्य` इति।` आतो युक्` (7.3.33) `हविर्विशेषेष्वतिष्ठते` इति। यत्रैवायं रूढस्तत्रैवावतिष्ठते। न हविर्मात्रे। `धाय्या` इति। पूर्ववत् युक्। `ऋग्विशेषस्य वाचकः` इति। सर्वा ऋचो न सामिधेनीशब्देनोच्यते, किं तर्हि? समिदाधानमन्त्रः। तथा हि समिदाधानमन्त्रे सामिधेनीशब्दो व्युत्पाद्यते। सामिधेन्यपि न सर्वा ऋगभिधीयते, किं तर्हि? काचिदेवेति दर्शयन्नाह - `तत्र` इत्यादि। कथं पुनः सामान्येन निपातनां क्रियमाणं विशेषविषयं लभत इत्याह - `रूढिशब्दो ह्रमम् ` इति।धाय्याशब्दो रूढिशब्द ऋग्विशेषस्य वाचकः। सैवानेनोच्यते, नान्या। कथं पुनज्र्ञायते रूढिशब्दोऽयमित्यत आह - `तथा च` इत्यादि। यदि रूढिशब्दोऽयं न स्यात् सामिधेन्यां निपातितत्वाद् धाय्याः शंसदित्यत्र ऋग्विशेषे न दृश्येत, दृश्यते चासौ। तसमाद्रूढिशब्दोऽयमित्यवसीयते। यदि तह्र्रसामिधेन्यामपि दृश्यते, सामिधेनीग्रहणमनर्थकं स्यात्? नानर्थकम्; रूढिविशेषोपलक्षणार्थत्वात्॥। Prakriyasarvasvam ----------------- पाय्यं मानसाधनम् । सान्नाय्यं दधिरूपं हविः । निकाय्यो गृहम् । सामिधेन्यभिधास्वृक्षु काचिद् धाय्येति कथ्यते । शस्त्रादिष्वपि धाय्यास्ति तेनैतदुपलक्षणम् ॥ ६३ ॥ Sutra Prayogas -------------- * **साम्नाय्यम्** (शिशुपालवधम्): `पाय्यसांनाय्यनिकाय्य-` इत्यादिना हविर्विशेषे निपातः।