31104: उपसर्या काल्या प्रजने ============================ **Padacheda:** उपसर्या | S | 1 | 1 | काल्या | S | 1 | 1 | प्रजने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word उपसर्या is irregularly formed when meaning what has reached the time favourable to conception or ripe for fruition. Vasu English Translation ------------------------ The word उपसर्या is irregularly formed when meaning what has reached the time favourable to conception or ripe for fruition. The word उपसर्या is formed by adding यत् affix to the root सृ 'to move', compounded with the preposition उप. The word काल्या means having reached the time. The word प्रजन means the first conception. Thus उपसर्या गौः 'the cow fit for the bull'; उपसर्या वडवा 'the mare fit for the horse'. Why do we say 'when meaning what has reached the time favorable to conception'? Otherwise the affix ण्यत् will be used; as उपसर्या शरदि मधुरा '*Madhura* is approachable in *Sarat* season'. Kashika ------- उपसर्येति निपात्यते काल्या चेत् प्रजने भवति। उपपूर्वात् सर्तेर्यत् प्रत्ययः। प्राप्तकाला काल्या। प्रजनः प्रजननम्, प्रथमगर्भग्रहणम्। गर्भग्रहणे प्राप्तकाला। उपसर्या गौः। उपसर्या वडवा। काल्या प्रजन इति किम्? उपसार्या शरदि मधुरा॥ Siddhanta Kaumudi ----------------- गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्या गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥ Balamanorama ------------ **उपसर्या काल्या प्रजने** - उपसर्या । प्रजननं प्रजनः = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्चे॑ति वृद्धिनिषेधः । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मित्यनुवर्तमानेकालाद्य॑दिति यत् । चेदित्यध्याहार्यम् । तदाह — गर्भग्रहणे प्राप्तकाला चेदिति । गर्भग्रहणे प्राप्तकाला स्त्रीपशुव्यक्तिर्विवक्षिता चेदुपसर्या इति निपात्यते इत्यर्थः । उपपूर्वात् सृधातोर्यदिति फलितम् । ण्यतोऽपवादः । Tattvabodhini ------------- **उपसर्या काल्या प्रजने** - उपसर्या । उपपूर्वात्सरतेः सर्तेर्वा यन्निपात्यते । कालः प्राप्तोऽस्याः काल्या ।तदस्य प्राप्त॑मिति वर्तमानेकालाद्यत् इति यत् । प्रजननं प्रजनो = गर्भग्रहणम् । भावे घञ् ।जनिवध्योश्च॑ इति वृद्धिनिषेधः । उपसार्येति । कर्मणि ण्यत् । कर्तरि यदिति ।तयोरेव॑ इति भावे प्राप्ते कर्तरि यन्निपात्यत इति भावः । Padamanjari ----------- उपसर्या काल्या प्रजने॥ उपपूर्वात्सर्तेरिति। भौवादिकस्य जौहोत्यादिकस्य च'सर्तिशास्त्यर्तिभ्यश्च' इति निर्देशात्सूत्राद्वहिरपि लुका निर्द्देशः। प्राप्तकाला काल्येति।'तदस्य प्राप्तम्' इति वर्तमाने'कालाद्यत्' इति यत्। प्रजननमुप्रजनः, भावे घञ्,'जनिवध्योश्च' इति वृद्धिप्रतिषेधः। उपसर्या गौरिति। गर्भाधानार्थ वृषभेणोपगन्तुं योग्येत्यर्थः, वृषभोपगमनस्य प्राप्तकालेति यावत्। उपसार्येति। उपसरणीया, प्राप्तव्येत्यर्थः॥ Nyaas ----- `प्राप्तकाला काल्या` इति। **समयस्तदस्य प्राप्तम्** (5.1.104) इत्यनुवर्तमाने **कालाद्यत्** (5.1.107) इति यत्। प्रजननम् = प्रजनः, भावे घञ्, **जनिवध्योश्च** (7.3.35) इति वृद्धिप्रतिषेधः। `उपसार्या` इति। उपसंक्रमणीत्येत्यर्थः। Prakriyasarvasvam ----------------- गर्भग्रहणे प्राप्तकाला गवादिरुपसर्या । Sutra Prayogas -------------- * **उपसर्याया** (भट्टिकाव्यम्): `उपसर्या काल्या प्रजने` इति निपातितम्।