31101: अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु ============================================ **Padacheda:** अवद्य-पण्य-वर्याः | S | 1 | 3 | गर्ह्य-पणितव्य-अनिरोधेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The words अवद्य , पण्य , वर्या are irregularly formed, having the sense of 'condemnable', saleable' and unobstructable', respectively. Vasu English Translation ------------------------ The words अवद्य , पण्य , वर्या are irregularly formed, having the sense of 'condemnable', saleable' and unobstructable', respectively. Thus, अवद्यं पापं 'censurable sin'. Another and regular form is अनुद्यम्. This is formed by adding the affix क्यप् to the root वद् by (3.1.106). So also पण्यः कम्बलः 'saleable blanket'; पण्याः गौः 'saleable cow'. The other and regular form is पाण्यम्, formed by the addition of ण्यत्. So also शतेन वर्या 'unobstructed by hundred'; सहस्रेण वर्या 'unobstructed by thousand'. The other and regular form is वृत्या from the root वृ 'to choose'. वर्या means a girl choosing her own husband and is non-obstructable by any body. The word वर्या in the *sutra* is in the feminine gender, and it is in this gender only that the word is so formed. In the masculine gender, the word is regularly formed; thus वार्या ऋत्विजः. Kashika ------- अवद्य पण्य वर्या इत्येते शब्दा निपात्यन्ते गर्ह्य पणितव्यानिरोध इत्येतेष्वर्थेषु यथासंख्यम्। अवद्यमिति निपात्यते गर्ह्यं चेत् तद् भवति। अवद्यं पापम्। अनुद्यमन्यत्। **वदः सुपि क्यप् च** (३.१.१०६)। पण्यमिति निपात्यते पणितव्यं चेत् तद् भवति। पण्यः कम्बलः। पण्या गौः। पाण्यमन्यत्। वर्येति स्त्रियां निपात्यते अनिरोधश्चेद् भवति। अनिरोधोऽप्रतिबन्धः। शतेन वर्या। सहस्रेण वर्या। वृत्यान्या। स्त्रीलिङ्गनिर्देशः किमर्थः? वार्या ऋत्विजः॥ Siddhanta Kaumudi ----------------- वदेर्नञि उपपदे वदः सुप् - (SK2854) इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥ Balamanorama ------------ **अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु** - अवद्यपण्य । अवद्य, पण्य, वर्य एषां द्वन्द्वात्प्रथमाबहुवचनम् । गह्र्र, पणितव्य,अनिरोध एषां द्वन्द्वात्सप्तमीबहुवचनम् । अवद्यादयरुआयः क्रमाद्गह्र्रादिषु त्रिष्वर्थेषु निपात्यन्ते इत्यर्थः । ननु 'वदः सुपि' इत्येव सिद्धे अवद्यग्रहणं व्यर्थमित्यत आह — नञ्युपपदे इति । यत्क्यपोः स्वरे विशेषः,संप्रसारणतदभावौ चेति भावः । अवद्यं पापामिति.गर्हितत्वादवाच्यमित्यर्थः । अनुद्यं गुरुनामेतव । अत्र नञि उपपदेवदः सुपीटति क्यपिवचिस्वपियजादीनां किती॑ति संप्रसारणे रूपम् । वचनाऽनर्हमित्यर्थः । अत्र गर्हाया अप्रतीतेर्यदेवेदित न नियम इति भावः । ननु गुरुनाम्नोऽगह्र्रत्वातकथं वचनानर्हत्वमित्यत आह — तद्धि न गर्ह्रं वचनानर्हं चेति.कुत इत्यत आह — आत्मनामेति । पण्या गौरिति । पणधातोव्र्यवहारार्थकाद्यन्निपात्यते इति भावः । यद्यपिपण व्यवहारे स्तुतौ च॑ इति धातोर्र्थद्वयमस्ति, तथापि पण्यशब्दस्य प्रयोगबलेन व्यवहर्तव्य एव रूढत्वादिह व्यवहारार्थक एव गृह्रते । तदाह — व्यवहर्तव्येति । क्रेतव्येत्यर्थः । पाण्यमन्यदिति । ण्यति उपधावृद्धिरिति भावः । व्यवहर्तव्यादन्यदित्यर्थः । तदाह — स्तुत्यर्हमिति । प्रतिबन्ध इति । अनियम इत्यर्थः । वृङो यदिति । 'वृङ् संभक्तौ' इति क्रैयादिकस्यैवाऽत्र ग्रहणं, नतु 'वृञ् वरणे' इत्यस्य, अनिरोधरूपार्थस्य संभक्तिवाचित्व एव सामञ्जस्यादिति भावः । शतेन वर्याकन्येति । पुरुषशतेन परिग्रहीतुमर्हा । अनेनैव वरणीयेति नियमो नास्तीत्यर्थः । वृत्या अन्येति । अनुरूपेण वरणीयेत्यर्थः ।एतिस्तुशास्वृदृजुषः क्य॑बिति तुक् । अत्र अनियमस्य अप्रतीतेर्न यत् । अत्र वर्याशब्दस्य स्त्रीलिङ्गस्य ग्रहणात्पुंसि 'वार्या ऋत्विज' इति वृत्तिः । Tattvabodhini ------------- **अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु** - अनुद्यमिति । अत्र वदेः क्यबेव भवति.यजादित्वात्संप्रसारणम् ।नलोपो नञः॑ ।तस्मान्नुडचि॑ । व्यवहर्तव्येति । यद्यपि पणितव्यशब्दोऽर्थद्वयसाधारणस्तथापि निपातनस्येह रूढर्थत्वद्व्यवहर्तव्य एवाऽयं निपात्ते । उक्तंच हरिणा — धातुसाधनकालानां प्राप्त्यर्थं नियमस्य च । अनुबन्धविकाराणां रूढर्थं च निपातन॑मिति । अनुबन्धविकाराणां नियमस् च प्राप्त्यर्थमिति पूर्वेणान्वयः । शतेनेति । शतशब्दोऽनियतपरः । कन्याय वरणे वरयितृणां नियमो नास्तीत्यर्थः । वर्येति । संभक्तव्येत्यर्थः । वृङ् संभक्तावित्स्येदं निपानम्, तत्रैवाऽनिरोधरूपस्याऽर्थस्य संभवादिति भावः । अनिरोदेष्वित्यस्याऽनुक्तौ वृञोऽपि स्यादिति ध्वनयति — वृत्येति ।एतिस्तुशास् इत्यादिना वृञः क्यप् । इह सूत्रेऽवद्यादीनि निर्विभक्तिकानि पृथक्पदानि,तत्र वर्याशब्दष्टाबन्तोऽनुक्रियते । न त्वयं द्वन्द्वेन जसन्तेन निर्देशः । तेन वर्येति स्त्रियामेव निपात्यते । अस्त्रियां तु वृङःऋहलोण्र्यत् । वार्या ऋत्विजः । ऋत्विजामपि यज्ञमात्रे वरणीयत्वादनिरोधोऽस्ति, स्त्रीत्वं तु नास्तीति ण्यदेव भवति । एतच्च वृत्तिकारमतम् । न चाऽत्र॒एतिस्तु॑ इतिक्यप् शङ्क्यः, तत्र वृञ एव ग्रहणं न तु वृङ इति सिद्धान्तात् । भट्टिस्तु द्वन्द्वाज्जसा निर्देश इति मत्वा पुंलिङ्गेऽपि यतं प्रायुङ्क्त — — ॒सुग्रीवो ममवर्योऽसौ॑ इति । Padamanjari ----------- अवद्यपण्यवर्या गह्यपणितव्यानिरोधेषु॥ अवद्यमिति। निपात्यत इति। वदेर्नञ्युपपदे'वदः सुपि क्यप् च' इति यत्कपोः प्राप्तयोर्यदेव यथा स्याद् - गर्ह्य एव च यथा स्यादित्युभयार्थ निपातनम्। अवद्यं पापमिति। अवदनार्हत्वात्। अनुद्यमन्यदिति। गुरुनामादि। तद्धि गर्ह्यं न भवत्यथ च वदनार्हमपि न भवति। अत्र क्यबेव भवति, यजादित्वात्सम्प्रसारणम्,'नलोपो नञः' 'तस्मान्नुडचि' । पण्यं व्यवहर्तव्यमिति। निपातनस्य रूढ।ल्र्थत्वात् पण्यशब्दस्य च तत्रैव रूढत्वात्। उक्तं च - - धातुसाधनकालानां प्राप्त्यर्थ नियमस्य च। अनुबन्धविकाराणां रूढ।ल्र्थं च निपातनम्॥ इति। पाण्यमन्यदिति। स्तुत्यमित्यर्थः। वर्येति स्त्रियां निपात्यत इति। सूत्रेऽवद्यादीनि अविभक्तिकानि पृथक् पदानि, न तु द्वन्द्वस्य जसन्तनिर्देश इति भावः। शतेन वर्येति।'वृङ् सम्भक्तौ' इत्यस्येदं निपातनम्; तत्रैवानिरोधसम्भवात्। वृत्यान्येति।'वृञ् वरणे' ठेतिस्तुशास्वृऽ इत्यादिना क्यप्। वार्या ऋत्विज इति। ठेतिस्तुशास्वृऽ इत्यत्र वृञो ग्रहणम्, वृङ्स्तु स्त्रीलिङ्गादन्यत्र ऋहलोर्ण्यदेव भवति। भट्टिकाव्ये तु पुÄल्लिङ्गेऽपि यदेव प्रयुक्तः -'सुग्रीवो नाम वर्यो' सौ भवता चारुविक्रमःऽ इति॥ Nyaas ----- `अवद्यम्` इति। वदेर्नञ्युपपदे **वदः सुपि क्यप् च** (3.1.106) इति यत्क्यपोः प्राप्तयोर्यदेव निपात्यते। `अनुद्यम्` इति। यजादित्वात् संप्रासरणम्, **नलोपो नञः** (6.3.73) , **तस्मान्नुडचि** (6.3.74) इति नुट्। `पण्यम्` इति। पणेव्र्यवहारार्थस्य ण्यति प्राप्ते यन्निपात्यते। `पाण्यम्` इति। स्तोतव्यमित्यर्थः।`वर्या` इति। वृङो ण्यति प्राप्ते यन्निपात्यते। स्त्रियामित्यनेन सूत्रे लिङ्गनिर्देशस्य तन्त्रतां दर्शयति। `अप्रतिबन्धः` इति। अनेनानिरोधशब्दस्यार्थमाचष्टे। अप्रतिबन्धः प्रसराभिघात इत्यर्थः। `वृत्या` इति। निरोधनीया। प्रसरविघातोऽस्याः कर्तव्य इत्यर्थः। एतच्च वृञः `एतिस्तृशासु` (3.1.109) इति क्यपि कृते **ह्रस्वस्य पिति कृति तुक्** (6.1.71) इति तुकि च रूपम्। `वार्या ऋत्विजः` इति। वृङ एतद्रूपम्। ऋत्विजो हि धनेन संविभक्तव्या इत्यस्त्यनिरोधः। स्त्रीलिङ्गता तु नास्तीति ण्यदेव भवति। ननु `एतिस्तुशास्वृ` (3.1.109) इति क्यपा भवितव्यम्? नैतदस्ति; वृञो हि तत्र ग्रहणम्, वृङश्चात्रोदाहरणम्॥ Prakriyasarvasvam ----------------- एते यदन्ताः क्रमाद् निपात्यन्ते । अवद्यं गर्ह्यम् । गर्ह्यादन्यत्र वक्ष्यमाणे क्यप्यनुद्यं रहस्यम् । पण्यं विक्रेतव्यम् । वर्येत्यनिरोधे द्योत्ये स्त्रियामेव । तातानिरोधलभ्यत्वात् स्वयंवरगता वधूः । वर्या स्यादस्त्रियां चाह भट्टिर्वर्यस्त्वया सुहृत् ॥ ५९ ॥ Sutra Prayogas -------------- * **सर्वावयवानवद्यां** (कुमारसम्भवम्): `अवद्यपण्यवर्या गर्ह्यपणितव्यानि` इति निपातः। * **वर्यो** (भट्टिकाव्यम्): `अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु` इति निपातितत्वात्।