31100: गदमदचरयमश्चानुपसर्गे =========================== **Padacheda:** गद-मद-चर-यमः | S | 5 | 1 | च | S | 0 | 0 | अनुपसर्गे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix यत् comes after roots गद् 'to eat', मद् 'to be mad', चर् 'to go, to eat' and यम् 'to restrain', when these roots do not take any preposition. Vasu English Translation ------------------------ The affix यत् comes after roots गद् 'to eat', मद् 'to be mad', चर् 'to go, to eat' and यम् 'to restrain', when these roots do not take any preposition. Thus गद्यम् 'what is to be spoken, i.e prose'; मद्यम् 'wine'; चर्यम् 'what is to be followed'; यम्यम् 'what is to be restrained'. Why do we say 'when not preceded by a preposition'? When compounded with an *upasarga*, these roots will take ण्यत्; thus प्रगाद्यम्; प्रमाद्यम् &c. The root यम् would have taken the affix यत् by *sutra* 98 also, as it ends in म and is preceded by अ; its separate enumeration in this *sutra* is in order to show, that the compound verb यम् will not take the affix यत्. Therefore with regard to यम्, this is a *niyama* or restrictive rule and not a *vidhi* or original rule. Vart:- The root चर when preceded by the preposition आङ् takes the यत्, affix when the sense is not that of a preceptor; thus आचर्यो देशः 'an approachable or communicable country'. But when the sense is that of a teacher the root takes ण्यत्; thus आचार्यः 'a preceptor' Bhashya ------- गदमदचरयमश्चानुपसर्गे (717) (441 यत्प्रत्ययविधिसूत्रम्॥ 3 । 1 । 6 आ. 5) (1944 यत्प्रत्ययविधिवार्तिकम्॥ 1 ॥) - अनुपसर्गाच्चरेराङि चागुरौ - (भाष्यम्) अनुपसर्गाच्चरेरित्यत्राङि चागुराविति वक्तव्यम्। आचर्यो देशः॥ अगुराविति किमर्थम्?। आचार्य उपनयमानः॥ गदमद॥ 100 ॥ Kashika ------- **गद व्यक्तायां वाचि**,**मदी हर्षे**,**चर गतिभक्षणयोः**,**यम उपरमे** एतेभ्यश्चानुपसर्गेभ्यो यत् प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्ग इति किम्? प्रगाद्यम्। प्रमाद्यम्। यमेःपूर्वेणैव सिद्धेऽनुपसर्गनियमार्थं वचनम्॥ चरेराङि चागुरौ॥ आचर्यो देशः। अगुराविति किम्? आचार्य उपनेता॥ Siddhanta Kaumudi ----------------- गद्यम् । मद्यम् । चर्यम् । (वार्तिकम्) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव ॥ (वार्तिकम्) ॥ एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥ Balamanorama ------------ **गदमदचरयमश्चानुपसर्गे** - गदमद । गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः । अनुपसर्ग इति सप्तमी पञ्चम्यर्थे । एभ्योऽनुपसर्गेभ्यो यदित्यर्थः । ण्यतोऽपवादः । उपसर्गाण्ण्यदेव । प्रगाद्यमित्यादि । चरेराङिचाऽगुराविति । वार्तिकमिदम् । आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः । आचार्यो गुरुरिति । शुश्रूषणीय इत्यर्थः । ननु 'पोरदुपधा' दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह — यमेर्नियमार्थमिति । अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः । तत्फलमाह — सोपसर्गान्मा भूदिति । ननुअनियम्यस्य नाऽयुक्तिः॑ इत्यत्र,त्वया नियम्या ननु दिव्यचक्षा॑ इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह — निपूर्वात्स्यादेवेति । 'य' दिति शेषः । कुत इत्यत आह — तेन न तत्रेति । प्रकारान्तरेण समाधत्ते — नियमे साधुरिति वेति ।यमः समुपनिविषु चे॑ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः । नियमे साधुरित्यर्थः 'तत्र साधुः' इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः । Tattvabodhini ------------- **गदमदचरयमश्चानुपसर्गे** - गदमद । व्यत्ययेन पञ्चम्यर्थे सप्तमी । एभ्योऽनुपरुआगेभ्यो यत्स्यात् । ण्यतोऽपवादः । अनुपसर्गे किम् ।न नैषधे कार्यमिदं निगाद्य॑ मिति श्रीहर्षः । * चरेराङि चाऽगुरौ । यमेरिति ।पोरदुपधा॑दित्यनेनैव सिद्धेरिति भावः । नियमे साधुरिति ।यमः समुपनिविषु च॑ इति वैकल्पिकेऽप्प्रत्यये कृतेतत्र साधुः॑ इति तद्धितो यदित्यर्थः । यद्यप्यस्मिन्पक्षेकृत्यानां कर्तरि वा॑ इत्यस्याऽप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति च तेनेति चकरणत्वविवक्षया तृतीयेति स्थितस्य गतिर्बोध्या । केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे । यद्वायमोऽपरिवेषणे मि॑दिति मतमाश्रित्यपर्यवसितं नियमय॑न्नित्यादाविव मित्त्वं स्वीकृत्य ण्यन्ताद्यद्बोध्यः । अथ वा संज्ञापूर्वकविधेरनित्यत्वाण्ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक् । एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्बलेननिपूर्वाद्यदिति न कल्पनीयमिति भावः । Padamanjari ----------- गदमदचरयमश्चानुपसर्गे॥ अनुपसर्गेम्य इति। सूत्रे ठनुपसर्गेऽ इति व्यत्ययेन पञ्चम्यर्थे सप्तमीति भावः। अत एवोपसर्गादन्योऽनुपसर्गस्तस्मिन्ननुपसर्गे उपपद इत्यर्थो न भवति। एवं हि केवलेभ्यो न स्यात्,'वदः सुपि क्यप् च' इत्यत्र सुब्ग्रहणमनर्थकं स्यात्? ठनुपसर्गेऽ इति हि वर्तते तत्र नञिवयुक्तन्यायेयेनोपसर्गसद्दशस्य सुबन्तस्य ग्रहणं भविष्यति। नियमार्थमिति। अनुपसर्गादेव यथा स्यात्सोपसर्गान्मा भूदिति। कथं तर्हि तेन न तत्र भवेद्विनियम्यमिति? प्रमादपाठोऽयम्, विनियाम्यमिति पाठः। एतेन ठिति यत्नोपचर्यम्ऽ इति व्याख्यातम्। चरेराङ् चागुराइविति। सोपसर्गार्थ वचनम्। आचया देश इति गन्तव्य इत्यर्थः। उपनेताउगुरुः॥ Nyaas ----- `अनुपसर्गे` इति। सुज्व्यत्ययेन पञ्चम्यर्थे सप्तमी। अत एवाह - `अनुपसर्गेभ्यः` इति। अविद्यमानोपलसर्गेभ्य इत्यर्थः। अथैवं कस्मान्न विज्ञायते - उपसर्गादन्योऽनुपसर्ग इति? अशक्यमेवं विज्ञातुम्; एवं हि विज्ञायमाने केवलेभ्यो न स्यात्। नञिवयुक्त (है।प।94) न्यायेनोपसर्गसदृशस्य सुबन्तस्य ग्रहणे सति **वदः सुपि क्यप् च** (3.1.106) इत्यत्र पुनः सुब्ग्रहणमनर्थकं स्यात्, अस्यैवानुपसर्गस्य तत्रानुवृत्तेः। तस्मात् पूर्वोक्त एवार्थो युक्तः। `नियमार्थम्` इति। अनुपसर्गादेव यथा स्यात्, सोपसर्गानमा भूदिति।`चरेः` इत्यादि। सोपसर्गार्थमिदम्- चरेर्धातोराङि चोपपदे यद्भवतीति, अगुरावभिधेये। स तु ज्ञापकादेव सिध्यतीति नोपसंख्येयः, यदयम् **आश्चर्यमनित्ये** (6.1.147) `सम्माननोत्सञ्जनाचार्यकरण` (1.3.36) इत्यादि करोति, ततो ज्ञायते - चरेराङि चागुरौ यद्भवतीति। `आचार्यो देशः` इति गन्तव्य इत्यर्थः। गुरुः= उपनेता॥ Prakriyasarvasvam ----------------- अनुपसर्गेभ्यो गदादिभ्यो यत् स्यात् । गद्यम् । मद्यम् । चर्यम् । यम्यम् । उपसर्गे तु, प्रगाद्यमित्यादि, ण्यत् । कृत्यानां बहुत्वान्त्रिण्यम्यम् । (वा० ३-१-१००) आचर्य कर्म । गुरौ त्वाचार्यः । Vartika ------- चरेराङि चागुरौ । Sutra Prayogas -------------- * **गद्यम्** (भट्टिकाव्यम्): `गद-मद` इत्यादिना यत्।