31091: धातोः ============ **Padacheda:** धातोः | S | 5 | 1 | Sutrartha --------- **अस्मात् सूत्रात् आरभ्य तृतीयाध्यायस्य समाप्तिपर्यन्तम् ये प्रत्ययाः वक्ष्यन्ते ते धातोः भवेयुः ।** तृतीयाध्यायस्य द्वितीयः धात्वधिकारः अस्मात् सूत्रात् प्रारभते । अस्य व्याप्तिः अस्मात् सूत्रात् आरभ्य तृतीयाध्यायस्य अन्तिमसूत्रपर्यन्तम् अस्ति  । एतेषु सर्वेषु सूत्रेषु पाठिताः प्रत्ययाः धातुभ्यः (एव) भवन्ति, प्रातिपदिकेभ्यः न, इति अस्य अधिकारस्य आशयः । उदाहरणम् - **तव्यत्तव्यानीयरः** (3.1.96) अनेन सूत्रेण उक्ताः तव्यत्, तव्य, अनीयर् एते प्रत्ययाः  धातुभ्यः एव भवन्ति, प्रातिपदिकेभ्यः न । ज्ञातव्यम् - १. अस्मिन् धात्वधिकारे 'कृत्-प्रत्ययाः', 'तिङ्-प्रत्ययाः' तथा च 'तिङ्-प्रत्ययानां स्थाने जायमानाः आदेशाः' पाठिताः सन्ति । तदित्थम् - (अ) कृत्-प्रत्ययाः - **कृदतिङ्** (3.1.93) इत्यस्मात् **क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः** (3.4.76) आ) तिङ्-प्रत्ययाः - **तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इ) तिङादेशाः - **टित आत्मनेपदानां टेरे** (3.4.79) तः **द्विषश्च** (3.4.112) २. अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः सर्वेभ्यः धातुभ्यः न विधीयन्ते । ३. अस्मिन् अधिकारे चतस्रः संज्ञाः अपि पाठिताः सन्ति - अ) उपपदसंज्ञा - **तत्रोपपदं सप्तमीस्थम्** (3.1.92) आ) कृत्संज्ञा - **कृदतिङ्** (3.1.93) आ) सार्वधातुकसंज्ञा - **तिङ्शित्सार्वधातुकम्** (3.4.113) इ) आर्धधातुकसंज्ञा - **आर्धधातुकं शेषः** (3.4.114) इत्यतः **लिङाशिषि** (3.4.116) शास्त्रविषयाः - १. भाष्यकारः अस्य अधिकारस्य विषये  - 'अस्य धात्वधिकारस्य व्याप्तिः कियत्पर्यन्तम् अस्ति - तृतीयाध्यायस्य अन्तपर्यन्तम्, उत **लस्य** (3.4.77) इति सूत्रपर्यन्तम्' - इति प्रश्नं पृष्ट्वा 'अस्य धात्वधिकारस्य व्याप्तिः तृतीयाध्यायस्य अन्तपर्यन्तम् एव भवेत्, यतः **आर्धधातुकं शेषः** (3.4.114) इत्यत्र 'धातोः' इति पदम् आवश्यकम् अस्ति' इति निर्णयं ददाति । अस्मिन् सन्दर्भे अस्मिन् video मध्ये विस्तारेण पाठितम् अस्ति  । २. तृतीयाध्याये द्वौ धात्वधिकारौ स्तः । प्रथमः धात्वधिकारः  **धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22) इत्यस्मात् सूत्रात् आरभ्य **कृषिरजोः प्राचां श्यन् परस्मैपदं च** (3.1.90) इति सूत्रपर्यन्तं गच्छति । तस्मात् अनन्तरम् विद्यमानेन **धातोः** (3.1.91) इत्यनेन सूत्रेण द्वितीयः धात्वधिकारः प्रारभते । अनेन प्रकारेण तृतीयाध्याये विद्यमानौ द्वावपि धात्वधिकारौ क्रमशः एव (विना अन्तरम्) पाठितौ स्तः । अतः अत्र प्रश्नः उदेति - किमर्थम् द्वौ भिन्नौ धात्वधिकारौ ? एकः एव धात्वधिकारः **धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** (3.1.22)  इत्यस्मात् आरभ्य तृतीयाध्यायस्य समाप्तिपर्यन्तं स्वीक्रियते चेत् को दोषः ? इति । भाष्ये अस्य प्रश्नस्य  भिन्नानि उत्तराणि दत्त्वा प्रत्येकम् उत्तरस्य सम्पूर्णरूपेण खण्डनं कृत्वा अन्ते 'अयं पृथक् (द्वितीयः) धात्वधिकारः अनावश्यकः' इत्येव  सिद्धान्तः  प्रतिपादितः अस्ति । अस्मिन् विषये भाष्यकारः पूर्वोत्तरपक्षेषु किं ब्रूते तत् संक्षेपेण अधः दीयते । अधिकं पिपठिषवस्तु भाष्यमेव पश्येयुः । (अ)  पूर्वपक्षः -  **तत्रोपपदं सप्तमीस्थम्** (3.1.92) अस्मिन् सूत्रे 'तत्र' इत्युक्ते 'अस्मिन् द्वितीये धात्वधिकारे' इति अर्थं स्वीकृत्य 'अस्मिन् द्वितीये  धात्वधिकारे यत् सप्तमीनिर्दिष्टम् तद्वाचकं पदम् उपपदसंज्ञकं भवति' इति सूत्रार्थः सिद्ध्यति । अस्यां स्थितौ यदि द्वयोः धात्वधिकारयोः मेलनं कृत्वा एकः एव बृहत् धात्वधिकारः क्रियते, तर्हि 'तत्र' इत्यस्य अर्थः 'अस्मिन् बृहति धात्वधिकारे' इति भवेत्, येन अन्येषु सूत्रेषु विद्यमानानां सप्तमीस्थपदानां विषये अपि उपपदसंज्ञायाः अतिप्रसङ्गः स्यात् । खण्डनम् - **तत्रोपपदं सप्तमीस्थम्** (3.1.92) इत्येव सूत्रम् अधिकारसूत्ररूपेण स्वीकृत्य अस्य सूत्रस्य व्याप्तिः तृतीयाध्यायस्य समाप्तिपर्यन्तं स्वीकर्तुम् शक्यते । आ) पूर्वपक्षः - **कृदतिङ्** (3.1.93) अनेन सूत्रेण 'अस्मिन् द्वितीये धात्वधिकारे' पाठितानां तिङ्भिन्नप्रत्ययानां 'कृत्' इति संज्ञा दीयते । यदि द्वयोः धात्वधिकारयोः मेलनं कृत्वा एकः एव बृहत् धात्वधिकारः क्रियते, तर्हि पूर्वम् उक्तानां सनादिप्रत्ययानां विकरणप्रत्ययानाम् चापि 'कृत्' इति संज्ञा स्यात् । खण्डनम् - **कृदतिङ्** (3.1.93)  इत्येव सूत्रम् अधिकारसूत्ररूपेण स्वीक्रियते चेत् अयं दोषः परिष्कृतः भवति । इ) पूर्वपक्षः -  यदि द्वयोः धात्वधिकारयोः मेलनेन एकः एव धात्वधिकारः क्रियते, तर्हि **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन 'धातोः विहिताः तिङ्-शित्-प्रत्ययाः सार्वधातुकाः' इति अर्थे सिद्धे **आर्धधातुकं शेषः** (3.4.114) इत्यत्र शेषग्रहणेन 'अन्ये सर्वे' इति अर्थनिष्पादनं भवेत्, येन 'धातोः प्रातिपदिकेभ्यः च विहिताः प्रत्ययाः तिङ्शिद्भिन्नाः प्रत्ययाः आर्धधातुकाः भवेयुः' इति अनिष्टः अर्थः भवेत् । तन्निराकर्तुम् **आर्धधातुकं शेषः** (3.4.114)  इत्यस्मिन् सूत्रे 'द्विवारं धातुग्रहणम् आवश्यकम्, येन 'धातोः  एव विहिताः प्रत्ययाः आर्धधातुकसंज्ञकाः भवितुम् अर्हन्ति, प्रातिपदिकेभ्यः विहिताः न' इति अर्थः स्पष्टी भवति । खण्डनम् (प्रदीपोद्योते) - द्विवारं धातुग्रहणम् आवश्यकं चेत् **शमि धातोः संज्ञायाम्** (3.2.14) इत्यतः 'धातोः' इति पदं मण्डूकप्लुत्या स्वीकर्तुं शक्यते । अनेन प्रकारेण पूर्वपक्षिणां भिन्नानां मतानां खण्डनं कृत्वा अन्ते 'द्वितीयं धातुग्रहणम् अनर्थकम्, यङ्विधौ धात्वधिकारात्' इति सिद्धान्तः भाष्यकारेण प्रतिपादितः अस्ति । एकः एव बृहत् धात्वधिकारः पर्याप्तः इति अस्य अर्थः । अस्मिन् विषये विस्तारेण अस्मिन् video मध्ये विस्तारेण पाठितम् अस्ति , जिज्ञासवः तदपि पश्यन्तु । Vasu English Summary -------------------- As far as the end of the Third Chapter reckoning from the present sūtra, the affixes treated of are to be understood as coming after some verbal root. (Note: This is an अधिकार सूत्र। All these verbal affixes are broadly classified as कृत् and कृत्य affixes) Vasu English Translation ------------------------ As far as the end of the Third Chapter reckoning from the present sūtra, the affixes treated of are to be understood as coming after some verbal root. (Note: This is an अधिकार सूत्र। All these verbal affixes are broadly classified as कृत् and कृत्य affixes) This is an *Adhikara* *Sutra*. All these verbal affixes are broadly divided into two parts कृत् and कृत्य् affixes, which will be described later on. Bhashya ------- धातोः (708) (434 अधिकारसूत्रम्॥ 3.1.5 आ.4) (आधिकारावधिनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) आकुतोयं धात्वधिकारः। किं प्राग्लादेशात्। आहोस्विद् आ तृतीयाध्यायपरिसमाप्तेः?। (1899 वार्तिकम्॥ 1 ॥) - धात्वधिकारः प्राग्लादेशात्- (भाष्यम्) प्राग्लादेशाद्धात्वधिकारः॥ (1891 हेतुवार्तिकम्॥2 ॥) - लादेशे हिव्यवहितत्वाद्प्रसिद्धिः- (भाष्यम्) अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितत्वादप्रसिद्धिः स्यात्॥ किं च स्यात्?। (1901 दोषदर्शकवार्तिकम्॥ 3 ॥) - आद्ये योगे न व्यवाये तिङः स्युः- (भाष्यम्) आद्ये योगे विकरणैर्व्यवहितत्वात्तिङो न स्युः। पचति पठति॥ इदमिह संप्रधार्यम्। विकरणाः क्रियन्ताम्, आदेशा इति। किमत्र कर्तव्यम्?। परत्वादादेशाः॥ नित्या विकरणाः। कृतेष्वप्यादेशेषु प्राप्नुवन्ति अकृतेष्वपि प्राप्नुवन्ति। नित्यत्वाद्विकरणेषु कृतेषु विकरणैर्व्यवहितत्वादादेशा न प्राप्नुवन्ति॥ अनवकाशास्तर्ह्यादेशाः॥ सावकाशा आदेशाः। कोऽवकाशः। य एते लुग्विकरणाः श्लुविकरणा- लिङ्लिटौ च॥ (1902 दूषणान्तरवार्तिकम्॥4 ॥) - न स्यादेत्वं टेष्टितां यद्विधत्ते- (भाष्यम्) यच्च टित्संज्ञकानां टेरेत्वं विधत्ते, तच्च विकरणैर्व्यवहितत्वादादेशानां न स्यात्॥ (1903 दूषणान्तरवार्तिकम्॥5 ॥) - एशः शित्वम्- (भाष्यम्) एकारश्च शित्कर्तव्यः। किं प्रयोजनम्?। सित्सर्वस्ये ति सर्वस्यादेशो यथा स्यात्। अक्रियमाणे हि शकारे तस्मादित्युत्तरस्यादेः परस्य इति तकारस्यैत्वे कृते द्वयोरेकारयोः श्रवणं प्रसज्येत। निवृत्ते पुनर्लादेशे धात्वधिकारे अलोन्त्यस्य विधयो भवन्तीत्येकारस्य एकारवचने प्रयोजनं नास्तीति कृत्वा अन्तरेणापि शकारं सर्वादेशो भविष्यति॥ (1904 दूषणान्तरवार्तिकम्॥ 6 ॥) - यच्च लोटो विधत्ते- (भाष्यम्) यच्च लोटो विधीयते। तच्च विकरणैर्व्यवहितत्वान्न स्यात्। किं पुनस्तत्?। लोटो लङ्वत्। एरुः। सेर्ह्यपिच्च। वा छन्दसी ति। (1905 दूषणान्तरवार्तिकम्॥ 7 ॥) - यच्चाप्युक्तं लङि्लङोस्तच्च न स्यात्- (भाष्यम्) (यच्चाप्युक्तं लङ्लिङोः, तच्च न स्यात्।) किं पुनस्तत्?। नित्यं ङितः। इतश्च। तस्थस्थमिपां तांतंतामः। लिङः सीयुट्। यासुट् परस्मैपदेषूदात्तो ङिच्चेति॥ तस्मात्प्राग्लादेशाद्धात्वधिकारः॥ (प्राग्लादेशाद्धात्वधिकारपक्षे दूषणोपक्रमभाष्यम्) यदि प्राग्लादेशाद्धात्वधिकारः॥ (1906 प्राग्लादेशाद्धात्वधिकारे दूषणवार्तिकम्॥ 8 ॥) - अकारः - (भाष्यम्) अकारः शित्कर्तव्यः। किं प्रयोजनम्?। शित्सर्वस्येति सर्वादेशो यथा स्यात्। अनुवर्तमाने पुनर्लादेशे धात्वधिकारे तस्सादित्युत्तरस्य आदेः परस्ये ति थकारस्यात्वे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं स्यात् - पेच यूयं चक्र यूयमिति॥ (दूषणोद्धारभाष्यम्) ननु च निवृत्तेपि लादेशे धात्वधिकारे अलोन्त्यस्य विधयो भवन्तीत्यकारस्याकारवचने प्रयोजनं नास्तीति कृत्वाऽन्तरेणापि शकारं सर्वादेशो भविष्यति॥ (दूषणस्थापकाभाष्यम्) अस्त्यन्यदकारस्याकारवचने प्रयोजनम्। किम्?। वक्ष्यत्येतत् - - अकारस्याकारवचनं समसंख्यार्थमिति॥ (1907 प्राग्लादेशाद् धात्वधिकारे दूषणान्तरवार्तिकम्॥ 9 ॥) (- आर्धधातुकसंज्ञायां धातुग्रहणम्-) (भाष्यम्) आर्धधातुकसंज्ञायां धातुग्रहणं कर्तव्यम्। धातोः परस्यार्धधातुकसंज्ञा यथा स्यात्। इह मा भूद् वृक्षत्वं वृक्षतेति॥ तस्माल्लादेशे धात्वधिकारोनुर्वत्त्यः॥ (प्रथमदूषणस्मारणभाष्यम्) ननु चोक्तम् - आद्ये योगे न व्यवाये तिङः स्युरिति॥ (दूषणोद्धारवार्तिकम्) नैष दोषः। (1908 दूषणोद्धारवार्तिकम्॥ 10 ॥) - आनुपूर्व्यात्सिद्धमेतत्। नात्राकृतेष्वादेशेषु विकरणाः प्राप्नुवन्ति। किं कारणम्?। सार्वधातुके विकरणा उच्यन्ते। न चाकृतेष्वादेशेषु सार्वधातुकत्वं भवति॥ (दूषणसाधकभाष्यम्) ये तर्हि नैतस्मिन्विशेषे विधीयन्ते। के पुनस्ते?। (दूषणपरिहारभाष्यम्) अत्रापि धातुग्रहणं विहितविशेषणम् - धातोर्विहितस्य लस्येति॥ (दूषणभाष्यम्) यद्येवं विन्दतीति णलादयः प्राप्नुवन्ति॥ (दूषणपरिहारभाष्यम्) धातुनात्र विहितं विशेषयिष्यामः। विदिना आनन्तर्ये, धातोर्विहितस्य लस्य विदेरनन्तरस्येति॥ (दूषणभाष्यम्) इह तर्हि अजक्षिष्यन् अजागरिष्यन् इति अभ्यस्ताद् झेर्जुस् भवतीति जुस्भावः प्राप्नोति॥ (दूषणपरिहारभाष्यम्) अत्रापि धातुना विहितं विशेषयिष्यामः। अभ्यस्तेनानन्तर्यम्। धातोर्विहितस्याभ्यस्तादनन्तरस्येति॥ (आक्षेपभाष्यम्) आत इत्यत्र कथं विशेषयिष्यसि?॥ यदि तावद्धातुग्रहणं विहितविशेषणम्। आकारग्रहणमानन्तर्यविशेषणम्। अलुनन् अपुनन् इत्यत्रापि प्राप्नोति॥ (भाष्यम्) अथाकारग्रहणं विहितविशेषणं धातुग्रहणमानन्तर्यविशेषणम्। अपिबन् अजिघ्रन् इत्यत्रापि प्राप्नोति॥ (भाष्यम्) अस्तु तर्हि धातुग्रहणं विहितविशेषणमाकारग्रहणमानन्तर्यविशेषणम्॥ (दूषणस्मारणभाष्यम्) ननु चोक्तमलुनन्नपुनन्नित्यत्रापि प्राप्नोतीति॥ (दूषणपरिहारभाष्यम्) नैष दोषः। लोपे कृते न भविष्यति॥ (दूषणसाधकभाष्यम्) नात्र लोपः प्राप्नोति। किं कारणम्। इर्त्वेन बाध्यते॥ (दूषणबाधकभाष्यम्) नात्रेत्वं प्राप्नोति। किं कारणम्। अन्तिभावेन बाध्यते॥ (दूषणबाधकभाष्यम्) लोप इर्त्वेन। इर्त्वमन्तिभावेन। अन्तिभावो जुस्भावेन। जुस्भावो लोपेनेति चक्रकमव्यवस्था प्रसज्येत॥ (दूषणबाधकभाष्यम्) नास्ति चक्रकप्रसङ्गः। न चाव्यवस्थाकारिणाशास्त्रेण भाव्यम्। शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम्। न चात्र हलादिना मुहूर्तमपि शक्यमवस्थातुम्। तावत्येवात्रान्तिभावेन भवितव्यम्। अन्तिभावे कृते लोपः। लोपेन व्यवस्था भविष्यति। (तृतीयदूषणोद्धारभाष्यम्) यदप्युच्यते - एशः शित्त्वमिति। क्रियते न्यस एव॥ (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) कानि पुनरस्य योगस्य प्रयोजनानि। (1909 प्रयोजनवार्तिकम्॥ 11 ॥) - प्रयोजनं प्रातिपदिकप्रतिषेधः- (भाष्यम्) प्रातिपदिकप्रतिषेधः प्रयोजनम्। धातोस्तव्यदादयो यथा स्युः प्रातिपदिकान्माभूवन्निति॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। साधने तव्यदादयो विधीयन्ते। साधनं च क्रियायाः। क्रियाऽभावात् साधनाऽभावादसत्यपि धात्वधिकारे प्रातिपदिकात्तव्यदादयो न भविष्यन्ति॥ (1910 प्रयोजनवार्तिकम्॥ 12 ॥) (भाष्यम्) स्वपादिषु तर्हि प्रयोजनम्। स्वपिति। सुपितीति मा भूत्॥ (1911 प्रयोजनवार्तिकम्॥ 13 ॥) - अङ्गसंज्ञा च- (भाष्यम्) अङ्गसंज्ञा च प्रयोजनम्। यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेङ्गम् इति धातोरङ्गसंज्ञा सिद्धा भावति॥ (1912 प्रयोजनवार्तिकम्॥ 14 ॥) - कृत्संज्ञा च- (भाष्यम्) कृत्संज्ञा च प्रयोजनम्। धातोर्विहितः प्रत्ययः कृत्संज्ञो भवतीति कृत्संज्ञा सिद्धा भवति॥ (1913 प्रयोजनवार्तिकम्॥ 15 ॥) - उपपदसंज्ञा च- (भाष्यम्) उपपदसंज्ञा च प्रयोजनम्। तत्रैतस्मिन् धात्वधिकारे यत्सप्तमीनिर्दिष्टं तदुपपदसंज्ञं भवतीति उपपदसंज्ञा सिद्धा भवति॥ (प्रयोजननिराकरणभाष्यम्) कृदुपपदसंज्ञे तावन्न प्रयोजयतः। अधिकारादप्येते सिद्धे॥ (अनिराकृतप्रयोजनभाष्यम्) स्वपादिषु तर्हि अङ्गसंज्ञा च प्रयोजनम्। (1994 सूत्रवैर्यथ्यवार्तिकम्॥ 16 ॥) - धातुग्रहणमनर्थकं यङि्वधौ धात्वधिकारात्- (भाष्यम्) धातुग्रहणमनर्थकम्॥ किं कारणम्? यङि्वधौ धात्वधिकारात्। यङि्वधौ धातुग्रहणं प्रकृतमनुवर्तते। तच्चावश्यमनुर्वत्यम्॥ (1995 अधिकारत्वहेतुवार्तिकम्॥ 17 ॥) - अनधिकारे ह्यङ्गसंज्ञाभावः- (भाष्यम्) अनिधाकरे हि सति अङ्गसंज्ञाया अभावः स्यात् - करिष्यति हरिष्यति॥ (दूषणभाष्यम्) यदि तदनुवर्तते। चूर्णचुरादिभ्यो णिज् भवति धातोश्चेति धातुमात्राण्णिच् प्राप्नोति॥ (1996 दूषणपरिहारवार्तिकम्॥ 18 ॥) - हेतुमद्वचनं तु ज्ञापकमन्यत्राभावस्य- (भाष्यम्) यदयं हेतुमति चेत्याह, तज्ज्ञापयत्याचार्यो न धातुमात्राण्णिज्भवती ति॥ (आक्षेपभाष्यम्) इह तर्हि कण्ड्वादिभ्यो यग् भवतीति धातोश्चेति धातुमात्राद्यक् प्राप्नोति। (1997 समाधानवार्तिकम्॥ 19 ॥) - कण्ड्वादिषु च व्यपदेशिवद्वचनात्सिद्धम्- (भाष्यम्) यदयं कण्ड्वादिभ्यो यग्भवतीत्याह, तज्ज्ञापयत्याचार्यो न धातुमात्राद्यग्भवती ति॥ अथ वा कण्ड्वादीनेव धातुग्रहणेन संभन्त्स्यामः - कण्ड्वादिभ्यो धातुभ्यो यगिति॥ धातोः॥ 91 ॥ Kashika ------- धातोरित्ययमधिकारो वेदितव्यः। आ तृतीयाध्यायपरिसमाप्तेर्यदित ऊर्ध्वमनुक्रमिष्यामो धातोरित्येवं तद् वेदितव्यम्। वक्ष्यति — **तव्यत्तव्यानीयरः** (३.१.९६) इति। कर्तव्यम्। करणीयम्। धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारात्। कृदुपपदसंज्ञार्थं तर्हि। अस्मिन् धात्वधिकारे ते यथा स्याताम्, पूर्वत्र मा भूतामिति। आर्धधातुकसंज्ञार्थं च द्वितीयं धातुग्रहणं कर्तव्यम्। धातोरित्येवं विहितस्य यथा स्यात्। इह मा भूत् — लूभ्यां लूभिरिति॥ Siddhanta Kaumudi ----------------- आ तृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् (SK781) । कृदतिङ् (SK374) ॥ Laghu Siddhanta Kaumudi ----------------------- आतृतीयाध्यायसमाप्तेर्ये प्रत्ययास्ते धातोः परे स्युः । कृदतिङिति कृत्संज्ञा ॥ Balamanorama ------------ **धातोः** - धातोः । आ तृतीयेति । आतृतीयाध्यायपरिसमाप्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्रोपपदं कृदतिङिति । व्याख्यातं प्राक् । Tattvabodhini ------------- **धातोः** - धातोः । ननु तिङ्निरूपणात्प्रागेवस्पृशोऽनुदके क्विन्ऋत्विद्गधृ॑गित्यादिना क्विन्नादिनिरूपणं कृतमिति कथमियं भवदुक्तसङ्गतिः सङ्गच्छत इतिचेत् । अत्राहुः — क्विन्नादिनिरूपणस्य तत्र प्रासङ्गिकत्वात्, प्राधान्येन च कृतामत्रैव निरूपणान्नोक्तशङ्कावकाशैति । यद्यपिधातोरेकाचो हलादे॑रिति सूत्राद्धातोरित्यनुवर्तत एव तथापि आर्धधातुकसंज्ञाया आश्रितशब्दव्यापारत्वलाभाय पुनर्धातोरिति ग्रहणं कृतम् । अन्यथाआर्धधातुकं शेषः॑ इत्यनेन तिङ्शिद्भिन्नस्य धातोर्विहितप्रत्ययमात्रस्याद्र्धधातुकसंज्ञायां लूभ्यां पूभ्यामित्यादाविड्गुणो स्यातां, धातोर्विहितत्वेन ब्यामादेराद्र्धधातुकत्वात्, पुनर्धातुग्रहणे कृते तु तव्यतव्यादय इव धातोरित्यवमविधानाद्भ्यामादेराद्र्धधातुकत्वं नेति दिक् ।प्राग्लादेशाद्धात्वधिकारः॑ इति पक्षोऽयुक्त इत्याशयेनाह — आतृतीयसमाप्तेरिति । तृतीयाध्यायसमाप्तिपर्यन्तमित्यर्थः ।प्राग्लादेशा॑दिति पक्षे तुतिह्शित्सार्वधातुक॑मित्यत्र धातोरित्यधिकाराऽभावात् शित्प्रत्ययमात्रस्य सार्वधातुकत्वेन शसोऽपि सार्वधातुकत्वेसार्वधातुकमपि॑दिति ङित्त्वे च हरीनित्यादौघेर्ङिती॑ ति गुणः स्यादिति ज्ञेयम् । स्यादेतत् - धातोर्लकारे सति तस्मिन् परतो नित्यत्वात्करिष्यतीत्यादौ प्रथमं स्यप्रत्ययप्रवृत्तौ तिबाद्यप्रसङ्गः, यत्र तु तिबाद्याश्रयो विकरणस्तत्रैव व्यवधानाऽभावाद्भवतित्यादौ तिबादयः स्युरिति चेत् । मैवम् ।विकरणेभ्यो नियमो बलीया॑ निति स्वीकारात् । अथवा विहितविशेषणाश्रयणेन धातोर्विहितस्य लस्येति व्याख्यानादिष्टसिद्धेः । नन्वेवं विहितविशेषणाश्रयणेविद्लृ लाभे॑ इत्यस्माद्धातोर्विहितस्य लटः शब्विकरणव्यवायेऽपिविदो लटो वा॑ इति णलादयः स्युरिति चेत् । अत्राह हरदत्तः — धातुनाऽत्र विहितं विशेष्यते, विदना त्वानन्तर्यमिति । तथा चायमर्थः संपद्यते — धातोर्विहितस्य विदोऽनन्तरस्य लटो णलादय इत्यब्युपगमाद्वेत्तेरेव विहितस्य लटो णलादयो भवन्ति न तु विदन्तेर्लडिति दिक् । विधेयाऽनिर्देशात्स्वरितत्वाच्चाधिकारसूत्रमिदमित्याह -अधिकारोऽयमिति । तत्रोपपदमित्यादि । एतेन कृत्संज्ञोपपदसंज्ञयोरिह विधानसौष्ठवाय द्वितीयो धात्वधिकार आवश्यक इति ध्वनितम् । अयं भावः — यदि द्वितीयधात्वधिकारो न स्यात्तदा पूर्वधात्वधिकारेऽपि कृदुपपदसंज्ञे स्याताम् । इष्टापत्तौ तु सप्तमीनिर्दिष्टमात्रस्योपपदत्वेनच्लि लुङी॑ त्यादौ लुङन्त#ए उपपदे च्लिरित्यवमनिष्टोऽर्थः प्रसज्येत । तिङ्बिन्नधात्वधिकारप्रत्ययस्य कृत्संज्ञायां करिष्यतीत्यादौ स्यप्रत्ययस्य कृत्त्वेनकृत्तद्धिते॑ तिप्रापतिपदिकत्वादौत्सर्गिकमेकवचनमिति सर्वसंमतत्वेन सुप्रत्ययप्रसङ्गाच्च, तस्मादधिकारविशेषे अनयोः संज्ञयोर्विधानार्थमयमधिकार इति । Padamanjari ----------- धातोः॥ आ कुतोऽयमधिकारः किं प्राग्लादेशाद्? आहोस्विदाध्यायपरिसमाप्तेः? इति विचारे द्वितीयं पक्षमाश्रयति - आ तृतीयाध्यायपरिसमाप्तेरिति। एशः शित्करणात्, तद्धि धातोरित्यधिकारे सति'तस्मादित्युतरस्य' ठादेः परस्यऽ तकारस्य स्थाने एत्वे सति अकारस्य स्थाने टेरेत्वे अयादेशे च सत्ययेशब्दस्य श्रवणं मा भूदित्येवमर्थ कियते। प्राग्लादेशात्पुनर्द्धात्वधिकारेऽलोऽन्त्यस्य विधयो भवन्तीति एकारस्यैकारवचने प्रयोजनं नास्तीति कृत्वान्तरेणापि शकारमन्त्येऽल्यनुसंहारं बाधित्वा सर्वादेशो भविष्यति, किं शकारेण! यद्याध्यायपरिसमाप्तेरयमधिकारः? आद्ये योगे न व्यवाये तिङ्ःस्युः, आद्ये योगे तिबादिसूत्रे येऽमी लावस्थायां स्यादयो विधीयन्ते तेषु कृतेषु तैर्व्यवधाने तिबादयो न स्युः। करिष्यति, हरिष्यति, कर्ता, शबादिषु तु न दोषः; तेषां सार्वधातुकाश्रयत्वादकृते लादेशे प्राप्त्यभावात्; तिबादयश्च तत्र सावकाशाः। न स्यादेत्वम्, टेष्टितां व्यवाय इत्येव - पचते यजते, क्व तर्हि स्यात्? आस्ते, शेते, धते, रुन्धे, बेभिदाते इत्यादौ यत्र न विकरणाः सन्ति। एशः शित्वम्'लिटस्तझयोरेश्' इत्ययमेश् शित्कर्तव्यः। एतच्चोपक्रम एव व्याख्यातम्। यच्च लोटो विधते तच्च विकरणव्यवाये न स्यात् -'लोटो लङ्वत्' ठेरुःऽ'सेर्ह्यपिच्च' इत्यादि, पचतु, पचतमित्यादि, स्तौतु, जुहोतु, भिनतु, आस्तामित्यादावेव स्यात्। यच्चाप्युक्तं लङ्लिङेस्तच्च न स्यात् -'नित्यं ङ्तिः' ,ठितश्चऽ'तस्थस्थमिपां तान्तन्तामः' 'लिङ्ः सीयुट्' 'यासुट् परस्मैपदेषूदातो ङ्च्चि' इत्यादि, तथा'थासः से' पचसे इत्यादौ न स्यात्? नैष दोषः; विहितविशेषणं विज्ञास्यते - धातोर्विहितस्य लोट इति। यद्येवम्,'विदो लटो वा' इत्यत्रापि विदेर्द्धातोर्विहतस्य लटस्तिबादीनां णलादय इति विज्ञायमाने विन्दति, विन्दतः, विन्दन्तीति लाभार्थस्य विकरणेन व्यवायेऽपि णलादयः प्राप्तुवन्ति? न क्वचिद्धिहितविशेषणं धातुग्रहणमिति सर्वत्र तथा भवितव्यम्। अथ वात्र धातुना विहितं विशेषयिष्यामः, विदिनाऽऽनन्तर्यम् - धातोर्विहितस्य लटो विदेरनन्तरस्येति,'सिजभ्यस्तविदिभ्यश्च' इत्यवापि धातुना विहितं विशेष्यते, अभ्यस्तेन चानन्तर्यम् - धातोर्विहितस्याभ्यस्तादनन्तरस्य ङितो झेइरिति; तेनाजक्षिष्यन्, अजागरिष्यन्नित्यादौ न भविष्यति। ठातःऽ इत्यत्र कथम्, यदि तावद्धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् अपुनन् अत्रापि प्राप्नोति? अथ आकारान्ताद्वातोर्वेहितस्येति, अपिबन्नित्यत्र प्राप्नोति? अस्तु धातोर्विहितस्याकारादनन्तरस्येति, अलुनन् इत्यत्र लुना झि इति स्थिते'श्नाभ्यस्तयोरातः' इति लोपे कृते आकाराभावान्न भविष्यति, नात्र लोपः प्राप्नोति? ठी हल्यघोःऽ इतीत्वेन बाध्यते। एवमप्याकारान्न भविष्यति? नात्रेत्वं प्राप्नोति, अन्तिभावेन बाध्यते? नात्रान्तिभावः प्राप्नोति, जूस्भावेन बाधनात्? तदेवं लोप ईत्वेन्, ईत्वमन्तिभावेन, अन्तिभावो जुस्भावेन, जुस्भावो लोपेन, लोप ईत्वेनेति लोप ईत्वेनेति चक्रकमव्यवस्था प्राप्नोति? नैष दोषः; आयन्नादिषूपदेशिवद्वचनादुपदेशकाल एव झस्यान्तिभावे कृते लोपः, लोपेन व्यवस्था। किं चात इत्यत्र सिज्ग्रहणमनुवर्तते - आकारान्तात्सिज्लुगन्तादिति, तेन न क्वाप्यनिष्टप्रसङ्गः। तदेवमाध्यायपरिसमाप्तेर्धात्वधिकार इति स्थितम्। वक्ष्यति तव्यतव्यानीयर इति। किं च स्यात् यदि तव्यादिविधो धातोरितित नानुवर्तेत ङ्याप्प्रातिपदिकादपि तव्याद्यः स्युः? साधने तव्यादयो विधीयन्ते, साधनं च क्रियायाः। क्रियाया अभावात्साधनाभावः, साधनाभावाद् ङ्याप्प्रातिपदिकातव्यादयो न भविष्यन्ति। कथं तर्हि कर्मादिषु विधीयमाना द्वितीयादयो भवन्ति, नैव प्रातिपदिकार्थस्य साधने द्वितीयादयः, किं तर्हि? शब्दान्तरवाच्यक्रियापेक्षे तस्यैव कर्मादिभावे; तव्यादयस्तु प्रकृतिवाच्यक्रियापेक्षे साधने चरितार्था न ङ्याप्प्रातिपदिकाद्भविष्यन्ति? इदं तर्हि प्रयोजनम् - सत्याणवयेत्यादयो येऽपभ्रंशाः क्रियावचनास्तेभ्यस्तव्यादयो मा भून्निति; न हि ते धातवः, भूवादिपाठाश्रयत्वाद्धातुसंज्ञायाः। किञ्च, सोपसर्गाल्लङदयो मा भूवन्निति धात्वधिकारः क्रियते; अन्यथा प्राकरोत, प्रास्थित, अध्यैष्टेति धातूपसर्गसमुदायस्य विशिष्टक्रियावचनत्वाततः प्रत्ययविधावङ्गसंज्ञायामडादिप्रसङ्गः। चोदयति - धातुग्रहणमनर्थकम्, यङ्विधौ धात्वधिकारादिति।'धातोरेकाचः' इत्यत्र यङ्विधौ धात्वधिकारादिति'धातोरेकाचः' इत्यत्र यङ्विधौ यद्धातुग्रहणं तस्येहाधिकारादित्यर्थः। परिहारति - -कृदुपपदसंज्ञार्थ त्विति। एतदेव व्याचष्टे - अस्मिन्निति। अस्मिन्नेवेत्यवधारणं द्रष्टव्यम्। तद्दर्शयति - पूर्वत्र मा भूतामिति। असत्यस्मिन्नधिकारे धात्वधिकारे यत्सप्तम्या निर्द्दिष्ट्ंअ तदुपपदमित्येतावानर्थः स्यात्, ततश्च पूर्वत्रापि स्यात् - -ठ्च्लि लुङ्ऽ लुङ्न्ति उपपदे च्लिरिति। एवं कृत्संज्ञापि धातोर्विहितस्यातिङे भवतीति पूर्वत्रापि स्यात्, ततश्च करिष्यतीत्यत्र स्यप्रत्ययस्य कृत्संज्ञायां कृदन्तं प्रातिपदिकमिति प्रातिपदिकत्वे सति तिङेक्तेऽप्येकत्वे वचनग्रहणादेकवचनस्य चोत्सर्गत्वात्सोरुत्पत्तिः प्रसज्येत। तस्मादस्मिन्धात्वधिकारे यथा स्यातां पूर्वत्र मा भूतामिति पुनर्द्धात्वधिकारः क्रियते। ननु चाधिकारेण ते संज्ञे विधास्येते, प्रत्ययसंज्ञा च तत्र, ते पूर्वत्र भविष्यत इत्याशंक्य प्रयोजनान्तरमाह - आर्द्धधातुकसंज्ञार्थे चेति। कः पुनरार्द्धधातुकसंज्ञायां द्वितीयधातुग्रहणस्योपयोग इत्यत आह - धातोरित्येवं विहितस्येति। लूभिरिति। अत्र सत्यपि प्रातिपदिकत्वे धातुत्वमप्यस्ति; पूर्वप्रवृताया धातुसंज्ञाया अनिवर्तनात्। ततश्च धातोरेवायं विहित इति आर्धधातुकसंज्ञा स्यादेव। यदि तु शमिधातोरित्यत्र धातुग्रहणस्य द्वितीयस्यार्द्धधातुकसंज्ञार्थं स्वरितत्वं प्रतिज्ञायेत, अयमप्यधिकारः शक्योऽकर्तुम्। वासरूपविधिरप्यधिकारेण सिद्धः, तेन क्सादिभिः सिचः समावेशो न भविष्यति॥ Nyaas ----- `यङविधौ धातोरित्यधिकारात्` इति। `धातोरेकाचः` (3.1.22) इति यङविधौ यत् धातुग्रहणं तस्येहाधिकारादित्यर्थः। इयञ्च धातुग्रहणस्यानर्थकत्वे युक्तिः। `कृदुपपदसंज्ञार्थं तु` इति। आनर्थक्यमपाकरोति। ननु च पूर्वेणापि धातुग्रहणेन कृदुपपदसंज्ञे सिध्यत स्याताम्, इह करिष्यतीति स्यप्रत्ययस्य `कृदतिङ` (3.1.93) इति कृत्संज्ञा स्यात्। ततश्च **कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा प्रसज्येत, तस्याञ्च सत्यां सुबुत्पत्तिः। **च्लि लुङि** (3.1.43) इत्यत्र च `तत्रोपपदम्` (3.1.92) इति लुङोऽप्यपपदसंज्ञा स्यात्, ततश्च लुङ्युपपदे च्लिरित्ययमर्थश्च सम्भाव्येत। तसमादिह धात्वधिकारे कृदुपपदसंज्ञे यथा स्यातां पूर्वत्र मा भूतामिति पूनर्धातुग्रहणम्। अथाधिकारेणैते संज्ञे विधास्येते प्रत्ययसंज्ञावत्, तेन पूर्वत्र न भविष्यतीति चेत्? न हि; सिंहावलोकितन्यायोप्यस्ति। अधिकारेण विधाने पूर्वत्रापि सम्भाव्येयाताम्। तत्र व्याख्यानं कर्तव्यं भवेत्। व्याख्यानाच्च लघु धातुग्रहणं भवति। अवश्यञ्चान्यार्थं धातुग्रहणं कर्तव्यम्, तदन्यार्थ क्रियमाणं कृदुपपदसंज्ञाविधावपि विस्पष्टार्थं भविष्यति। तामेव चान्यार्थतां दर्शयितुमाह - `आर्धधातुकसंज्ञार्थम्` इत्यादि। चशब्दाद्वाऽसरूपविधानार्थञ्चेत्ययमत्रार्थो वेदितव्यः। **वाऽसरूपोऽस्त्रियाम्** (3.1.94) इत्यस्मिन् धात्वधिकारेऽसरूपोऽपवादो बाधको यथा स्यात्, पूर्वत्र मा भूत्। तेन क्सादिभिः सिचः समावेशो न भवति। ननु च पूर्वेणापि धातुग्रहणेनार्धधातुकसंज्ञा सेत्स्यति, किं द्वितीयधातुग्रहणेन? इत्यत आह - `धातोरित्येवम्` इत्यादि। धातोरित्येवं धातुशब्दमुच्चार्य विहितस्यार्धधातुकसंज्ञा यथा स्यादित्येवमर्थं पुनर्धातुकृग्रहणमित्यर्थः। किमर्थं पुनर्धातोरित्येवं विहितस्यार्धधातुकसंज्ञोच्यते? इत्याह - `इह मा भूत्` इतति।असति द्वितीये धातुग्रहणे लूभ्याम्, लूभिरित्यत्रार्धधातुकसंज्ञा स्यात्। भवति ह्यत्र धातोः परः प्रत्ययः - `क्विबन्ता धातुत्वं न जहति` (व्या।प।132) इति कृत्वा। आर्धधातुकत्वे सत्यार्धधातुकलक्षण इट् प्रसज्येत। द्वितीयं तु धातुग्रहणं क्रियमामं सामर्थ्याद्छबन्दपदात्मकं भवति। तेनायमर्थो लभ्यते - धातोरित्येवं धातुसंशब्दनेन यो विहितः स अर्धधातुकसंज्ञो भवतीति। तेन लूभ्यामित्यादावार्धधातुकत्वं न भवति। न हीह धातोरित्येवं प्रत्ययो विहितः, किं तर्हि? प्रातिपदिकादित्येवम्॥`सप्तम्या निर्दिष्टम्` इत्यनेन सप्तमीस्थमित्यस्यार्थमाचष्टे। शब्दस्य हीयं संज्ञा विधीयते, स च कः सप्तमीस्थो भवति? यस्याः सप्तम्या निर्देशः। `कुम्भकारः` इति। उपपदसंज्ञायां `उपपदमतिङ` (2.2.19) इति समासः, **गतिकारकोपपदात् कृत्** (6.2.139) इत्यत्तरपदस्य प्रकृतिस्वरत्वं भवति।`स्थग्रहणम्` इत्यादि। निर्दिश्यतेऽनेनेति निर्देशः। सप्तमी निर्देशो यस्य स सप्तमीनिर्देशः। तत्प्रतिपत्त्यर्थं स्थग्रहणम्। एतदुक्तं भवति - सूत्रे यत् सप्तम्या निर्दिष्टं तस्य संज्ञित्वेन प्रतिपत्तिर्यथा स्यादित्येवमर्थं स्थग्रहणम्। यदि पुनः स्थग्रहणं न क्रियते, ततः किं स्यादित्यत आह - `इतरथा हि` इत्यादि। इतरथा ह्रक्रियमाणे स्थग्रहणे `संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति` (पु।प।वृ।81) इतिसैव सप्तम्युपपदसंज्ञां प्रतिपद्येत। न चासतः संज्ञिनः संज्ञा युक्तेति यत्र श्रूयते सप्तमी - स्तम्बेरम इत्यादौ तत्रैव स्यात्। स्यादेतत् - नैतत् प्रत्ययग्रहणम्,किं तर्हि? सप्तमीशब्दस्य स्वरूपस्य ग्रहणमित्याह - `यत्र` इत्यादि। गतार्थम्। `स्थग्रहणात्तु` इत्यादि। स्थग्रहणे तु क्रियमाणे ग्रन्थाधिक्यात् सूत्रे यस्य सप्तम्या निर्देशस्तत् संज्ञित्वेन निर्दिश्यते, तेनु सर्वं सिद्धं भवति; येषामियं संज्ञेष्यते तेषां सर्वेषामेव सूत्रे सप्तमीनिर्देशात्। तथा हि - `स्तम्बकर्णयोः` (3.2.13) इत्यत्र स्तम्बकर्णशब्दौ सूत्रे सप्तम्या निर्दिष्टौ। **सप्तम्यां जनेर्डः** (3.2.97) इत्यत्राप्युपसरादयः। **कर्मण्यण्** (3.2.1) इत्यत्रापि कर्माभिधायिनः कुम्भप्रभृतयः।ननु च लाघवार्थं संज्ञाकरणम्, तत्किमर्थं गुर्वी संज्ञा क्रियते? इत्याह - `गुरुसंज्ञाकरणम्` इत्यादि। उपशब्दः सामीप्ये। उपोच्चारितं पदमुपपदमित्यन्यर्थसंज्ञाविज्ञाने सति समर्थपरिभाषाव्यापारो यथा स्यादित्येवमर्थं गुरुसंज्ञाकरणम्। समर्थपरिभाषोपस्थाने सति यदिष्टं सम्पद्यते तद्दर्शयितुमाह - `पश्य कुम्भम्` इत्यादि। अन्वर्थसंज्ञायां हि सत्यामुपपदाश्रयः प्रत्ययः पदविधिर्भवति। यत्र च पदगन्धोऽप्यस्ति तत्र समर्थपरिभाषोपतिष्ठते। तेन पश्य कुम्भं करोति कटमित्यत्र **कर्मण्यण्** (3.2.1) न भवति। न हीह कुम्भस्य करोतिना सामर्थ्यम्, किं तर्हि? पश्येत्यनेन। पदशब्दोऽप्यत्रान्वर्थ एव, न पारिभाषिकः। तथा हि सुबन्तस्य पदसंज्ञा टचोपपदसंज्ञाविधनकाले सुबन्ततयास्ति; यस्मादुपपदसंज्ञायां विहितायामुपपदाश्रयेऽपि प्रत्यय उपपदसमासोऽपि `गतिरकारकोपपदानां कृद्भिः समासवचनं प्राक्सुबुत्पत्तेः` (व्या।प।वृ।138) इति सुबुत्पत्त्या भवितव्यः। तस्मादन्वर्थोऽयं पदशब्दः - पद्यते गम्यतेऽर्थो येन तत् पदमिति। `तत्र` ग्रहणं सप्तमीस्थस्य प्रत्योत्पतिंत प्रति निमित्तभावे सत्युपपदसंज्ञा यथा स्यादित्येवमर्थम्। असति हि तत्र ग्रहणे कर्मण्युपपदेऽनुपपदेऽपि प्रत्ययः स्यात्। यस्तु कर्मणीति सप्तम्या निर्देशः, स यदा सप्तम्यन्तः सम्भवति, तदा तस्योपपदसंज्ञार्थः स्यात्; न तु तस्मिन् सत्येव प्रत्ययेन भवितव्यमित्येषोऽर्थो लभ्यते। तस्मात् यथोक्तप्रयोजनार्थं तत्रग्रहणम्। ननु चानन्तरस्य धात्वदिकारस्य निर्देशार्थं तत्रग्रहणं कस्मान्न भवति, तत्रैतस्मिन् धात्वधिकारेऽनन्तर उपपदसंज्ञा यथा स्यादिति? नैतदस्ति; अधिकारादप्येतत् सिद्धम्। उपपदसंज्ञाधिकरिष्यते, तेन वक्ष्यमाणेषु संज्ञिषु संज्ञा भविष्यतीति नार्थ एतदर्थेन तत्रग्रहणेन। `तत्रैतस्मिन्` इत्यादिस्तु वृत्तिग्रन्थ एवमुन्नीयते - एतस्मिन् धात्वधिकारे यत्सप्तम्या निर्दिष्टं तदुपपदसंज्ञं भवति। तत्र च निमित्ते प्रत्यय इत्येषोऽर्थः सोपस्कारत्वाद्वृत्तिग्रन्थस्य लभ्यते॥ Prakriyasarvasvam ----------------- इदानीं धातोः परे१ प्रत्यया उच्यन्ते । Sutra Prayogas -------------- * **नाऽपचिकीर्षया** (भट्टिकाव्यम्): `ऋत इद्धातोः` इति ।