31090: कुषिरजोः प्राचां श्यन् परस्मैपदं च ========================================= **Padacheda:** कुषि-रजोः | S | 6 | 2 | प्राचाम् | S | 6 | 3 | श्यन् | S | 1 | 1 | परस्मैपदम् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix श्यन् comes after the roots कुष् 'to pull' and रञ्ज 'to colour' in the reflexive voice, according to the opinion of Eastern Grammarians and these verbs take the affixes of परस्मैपद । Vasu English Translation ------------------------ The affix श्यन् comes after the roots कुष् 'to pull' and रञ्ज 'to colour' in the reflexive voice, according to the opinion of Eastern Grammarians and these verbs take the affixes of परस्मैपद । This debars the affix यक् and the *Atmanepada* terminations. As कुष्यति पादः स्वयमेव 'the foot draws up of itself'; रज्यति वस्त्रं स्वयमेव 'the cloth colours of itself'. The phrase 'in the opinion of the Eastern' shows that it is an optional rule; so that we have also the forms कुष्यते and रज्यते. Bhashya ------- कुषिरजोः प्राचां श्यन् परस्मैपदं च (707) (433 कर्मवद्भावे श्यन्परस्मैपदविधिसूत्रम्॥ 3 । 1 । 5 आ 3 ) (1897 श्यन्विषयपरिसंख्यावार्तिकम्॥1 ॥) - कुषिरजोः श्यन्विधाने सार्वधातुकवचनम्- (भाष्यम्)कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणं कर्तव्यम्॥ (1898 अन्यथानुपपत्तिवार्तिकम्॥2 ॥) - अवचने हि लिङ्लिटोः प्रतिषेधः- (भाष्यम्) अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधो वक्तव्यः स्यात्। चुकुषे पादः स्वयमेव। ररञ्ञ्जे वस्त्रं स्वयमेव। कोषिषीष्ट पादः स्वयमेव रङ्क्षीष्ट वस्त्रं स्वयमेव॥ (आक्षेपभाष्यम्) क्रियमाणे चापि सार्वधातुकग्रहणे कतीह कुष्णानाः पादा इति अत्रापि प्राप्नोति॥ श्यना च स्यादीनां बाधनं प्राप्नोति। कोषिष्यते पादः स्वयमेव। अकोषि पादः स्वयमेव। रङ्क्ष्यते वस्त्रं स्वयमेव। अरञ्ञ्चि वस्त्रं स्वयमेव॥। (परिसंख्यावार्तिकवैर्यथ्यभाष्यम्) यत्तावदुच्यते - सार्वधातुकग्रहणं कर्तव्यमिति। न कर्तव्यम्। प्रकृतमनुवर्तते॥ क्व प्रकृतम्?। सार्वधातुके यगिति। (अनुवर्तनेऽन्वयविचारभाष्यम्) यदि तदनुवर्तते पूर्वस्मिन्योगे किं समुच्चयः - ले च, सार्वधातुके चेति। आहोस्वित् - लग्रहणं सार्वधातुकविशेषणम्॥ किं चातः?। यदि समुच्चयः, कतीह भिन्दानाः कुसूला इत्यत्रापि प्राप्नोति॥ अथ लग्रहणं सार्वधातुकविशेषणम्। लिङ्लिटोर्न सिध्यति - बिभिदे कुसूलः स्वयमेव, भित्सीष्ट कुसूलः स्वयमेवेति॥ (सार्वधातुकविशेषणत्वस्वीकारभाष्यम्) अस्तु लग्रहणं सार्वधातुकविशेषणम्॥ (दूषणस्मारकभाष्यम्) ननु चोक्तं लिङ्लिटोर्न सिध्यतीति॥ (दूषणपरिहारभाष्यम्) लिङ्लिङ्ग्रहणमपि प्रकृतमनुवर्तते। क्व प्रकृतम्। कास्प्रत्ययादाममन्त्रे लिटि लिङ्याशिष्यङिति च॥ एवं च कृत्वा सोऽप्यदोषो भवति - यदुक्तं कतीह कुष्णानाः पादा इत्यत्रापि प्राप्नोतीति। इहापि लविशिष्टं सार्वधातुकग्रहणमनुवर्तते॥ (दूषणान्तरनिराकरणभाष्यम्) यदप्युच्यते - श्यना च स्यादीनां बाधनं प्राप्नोतीति॥ यक्प्रतिषेधसंबन्धेन श्यनं वक्ष्यामि - -न दुहस्नुनमां यक्चिणौ। ततः - कुषिरजोः प्राचाम्। कुषिरजोः प्राचां यक्चिणौ न भवतः। ततः - श्यन् परस्मैपदं चेति॥ (आक्षेपभाष्यम्) यथैव तर्हि यको विषये श्यन् भवति, एवं चिणोपि विषये प्राप्नोति - -अकोषि पादः स्वयमेव। अरञ्ञ्जि वस्त्रं स्वयमेव॥ (समाधानभाष्यम्) एवं तर्हि द्वितीयो योगविभागः - करिष्यते - न दुहस्नुनमां चिण् भवति। ततो यक् यक् च न भवति दुहस्नुनमाम्। ततः कुषिरजोः प्राचां यक् न भवति। ततः श्यन् परस्मैपदं चेति॥ अथ वा - अनुवृत्तिः करिष्यते - स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति। कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति। दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति। कुषिरजोः प्राचां श्यन्परस्मैपदं च स्यतासी लृलुटोः च्लि लुङि च्लेः सिज् भवतीति॥ अथ वान्तरङ्गः स्यादयः॥ कान्तरङ्गता?। लावस्थायामेव स्यादयः। सार्वधातुके श्यन्॥ कुषिरजोः प्राचाम्॥ 90 ॥ Kashika ------- **कुष निष्कर्षे**, **रञ्ज रागे** अनयोर्धात्वोः कर्मकर्तरि प्राचामाचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च। यगात्मनेपदयोरपवादौ। कुष्यति पादः स्वयमेव। रज्यति वस्त्रं स्वयमेव। प्राचांग्रहणं विकल्पार्थम्। कुष्यते। रज्यते। व्यवस्थितविभाषा चेयम्। तेन लिट्लिङो स्यादिविषये च न भवतः। चुकुषे पादः स्वयमेव। ररञ्जे वस्त्रं स्वयमेव। कोषिषीष्ट पादः स्वयमेव। रङ्क्षीष्ट वस्त्रं स्वयमेव। कोषिष्यते पादः स्वयमेव। रङ्क्ष्यते वस्त्रं स्वयमेव। अकोषि पादः स्वयमेव। अरञ्जि वस्त्रं स्वयमेव॥ Siddhanta Kaumudi ----------------- अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥ Balamanorama ------------ **कुषिरजोः प्राचां श्यन् परस्मैपदं च** - कुषिरञ्जोः । अनयोरिति । 'कुष निष्कर्षे'रञ्ज रागे॑इत्यनयोरित्यर्थः । कर्मकर्तरीति । 'अचः कर्मकर्तरी' त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः ।न दुहस्नुनमा॑मित्यतो नेति, यगिति चानुवर्तते । तदाह — न यगिति । किंतु श्यन्निति । यग्विषये इत्यर्थः । एवं च यग्विषयादन्यत्र न श्यः प्रवृत्तिः ।न य॑गित्यनुक्ताव श्यनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः ।प्राचां॑ग्रहणाद्विकल्पः । तदाह — कुष्यति कुष्यते वा पाद इति ।स्वयमेवे॑ति शेषः । कुष्णाति पादं देवदत्त इति मुख्यकर्तृलकारे पादः कर्म । तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम् । तदुभयाऽभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः । यक्श्यनोः स्वरे विशेषः । श्यनिकुष्यन्ती वधू॑रित्यत्रशप्श्यनोर्नित्य॑मिति नित्यं नुम् । यकि तुआच्छीनद्यो॑रिति विकल्पः स्यात् । रज्यति रज्यते वा वरुआमिति । अन्तर्भावितण्यर्थतायां दैवादिकत्वाच्छ्यनिरज्यति वरुआ॑मित्यत्र रञ्जयतीत्यर्थः । मुख्ये कर्तरि लः । कर्मणः कर्तृत्वविवक्षायां तु रज्यति रज्यते वा वरुआमिति भवतीत्यर्थः । यगवि,ये तु नास्त्येवेति ।श्य॑निति शेषः । यक#ं प्रतिषिध्य तत्स्थाने श्यनो विधिसामर्थ्यादित्यर्थः । कोषिषीष्टेति । आर्धधातुकत्वेन यगविषयत्वान्न श्यन् । तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः । रङ्क्षीष्टेति । रञ्जेः सीयुटि जस्य कुत्वेन गः । तस्य चर्त्वेन कः । अनुस्वारपरसवर्णौ । अत्र कर्मकर्तृप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्मना कत्र्रेति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ' इति सूत्रे कैयटे स्पष्टम् । इति कर्मकर्तृप्रक्रिया । अथ पूर्वकृदन्ते कृत्यप्रकरणम् ।अथ कृदन्तप्रक्रिया निरूप्यन्ते । तदेवंप्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः॑इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादेप्रत्ययः॑,परश्चे॑त्यारभ्यकुषिरञ्जोः प्राचां श्य॑न्नित्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः । अथतदुत्तरसूत्रविहितान्निरूपयितुमुपक्रमते — Padamanjari ----------- कुषिरजोः प्रायां श्यन् परस्मैपदं च॥ यगात्मनेपदयोरपवादाविति। श्यन्यकोऽपवादः, परस्मैपदमात्मनेपदस्य। श्यन्यकोश्चात्र नुमिस्वरे च विशेषः - कुष्यन्ती जङ्घा, श्यनि'शप्श्यनोर्नित्यम्' इति नित्यं नुमागमः, नित्वाच्चाद्यौदातत्वं भवति; यकि तु ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पः, लः सार्वधातुकानुदातत्वे च यक एवोदातत्वं स्यात्।रज्यतीति। ठनिदिताम्ऽ इति नलोपः। कुष्यते, रज्यते इति पक्षे यगात्मनेपदे भवतः। लिङ्लिटोरिति। आशिषि लिङ्त्र गृह्यते, यदुक्तम् - कुषैरजोः श्यन्विधाने सार्वधातुकवचनम्, अवचने हि लिङ्लिटोः प्रतिषेध इति। स्यादिविषये चेति। आदिशब्देन सिजादीनां ग्रहणम्। चुकुषे, ररञ्चेति। लिट्, आत्मनेपदम्, तस्य एशादेशः। कोषिषीष्टेति।'लिङ्ः सौयुट्' ,'सुट् तिथोः' लघूपधगुणः। रङ्क्षीष्टेति। ठेकाचःऽ इतीट्प्रतिषेधः,'चोः कुः' इति कुत्वम् गकारः, तस्य चर्त्वम्ककारः। अकोषि, अरञ्चीति। चिण्॥ Nyaas ----- रञ्जेः कृतानुनासिकलोपनिर्देशो लाघवार्थः। `यगात्मनेपदयोरपवादौ` इति। श्यन् यकोऽपवादः; परस्मैपदं त्वात्मनेपदस्य। `रज्यति` इति। `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः। `प्राचां ग्रहणं विकल्पार्थम्` इति। एतेन पूजार्थतामपनयति। पूजार्थे तस्मिन् विकल्पो न लभ्येत। `कुष्यते` इत्यादिना विकल्पार्थे प्राग्ग्रहणे यदिष्टं सिध्यति तद्दर्शयति। `स्यादिविषये च` इत्यादि। आदिशब्देन तासिप्रभृतीनां ग्रहणम्। `चुकुषे, ररञ्जे` इति। लिट्, आत्मनेपदम्, तप्रत्ययः, तस्यैशादेशः। `कोषिषीष्ट` इति। आशिषि लिङ, सीयुट्, **सुट् तिथोः** (3.4.107) इति सुट्, लघूपधगुणः, षत्वम्, ष्टुत्वञ्च। `रङक्षीष्ट` इति। `एकाचः` (7.2.10) इतीट्प्रतिषेधः, **चोः कुः** (8.2.30) इति कुत्वम् - गकारः। `खरि च` (8.4.54) इति चर्त्वम् - ककारः। `अकोषि, अरञ्जि` इति। लुङ,चिण्॥ Prakriyasarvasvam ----------------- अनयोः कर्मकर्तरि यक्स्थाने श्यन् परस्मैपदं च वा स्यात् । श्यनोऽपि- त्सार्वधातुकत्वेन ङित्त्वान्नलोपः । रज्यति वस्त्रं स्वयमेव । विकल्पाद् यकि रज्यते स्वयमेव । लुङादौ कर्मवत् । एवं कुष्यति दाडिमः स्वयमेव, कुष्यते वा । यज देवपूजासङ्गतिकरणदानेषु । यजति यजते । यकि 'वचिस्वपि—' इति प्रसारणम् । इज्यते । लुङि सिचि व्रश्चादिषः । 'षढोः कः' । अयाक्षीत् । 'झलो झलि' ' । ष्टु'त्वम् । अयाष्टाम् । अयाक्षुः अयष्ट । अयक्षाताम् । अयष्टाः । ध्वमि धस्य ष्टुत्वे पस्य जश्त्वं डः । अयड्ढ्वम् । अयक्षि । चिणि अयाजि । लिटि ययाज् अ ।