31089: न दुहस्नुनमां यक्चिणौ ============================ **Padacheda:** न | S | 0 | 0 | दुह-स्नु-नमाम् | S | 6 | 3 | यक्-चिणौ | S | 1 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix यक् -- सार्वधातुके यक् (3.1.67),and चिण् -- अचः कर्मकर्तरि (3.1.62) are not used in the reflexive voice of the verbs दुह् 'to milk', स्नु 'to fall in drops' and नम् 'to bow. Vasu English Translation ------------------------ The affix यक् -- सार्वधातुके यक् (3.1.67),and चिण् -- अचः कर्मकर्तरि (3.1.62) are not used in the reflexive voice of the verbs दुह् 'to milk', स्नु 'to fall in drops' and नम् 'to bow. The affixes यक् and चिण् are used in forming the reflexive verbs, when the action affecting the agent is similar to the action which affects the object. With regard to the root दुह्, the affix यक् is only prohibited by the present *sutra*; the चिण् being optionally employed by rule (3.1.63), as दुग्धे, अदुग्ध or अदोहि गौः स्वयमेव 'the cow flows or flowed of itself', प्रस्नुते or प्रास्नीष्ट गौः स्वयमेव 'the cow flows or flowed of itself'; नमते or अनंस्त दण्डः स्वयमेव 'the stick bends or bent of itself'. This prohibition of the employment of the affixes यक् and चिण् is extended to the verbs that take the affix णि (such as causatives &c.), to the verbs श्रन्थ 'to loosen', मन्थ 'to compose' and ब्रू 'to speak', and to the *Atmanepadi*. Intransitive verbs. As कारयते 'it is caused to be made of itself; अचीकरत् 'it was caused to be made of itself; श्रथ्नीते 'it loosens of itself'; अश्रथ्निष्ट 'it loosened of itself'; मथ्नीते; अमथ्निष्ट 'it composes or composed of itself'; ब्रूते and अवोचत् 'it speaks and spoke of itself'; आहते and आवधिष्ट माणवकः स्वयमेव. Bhashya ------- न दुहस्नुनमां यक्चिणौ (706) (432 यक्चिण्प्रतिषेधसूत्रम्॥ 3.1.5 आ.2) (1895 यक्चिण्प्रतिषेधवार्तिकम्॥ 1 ॥) - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसंख्यानम्- (भाष्यम्) यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञ्ञामुपसंख्यानं कर्तव्यम्॥ णि - कारयते कटः स्वयमेव। अचीकरत कटः स्वयमेव। णि॥ श्रि - उच्छ्रयते दण्डः स्वयमेव। उदशिश्रियत दण्डः स्वयमेव। श्रि॥ ब्रूञ्ञ् - -ब्रूते कथा स्वयमेव। अवोचत कथा स्वयमेव॥ भारद्वाजीयाः पठन्ति - - (1896 भारद्वाजीयवार्तिकम्॥ 2 ॥) - यक्चिणोः प्रतिषेधे- (भाष्यम्) णिश्रन्थिग्रन्थिब्रूञ्ञात्नेपदाकर्मकाणामुपसंख्यानम् इति॥ न दुहस्नु॥ 89 ॥ Kashika ------- दुह स्नु नम् इत्येतेषां कर्मकर्तरि यक्चिणौ कर्मवद्भावापदिष्टौ न भवतः। दुहेरनेन यक् प्रतिषिध्यते। चिण् तु **दुहश्च** (३.१.६३) इति पूर्वमेव विभाषितः। दुग्धे गौः स्वयमेव। अदुग्ध गौः स्वयमेव। अदोहि गौः स्वयमेव। प्रस्नुते गौः स्वयमेव। प्रास्नोष्ट गौः स्वयमेव। नमते दण्डः स्वयमेव। अनंस्त दण्डः स्वयमेव॥ यक्चिणोः प्रतिषेधे णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम्॥ कारयति कटं देवदत्तः। कारयते कटः स्वयमेव। अचीकरत् कटं देवदत्तः। अचीकरत कटः स्वयमेव। उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव। उदपुपुच्छत गौः स्वयमेव। श्रथ्नाति ग्रन्थं देवदत्तः। श्रथ्नीते ग्रन्थः स्वयमेव। अश्रन्थिष्ट ग्रन्थः स्वयमेव। ग्रथ्नाति श्लोकं देवदत्तः। ग्रथ्नीते श्लोकःस्वयमेव। अग्रन्थिष्ट श्लोकः स्वयमेव। ब्रवीति श्लोकं देवदत्तः। ब्रूते श्लोकः स्वयमेव। अवोचच् छ्लोकं देवदत्तः। अवोचत श्लोकः स्वयमेव। आत्मनेपदाकर्मकाणाम् — आहते माणवकः स्वयमेव। आवधिष्ट माणवकः स्वयमेव, आहतेति वा। विकुर्वते सैन्धवाः स्वयमेव। व्यकृषत सैन्धवाः स्वयमेव॥ Siddhanta Kaumudi ----------------- एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥ Balamanorama ------------ **न दुहस्नुनमां यक्चिणौ** - न दुह । दुह स्नु नम् एषां द्वन्द्वः । कर्मकर्तरीति । एतत्तु नाऽनुवृत्तिलभ्यं, पूर्वत्रानुपलम्भात् । किंतुकर्मवत्कर्मणा तुल्यक्रियः॑ इति समभिव्याहारलभ्यमेव ।अचः कर्मकर्तरी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तिर्वा । दुहेरनेनेति ।न दुहस्नुनमा॑मित्यनेन दुहेः कर्मकर्तरि यक एव निषेधः । चिण्तुदुहश्चे॑ति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिण्वेति तदर्थः ।चिण्तु विकल्पेनेष्यते॑ इति क्वचित्पाठः । दुग्धे इत्यत्र प्रक्रियां दर्शयति — शप् लुगिति । दुहेः कर्मकर्तरि यकि निषिद्धे शप्प्रवर्तते, तस्य 'अदिप्रभतिभ्यः' इति लुगित्यर्थः ।गौः पयो दुग्धे इति । गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूतायां गवि लट् । स्वरितेत्त्वेऽपिभावकर्मणो॑रित्यात्मनेदमेव ।न दुहेति न यक् । गांपयो दुग्धे इति तु नोदाहृतम्,गौणे कर्मणि दुह्रादेर्लादयो मताः॑इत्युक्तेः । अचः कर्मकर्तरि ।च्लेः सि॑जित्यतश्च्लेरिति,चिण् ते पदः॑इत्यतश्चिण्ते इति,दीपजने॑त्यतोऽन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य अचा विशेषतत्वात्तदन्तविधिः । तदाह — अजन्तादित्यादिना । अकारीति ।कटः स्वयमेवे॑ति शेषः । कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् ।चिणो लु॑गिति तशब्दस्य लुक् । अकृतेति । चिणभावपक्षेह्रस्वादङ्गा॑दिति सिचो लोपः । Tattvabodhini ------------- **न दुहस्नुनमां यक्चिणौ** - दुहिपच्योरिति । द्विकर्मकत्वादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायाममि सकर्मकत्वान्निषेधे प्राप्तेऽयमारम्भः । गौः पयो दुग्धे इति । अत्र कर्मवद्भावेनात्मनेपदं नित्यं ।गौणे कर्मणि दुह्रादेः॑ इत्युक्तत्वान्मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाहृतमित्याहुः । एवं चप्रधाने नीहकृष्वहा॑मित्युक्तत्वात्तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम् । Padamanjari ----------- न दुहस्ननमां यक्चियौ॥'दुह प्रपूरणे' 'ष्णु प्रस्रवणे' ।'टुअदु उपतापे' ,'हमे हसने' 'णु स्तवने' इत्येतेषां तु ग्रहणं न भवति, नौतिहसत्योरकर्मस्थक्रियत्वात्। यदि च तेषां ग्रहणामिष्ट्ंअ स्यादसन्देहार्थम्'न दुनुहस्नमाम्' इत्येव ब्रूयात्, अवयवप्रसिद्धेश्च समुदायप्रसिद्धिर्बलीयसी। कर्मवद्भावापदिष्टाविति। एतेन ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति कर्मवत्कर्मणेति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः; न तु'चिण् भावकर्मणोः' ,'सार्वधातुके यक्' इति शुद्धे कर्मणि भावे प्राप्तयोरिति दर्शयति। दुग्ध इति। यकि प्रतिषिद्धे शप्, तस्य अदादित्वाल्लुक्,'दादेर्धातोर्घः' ,'झषस्तथोर्धो' धःऽ जश्त्वम्। दुहिरयं द्विकर्मकः, तत्र ठप्रधाने दुहादीनाम्ऽ इति यस्मिन्कर्मणि लकारस्तस्य कर्तृत्वविवक्षा, प्रधानं तु कर्म कर्मैवेति, यथा -'स्वयं प्रदुग्धे' स्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीऽ इति। अदुग्धेति। णिच् भावे क्सः,'लुग्वा दुह' इत्यादिना तस्य लुक्। नन्विदानीमेवोक्तम् -'दुहेरनेन यक् प्रतिषिध्यते, चिण् तु'दुहेश्च' इति पूर्वमेव विकल्पितः' इति, तस्मान्नैतदत्रोदाहर्तव्यम्। प्रस्नुत इति। यकि प्रतिषिद्धे पूर्ववच्छपो लुक् प्रास्नोष्टेति। चिण्प्रतिषेधे सिच्। नमत इति। अन्तर्भावितण्यर्थोऽत्र नमिः। तत्र यथा नयमति दण्डं देवदतः, नमयते दण्डः स्वयमेवेति ण्यन्तस्य कर्मस्थक्रियत्वम्, एवमस्यापि द्रष्टव्यम्। णिश्रन्थिग्रन्थीत्यादि। णीति णिङे णिचश्च सामान्येन ग्रहणम्।'श्रन्थ ग्रन्थ सन्दर्भे' चुरादावाधृषीयौ, तयोर्णिजभावपक्षे ग्रहणम्। तथा र्क्यादिष्वपि पठ।लेते तयोरपि ग्रहणम्।'ब्रूञ् व्यक्तायां वाचि' । आत्मनेपदविधावकर्मका ये धातवो निर्द्दिष्टास्ते यदान्तर्भावितण्यर्थाः सकर्मका भवन्ति त इमे आत्मनेपदाकर्मकाः। वृतौ क्वचिदेषामुदाहरणानि पठ।ल्न्ते, क्वचिन्न। णिचि - -कार्यते कटः स्वयमेव, अचीकरत कटः स्वयमेव, यक्चिणोः प्रतिषिद्धयोः शप्चङै भवतः। णिङ् - -पुच्छमुदस्यति, उत्पुच्छयते गौः, स यदान्तर्भावितण्यर्थस्तदा उत्पुच्छयते गाम्। पुनः सौकर्यातिशयेन कर्तृत्वविवक्षायामुत्पुच्छयते गौः स्वयमेव, उदपुपुच्छत गौः स्वयमेव। श्रन्थिग्रन्थ्योराधृषीययोः - -ग्रन्थति ग्रन्थं देवदतः, श्रन्थति मेखलाम्, ग्रन्थते ग्रन्थः स्वयमेव, अग्रन्थिष्ट ग्रन्थः स्वयमेव; श्रन्थते मेखला स्वयमेव, अश्रन्थिष्ट मेखला स्वयमेव। क्रैयादिकयोस्तु - ग्रथ्नीते ग्रन्थः स्वयमेव, श्रथ्नीते मेखला स्वयमेव। ब्रञ् - ब्रवीति कथां देवदतः, ब्रूते कथा स्वयमेव। वचनं शब्दप्रकाशनफलत्वात्कर्मस्थम्। आत्मनेपदाकर्मक - -ठ्वेः शब्दकर्मणःऽ ठकर्मकाच्चऽ विकउर्वते सैन्धवाः, वल्गन्तीत्यर्थः। तान्यदाऽन्यो वल्गयति तदा तेषां कर्मत्वम्। पुनः सौकर्यातिशयात्कर्तृत्वविवक्षायाम् - विकुर्वते सैन्धवाः स्वयमेव, व्यकृषत सैन्धवाः स्वयमेव, यक्चिणौ न भवतः। क्वचितु बृतौ - आहन्ति माणवकम्, आहते माणवकः स्वयमेवेति पठ।ल्ते, तदयुक्तम्; आहन्ति माणवकमिति सकर्मकत्वादात्मनेपदाभावाच्च। अन्ये पुनराहुः - -आत्मनेपदाकर्मकेति धातुपलक्षणम्, हन्तिश्रायम् ठाङे यमहनःऽ इत्यत्र यदा कर्माविवक्षयाऽकर्मकस्तदात्मनेपदस्य निमितं स्यात्, तस्याद्यसकर्मकत्वेऽप्यविरुद्धमुदाहरणमिति। भूषाकर्मकिरादिसनां यक्चिणोः प्रतिषेधो वक्तव्यः। कर्मशब्दः क्रियावाची, भूषाफलं च शोभाख्यं कर्मणि द्दश्यत इति कर्मस्था भूषा। अलंकुरुते कन्या स्वयमेव, अलंकरिष्यते कन्या स्वयमेव, अलमकृत कन्या स्वयमेव; अवकिरते हस्ती स्वयमेव, अवाकीर्ष्ट हस्ती स्वयमेव, अवकरिष्यते हस्ती स्वयमेव - यक्चिण्चिण्वद्भावा न भवन्ति। सन् - मुमुक्षते वत्सः स्वयमेव, अमुमुक्षिष्ट वत्सः स्वयमेव; चिकीर्षते कटः स्वयमेव, अचिकीर्षिष्ट कटः स्वयमेव - प्रकृत्यर्थापेक्षमत्र कर्मस्थक्रियत्वम्, इच्छा तु कर्तृस्था। आर्थ च प्रकृत्यर्थस्य प्राधान्यम्; तदर्थथ्वादिच्छायाः॥ Nyaas ----- `कर्मकर्तरि यक्चिणानुपदिष्टौ न भवतः` इति। कर्मकर्तरीति विशेषणम्। `कर्मवत् कर्मणा तुल्यक्रियः` (3.1.87) इति प्राप्तयोर्यक्चिणोरयं प्रतिषेधः, न तु चिण्वद्भावकर्मणोः। **सार्वधातुके यक्** (3.1.67) इति च। शुद्धे कर्मणि यौ प्राप्तौ तयोरपीति दर्शनार्थम्। एतच्च `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` (व्या।प।19) इति परिभाषया लभ्यते। `दुग्धे` इति। यकि प्रतिषिद्धे शप्, तस्यादादित्वाल्लुक्। पूर्ववद् घत्वघत्वजश्त्वानि। `अदुग्ध` इति। लुङ। चिणि प्रतिषिद्धे क्सः, तस्य `लुग्वा` (7.3.73) इत्यादिना लुक्। `प्रस्नुते` इति। `{ष्णु प्ररुआवणे` धातुपाठः-} स्नु प्ररुआवणे` (धातुपाठः-1038), पूर्ववच्छपो लुक्। `प्रास्नोष्ट` इति। लुङ। `नमते` इति। `णम प्रह्वत्वे शब्दे` (धातुपाठः-981)। अन्तर्भावितण्यर्थोऽत्र नमिः कर्मणि वर्तत इति वेदितव्यम्। एवं हि कर्मस्थक्रियो भवति; अन्यथा कर्त्तृस्थक्रियत्वात् प्राप्तिर्नास्त्येवेति प्रतिषेधोऽनर्थकः स्यात्। अन्तर्भावितव्यर्थस्तु कर्मस्थक्रियो भवति - नमति दण्डं देवदत्तः। `नमते दण्डः स्वयमेव` इति। यथा ण्यन्तावस्थायाम्। `यक्चिणोः प्रतिषेधे` इत्यादि। यक्चिणोः प्रतिषेधे कर्तव्ये श्रन्थ्यादीनामपि तस्य प्रतिषेधस्योपसंख्यानम् = प्रतिपादनं कर्तव्यमित्यर्थः। प्रतिपादनं तु नेति योगविभागादिष्टसिद्ध्यर्थात् कर्तव्यम्। णीति हेतुमण्णिच इतरस्य च णेग्र्रहणम्। हेतुमण्णिच्। `कारयति` कटं देवदत्तः। कारयते कटः स्यवमेव` इति। यकि प्रतिषिद्धे शप्। `अचीकरत कटः स्वयमेवट इति। चिणि प्रतिषिद्धे `णिश्रि` (3.1.48) इत्यादिना चङ,णौ चङ्युपधाया ह्रस्वः` (7.4.1) इति ह्रस्वः। `चङि` (6.1.11) इति द्विर्वचनम्, अभ्यासकार्यम्। इतरो णिः - `पुच्छभाण्ड चीवराण्णिङ` (3.1.20) । `उत्पुच्छयते गां गोपः। उत्पुच्छयते गौः स्वयमेव` (इति)। यकि प्रतिषिद्धे शप्। एवमुत्तरत्रापि वेदितव्यम्। `उदपुपुच्छत गौः स्वयमेव` इति। चिणि प्रतिषिद्धे पूर्ववच्चङ। एवमुत्तरत्रापि वेदितव्यम्। `श्रन्थ ग्रन्थ सन्दर्भे` (धातुपाठः-1512,1513)। चुरादौ ग्रन्थिश्रन्थी पठएते (धातुपाठः-1837,1838)। `आ धृषाद्वा` (धातुपाठः-1805 अनन्तरम्) इति विभाषाणिचौ। तयोर्यदा णिज् नास्ति तदोदाहरणे; अन्यथा णीत्येवं सिद्धिः। ग्रन्थि ग्रन्थं देवदत्तः। ग्रन्थते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। श्रन्थति मेखलां देवदत्तः। श्रन्थते मेखला स्वयमेव। `श्रन्थ ग्रन्थ सन्दर्भे` (धातुपाठः-1512,1513) इतिक्र्यादावपि पठएते, तयोरप्ययं प्रतिषेधः - श्रथ्नीते मेखलां देवदत्तः, श्रन्थीते मेखला स्वयमेव। **ई हल्यघोः** (6.4.113) इतीत्त्वम्। अश्रन्थिष्ट मेखला स्वयमेव। ग्रथ्नीते ग्रन्थं देवदत्तः। ग्रन्थीते ग्रन्थः स्वयमेव। अग्रन्थिष्ट ग्रन्थः स्वयमेव। ब्रूते कथां देवदत्तः। ब्रूते कथा स्वयमेव। पूर्ववच्छपो लुक्। अवोचत कथां देवदत्तः। अवोचत कथा स्वयमेव। `ब्राउवो वचिः` (2.4.53) इति वचिरादेशः, `अस्यतिवक्तिख्यातिभ्योषऽङ` (3.1.52) इत्यङादेशः; `वच उम्` (7.4.20) । अन्तर्भावितण्यर्थत्वात् कर्मस्थक्रियात्वं वेदितव्यम्। `आत्मनेपदाकर्मकाणाम्` इति। आत्मनेपदविधावकर्मका ये धातवो गृह्यन्ते त आत्मनेपदाकर्मकाः। `विकुर्वते सैन्धवाः स्वयमेव` इति। **आत्मनेपदेष्वनतः** (7.1.5) इत्यदादेशः। `व्यकृषत सैन्धवाः स्वयमेव` इत्यत्रापि कृञो विपूर्वात् **अकर्मकाच्च** (1.3.45) इत्यात्मनेपदविधानादात्मनेपदाकर्मकत्वम्। अत्रापि वल्गने वर्तमानः करोतिरन्तर्भावितण्यर्थः कर्मस्थकियो भवति॥ Prakriyasarvasvam ----------------- एषां कर्मकर्तरि यक्चिणौ न स्तः । दुग्धे गौः स्वयमेवेत्यादि तङ्वज्ज्ञेयम् । चिण् निषेधः स्नुनमोरेव । अस्य तु । Vartika ------- यक्चिणोः प्रतिषेधे हेतुमण्णिच् श्रिब्रूञामुपसङ्ख्यानम् । Sutra Prayogas -------------- * **प्रणते** (शिशुपालवधम्): `न दुहस्नुनमा यक्चिणौ` इति यक्प्रतिषेधः।