31088: तपस्तपःकर्मकस्यैव ======================== **Padacheda:** तपः | S | 6 | 1 | तपःकर्मकस्य | S | 6 | 1 | एव | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The agent of the verb तप् 'to heat', becomes similar to the object, only when the object is the word तपस् itself. Vasu English Translation ------------------------ The agent of the verb तप् 'to heat', becomes similar to the object, only when the object is the word तपस् itself. Thus तप्यते तपस्तापसः 'the devotee performs austere devotion'; but not so in उत्तपति सुवर्णं सुवर्णकारः 'the goldsmith heats the gold'. Kashika ------- **तप संतापे** अस्य कर्ता कर्मवद् भवति, स च तपः कर्मकस्यैव नान्यकर्मकस्य। क्रियाभेदाद् विध्यर्थमेतत्। उपवासादीनि तपांसि तापसं तपन्ति। दुःखयन्तीत्यर्थः। स तापसस्त्वगस्थिभूतः स्वर्गाय तपस्तप्यते। अर्जयतीत्यर्थः। पूर्वेणाप्राप्तः कर्मवद्भावो विधीयते। तप्यते तपस्तापसः। अतप्त तपस्तापसः। तपः कर्मकस्यैवेति किम्? उत्तपति सुवर्णं सुवर्णकारः॥ Siddhanta Kaumudi ----------------- कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे च (SK2760) इति चिण्निषेधात्सिच् । अतप्त । तपः कर्मः कस्येति किम् । उत्तपत सुवर्णं सुवर्णकारः । न दुहस्नुनमां यक्चिणौ (SK2767) । प्रस्नुते । प्रास्नाविष्ट । प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः ॥ यक्चिणोः प्रतिषेधे - । (वार्तिकम्) ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति । (वार्तिकम्) ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छप्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रैयादिकयोस्तु । श्रन्थीते ग्रन्थीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणः (SK2707) , अकर्मकाच्च (SK2708) इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यकारिष्ट । व्याकारिषाताम् । व्याकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥ Balamanorama ------------ **तपस्तपःकर्मकस्यैव** - तपस्तपः कर्मकस्यैव । आद्यं तप इति षष्ठन्तम् । तपः कर्मकस्यैव तपधतोरिति लभ्यते ।कर्तरिश॑बित्यतःकर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते ।कर्मवत्कर्मणे॑त्यतः कर्मवदित्यनुवर्तते इति मत्वा सूत्रशेषं पूरयति — कर्ताकर्मवदिति । विध्यर्थमिदमिति । एतच्चानुपदमेव उदाहरणव्याख्यावसरे स्पष्टीभविष्यति । ननु विद्यर्थत्वे एवकारो व्यर्थ इत्यत आह — एवकारस्त्विति । तप्यते तपस्तापस इति । अत्र तपिरर्जनार्थक इत्याह — अर्जयतीत्यर्थ इति । प्राजापत्यचान्द्रायणादिकृच्छ्राद्यात्मकं तपः संपादयतीत्यर्थः । मुख्यकर्तरि लः । मुख्यकर्तरि लः । संपादनस्य तापसात्मककर्तृस्थत्वात्तपोरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यप्राप्तं कर्मवत्त्वमनेन सूत्रेण विधीयते । तेन यगात्मनेपदादि । यदा तु तदपि दुःखजननात्मके संतापे वर्तते तदातापसं तपस्तपती॑त्येव भवति । दुःखयतीत्यर्थः । अत्र मुख्यकर्तृ तपः । तापसस्तु कर्म । अत्रापि दुःखजननव्यापारस्य तपोरूपकर्तृस्थतया तापसरूपकर्मस्थत्वाऽभावात्कर्मवत्कर्मणे॑त्यनेन कर्मवत्त्वं न भवति । तपः कर्मकत्वाऽभावादनेनापि न कर्मवत्त्वम् । अतो यगादि कर्मकार्यम् । अथ लुङि अतप्तेत्यत्र कर्मवत्त्वाच्चिणमाशङ्क्य आह — तोपऽनुतापे चेति चिण्निषेधात्सिजिति । तस्यझलो झली॑ति लोपे परिनिष्ठितमाह — अतप्तेति । उत्तपति सुवर्णं सुवर्णकार इति । अत्र तपः कर्मकत्वाऽभावान्न कर्मवत्त्वमपि भावः । भाष्ये तु एवकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधः सूचित इत्यलम् ।दुहिपच्योर्बहुल॑मिति कर्मवत्त्वविधिस्थदुहिप्रसङ्गात्न दुहस्नुनमामिति सूत्रमुपन्स्तं प्राक् । इदानां सिंहावलोकनन्यायेन स्नु धातुः क्षीरप्ररुआवणसूत्रमुपन्यस्यति- न दुहस्नुनमां यक्चिणाविति । तत्र स्नुधातोरुदाहरति — प्रस्नुते इति । स्नुधातुः क्षीरप्ररुआवणविषये उत्कण्ठीकरणे वर्तते । वत्सो गां प्रस्नौतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्ररुआवणविषये उत्कष्ठयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र स्नुधातुः । अत्र गौः कर्म । उत्कण्ठव्यापारस्तु कर्तृभूतवत्सनिष्ठः । उत्कण्ठा तु गोरूपकर्मनिष्ठा । गोः कर्मणः कर्तृत्वविवक्षायां तु — प्रकृते गौः । स्वयमेव क्षीरप्ररुआवणविषये उत्कण्ठावतीत्यर्थः । तत्र उत्कण्ठा पूर्वं कर्मप्राप्तेऽनेन निषेधः । प्रास्नाविष्टेति । अत्र कर्मवत्त्वात्प्राप्तश्चिण् न । किंतु चिण्वदिटौ पक्षे स्तः । चिण्वदिडभावे तु 'स्नुक्रमो' रिति निमाद्वलादिलक्षण इण्न । तदाह — प्रास्नोष्टेति । णम उदाहरति — नमते दण्ड इति । नमति दण्डं कश्चित् । नमयतीत्यर्थः । कर्मणः कर्तृत्वविक्षायां तुनमते दण्डः॑ । अत्र कर्मवत्त्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वेऽपि न चिण् । ननु णमधातोः प्रह्वीभावार्थकस्याऽकर्मकत्वात्कर्यवत्त्वाऽप्रसक्तेर्यक्चिणोर्न प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थोऽत्र नमिरिति । धातूनामनेकार्थकत्वादिति भावः । यक्चिणोरिति ।न दुहस्नुनमा॑मिति यक्चिणोः प्रतिषेधसूत्रे दुहस्नुनमां, हेतुमण्णिश्रिब्राऊञामिति च वाच्यमित्यर्थः । कारयते इति । 'स्वयं देवदत्त' इति शेषः । करोति देवदत्तः, तं प्रेरयति यज्ञदत्त इति ण्यन्तान्मुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदत्तस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि तङेव, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण्,णिश्रीति चङेव । उच्छ्रयते दण्ड इति ।स्वयमेवे॑ति शेषः ।दण्डमुच्छ्यति कश्चि॑दिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वेऽपि न यक्, तङेव । उदशिश्रियतेति । कर्मवत्त्वेऽपि चिणभावात्णिश्री॑ति चङ् । ननु 'कारिष्यते' इत्यत्र कथं चिण्वदिटौ, ण्यन्तस्याऽजन्तस्य उपदेशाऽभावादित्यत आह — चिण्वदिट् तु स्यादेवेति ।स्यसिच्सीयुट्तासिषुट इत्यत्र हि उपदेशे अजन्तस्येति नाऽर्थः, किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाऽभावेऽपि णेरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिञ उपदेशे योऽच् तदन्तत्वाच्चिण्वदिटौ । ब्रूते कथेति ।स्वयमेवे॑ति शेषः । कथां ब्रावीति कश्चिदित मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां क्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न कथां ब्रावीति कश्चिदिति मुख्यकर्तृलकारे कथा कर्म, तस्य पुरुषप्रयत्नाऽविवक्षायां कर्मकर्तरि लकारः । कर्मवत्त्वात्तङ् । न यक् । अवोचतेति । कर्मवत्त्वेऽपि न चिण् किंतु 'ब्राऊवो वचिः'अस्यतिवक्तिख्यातिभ्योऽङ्ट 'वच उ' मिति भावः । उच्चारणएन शब्देषु प्राकटरूपविशेषदर्शनात् कर्मस्थक्रियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्ये श्रन्थेः ग्रन्थेः ब्राऊञ आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाऽभिमत इत्यर्थः । अत्र णीति सामान्यस्य ग्रहणं न तु हेतुमण्णिच एव । ततश्च णिङन्तस्यापि न यक्चिणाविति मत्वाऽऽह — पुच्छमुदस्यति उत्पुच्छयते गौरिति ।पुच्छादुदसने इति णिङ् । नन्वत्र उदसने पुच्छं कर्म, गौर्मुख्यकत्र्री, नतु कर्मकत्र्री ।ततश्च नाऽत्र यक्चिणोः प्रसक्तिरित्यत आह — अन्तर्भावितण्यर्थतायामिति ।उदस्यती॑त्यस्य उदासयतीत्यन्तर्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म, तस्यगोरूपकर्मणः प्रेयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकारे उत्पुच्छयते गौरिति भवतीत्यर्थः । स्वयमेव पुच्छमुदस्यतिगौरिति बोधः ।उदपुपुच्छतेति । अत्र न चिण् । श्पचङाविति ।उत्पुच्छयते गौ॑रित्यत्र यकः प्रतिषेधाच्छप् । उदपुपुच्छतेत्यत्र चिणः प्रतिषेधाच्चङित्यर्थः । ननुश्रन्थ मोक्षणे, ग्र्नथ ग्रथने॑ इति श्रन्थिग्रन्थ्योश्चौरादिकतया । णिग्रहणेनैव सिद्धेः पुनग्र्रहणं वयर्थमित्यत आह — श्रन्थिग्रन्थ्योरिति । ग्रन्थति ग्रन्थमिति । रचयतीत्यर्थः । श्रन्थति मेखलां देवदत्त इति । विरुआंसयतीत्यर्थः । 'देवदत्त' इत्युभयत्रान्वेति । अत्र कर्मणो ग्रन्थस्य, मेखलायाश्च कर्तृत्वविवक्षायं ग्रन्थते ग्रन्थः, श्रन्थते मेखलेति च भवति । स्वयमेव ग्रन्थरचनाश्रयः, रुआंसनाश्रयश्चेत्यर्थः । तत्र कर्मवत्त्वेऽपि न यगिति भावः । अग्रन्थिष्ट, अश्रन्थिष्टेत्यत्र च न चिण् । क्रैयादिकयोस्त्विति । कर्मवत्त्वेऽपि तयोर्यकि निषिद्धे श्नाविकरण इति भावः । आत्मनेपदविधावकर्मको यस्तमुदाहरति — विकुर्वते सैन्धवा इति । सैन्धवाः = अआआः । अत्र विपूर्वः कृञ् वल्गने वर्तते, उपसर्गवशात् । तदाह — वल्गन्तीति । शब्दं कुर्वन्तीत्यर्थः । धात्वर्थेनोपसङ्ग्रहादकर्मकोऽयम् ।मुख्यकर्तरि लकारः । वेरिति । 'वेः शब्दकर्मणः' इत्यन्तरं पठितेनअकर्मकाच्चे॑ति सूत्रेण परगामिन्यपि फेल तङित्यर्थः । नन्वस्याऽकर्मकतया अआआनां कर्मकर्तृत्वाऽभावान्न यकः प्रसक्तिरित्यत आह — अन्र्तभावितेति.विपूर्वकः कृञ् शब्दं कुर्वाणस्य प्रेरणे यदा वर्तते तदा विकुर्वते सैन्धवानिति भवति । अआआन् शब्दायतीत्यर्थः । तत्र सैन्धवानां कर्मणां पुरुषप्रेरणाऽविवक्षया कर्तृत्वविवक्षायां विकुर्वते सैन्धवा इति भवति । वल्गन्तीत्यर्थः । अत्र सैन्धवानां कर्मकर्तृणां कर्मवत्त्वेऽपि न यगित्यर्थः । व्यकारिष्टति । चिणि निषिद्धे ण्यन्तत्वाऽभावाच्चङभावे सिचश्चिण्वदिटि वृद्दिरिति भावः । चिण्वदिडभावपक्षे आह — व्यकृतेति ।ह्रस्वादङ्गा॑दिति सिचो लोपः । Tattvabodhini ------------- **तपस्तपःकर्मकस्यैव** - अतप्तेति । तपस्तापस इत्यनुषज्यते । न दुहस्नु । ननु दोग्धिपर्थायत्वेन रुआऔतेरपि द्विकर्मकत्वाद्गोरूपकर्मणः कर्तृत्वविवक्षायामपि पयोरूपकर्मणो विद्यमानत्वात्सकर्मकाणां प्रतिषेधेन यक्चिणोः प्राप्तिरेव नास्तीति चेत् । अत्राहुः — वत्सादियोगेन क्षीरप्ररुआवणानुकूला उत्कण्ठा स्नुधातोरर्थः । सा च गोनिष्ठा । स्नु प्ररुआवणे इत्यत्रापि करणे ल्युट् । प्ररुआऊयतेऽनेनेति प्ररुआवणं । सा चोत्कण्ठा ।स्वयं प्दुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनीटति प्रयोगे उपस्नुता = उत्कण्ठितेत्यर्थः । वत्सो गां प्रस्नौति = उत्कण्ठयति । अन्तर्बावितण्यर्थोऽत्र स्नौतिः । गोः कर्तृत्वविक्षायां प्रस्नुते गौरिति । प्रारस्नाविष्टेति । चिण्वदिट् । न च चिणि निषिद्धे चिण्वदिडपि न स्यादिति शङ्क्यं,चिण्व॑दित्यनेन हि चणीव कार्यमतिदिश्यते । न च चिण्नेत्युक्त्या सोऽतिदेशो निषेद्धुं शक्यते येन चिण्वदिटो निषेधः स्यात् । प्रारुआओष्टेति ।स्नुकमोरनात्मनेपदनिमित्ते॑ इति नियमाद्वलादिलक्षण इण्न । नमते दण्ड इति । इह नमिताऽनमितयोर्विशेषदर्शनादुद्देशानुरोधाच्च कर्मस्थक्रियत्वमस्ति । कर्मस्थांशस्य उद्देश्यता न तु तदनुकूल व्यापारस्येति कर्मवद्भावस्य प्राप्तिरस्तीति भावः । अचीकरतेति । चिणि प्रतिषिद्धेणिश्री॑ति चङ् । * णिश्रन्थिग्रन्थिब्राऊञात्मनेपदाऽकर्मकाणामुपसङ्ख्यानम् । णिश्रन्थीति । णेः सामान्यग्रहणस्य फलमाह — पुच्छमुदस्यतीत्यादि ।पुच्छभाण्डे॑ति णिङ् । आत् मनेपदविधौ योऽकर्मकस्तमुदाहरति — विकुर्वते सैन्धवा इति । कुषिरञ्जोः ।न दुहस्नुनमा॑मित्यतो नेति वर्तते । तदाह — न यगिति । किन्तु श्यन्निति । तस्मिन्नेव विषय इति भावः ।न गिरा गिरेति ब्राऊयादेरं कृत्वोद्गेय॑मित्यत्र गिरापदं प्रतिषिद्येरापदं विधीयमानं गिरापदस्थान एव यथा भवत्येवमिहापि यकः प्रतिषेदं कृत्वा विधीयमानः श्यन् तदीयस्थान एव भवत्यतो व्याचष्टे - यगविषये तु नास्येति । श्यना सन्नियोगशिष्टं परस्मैपदंश्यनभावे न भवतीत्यात्मनेपदमेवोदाहरति — कोषिषीष्टेति । कोषिष्यते । चुकुषे । कोषिष्यते । अकोषि । अकोषिष्यत । ररञ्जोरङक्ष्यते । अरञ्जि । अरङ्क्ष्यत । इत्यादद्यपि ज्ञेयम् । श्यन्पक्षे कुष्यन्तीत्यत्र नित्यं नुम्, । यक्पक्षे तुआच्छीनद्यो॑रिति विकल्पः । स्वरे विशेषोऽप्यस्त्येव.इह प्रकरमेभिद्यते काष्ठं स्वयमेवे॑ति वृत्त्यादौ प्रयुज्यते तत्र स्वयंशब्दः करणार्थको ज्ञेयः । आत्मना करणेनेति । कत्र्रर्थत्वे तु कर्मणि लः स्यात् । स्पष्टं चेदं कैयटादौ ।इति तत्त्वबोधिन्याम् कर्मकर्तृप्रक्रिया ।अथ पूर्वकृदन्ते कृत्यप्रकरणम् । समस्तजगतामीशौ जगदानन्दकारकौ । जगतीजनकौ वन्दे पार्वतीपरमेआरौ॥१॥॒कृदिति॑ङिति तिङ्भिन्नप्रत्ययस्य कृत्संज्ञाकरणात् कृतां तिङ्ज्ञानाधीनज्ञानत्वात्तिङ्निरूपणानन्तरमेव कृतां निरूपणमुचितमिति तिङो निरूप्य कृतो निरूपयितुमाह — Padamanjari ----------- तपस्तपः कर्मकस्यैव॥'क्रियाभेदाद्विध्यर्थमिदम्' इति वक्ष्यति। कथं तर्ह्येवकारस्यान्वय इत्याशङ्क्य वाक्यभेदेन व्याचष्टे - तप सन्तापे, अस्य कर्ता कर्मवद्भवति, स च तपः कर्मकस्यैवेति। एवकारस्य व्यवच्छेद्यं दर्शयति - नान्यकर्मकस्येति। एतच्च श्रुतस्यैवकारस्यान्वयो वक्तव्य इति मत्वोक्तम्, न पुनरस्य किञ्चित्प्रतोजनमस्ति। क्रियाभेदादिति। अत्यन्तभेदादित्यर्थः। नियमपक्षेऽपि क्रियाणां च भेदोऽपेक्षितः; तुल्यत्वस्य भेदाधिष्ठानत्वात्। क्रियाभेदमेव दर्शयति - उपवासादीनीति। दुः खयन्तीत्यर्थ इति।'सुखदुःख तत्क्रियायाम्' इति चुरादिपाठाण्णिच्। अनेन तापसस्य कर्मत्वे तपेर्दुः खनमर्थ इति दर्शितम्। अर्जयतीत्यर्थ इति। अनेनापि तापसस्य कर्तृत्वे तपेरर्जनमर्थ इति दर्शितम्। क्वचितु आर्जयतीति पाठः, तत्राङ्पूर्वस्य प्रयोगः। नन्वेमपि शरीरसन्तापलक्षणा क्रियाऽवस्थाद्वयोऽपि तुल्या, न हि शरीरसन्तापादन्यदर्जनं तापसस्य व्यापारः? तदसत्; वस्तुस्थित्या सतोऽपि शरीरसन्तापस्याशब्दार्थत्वात्, कथमन्यथा तपसः कर्मत्वम्! तस्मादर्जनमु निष्पादनम्, अलब्धस्य लाभः; दुःखं तु शरीरसन्ताप एवेति स्पष्ट एव क्रियाभेदः। विध्यर्थमेतदिति यदुक्तं तदेवोपसंहरति - पूर्वेणाप्राप्तः कर्मवद्भावो विधीयत इति। अतप्त तपस्तापस इति।'तपो' नुतापे चऽइति चिणः प्रतिषेधात्सिच्,'झलो झलि' इति लोपः॥ Nyaas ----- `तपः कर्मकस्यैव` इति। एवकारो विस्पष्टार्थः; व्यवच्छेदफलत्वात्, सर्ववाक्यानामित्येवं तदर्थस्य लब्धत्वात्। यदि ह्रतपःकर्मकस्यापि स्यात्, तपःकर्मग्रहणमनर्थकं स्यात्। `नान्यकर्मकस्य` इत्यवधारणेन यद्व्यवच्छिन्नं तद्दर्शयति। `क्रियाभेदात्` इति। क्रियाविसदृशत्वादित्यर्थः। पूर्वं हि क्रियासादृश्ये कर्मवद्भावो विहित इति वैसदृश्येन प्राप्नोति, अतो विध्यर्थमेतत्। अत एव कर्मस्थया क्रियया तुल्यत्वं न सम्भवतीति `कर्मणा तुल्यक्रियः` (3.1.87) इत्येतन्नानुवर्तते। `उपवासादीनि` इत्यादिना तमेव क्रियाभेदं दर्शयति। उपवासादिशब्देन तपः शब्दस्यार्थमाचष्टे। `दुःखयन्तीत्यर्थः` इत्यनेन तापसस्य कर्मावस्थायां तपेर्दुःखनमर्थ इति दर्शयति। `स्वर्गाय तपस्तप्यते` इति। तपःशब्दोऽत्र ज्ञानविषेय स्वर्गाद्यवाप्तिहेतौ वर्तते। `अर्जयीत्यर्थः`इत्यनेन तापसस्य कत्र्रवस्थायां तपिरर्जने वर्तत इति दर्शयति। निवर्तयतीत्यर्थ इति, न दुःखयतीति; तपसोऽचेतनत्वाद्दुःखासम्भवात्॥`उत्तपति सुवर्णम्` इत्यादौ सुवर्णकर्मकत्वात् तपेः कर्मवद्भावो न भवति॥ Prakriyasarvasvam ----------------- तपः कर्मकस्य तपेः कर्ता कर्मवत् स्यात् । तेन यक्तङादि । तप्यते तपस्तापसः । आर्जयतीत्यर्थः । एवं तप्येते तप्यन्ते इत्यादि । अस्यापि कर्मकर्तृत्वेन लुङि चिणभावात् अतप्त तपस्तापसः । शेषं कर्मवत् । एवं फलादिकर्मत्वे पचेर्वृक्षादिकर्तरि । कर्मवद्भाव एष्टव्यः फलौघान् पच्यते तरुः ॥ ६९० ॥ पच्यमानतयाधत्त इत्यर्थः । शेषं तपःकर्मकर्तापवदूह्यम् । अस्य तु चिण् वेति कौमुदी । अपाचि अपक्त वा फलौघांस्तरुः । Sutra Prayogas -------------- * **समतप्यत** (रघुवंशम्): `तपस्तपः कर्मकस्यैव` इति यङ्नियमात्। * **सुकृतं** (भट्टिकाव्यम्): `सुकर्म पाप` इत्यादिना क्विप् प्रत्ययः।