31083: हलः श्नः शानज्झौ ======================= **Padacheda:** हलः | S | 5 | 1 | श्नः | S | 6 | 1 | शानच् | S | 1 | 1 | हौ | S | 7 | 1 | Sutrartha --------- **हलन्तात् परस्य श्ना-प्रत्ययस्य हि-प्रत्यये परे शानच्-आदेशः भवति ।** परस्मैपदस्य मध्यमपुरुषैकवचनस्य 'सि' प्रत्ययस्य लोट्लकारस्य विषये **सेर्ह्यपिच्च** (3.4.87) इत्यनेन हि-आदेशः भवति । अस्मिन् हि-प्रत्यये परे हलन्तात् परस्य श्ना-प्रत्ययस्य शानच्-आदेशः भवति । यथा, मुष् (स्तेये) इति क्र्यादिगणस्य धातुः । अस्य लोट्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशम् सिद्ध्यति - मुष् + लोट् [**लोट् च** (3.3.162) इत्यनेन लोट्-लकारः] → मुष् + सिप् [**तिप्तस्झि..** (3.4.78) इत्यनेन मध्यमपुरुषैकवचनस्य विवक्षायाम् 'सिप्' प्रत्ययः] → मुष् + श्ना + सिप् [सार्वधातुके प्रत्यये परे **क्र्यादिभ्यः श्ना** (3.1.73) इति विकरणप्रत्ययः 'श्ना'] → मुष् + श्ना + हि [**सेर्ह्यपिच्च** (3.4.87) इत्यनेन सि-प्रत्ययस्य हि-आदेशः] → मुष् + शानच् + हि [**हलः श्नः शानज्झौ** (3.1.83) इति श्ना-प्रत्ययस्य शानच्-आदेशः] → मुष् + आन + हि [इत्संज्ञालोपः] → मुष् + आन [**अतो हेः** (6.4.105) इति अदन्तात् परस्य हि-प्रत्ययस्य लोपः] → मुषाण [**अट्कुप्वाङ्नुम्व्यवायेऽपि** (8.4.2) इति णत्वम्] ज्ञातव्यम् - **स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च** (3.1.82) इत्यनेन पाठितानाम् सौत्रधातूनाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - 'स्तन्भ्' धातोः लोट्-लकारस्य मध्यमपुरुषैकवचनम् 'स्तभान' इति भवति । अत्रापि प्रक्रिया उपरिनिर्दिष्टसमाना एव । Sutrartha (English) ------------------- The श्ना प्रत्यय following a हल् letter is converted to शानच् when followed by the 'हि' प्रत्यय. Vasu English Summary -------------------- The affix शानच् is the substitute of श्ना after a root ending with a consonant, when हि follows. Vasu English Translation ------------------------ The affix शानच् is the substitute of श्ना after a root ending with a consonant, when हि follows. The affix हि is the 2nd person singular of लोट् or the Imperative mood. Thus पुषाण 'do thou nourish', गृहाण 'do thou take', from roots पुष् and ग्रह which end with consonants. But we have क्रीणीहि 'do thou buy'; here there is no substitution of शानच्, because the root ends with a vowel. The repetition of श्ना in the *sutra* shows that शानच् is a mere substitute and not an independent affix. Bhashya ------- हलः श्नः शानज्झौ (700) (427श्नाविकरणस्य शानजादेशविधिशूत्रम्। 3.1.4 आ.15) (शानचि शकारप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थः शकारः?। (आक्षेपबाधकभाष्यम्) शित्सार्वधातुकम् इति सार्वधातुकसंज्ञा, सार्वधातुकमपिद् इति ङित्त्वम् क्ङितीति गुणप्रतिषेधो यथास्याद् - कुषाण पुषाणेति॥ (सिद्धान्तिसमाधानभाष्यम्) अत उत्तरं पठति - - (1865 शानचि शकारवैर्यथ्यवार्तिकम्॥ 1 ॥) - श्नाविकारस्य शित्करणानर्थक्यं स्थानिवत्त्वात्- (भाष्यम्) श्नाविकारस्य शित्करणमनर्थकम्। किं कारणम्। स्थानिवत्त्वात्। शितोयमादेशः स्थानिवद्भावात् शिद्भविष्यति॥ (1866 शानचि शकारस्य प्रयोजनवार्तिकम्॥ 2 ॥ ) - अर्थवत्तु ज्ञापकं सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य- (भाष्यम्) अर्थवत्तु श्नाविकारस्य शित्करणम्। कोर्थः?। ज्ञापनार्थः। किं ज्ञाप्यते?एतज् ज्ञापयत्याचार्यः - सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्तीति॥ (प्रयोजनप्रश्नभाष्यम्॥) किमेतस्य ज्ञापने प्रयोजनम्?। (1867 प्रयोजनवार्तिकम्॥ 3 ॥) - प्रयोजनं हि तातङोरपित्त्वम्- (भाष्यम्) हेः पित्त्वं न प्रतिषेध्यम्। पितोयमादेशः स्थानिवद्भावात्पित्स्यात्। सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्तीति नायं पिद्भविष्यति॥ तातङि च ङकारो नोच्चार्यो भवति। पितोयमादेशः स्थानिवद्भावात्पित् स्यात्। सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्तीति नायं पिद्भविष्यति॥ (1868 प्रयोजनवार्तिकम्॥ 4 ॥) - तबादिषुचाङित्त्वम्- (भाष्यम्) तबादिषु च ङित्त्वं न प्रतिषेध्यम्। शृणोत ग्रावाणः। ङित इमे आदेशा स्थानिवद्भावद्भवन्तीति नेमे ङितो भविष्यन्ति॥ (1869 ज्ञापनदूषणवार्तिकम्॥ 5 ॥) - तस्य दोषो मिप आदेशे पिदभावः- (भाष्यम्) तस्यैतस्य लक्षणस्य दोषो मिप आदेशे पितोऽभावः। आचिनवमकरवम्। पितोयमादेशः स्थानिवद्भावात् पिद्भवति। सार्वधातुकादेशे अनुबन्धा न स्थानिवद्भवन्तीति। नायं पित्स्यात्॥ अत्यल्पमिदमुच्यते - मिप आदेशः इति। तिप्सिम्मिपामादेशा इति वक्तव्यम्। वेद वेत्थ॥ (1870 दूषणवार्तिकम्॥ 6 ॥) - कित्करणाद्वा सिद्धम्- (भाष्यम्) अथ वा अवश्यमत्र सामान्यग्रहणाविघातार्थः ककारोनुबन्धः क्व सामान्यग्रहणाविघातार्थेनार्थः?। वसोः संप्रसारणम् इति। तेनैव यत्नेन गुणो न भविष्यति॥ अस्य ज्ञापकस्य सन्ति दोषाः, सन्ति च प्रयोजनानि॥ समादोषा भूयांसो वा। तस्मान्नार्थोनेन ज्ञापकेन। (आक्षेपभाष्यम्) कथं यानि प्रयोजनानि। (समाधानभाष्यम्) तानि क्रियन्ते न्यास एव॥ (आक्षेपभाष्यम्) एवमपि भवेत् पित्करणसार्मथ्यात् पित्कृतं स्यात् ङित्करणसार्मथ्याद् ङित्कृतम्। यत्तु खलु पिति ङित्कृतं प्राप्नोति ङिति च पित्कृतम्। केन तन्न स्यात्। तस्माद्वक्तव्यं पिन्न ङिद्भवति ङिच्च पिन्न भवतीति। (समाधानभाष्यम्) न वक्तव्यम्। एवं वक्ष्यामि - सार्वधातुकं ङिद्भवति, पिन्न एवं तावत्पितो ङित्त्वं प्रतिषिद्धम्। ततः - -असंयोगाल्लिट् किद्भवति ङिच्च पिन्न भवतीति। एवं ङितः पित्त्वं प्रतिषिद्धम्॥ हलः श्रः॥ 83 ॥ Kashika ------- हल उत्तरस्य श्नाप्रत्ययस्य शानजादेशो भवति हौ परतः। मुषाण। पुषाण। हल इति किम्? क्रीणीहि। हाविति किम्? मुष्णाति। श्न इति स्थानिनिर्देश आदेशसंप्रत्ययार्थः। इतरथा हि प्रत्ययान्तरमेव सर्वविषयं विज्ञायेत॥ Siddhanta Kaumudi ----------------- हलः परस्य श्नः शानजादेशः स्याद्धौ परे । स्तभान । स्तुभान । स्कभान । स्कुभान । पक्षे स्तभ्नुहीत्यादि ।{$ {!1479 युञ्!} बन्धने $}। युनाति । युनीते । योता ।{$ {!1480 क्नूञ्!} शब्दे $}। क्नूनाति । क्नूनीते । क्नविता ।{$ {!1481 द्रूञ्!} हिंसायाम्$} । द्रूणाति । द्रूणीते ।{$ {!1482 पूञ्!} पवने$} ॥ Laghu Siddhanta Kaumudi ----------------------- हलः परस्य श्नः शानजादेशः स्याद्धौ परे। स्तभान॥ Balamanorama ------------ **हलः श्नः शानज्झौ** - स्तभानेति श्नाप्रत्ययस्य शानजादेसे कृते 'अतो हे' रिति लुक् । Tattvabodhini ------------- **हलः श्नः शानज्झौ** - हलः श्नः । स्तभानेति ।अतो हे॑ रित्यारम्भसामर्थ्यात्संनिपातपरिभाषाया अप्रवृत्तेर्लुक् । अत एवजही॑त्यत्र हिलोपवारणायेयं परिभाषा नोपन्यस्तेत्याहुः । यत्तु कैश्चिच्छानजादेशो धातुपाठपठितेभ्यः परस्य श्नो भवति न तु सोत्रेभ्य इति व्याख्या स्तभ्नीहीत्युदाहृतं तन्निष्प्रमाणं, माधवादिग्रन्थविरुद्धं च । Padamanjari ----------- हलः श्रः शानज्झौ॥ पुषाण्, मुषाणेति। लोट्, सिप्, तस्य हिः, र्ठ्क्यादिभ्यः श्नाऽ,तस्य शानच्। चकारः स्वरार्थः। अत्र सन्निपातपरिभाषया अनित्यत्वाद् ठतो हेःऽ इति हेर्लुक्। ननु च श्नाप्रत्ययस्य प्रकृतत्वातस्यैव शानजादेशो भविष्यति, नार्थः श्न इति स्थानिनिर्द्देशेनात आह - श्र इति स्थानीत्यादि। आदेश इत्येष संप्रत्ययः - अवगमो यथा स्यादित्येवमर्थः। असति तु तस्मिन् किं स्यादित्याह - प्रत्ययान्तरमिति। अस्तु प्रत्ययान्तरम्, र्ठ्क्यादिभ्यःऽ इत्यनुवृतेस्तेभ्य एव हलन्तेभ्यो भविष्यतीति न कश्चिद्दोष इत्यत आह - सर्वविषयमिति। अर्क्यादिविषयमपीत्यर्थः। र्क्याद्यनुवृत्तिर्दुर्ज्ञानेति मन्यते। शानचः शित्करणञ्चिन्त्यप्रयोजनम्; स्थानिवद्भावेनैव सिद्धेः। इह'ञिमिदा स्नेहने' दिवादिः, व्यत्ययेन च्छन्दसि श्ना, तस्य शानजादेशः, मिदान।'मिदेर्गुणः' इति प्रतिषेधविषये विधीयमानो गुणो न भवति, पुनः शित्करणेन'सार्वधातुकमपित्' इत्यस्यापि पुनः प्रवृतेरिति केचित्। नेति वयम्; यथैव व्यत्ययेन श्ना भवति, एवं गुणविषये इकारो भविष्यति॥ Prakriyasarvasvam ----------------- हला परस्य श्नाप्रत्ययस्य हौ परे शानजादेशः स्यात् । 'अतो हेः' (६-४-१०५) गृहाण । लुङि हान्तत्वान्न वृद्धिः । अग्रहीत् । 'ग्रहोऽलिटि-' (७-२-३७) इति इटो दीर्घः । अग्रहीष्टाम् । अग्रहीषुः । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीढ्वम्, अग्रहीध्वम् । अग्रहीषि । लिटि जग्राह जगृहतुः । जग्रहिथ । जगृहथुः । जगृहिव । जगृहे । जगृहिषे । जगृहिढ्वे, जगृहिध्वे । गृह्यात् । ग्रहीषीष्ट । ग्रहीषीढ्वम्, ग्रहीषीध्वम् । ग्रहीता । ग्रहीष्यति । ग्रहीष्यते । कर्मणि चिण्वदिटो दीर्घो न । अन्यत्र तु दीर्घः । अग्राहि अग्राहिषाताम्, अग्रहीषाताम् । ग्राहिषीष्ट, ग्रहीषीष्ट । ग्राहिता, ग्रहीता । ग्राहिष्यते, ग्रहीष्यते । जा अवबोधने । 'अनुपसर्गाज्ज्ञः' (१-३-७६) इति वा तङ् । Sutra Prayogas -------------- * **मुषाण** (शिशुपालवधम्): `हलः श्नः शानज्झौ` इति श्नः शानजादेशः। * **अशान** (भट्टिकाव्यम्): `सर्वत्र हलः श्नः शानज्झौ` इति शानच्।