31079: तनादिकृञ्भ्य उः ====================== **Padacheda:** तनादि-कृञ्-भ्यः | S | 5 | 3 | उः | S | 1 | 1 | Sutrartha --------- **सार्वधातुके कर्तरि प्रत्यये परे तनादिगणस्य धातोः परः उ-प्रत्ययः विधीयते ।** किम् नाम सार्वधातुकप्रत्ययः? **तिङ्शित्सार्वधातुकम्** (3.4.113) इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? **लः कर्मणि च भावे च अकर्मकेभ्यः** (3.4.69) अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तनादिगणस्य धातुभ्यः 'उ' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । यथा - 1) तनादिगणस्य प्रथमः धातुः तनुँ (विस्तारे) । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - तन् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्-लकारः] → तन् + तिप् [**तिप्तस्झि...** (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → तन् उ ति [सार्वधातुके प्रत्यये परे **तनादिकृञ्भ्यः उः** (3.1.79) इति विकरणप्रत्ययः 'उ' ] → त नो ति [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] 2) डुकृञ् (करणे) -अयम् तनादिगणस्य धातुः । अस्मात् शतृ-प्रत्यये परे प्रक्रिया इयम् - कृ + शतृ [**लटः शतृशानचौ अप्रथमासमानाधिकरणे** (3.2.124) इत्यनेन शतृ-प्रत्ययः ।] → कृ + उ + अत् [सार्वधातुके प्रत्यये परे **तनादिकृञ्भ्यः उः** (3.1.79) इति विकरणप्रत्ययः 'उ' ] → कर् + उ + अत् [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → कुर् उ अत् [**अत उत् सार्वधातुके** (6.4.100) इति अकारस्य उकारः] → कुर्वत् [**इको यणचि** इत्यनेन यणादेशः] 'उ' गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा - 1. पित्-प्रत्ययेषु परेषु **सार्वधातुकार्धधातुकयोः** (7.3.84) इति उकारस्य गुणादेशः ओकारः जायते । यथा - तन् + उ + ति → तनोति । तन् + उ + आनि → तन् + ओ + आनि = तनवानि । 2. वकारादि-प्रत्यये परे मकारादि प्रत्यये परे च उ-इत्यस्य उकारस्य **लोपश्चास्यान्यतरस्याम् म्वोः** (6.4.107) इत्यनेन वैकल्पिकः लोपः भवति । यथा - तन् + उ + वः → तन्वः, तनुवः । ज्ञातव्यम् - **कर्तरि शप्** (3.1.68) इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तनादिगणस्य धातुभ्यः अस्य अपवादरूपेण उ-प्रत्ययः भवति । विशेषः - यद्यपि कृ-धातुः तनादिगणे एव अस्ति, तथापि अस्मिन् सूत्रे कृ-धातोः विशेषरूपेण ग्रहणम् कृतमस्ति । महाभाष्ये अस्मिन् विषये भाष्यकारः वदति - 'तनादित्वात् कृञः सिद्धम्' - इत्युक्ते - 'तनादि'ग्रहणेन कृ-ग्रहणम् भवत्येव, अस्य पुनः आवश्यकता नास्ति - इति । परन्तु सिद्धान्तकौमुद्याम् दीक्षितः 'गणकार्यस्य अनित्यत्वम् कृ-धातोः विषये मा भूत्' एतत् स्पष्टीकर्तुमत्र कृ-ग्रहणम् कृतमस्ति - इति वदति । Sutrartha (English) ------------------- A verb belonging to the तनादिगण gets the विकरणप्रत्यय 'उ' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग. Vasu English Summary -------------------- The affix उ comes after the roots of the तनादिगणः (8th Conjugation) and after the verb कृ 'to make', when a सार्वधातुक affix follows, signifying the agent. Vasu English Translation ------------------------ The affix उ comes after the roots of the तनादिगणः (8th Conjugation) and after the verb कृ 'to make', when a सार्वधातुक affix follows, signifying the agent. This debars शप्. As तन् + उ + ति = तनोति 'he expands'; कृ + उ + ति = करोति 'he makes'. Though the root कृ is included in the list of the *Tanadi*verbs, for which see *Dhatupatha*, yet its separate enunciation in the present *sutra* is for the sake of making a restrictive rule with regard to this verb; that is to say, the root कृ is a *Tanadi*root only for the purposes of taking the affix उ; all the other operations of *Tanadi*verbs are not to be performed upon it. Thus the rule (II.4.79.) does not apply to कृ. Thus अकृत and अकृत्याः; the सिच् elision being compulsory and not optional. Bhashya ------- तनादिकृञ्ञ्भ्य उः (696) (425 तनादिगणे उविकरणविधिसूत्रम्॥ 3.1.4 आ. 13) (कृञ्ञ्ग्रहणप्रत्याख्यानाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं करोतेः पृथग्ग्रहणं क्रियते, न तनादिभ्य इत्येवोच्येत?। (समाधानभाष्यम्) अन्यानि तनोत्यादिकार्याणि मा भूवन्निति। कानि?। अनुनासिकलोपादीनि। (समाधानबाधकभाष्यम्) दैवरक्ताः किंशुकाः। अनुनासिकाभावादेवानुनासिकलोपो न भविष्यति॥ (प्रयोजनान्तरभाष्यम्) इदं तर्हि तनादिकार्यं मा भूत् तनादिभ्यस्तथासोः इति॥ (प्रयोजनान्तरनिरासभाष्यम्) ननु च भवत्येवात्र हस्वादङ्गादि ति॥ (प्रयोजनान्तरसाधकभाष्यम्) तेनैव यथा स्याद्, अनेन मा भूदिति॥ (प्रयोजनान्तरबाधकभाष्यम्) कः पुनरत्र विशेषः - -तेन वा सति, अनेन वा?। (प्रयोजनान्तरसाधकभाष्यम्) तेन सति सिज्लोपस्यासिद्धत्वाच्चिण्वद्भावः सिद्धो भवति। अनेन पुनः सति चिण्वद्भवावो न स्यात्॥ (प्रयोजनान्तरबाधकभाष्यम्) अनेनापि सति सिद्धश्चिण्वद्भावः। कथम्?। विभाषा लुक्। यदा न लुक्, सिज्लोपः। तत्र सिज्लोपस्यासिद्धत्वाच्चिण्वद्भावो वा भविष्यति॥ तनादित्वात्कृञ्ञः सिद्धं, सिज्लोपे च न दुष्यति। चिण्वद्भावे न दोषः स्यात्, सोपि प्रोक्तो विभाषया॥ तनादिकृञ्ञ्भ्यः॥ 79 ॥ Kashika ------- **तनु विस्तारे** इत्येवमादिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपोऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि — करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत् तनादिकार्यं मा भूदिति। **तनादिभ्यस्तथासोः** (२.४.७९) इति विभाषा सिचो लुङ् न भवति। अकृत । अकृथाः॥ Siddhanta Kaumudi ----------------- तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥ Laghu Siddhanta Kaumudi ----------------------- तनादेः कृञश्च उः प्रत्ययः स्यात्। शपोऽपवादः। गुणौ। विदाङ्करोतु॥ Balamanorama ------------ **तनादिकृञ्भ्य उः** - तनादिकृञ्भ्यः उः । शपोऽपवाद इति । अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् ।सार्वधातुके य॑गित्यतः सारवधातुकग्रहणस्यकर्तरि श॑बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्याऽनित्यतया 'आसे' दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः । वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्विआसेदित्यसंबद्धमेवेत्याहुः ।विआस्त॑मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः । विदांकरोत्विति । अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः ।तत्र लोटस्तिपि 'एरु' रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते — Tattvabodhini ------------- **तनादिकृञ्भ्य उः** - तेनेतिविआसे॑दित्यत्र शपो लुगभावः सिद्ध इति भावः । एवमप्यविआस्तमित्यत्रेडभावः कथमिति चेदागमशास्त्रस्याऽनित्यत्वादिति गृहाण । Padamanjari ----------- तनादिकृञ्भ्य उः॥ तनीतीत्यादि।'तनु विस्तारे' 'षणु दाने' 'क्षणु हिसायाम्' । अन्यतनादिकार्यमिति। तनादिकार्यापेक्षो नियम इत्यर्थः। व्यावर्त्यदर्शयति - तनादिभ्यस्तथासोरिति विभाषा सिचो लुग् न भवतीति। नन्वस्तु लुग्विकल्पः, तदभावे'ह्रस्वादङ्गात्' इति लोपो भविष्यति, न च विकल्पेन बाधः, विकल्पं प्रति नित्यस्यासिद्धत्वात्; न च तनादिपाठसमार्थ्यादपदावो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधाद्विकल्पेन नित्यस्य वाधः,तनादिपाठस्य विकरणविधौ चरितार्थत्वात्; विकल्पोऽप्यततः अतथा इत्यादौ चरितार्थः; प्रत्युत क्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्यानन्यार्थत्वाद्येननाप्राप्तिन्यायेन विकल्पो नित्यविधिं बाधेत? इदं हि कृञ्ग्रहणविधौ तनादिषु पाठश्चरितार्थो मा विज्ञायीत्येवमर्थमेव स्यादिति कृञ्ग्रहणप्रत्याख्यानमेव न्याय्यं मन्यामहे॥ Prakriyasarvasvam ----------------- तनादिभ्यः कृञश्च शब्बाधक उः स्यात् । कृञ ओश्च गुणः । लोट्कार्यम् । विदाङ्करोतु । Sutra Prayogas -------------- * **तनूजं** (रघुवंशम्): `तन्वादेर्वा` इत्यूङिति केचित्। * **मन्वानो** (भट्टिकाव्यम्): `तनादिकृन्भ्य उः` इति मनु अवबोधने इत्यस्मादात्मनेपदिन उः ।