31064: न रुधः
=============
**Padacheda:** न | S | 0 | 0 |
रुधः | S | 5 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
चिण् is not the substitute of च्लि after the verb रुध् 'to obstruct' when used in the reflexive sense in the 3rd Person Singular of आत्मनेपद ।
Vasu English Translation
------------------------
चिण् is not the substitute of च्लि after the verb रुध् 'to obstruct' when used in the reflexive sense in the 3rd Person Singular of आत्मनेपद ।
Thus अन्ववारुद्ध गौ स्वयमेव 'the cow was obstructed of itself'. In verbs other than reflexive, चिण् is employed, e. g. अन्ववारोधि गौर्गोपालकेन.
Kashika
-------
**रुधिर् आवरणे** अस्मात् परस्य च्लेः कर्मकर्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयमेव। कर्मकर्तरीत्येव — अन्ववारोधि गौर्गोपालकेन ॥
Siddhanta Kaumudi
-----------------
अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥
Balamanorama
------------
**न रुधः** - न रुधः । अस्माच्चेश्चिण्नेति । अवारुद्ध गौरिति ।स्वयमेवे॑ति शेषः । कर्मकर्तरीत्येवेति ।अचः कर्मकर्तरी॑त्यतस्तदनुवृत्तेरिति भावः । अवारोधि गौर्गोपेनेति । इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः ।
Tattvabodhini
-------------
**न रुधः** - न रुधः ।चिण् ते पदः॑ इत्यतश्चिणनुवर्तते ।अचः कर्मकर्तरीत्येवेति ।
Padamanjari
-----------
न रुधः॥ रुधिर आवरणे इति। ठनो रुध कामेऽ इत्यस्य तु ग्रहणं न भवति, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात्॥
Nyaas
-----
कर्मवदित्यतिदेशे प्राप्तस्य चिणोऽयं प्रतिषेधः। `अरुद्ध` इति। **झलो झलि** (8.2.26) इति सिचो लोपः; तस्यासिद्धत्वाल्लघूपधगुणः प्राप्तः `लिङसिचावात्मनेपदेषु` (1.2.11) इति कित्त्वान्न भवति। पूर्ववद्धत्वजश्त्वे॥
Prakriyasarvasvam
-----------------
अस्य कर्मकर्तरि चिण् न । अरुद्ध गौः स्वयमेव । शृङ्गारे तूक्तम् । कर्मण्येव चिणा सिध्येदरोधि स्वयमित्यपि । स्वेनारोधीतिवत् स्याद्धि स्वयमित्यस्य कर्तृता ॥ ७१८ ॥ स्वयंशाब्दप्रयोगोऽतः कर्मकर्तृषु शोभनः । अरुद्ध गौरित्येतावत् प्रयोगे सूत्रमर्थवत् ॥ ७१९ ॥ तृह हिंसायाम् । तृनह्, ति ।
Sutra Prayogas
--------------
* **समरुद्धेव** (भट्टिकाव्यम्): `न रुधः` इति निषेधः।