31058: जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ========================================================== **Padacheda:** जॄ-स्तन्भु-म्रुचु-म्लुचु-ग्रुचु-ग्लुचु-ग्लुञ्चु-श्विभ्यः | S | 5 | 3 | च | S | 0 | 0 | Sutrartha --------- **जॄ, स्तन्भ् , म्रुच्, म्लुच्, ग्रुच्, ग्लुच्, ग्लुञ्च्, टुओश्वि - एतेभ्यः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः भवति ।** लुङ्लकारस्य विषये धातोः **च्लि लुङि** (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य **च्लेः सिच्** (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु अनेन केभ्यश्चन धातुभ्यः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः अपि भवति । पक्षे तु **च्लेः सिच्** (3.1.44) इति 'सिच्' भवत्येव । एते धातवः तथा एतेषां प्रक्रियाः अधः दत्ताः सन्ति । 1. जॄ (वयोहानौ) जॄ + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → जॄ + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → जॄ + अङ् + ल् [**जृस्तम्भु...** (3.1.58) इति च्लि-इत्यस्य अङ्-आदेशः] → जर् + अङ् + ल् [**ऋदृशोऽङि गुणः** (7.4.16) इति ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → अट् + जर् + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + जर् + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + जर् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अजरत् 2. स्तन्भ् - अयम् धातुः धातुपाठे नास्ति, केवलं सूत्रे पाठ्यते, अतः अयम् 'सौत्र' धातुः अस्ति । स्तन्भ् + लुङ् [**लुङ्** (3.2.110) इति लुङ् । ] → स्तन्भ् + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → स्तम्भ् + अङ् + ल् [**जृस्तम्भु...** (3.1.58) इति च्लि-इत्यस्य अङ्-आदेशः] → स्तभ् + अङ् + ल् [**अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इति नकारलोपः] → अट् + स्तभ् + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + स्तभ् + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + स्तभ् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अस्तभत् । 3. म्रुच् (गतौ), म्लुच् (गतौ), ग्रुच् (स्तेयकरणे), ग्लुच् (स्तेयकरणे) म्रुच् + लुङ् [**लुङ्** (3.2.110) इति लुङ् । ] → म्रुच् + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → म्रुच् + अङ् + ल् [**जृस्तम्भु...** (3.1.58) इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + म्रुच् + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + म्रुच् + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + म्रुच् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अम्रुचत् । अनेनैव प्रकारेण अम्लुचत्, अग्रुचत्, अग्लुचत् - आदीनि रूपाणि अपि सिद्ध्यन्ति । 4. ग्लुञ्च् (गतौ) ग्लुन्च् + लुङ् [**लुङ्** (3.2.110) इति लुङ् । धातौ यद्यपि ञकारः दृश्यते तथापि अयम् ञकारः नकारात् त्रिपाद्याः सूत्रैः निर्मितः अस्ति । अतः प्रक्रियायामादौ तु नकारस्यैव श्रवणं भवति ।] → ग्लुन्च् + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → ग्लुन्च् + अङ् + ल् [**जृस्तम्भु...** (3.1.58) इति च्लि-इत्यस्य अङ्-आदेशः] → ग्लुच् + अङ् + ल् [**अनिदितां हलः उपधायाः क्ङिति** (6.4.24) इति नकारलोपः] → अट् + ग्लुच् + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + ग्लुच् + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + ग्लुच् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अग्लुचत् । 4. टुओश्वि (गतिवृद्ध्योः) श्वि + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → श्वि + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → श्वि + अङ् + ल् [**विभाषा धेट्श्व्योः** (3.1.48) इति वैकल्पिकः चङ्-प्रत्ययः] → श्व + अ + ल् [**श्वयतेरः** (7.4.18) इति इकारस्य अकारादेशः] → अट् + श्व + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + श्व + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + श्व + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अश्वत् [**अतो गुणे** (6.1.97) इति पररूप-एकादेशः] ज्ञातव्यम् - 'टुओश्वि' धातोः **विभाषा धेट्श्व्योः** (3.1.49) इत्यनेन विकल्पेन चङ्-आदेशः अपि भवति । Sutrartha (English) ------------------- For the verbs जॄ, स्तन्भ्, म्रुच्, म्लुच्, ग्रुच्, ग्लुच्, ग्लुञ्च्, टुओश्वि - the च्लि-प्रत्यय is optionally converted to अङ्. Vasu English Summary -------------------- And, optionally अङ् is the substitute of च्लि after the verbs जॄ 'to stiffen', स्रुच् & स्लुच् 'to go', मुच् & ग्लुच् 'to steal', ग्लुञ्च् 'to go' and श्वि 'to grow' when the terminations of the परस्मैपद are used. Vasu English Translation ------------------------ And, optionally अङ् is the substitute of च्लि after the verbs जॄ 'to stiffen', स्रुच् & स्लुच् 'to go', मुच् & ग्लुच् 'to steal', ग्लुञ्च् 'to go' and श्वि 'to grow' when the terminations of the परस्मैपद are used. Thus अजरत् or अजारीत् 'he grew old'; अस्तम्भत् or अस्तम्भीत् 'he stiffened'; अम्रुचत् or अम्रोचीत् 'he went'; अम्लुचत् or अम्लोचीत् 'he went'; अग्रुचत् or अग्रोचीत् 'he stole'; अग्लुचत् or अग्लोचीत् 'he stole'; अग्लुञ्चत् or अग्लुञ्चीत् 'he went'; अश्वत्, भरवयीत, अश्वयीत् or अशिश्वियत् 'he grew'. The roots ग्लुच् and ग्लुञ्च् both give rise to the same three forms, viz. अग्लुचत्, अग्लुञ्चत् and अग्लञ्चोत्. The use of one root would, therefore, have served this purpose. The employment of both indicates separateness of their meanings. Others say that the use of both roots indicates that in the case of ग्लुञ्च, the nasal is never elided. Thus the Aorist of ग्लुञ्च will be अग्लुञ्चत् and अग्लुञ्चीत्. Bhashya ------- जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्ञ्चुश्विभ्यश्च (675) (419 च्लेरङादेशविधिसूत्रम्॥ 3.1.4 आ. 7) (सूत्रपाठविचारभाष्यम्) इदं ग्लुचिग्रहणं ग्लुञ्ञ्चिग्रहणं च क्रियते। अन्यतरच्छक्यमकर्तुम्। यदि तावद्ग्लुचिग्रहणं क्रियते। ग्लुञ्ञ्चिग्रहणं न करिष्यते। तेनैव सिद्धं न्यग्लुचद् न्यग्लोचीत्। इदमिदानीं ग्लुञ्ञ्चेरूपं न्यग्लुञ्ञ्चीत्॥ अथ ग्लुञ्ञ्चिग्रहणं क्रियते ग्लुचिग्रहणं न करिष्यते तेनैव सिद्धं न्यग्लुचद् न्यग्लुञ्ञ्चीत्। इदमिदानीं ग्लुचेरूपं न्यग्लोचीदिति॥ जॄस्तम्भुदृ॥ 58॥ Kashika ------- वेति वर्तते। **जृष् वयोहानौ**, स्तम्भुः सौत्रो धातुः, **म्रुचु म्लुचु गत्यर्थौ**, **ग्रुचु ग्लुचु स्तेयकरणे**,**ग्लुञ्चु षस्ज गतौ**, **टुओश्वि गतिवृद्ध्योः** एतेभ्यो धातुभ्यः परस्य च्लेर्वाङादेशो भवति। अजरत्, अजारीत्। अस्तभत् अस्तम्भीत्। अम्रुचत्, अम्रोचीत्। अम्लुचत् अम्लोचीत्। अग्रुचत् अग्रोचीत्। अग्लुचत् , अग्लोचीत्। अग्लुचत्, अग्लुञ्चीत्। अश्वत्, अश्वयीत्, अशिश्वियत्। ग्लुचुग्लुञ्च्वोरन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यत्यर्थभेदात् तु द्वयोरुपादानं कृतम्। केचित् तु वर्णयन्ति — द्वयोरुपादानसामर्थ्याद् ग्लुञ्चेरनुनासिकलोपो न भवति, अग्लुञ्चदिति॥ Siddhanta Kaumudi ----------------- एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् ।{$ {!197 ग्रुचु!} {!198 ग्लुचु!} {!199 कुजु!} {!200 खुजु!} स्तेयकरणे$} । जुग्रोच । अग्रुचत् । अग्रोचत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् ।{$ {!201 ग्लुञ्चु!} {!202 षस्ज!} गतौ$} । अङ् । अग्लुचत् । अग्लुञ्चीत् । सस्य श्रुत्वेन शः, जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते(कुजि){$ {!203 गुजि!} अव्यक्ते शब्दे$} । गुञ्चति । गुञ्ज्यात् ।{$ {!204 अर्च!} पूजायाम्$} । आनर्च ।{$ {!205 म्लेच्छ!} अव्यक्ते शब्दे$} । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ ।{$ {!206 लच्छ!} {!207 लाच्छि!} लक्षणे$} । ललच्छ । ललाञ्छ ।{$ {!208 वाच्छि!} इच्छायाम्$} । वाञ्छति ।{$ {!209 आच्छि!} आयामे$} । आञ्छति । अत आदेः - (SK1248) इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ ।{$ {!210 ह्रीच्छ!} लज्जायाम्$} । जिह्रीच्छ ।{$ {!211 हुर्च्छा!} कौटिल्ये$} । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां च (SK2265) इति दार्घः । हूर्छति ।{$ {!212 मुर्च्छा!} मोहसमुच्छ्राययोः$} । मूर्छति ।{$ {!213 स्फुर्च्छा!} विस्तृतौ$} । स्फूर्च्छति ।{$ {!214 युच्छ!} प्रमादे$} । युच्छति ।{$ {!215 उच्छि!} उञ्छे$} । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार ।{$ {!216 उच्छी!} विवासे$} । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति ।{$ {!217 ध्रज!} {!218 ध्रजि!} {!219 धृज!} {!220 धृजि!} {!221 ध्वज!} {!222 ध्वजि!} गतौ$} । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति ।{$ {!223 कूज!} अव्यक्ते शब्दे $}। चुकूज ।{$ {!224 अर्ज!} {!225 षर्ज!} अर्जने$} । अर्जति आनर्ज । सर्जति । ससर्ज ।{$ {!226 गर्ज!} शब्दे$} । गर्जति ।{$ {!227 तर्ज!} भर्त्सने$} । तर्जति ।{$ {!228 कर्ज!} व्यथने$} । चकर्ज ।{$ {!229 खर्ज!} पूजने च$} । चखर्ज ।{$ {!230 अज!} गतिक्षेपणयोः$} । अजति ॥ Laghu Siddhanta Kaumudi ----------------------- च्लेरङ् वा स्यात्॥ Balamanorama ------------ **जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च** - जृस्तन्भु ।च्लेऋः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिभ्यः॑ इत्यतोऽङिति,इरितो वेत्यतो वेति चानुवर्तते । तदाह — एभ्यश्च्लेरङ् वेति ।जृष् वयोहानौ॑,स्तम्भुः॑सौत्रो धातुः,म्रचुम्लुचू गत्यर्थौ॒॑ग्रुचु ग्लुचु स्तेयकरणे॑,ग्लुञ्चु गतौ, — इत्येतेभ्य इत्यर्थः । अम्रुचदिति । च्लेरङि सति ङित्त्वान्न लघूपधगुणः । अम्रोचीदिति । अङभावेइट ईटी॑ति सिज्लोपः । ग्रुचु ग्लुचु इति ।जृस्तन्भु॑इत्यङ् वेत्याह — अग्रुचत् अग्रोचीदिति । आद्यस्य रूपे । अथ द्वितीयस्य अङ्विकल्पमुदाहरति — अग्लुचत् अग्लोचीदिति । अङि सति ङित्त्वान्न लघूपधगुणः । अङभावे सिज्लोपः । ग्लुञ्चु षस्जेति । आद्यो नोपधः, द्वितीयस्तु षोपदेशः, अच्परकसादित्वात् । त्तर आद्यस्य लुङि विशेषमाह — अङ्वेति ।जृस्तम्भ्वित्येनेने॑ति शेषः । ग्लुचुग्लुञ्च्वोः पृथग्ग्रहणसामर्थ्यान्नलोपो नेति वृत्तिकृतम् । ग्लुञ्च्यात् । सस्येति । धात्वादेः षस्य सत्वे सस्ज् स्थिते, द्वितीयस्य सकारस्य श्चुत्वेन शकार इत्यर्थः । तस्येति । शकारस्यझलां जश् झशी॑ति जकार इत्यर्थः । गुजीति । इदित्त्वादाशीर्लिङि नलोपो नेत्याह — लच्छतीति रूपम् । ललच्छ ललच्छतुः । आछीति । लिटि णलि द्वित्वे हलादिशेषे अभ्यासह्रस्वे अ आञ्छ् अ इति स्थितेअत आदे॑रिति दीर्घं,तस्मान्नुड्द्विहल॑ इति च नुटमाशङ्क्याह — अत आदेरिति । तत्र हि दीर्घस्याकारस्य दीर्घविधौ प्रयोजनाऽभावादेव ह्रस्वाकारस्य दीर्घैति सिद्धावत इति तपरकरणं स्वाभवाकिस्यैव ह्रस्वाकारस्य परिग्रहार्थमित्यर्थः । ततः किमित्यत आह — तेनेति ।अत आदे॑रिति दीर्घविधौ स्वाभाविकह्रस्वाकारस्यैव ग्रहणेन,अत आदे॑रिति दीर्घस्याऽभावान्न नुडित्यर्थः । आञ्छेति । द्वित्वे हलादिशेषेऽभ्यासह्रस्वे सवर्णदीर्घ इति भावः । मुखसुखार्थमिति । तथा च ह्रस्वस्थानिकदीर्घाकारादपि परसय् नुड् भवत्येवेति भावः ।ह्यीछ लज्जाया॑मित्यादि स्पष्टम् । युछ प्रमाद इति । यकारादिरुदुपधोऽयम् । युच्छतीति । अन्तरङ्गत्वात्छे चे॑ति तुकि लघूपधत्वाऽभावान्न गुणः । उञ्छांचकारेति । नुमि कृते 'संयोगे गुरु' इत्युकारस्य गुरुत्वात्इजादेश्चे॑त्यामिति भावः । धृजेति । आद्यौ ऋदुपधौ । इतरे चत्वारोऽदुपधाः । द्वितीयचतुर्थषष्ठा इदितः । धर्जतीति । शपि लघूपधगुणः । रपरत्वम् । दधर्ज दधृजतुः । धृज्यात् । अधर्जीत् । धृञ्जतीति । इदित्त्वान्नुम् । दधृञ्ज । इदित्त्वान्नलोपो न । धृञ्ज्यात् । अधृञ्जीत् । ध्रजतीति । णलि — दध्राज दध्रजतुः । अध्राजीत् — अध्रजीत् । ध्रञ्जतीति । अदुपधोऽयम् । दध्रञ्ज । इदित्त्वान्नलोपो न — दध्रञ्जतुः । ध्वजतीति । दध्वाज । ध्वञ्जतीति । दध्वञ्ज । कूज अव्यक्त इति । स्पष्टम् । सर्जतीत्यत्र षोपदेशत्वात्षत्वम् । अज गतीति । लटि अजतीत्यादि सिद्धवत्कृत्य लिटि विशेषमाह — अजेव्र्यघञपोः ।वी॑ति दीर्घान्तं लुप्तप्रथमाकम् । 'आर्धधातुके' इत्यधिकृतं । विषयसप्तम्येषा, नतु परसप्तमी, व्याख्यानात् । तदाह — आर्धधातुकविषय इत्यादि । अजेरिति इका निर्देशः । अजधातोरित्यर्थः । आर्धधातुक इति परसप्तम्याश्रयणेतु वेवीयत इति न स्यात्, वीभावात्प्रागजादित्वाद्यङसंभवात् । विषयसप्तम्याश्रयणे तु यङि विवक्षिते वीभावे सति हलादित्वाद्यङ् निर्बाधः । अघञपोः किम् । घञि समाजः । 'समुदोरजः पशुषु' इत्यपि समजः । अत्रअघञपोरिति न वक्तव्यं ।वा लिटी॑त्यतो वेत्यनुवर्तते । व्यवस्थितविभाषेयं । घञि अपि च न भवति । ल्युटि वलादावार्धधातुके च विकल्पः । अन्यत्र तु आर्धधातुके नित्य॑मिति भाष्यकयटयोः स्थितं । तदाह — वलादावार्धधातुके वेष्यत इति । उक्तव्यवस्थितविभाषोपलक्षणमिदं । विवायेति । लिटो णलि विवक्षिते वीभावे सति णलि द्वित्वेऽभ्यासह्रस्वे 'अचो ञ्णिति' इति व#ऋद्धावायादेश इति भावः । विव्यतुरिति । वीभावे सति अतुसि द्वित्वेऽभ्यासह्रस्वेअसंयोगा॑दिति कित्त्वाद्गुणाऽभावे इयङपवादे 'एरनेकाचः' इति यणि रूपम् । एवमुसि विव्युरिति रूपं । ननु विव्यतुः विव्युरित्यत्र द्वितीयवकारस्य यकारात्मकहल्परकत्वात्उपधायां चे॑तीकारस्य दीर्घः स्यादित्याशह्क्य ईकारस्थानिकस्य यकारस्यअचः परस्मि॑न्नति स्थानिवत्त्वेन द्वितीयवकारस्य हल्परकत्वाऽभावात्तस्मिन्वकारे परे इकारस्य न दीर्घ इति परिहरति — अत्र वकारस्येत्यादि अच्पर[क]त्वमित्यन्तम् । ननु दीर्घविधौन पदान्ते॑ति निषेधात्कथमिह यकारस्य स्थानिवत्तवमित्याशङ्क्य निराकरोति — न च न पदान्तेति निषेध इति । 'शङ्क्य' इति शेषः । कुत इत्यत आह-स्वरदीर्घेति । इत्युक्तेरिति ।वार्तिककृते॑ति शेषः । थलि एकाचेति । अजधातोरनुदात्तोपदेशानन्तर्भावेऽपिवी॑ति तदादेशोऽनुदात्तः, अजन्तेषु ऊदृदन्तादिचतुर्दशभिन्नधातूनामनुदात्तत्वाभ्युपगमादिति भावः । Tattvabodhini ------------- **जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च** - जृस्तन्भु । स्तन्भुः सौत्रः । अजरत् । अजारीत् । अस्तभत् । अस्तम्भीत् । अआत् । अआताम् । अआन् । अआयीत् ।विभाषा धेट्श्व्यो॑रिति चङि — अशिइआयत् । अर्च पूजायाम् । अयं युजादौ स्वरितेत् । इह पाठस्तु कर्तृगेऽपि फले परस्मैपदार्थः । दीर्घाऽभावादिति । स्वाभाविकह्रस्वस्थानिकदीर्घाऽभावादित्यर्थः । मुखसुखार्थमिति.कृतह्रस्वस्थानिकदीर्घाकारात्परस्यापि नुड्भवत्येवेति भावः । युछ प्रमादे । युच्छतीति । अन्तरङ्गत्वात्छे चे॑ति तुकि लघूपधत्वाऽभावान्न गुणः । न च वार्णादाङ्ग बलीय इति वाच्यम्, आङ्गवार्णयोर्युगपत्प्रवृत्तावेव आङ्गस्य बलीयस्त्वात् । न च युच्छेति चकारछकारावुच्चार्येतां किमनेन तुग्विधिनेति शङ्क्यं, बहुषु धातुरूपेषु चकारछकारयोरुच्चारणे गौरवात्,छे चे॑ त्यस्य शिवच्छायेत्यादावावश्यकत्वाच्च । Padamanjari ----------- जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च॥ अस्तम्भदिति। ठनिदिताम्ऽ इत्युपधालोपः। अन्यतरोपादानेऽपि रूपत्रयं सिद्ध्यतीति। कथम्? यदि तावद् ग्लुचिरुपादीयते तस्मादङसिचोः - ग्लुचत्, अग्लोचीदित्येतद् द्वयं सिद्ध्यति, ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयते तस्याग्लुचत् अग्लुञ्चोदिति रूपद्वयं सिद्ध्यति, ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति, किमर्थ तर्हि उभयोरुपादानमित्यत्राह - अर्थभेदात्विति। केचिदित्यादि। इदं भाष्यविरुद्धम्; भाष्यकारो हि ठनेकार्थत्वाद्धातूनामर्थभेदो न प्रयोजक उभयोपादानस्यऽ इत्यन्यतरोपादानं प्रत्याख्यातवान्॥ Nyaas ----- स्तम्भेरुदित्करणम् **उदितो वा** (7.2.56) इति विशेषणार्थम्। `अस्तभत्` इति। `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः। `अआत्` इत्यादि। रूपत्रयं **विभाषा धेट्श्व्योः** (3.1.49) इत्यत्र व्युत्पादितम्। `ग्लुचुग्लुञ्स्वोरन्यतरोपादाने रूपत्रयं सिध्यति` इति। कथं कृत्वा? यदि तावत् ग्लुचिरुपादीयेत तस्याङि सिचि चाग्लुचत्, अग्लोचीदित्येतद्रूपद्वयं सिध्यति; ग्लुञ्चेस्तु सिचि तृतीयमग्लुञ्चीदिति। अथ ग्लुञ्चिरुपादीयेत, तस्याङि सिचि चाग्लुचत्, अग्लुञ्चीदिति रूपद्वयं सिध्यति। ग्लुचेस्तु सिचि तृतीयमग्लोचीदिति। यद्येवम्, किमर्थमुभयोरुपादानम्, रूपत्रयं हि साध्यम्, तच्चान्यतरोपादानेऽपि सिध्यत्येवेत्यत आह - `अर्थभेदात्` इत्यादि। तुशब्दोऽवधारणे। भिन्नो ह्रनयोरर्थः। तत्रान्यतरस्योपादाने य एव नोपादीयेत तत्रैवार्थेऽग्लुचदिति न सिध्येत्। तस्माद्भिन्नार्थत्वादद्व्योरुपादानम्। `केचित्` इत्यादि। अनेकार्थत्वाद्धातूनामभिन्नार्थता न विरुद्ध्यते। तस्मादुभयोरुपादानग्लुञ्चदिति सिद्ध्य इति॥ Prakriyasarvasvam ----------------- एभ्यश्च्लेः परस्मैपदेषु अङ् वा स्यात् । Sutra Prayogas -------------- * **अस्तम्भीत्** (भट्टिकाव्यम्): `जृ-स्तम्भु` इत्यादिना सिजङौ। * **अग्लुचत्** (भट्टिकाव्यम्): `जृ-स्तम्भु` इत्यादिना अङ् ।