31057: इरितो वा =============== **Padacheda:** इरितः | S | 5 | 1 | वा | S | 0 | 0 | Sutrartha --------- **इरित्-धातोः परस्य च्लि-प्रत्ययस्य विकल्पेन अङ्-आदेशः भवति ।** लुङ्लकारस्य विषये धातोः **च्लि लुङि** (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य **च्लेः सिच्** (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु ये धातवः 'इरितः' सन्ति, तेषां विषये अनेन सूत्रेण च्लि-इत्यस्य विकल्पेन अङ्-आदेशः अपि भवति । किम् नाम 'इरित्' धातुः ? यस्मिन् धातौ 'इर्' इति वर्णसमुदायः इत्संज्ञकः अस्ति, तस्य धातोः 'इरित्' इति संज्ञा भवति । धातुपाठे आहत्य 23 इरितः धातवः सन्ति । एतेषां परस्य च्लि-इत्यस्य अनेन सूत्रेण विकल्पेन अङ्-आदेशः अपि भवति । पक्षे **च्लेः सिच्** (3.1.44) इति सिजादेशः अपि भवति । यथा - 1. दृश् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → दृश् + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → दृश् + अङ् + ल् [**इरितो वा** (3.1.57) इति च्लि-इत्यस्य अङ्-आदेशः] → दर्श् + अङ् + ल् [**ऋदृशोऽङि गुणः** (7.4.16) इति दृश्-धातोः ऋकारस्य गुणः अकारः । **उरण् रपरः** (1.1.51) इति सः रपरः] → अट् + दर्श् + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + दर्श् + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + दर्श् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अदर्शत् विकल्पेन सिच्-प्रत्यये कृते 'अद्राक्षीत्' इत्यपि रूपं सिद्ध्यति । 2. क्षुद् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → क्षुद् + च्लि + ल् [**च्लि लुङि**(3.1.43) इति च्लि-विकरणप्रत्ययः] → क्षुद् + अङ् + ल् [**इरितो वा** (3.1.57)इति च्लि-इत्यस्य अङ्-आदेशः] → अट् + क्षुद् + अ + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + क्षुद् + अ + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः] → अ + क्षुद् + अ + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अक्षुदत् विकल्पेन सिच्-प्रत्यये कृते 'अक्षौसीत्' इत्यपि रूपं सिद्ध्यति । Sutrartha (English) ------------------- For the इरित्-verbs, the च्लि प्रत्यय is optionally converted to अङ्. Vasu English Summary -------------------- अङ् is optionally the substitute of च्लि after that root which has an indicatory इर् , when the परस्मैपद terminations are used. Vasu English Translation ------------------------ अङ् is optionally the substitute of च्लि after that root which has an indicatory इर् , when the परस्मैपद terminations are used. Thus from भिदिर् (भिद) 'to divide', we derive अभिदत् or अभैत्सीत्. But we have अभित्त in the *Atmanepada*. So from छिदिर् — अच्छिदत् or अच्छैत्सीत्. Kashika ------- इरितो धातोः परस्य च्लेरङादेशो वा भवति। भिदिर् — अभिदत्, अभैत्सीत्। छिदिर् — अच्छिदत्, अच्छैत्सीत्। परस्मैपदेष्वित्येव — अभित्त। अच्छित्त॥ Siddhanta Kaumudi ----------------- इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् ।{$ {!41 श्च्युतिर्!} क्षरणे$} । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति ।{$ {!42 मन्थ!} विलोडने$} । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिषि (SK2216) इति कित्त्वात्अनिदिताम्-(SK415) इति नलोपः । मथ्यात् ।{$ {!43 कुथि!} {!44 पुथि!} {!45 लुथि!} {!46 मथि!} हिंसासंक्लेशनयोः$} । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् ।{$ {!47 षिध!} गत्याम्$} । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः (SK2123) इति निषेधे प्राप्ते ॥ Laghu Siddhanta Kaumudi ----------------------- इरितो धातोश्च्लेरङ् वा परस्मैपदेषु । अनिजत्, अनैक्षीत् अनिक्त । अनेक्ष्यत्, अनेक्ष्यत ॥ इति जुहोत्यादयः ॥ Balamanorama ------------ **इरितो वा** - इरितो वा । 'धातोरेकाच' इत्यतो धातोरिति,च्लेः सि॑जित्यतश्च्लेरिति,अस्यतिवक्तिख्यातिब्य॑ इत्यतोऽङिति,पुषादिद्युतादी॑त्यतः परस्मैपदेष्विति चानुवर्तते । तदाह — इरितो धातोरित्यादिना । अच्युतदिति । अङि सति ङित्त्वान्न गुणः । अच्युततामच्युतन् । अच्युतः अच्युततमच्युतत । अच्युतमच्युताव अच्युताम । अङभावे त्वाह — अच्योतीदिति ।इट ईटी॑ति सिज्लोपः । अच्योतिष्टामित्यादि । श्च्युतिरिति.च्युतिवद्रूपाणि । चुश्च्योतेति । 'शर्पूर्वा' इति चकारः शिष्यते । यकाररहितोऽपीति ।मधुश्चुतं घृतमिव सुपूत॑मित्यादौ तथा दर्सनादिति भावः । मन्थेति । विलोडलनम् — आस्फालनम् । मन्थतीत्यादि । सुगमम् । आशीर्लिङि विशेषमाह — यासुट इति । कुथीति । चत्वारोऽपि द्वितीयान्ताः । इदित्त्वान्नुमि कुन्थतीत्यादि सुगमम् । आशीर्लिङि यासुटः कित्त्वेऽपि इदित्त्वेन अनिदितामिति पर्युदासन्नलोपो नेत्याह — इदित्त्वादिति । कुन्थ्यादिति । पुन्थ्यात् लुन्थ्यात् मन्थ्यात् । एतदर्थमेव मन्थदातोः पृथङ् मथीति निर्देशः । षिध गत्यामिति । अच्परकषकारादित्वात्षोपदेशोऽयम् । ततश्च धात्वादेरिति सः । तदाह — सेधतीति । सिषेधेति । आदेशसकारत्वात्षत्वम् । अनिट्सु श्यन्विकरमस्यैव सिधेग्र्रहणात्सेट्कोऽयम् । असेधीदिति ।इट इटी॑ति सिज्लोपः । नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः । असेधिष्टामित्यादि । अथ निषेधतीत्यादौउपसर्गात्सुनोती॑ति षत्वं वक्ष्यति तत्किमर्थम्, आदेशप्रत्ययो॑रित्येव सिद्धेरित्याशङ्क्याह — सात्पदाद्योरिति । Tattvabodhini ------------- **इरितो वा** - चुश्र्योतेति ।शर्पूर्वाः खयःर॑ । यकाररहितोऽप्ययमिति । तथा च प्रयुज्यतेमधुश्चुतं घृतमिव सुपूत॑मिति । मन्थ । अयं त्रयादावपि ।षिध गत्याम् । अयमुदिदिति केचित् । तत्तु सिध्यतिबुध्यत्योः श्यना निर्देशात् सिधितं बुधितमिति वृत्तिग्रन्थविरुद्धम् । उदित्त्वे हिउदितो वे॑ति क्त्वायामिड्विकल्पान्निष्ठायामिण्न स्यात्,यस्य विभाषेति॑निषेधात् । सिषेधेति ।आदेशप्रत्यययो॑रिति षत्वम् । Padamanjari ----------- इरितो वा॥ अभितेति। स्वरित्वादात्मनेपदम्॥ Nyaas ----- इश्च रश्च इरौ, इतौ यस्य त इरित्। तत्रेकारस्य `उरजेषेऽजनुनासिक इत्` (1.3.2) इतीत्संज्ञा, रेफस्य **हलन्त्यम्** (1.3.3) इति।अथ वा इरित् यस्यैव समुदायस्य तत्येत्संज्ञा, न प्रत्येकमवयवस्य? इरित्ययं समुदाय इत्संज्ञको यस्य स इरित्। समुदायस्येत्संज्ञाऽस्मादेव वचनाद्वेदितव्या। न ह्रन्येन केनचित् तस्येत्संज्ञा विहिता। `अभैत्सीत्` इति। `वदव्रज` (7.2.3) इत्यादिना वृद्धिः, **अस्तिसिचोऽपृक्ते** (7.3.96) इतीट्। `अरुद्ध, अभित्त` इति। स्वरितेत्त्वादात्मनेपदम्,पूर्ववत् सिचो लोपः॥ Prakriyasarvasvam ----------------- इरितो धातोः परस्य च्लेः परस्मैपदेष्वङ् वा स्यात् । ऋदृशोऽङि गुणः (७-४-१६) अदर्शत् । अदर्शताम् । अङभावे शलन्तत्वात् शल इगुपधादनिटः क्सः (३-१-४५) इति च्लेः क्से प्राप्ते, Sutra Prayogas -------------- * **रुदन्माङ्गलिक्यः** (भट्टिकाव्यम्): `इरितो वा` इति चलेरङ् । * **अदृक्षता** (भट्टिकाव्यम्): `इरितो वा` इति सिजेव भवति। * **दर्शता** (भट्टिकाव्यम्): `इरितो वा` इत्यङ्। * **मा रुदः** (भट्टिकाव्यम्): `इरितो वा` इत्य यदा नास्ति तदा मा रोदीरिति । * **मातिचिक्लिशः** (भट्टिकाव्यम्): `इरितो वा` इत्यङ्-अभावे सिच् । * **अच्युतत्** (भट्टिकाव्यम्): `इरितो वा` इत्यङ्। * **व्याशिषता** (भट्टिकाव्यम्): `इरितो वा` इत्यङ्। * **अरुधत्** (भट्टिकाव्यम्): `इरितो वा` इत्यङ् । * **अश्च्योतिषुः** (भट्टिकाव्यम्): `इरितो वा` इत्यङभावपचे रूपम्। * **अच्छिदत्** (भट्टिकाव्यम्): `इरितो वा` इत्यङ्। * **अच्छैत्तां** (भट्टिकाव्यम्): `इरितो वा` इत्यङभावपक्षे रूपम्। * **अच्युतच्च** (भट्टिकाव्यम्): `इरितो वा` इत्यङ्।