31047: न दृशः ============= **Padacheda:** न | S | 0 | 0 | दृशः | S | 5 | 1 | Sutrartha --------- **दृश्-धातोः परस्य च्लि-प्रत्ययस्य क्स-आदेशः न भवति ।** लुङ्लकारस्य विषये धातोः **च्लि लुङि** (3.1.43) इत्यनेन च्लि-विकरणप्रत्ययः भवति । अस्य प्रत्ययस्य **च्लेः सिच्** (3.1.44) इत्यनेन औत्सर्गिकरूपेण सिच्-आदेशः विधीयते । परन्तु दृश्-धातोः विषये च्लि-विकरणस्य **शल इगुपधादनिटः क्सः** (3.1.45) इत्यनेन 'क्स' आदेशः भवति । तस्य निषेधार्थम् वर्तमानसूत्रम् निर्मितमस्ति । वर्तमानसूत्रेण दृश्-धातोः च्लि-प्रत्ययस्य क्स-आदेशः निषिध्यते । अस्य अभावे औत्सर्गिकरूपेण **च्लेः सिच्** (3.1.44) इत्यनेन सिच्-आदेशः विधीयते । यथा - दृश् + लुङ् [**लुङ्** (3.2.110) इति लुङ्] → दृश् + च्लि + ल् [**च्लि लुङि** (3.1.43) इति च्लि-विकरणप्रत्ययः] → दृश् + सिच् + ल् [**शल इगुपधादनिटः क्सः** (3.1.45) इति क्स-आदेशे प्राप्ते **न दृशः** (3.1.47) इति निषेधः । अतः **च्लेः सिच्** (3.1.44) इति सिच्-आदेशः ।] → दृश् + स् + ल् [चकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा । इकारस्य **उपदेशेऽजनुनासिक इत्** (1.3.2) इति इत्संज्ञा । द्वयोरपि **तस्य लोपः** (1.3.9) इति लोपः] → अट् दृश् + स् + ल् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अट्-आगमः] → अ दृ अम् श् + स् + ल् [**सृजिदृशोः झल्यमकिति** (6.1.58) इति दृश्-इत्यस्य अम्-आगमः । **मिदचोऽन्त्यात्परः** (1.1.47) इति अयमागमः अन्त्यात् अचः परः आगच्छति ।] → अ दृ अ श् + स् ल् [अम्-इत्यस्य मकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः] → अ द्र श् + स् ल् [**इको यणचि** (6.1.77) इति यणादेशः] → अ द्राश् + स् ल् [**वदव्रजहलन्तस्याचः** (7.2.3) इति अकारस्य वृद्धिः आकारः] → अ द्राश् + स् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → अ द्राश् + स् + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अ द्राश् + स् + ईट् त् [**अस्तिसिचोऽपृक्ते** (7.3.96) इति सिच्-इत्यस्मात् परस्य अपृक्त-तकारस्य ईट्-आगमः] → अ द्राष् + स् + ई त् [**व्रश्चभ्रस्ज....** (8.2.36) इति षत्वम्] → अ द्राक् + स् + ई त् [**षढोः क सि** (8.2.41) इति ककारः] → अ द्राक् + ष् + ई त् [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्] → अद्राक्षीत् ज्ञातव्यम् - दृश्-धातोः परस्य च्लि-प्रत्ययस्य **इरितो वा**(3.1.57) इत्यनेन अङ्-आदेशः अपि भवति । Sutrartha (English) ------------------- For the verb root दृश्, च्लि is not converted to क्स. Vasu English Summary -------------------- क्स is not the substitute of च्लि after the verb दृश् 'to see'. Vasu English Translation ------------------------ क्स is not the substitute of च्लि after the verb दृश् 'to see'. This is an exception to the *sutra* (III.1.45.) enjoining क्स. The root दृश् will form its Aorists by (III.I.57.) and will take अङ् and सिच्; as अदर्शत् or अद्राक्षीत् 'he saw'. Kashika ------- पूर्वेण क्सः प्राप्तः प्रतिषिध्यते। दृशेर्धातोः परस्य च्लेः क्सादेशो न भवति। अस्मिन् प्रतिषिद्धे **इरितो वा** (३.१.५७) इत्यङ्सिचौ भवतः। अदर्शत्। अद्राक्षीत्॥ Siddhanta Kaumudi ----------------- दृशश्च्लेः क्सो न । अद्राक्षीत् ।{$ {!989 दंश!} दशने$} । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एवनिपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्ज - (SK2396) इति नलोपः । दशति । ददंशिथ । ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् ।{$ {!990 कृष!} विलेखने$} । विलेखनमाकर्षणम् । क्रष्टा । कर्ष्टा । क्रक्ष्यति । कर्क्ष्यति । (वार्तिकम्) ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् ।{$ {!991 दह!} भस्मीकरणे$} । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः ।{$ {!992 मिह!} सेचने$} । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् ।{$ {!993 कित!} निवासेरोगापनयने च$} । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति ।{$ {!994 दान!} खण्डने$} ।{$ {!995 शान!} तेजने$} । इतो वहत्यन्ताः स्वरितेतः ॥ दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति ।{$ {!996 डुपचष्!} पाके$} । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट ।{$ {!997 षच!} समवाये$} । सचिति । सचते ।{$ {!998 भज!} सेवायाम्$} । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त ।{$ {!999 रञ्ज!} रागे$} । नलोपः । रजति । रजते । अराङ्क्षीत् । अरङ्क्तः ।{$ {!1000 शप!} आक्रोशे$} । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त ।{$ {!1001 त्विष!} दीप्तौ$} । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षाताम् ।{$ {!1002 यज!} देवपूजासङ्गतिकरणदानेषु$} । यजति । यजते ॥ Balamanorama ------------ **न दृशः** - न दृशः ।च्लेः सि॑चित्यत श्च्लेरिति, 'शल इगुपधा' दित्यतः क्स इति चानुवर्तते । तदाह — दृशश्च्लेः क्सो नेति । क्सादेशे तु 'अदृश' दिति स्यादिति भावः । अद्राक्षीदिति । सिचि अमागमे ऋकारस्य यणि अकारस्य हलन्तलक्षणवृद्दौ शस्य षत्वे तस्य कत्वे सस्य षत्वमिति भावः । अद्रक्ष्यत् । दंश दशने इति । अयमनिट्, नोपधश्च । कृतानुस्वारनिर्देशः । दंष्ट्राव्यापार इति । हनुमूलगताः स्थूलदन्ता दंष्ट्राः, तद्व्यापारः = क्षतक्रियादिरूप इत्यर्थः । ननु दंशधातोर्ल्युटि दशनशब्दः । तत्रअनिदिता॑मिति नकारस्य लोपो न संभवति, ल्युटः क्ङित्त्वाऽभावात् ।दंशसञ्जे॑त्यपि नस्य लोपो न संभवति, तस्य शप्येव प्रवृत्तेः । तथा च दशन इत्यर्थनिर्देशः कथमित्यत आह -पृषोदरादित्वादिति । अत एवेति । दशनशब्दनिर्देशादेव नकारस्य लोप इत्यन्ये मन्यन्त इत्यर्थः । तेषामपीति । 'निपातनान्नकारलोप' इति वदतामपि पृषोदरादिषु निपातनादित्यर्थ एव तात्पर्यं, न तु धातुपाठे 'दंशदशने' इत्यर्थनिर्देशे इति भावः । विनिगमनाविरहमाशङ्क्याह — अर्थनिर्देशस्याधुनिकत्वादिति । सर्वधातुष्वर्थनिर्देशस्य अपाणिनीयत्वादित्यर्थः । क्वचिदेव धातुष्वर्थनिर्देशः पाणिनीय इति भूधातौ निरूपितम् । अथ दशतीत्यादौ शपः पित्त्वेन अकित्त्वात्अनिदिता॑मिति शपीत्युक्तेरार्धधातुके नलोपो न । संयोगात्परत्वेन लिटः कित्त्वाऽभावादनिदितामित्यपि न । ददंश ददंशतुः ददंशुः । भारद्वाजनियमात्थलि वेट् । तदाह — ददंशिथ ददंष्ठेति । अनिट्पक्षे व्रश्चादिना शस्य षः । थस्य ष्टुत्वेन ठ इति भावः । दंष्टेति । तासि व्रश्चादिना शस्य षत्वे तकारस्य ष्टुत्वमिति भावः । दङ्क्ष्यतीति । व्रश्चादिना शस्य षत्वे तस्य कत्वे अनुस्वारस्य परसवर्णे ङकारे सस्य षत्वमिति भावः । दशतु । अदशत् । दशेत् । दश्यादिति । आशीर्लिङिअनिदिता॑मिति नलोप इति भावः । अदाङ्क्षीदिति । सिचि हलन्तलक्षणा वृद्धिः, शस्य षः, तस्य कः अनुस्वारस्य परसवर्णेन ङः, सस्य षत्वमिति भावः । अदङ्क्ष्यत् । कृष विलेखने इति । अनिडयम् । कर्षति । चकर्ष चकृषतुः चकृषुः । थलि अजन्ताऽकारवत्त्वाऽभावात् क्रादिनियमान्नित्यमिट् — चकर्षिथ कृषथुः चकृष । चकर्ष चकृषिव चकृषिम । इति सिद्धवत्कृत्याह — क्रष्टा कर्ष्टेति ।अनुदात्तस्ये चे॑ति अम्विकल्पः । तकारस्य ष्टुत्वम् । क्रक्ष्यति कक्ष्र्यतीति । षस्य कत्वे सस्य षः । कर्षतु । अकर्षत् । कर्षेत् । कृष्यात् ।शल इगुपधा॑दिति च्लेः क्सादेशे प्राप्ते आह — स्पृशमृशेति । अक्राक्षीदिति । च्लेः क्सादेशाऽभावे सिचिअनुदात्तस्य चर्दुपधस्ये॑ त्यमि ऋकारस्य यणि हलनतलक्षणवृद्धौषढोः कः सी॑त्यनेन षस्य कतवे ससय् षत्वमिति भावः । अकार्क्षीदिति । अमभावे सिचि वृद्धौ रूपम् । पक्षे क्स इति । च्लेः सिजभावपक्षेशल इगुपधा॑दिति क्स इत्यर्थः । अकृक्षदिति । क्से सति, कित्त्वाद्गुणाऽभावे षस्य कः, ससय् ष इति भावः । अक्रक्ष्यत् — अकक्ष्र्यत् । दह भस्मीकरणे इति । अनिट् । दहति । ददाह देहतुः देहुः । थलि तु भारद्वाजनियमाद्वेडित्याह — देहिथ ददग्धेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । अनिट्पक्षेतुदादे॑रिति हस्य घः,झषस्तथो॑रिति थस्य धः, घस्य जश्त्वेन ग इति भावः । धक्ष्यतीति । हस्य घः, दस्य भष्, घस्य गः, तस्य चर्त्वेन कः, सस्य ष इति भावः । दहतु । अदहत् । दहेत् । दह्रात् । अधाक्षीदिति । सिचि हलन्तलक्षणा वृद्धिः । हस्य घः, दस्य भष्, घस्य ग-, तस्य कः, सस्य ष इति भावः । अदाग्धामिति । सिचि वृद्धिः, हस्य घः,झलो झली॑ति सलोपः,झषस्तथो॑रिति तकारस्य धः, घस्य ग इति भावः । अधाक्षुरिति । सिचि वृद्धिः, हस्य घः, दस्य भष्, घस्य गः, तस्य कः, सस्य ष इति भावः । अधाक्षीःअदाग्धमदाग्ध । अधाक्षमधाक्ष्व अधाक्ष्म । अधक्ष्यत् । मिह सेचने इति । अनिट् । मेहति । मिमेह मिमिहतुः मिमिहुः । अजन्ताऽकारवत्त्वाऽबावाक्रादिनियमान्नित्यमिट् । तदाह — मिमेहिथेति । मिमिहथुः मिमिह । मिमेह मिमिहिव मिमिहिम । मेढेति । तासि ढत्वधत्वष्टुत्वढलोपाः । मेक्ष्यतीति । हस्य ढः, तस्य कः, सस्य षः । तदाह-अमिक्षदिति । अमेक्ष्यत् । कित निवासे रोगापनयने चेति । परस्मैपदषु पाठादयं परस्मैपदी । अर्थद्वयमात्रमत्र निर्दिष्टम् । अर्थनिर्देशस्य उपलक्षणत्वादर्थान्तरेषु वृत्तिः । तत्रकितेव्र्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये चे॑ति निबद्धेष्वर्थेषुगुप्तज्किद्भ्यः स॑न्निति सन्विहितः । तदाह — चिकित्सतीति ।सन्यतः इति इत्त्वे हलादिशेषे अभ्यासचुत्वे चिकित्सेति सन्नन्तं, तस्माल्लिटि शपिचिकित्सती॑ति रूपम् । अस्य सनःधातो॑रिति विहितत्वाऽभावादनार्धधातुकत्वान्न लघूपधगुणो, नापि इडागम इति प्रागुक्तम् । चिकित्सांचकारेत्यादि सुगमं जुगुप्सतिवत् । संशये इत्यादि । व्यक्तम् । निवासे त्विति । व्याधिप्रतीकाराद्यर्थपञ्चकादर्थपञ्चकादर्थान्तरे चुरादित्वस्योक्तत्वादिति भावः । दान खण्डने । शान तेजने इति । तेजनं — तीक्ष्णीकरणम् । इत इति । 'दान खण्डने' इत्यारभ्य 'वह प्रापणे' इत्येतत्पर्यन्ताः स्वरितेत इत्यर्थः । तत्र धातुपाठे अर्थनिर्देशस्य उपलक्षणत्वाद्यदा दानधातुरार्जवे, शानधातुस्तु निशाने वर्तते तदामान्बधदान्शा॑निति सनि,सन्यङो॑रिति द्वित्वे, अभ्यासह्रस्वे, तस्य 'सन्यतः' इति इत्त्वे, तस्यमान्बधे॑ति दीर्घे सति, नकारस्याऽनुस्वारे, दीदांस शीशांसाभ्यां लटि स्वरितानुबन्धस्य केवलयोरचरितार्थत्वात्, कर्तृगे फले तङि शपि दीदांसते शीशांसते इति रूपम् । परगामिनि तु फले परस्मैपदे तिपि शपि दीदांसति शीशांसतीति रूपम् । तदाह — दीदांसते इत्यादि । शीशांसतीति । तीक्ष्णीकरोतीत्यर्थः । अर्थविशेषे इति । आर्जवे निशाने चार्थे सनित्यर्थः । अन्यत्रेति । आर्जवनिशानाभ्यामन्यत्र णिजन्तात्परस्मैपदमेवेत्र्थः ।अर्थान्तरे अननुबन्धकाश्चुरादय॑ इत्युक्तेरिति भावः । डु पचष् पाके इति । डुः, षकारश्चकारादकारश्च इत् । स्वरितेत्त्वादुभयपदी । तदाह — पचति पचते इति । पपाच पेचतुः पेचुः । भारद्वाजनियमात्थलि वेट् ।तदाह — पेचिथ पपक्थेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपौ । अनिट्पक्षे तुचोः कु॑रिति भावः । पेचे पेचिवहे पेचिमहे । क्रादिनियमादिट् । फक्तेति । तासिचोः कुः॑ । पक्ष्यति पक्ष्यते । पचतु पचताम् । अपचत् अपचत । पचेत् । पक्षीष्टेति । आशीर्लिङि तङि सीयुटिचोः कुः॑ । षत्वम् । अपाक्षीत् । अपक्त । अपक्षाताम् । अपक्ष्यत् अपक्ष्यत । षचधातुः षोपदेशः । तदाह — सचति सचते इति । सेडयम् । ससाच सेचतुः सेचुः । सेचिथ सेचथुः सेच । ससाच-ससच, सेचिव सेचिम । सेचे । सेचिषे सेचिवहे सेचिमहे । सच्यात् सचिषीष्ट । असाचीत् — असचीत् । असचिष्ट । भजधातुरनिट् । भजति । किति लिटि वैरूप्यापादकादेशादित्वात्अत एकहल्मध्ये॑इत्यप्राप्तौतृफले॑त्येत्त्वाभ्यासलोपौ । तदाह — भेजतुरिति । भारद्वाजनियमात्थलि वेट् । तदाह — भेजिथ बभक्थेति । इट्पक्षेथलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । भेजिव भेजिम । क्रादिनियमादिट् । भेजे । भेजिषे । भेजिवहे । भक्तेत्यादि । सुगमम् । रञ्ज रागे इति । नोपधोऽयम् । कृतानुस्वारपसवर्णनिर्देशः । अनिडयम् । शपः पित्त्वेन ङित्त्वाऽभावात्अनिदिता॑मित्यप्राप्तावपिरञ्जेश्चे॑ति शपि नलोपः । तदाह — रजति रजते इति । संयोगात्परत्वाल्लिटो न कित्त्वम् । ररञ्ज ररञ्जतुः । भारद्वाजनियमात्थलि वेट् । ररञ्जिथ — ररङ्क्थ । अनिट्पक्षे जस्य कुत्वेन गः । ततोऽनुस्वारपरसवर्णञकारनिवृत्तौ गस्य चर्त्वेन कः । नस्यानुस्वारे तस्य परसवर्णो ङकार इति भावः । ररञ्जिव ररञ्जिम । क्रादिनियमादिट् । रङक्ता । रङ्क्ष्यति । रङ्क्ष्यते ।रजतु रजताम् । अरजत् अरजत । रजेत् रजेत । आशीर्लिङ यासुटः कित्त्वात्अनिदिता॑मिति नलोपः ।तदाह — रज्यादिति । रङ्क्षीष्टेति । आत्मनेपदे लिङः सीयुटि जस्य कुत्वेन गः, ततः परसवर्णसंपननञकारनिवृत्तिः, गस्य कः, नस्य परसवर्णेन ङः, षत्वमिति भावः । अराङ्क्षीदिति । सिचि हलतन्तलक्षणवृद्धौ कुत्वादि पूर्ववत् । अनेकहल्व्यवधानेऽपि हलन्तलक्षणा वृद्धिः प्रवर्तते इति भाष्ये स्पष्टम् । अराङ्क्तामिति ।झलो झली॑ति सलोपः । कुत्वादि पूर्ववत् । अरङ्क्तेति । लुङस्तङि प्रथमपुरुषैकवचनेझलो झलीति सलोपे कुत्वादि । शप आक्रोशे इति । अनिडयम् । भारद्वाजनियमात्थलि वेट् । वमादौ तु क्रादिनियमादिट् । अशाप्सीदिति । हलन्तलक्षणा वृद्धिः । अशप्तेति ।झलो झली॑ति सलोपः । अशप्साताम् । त्विषधातुरनिट् । शपि लघूपधगुणः । तदाह — त्वेषति त्वेषते इति । तित्वेष तत्विषतुः तित्विषुः । तित्वेषिथ तित्विषथुः तित्विष । तित्वेष तित्विषिव तित्विषिम । क्रादिनियमादिट् । तित्विषे इति । तित्विषाते तत्विषिरे । तित्विषिषे तित्विषाथे तित्विषिध्वे । तित्विषे तित्विषिवहे तित्विषिमहे । त्वेष्टेति । तासि तकारस्य ष्टुत्वम् । त्वेक्ष्यति त्वेक्ष्यते इति । स्ये कत्वषत्वे । त्वेषतु त्वेषताम् । अत्वेषत् अत्वेषत । त्वेषेत् त्वेषेत । त्विष्यादिति । यासुट आशीर्लिङि कित्त्वान्न लघूपधगुणः । त्विक्षीष्टेति ।लिङ्सिचावात्मनेपदेषु॑ इति कित्त्वान्न गुणः । लुङि परस्मैपदे 'शल इगुपधा' दिति च्लेः क्सः । कित्त्वान्न गुणः । तदाह — अत्विक्षदित्यादि । लुङि आत्मनेपदे च्लेः क्सादेशं मत्वा 'आत्मनेपदष्वनतः' इत्यदादेशाऽसंभवादन्तादेशे क्सस्याऽन्त्यलोपे पररूपे वा रूपमिति भावः । यज देवपूजेति । अनिडयम् । यजति यजते इति । देवान् पूजयति सङ्गमयति ददाति वेत्यर्थः । Tattvabodhini ------------- **न दृशः** - क्रष्टा । कर्ष्टेति ।अनुदात्तस्य चे॑त्यम् वा । *स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः । धक्ष्यतीति । घत्वषत्वभष्भावाः । अधाक्षीदिति ।अस्तिसिचः॑ इतीट् । वृद्धिः । घत्वादि प्राग्वत् । मिह सेचने । सेचनमिह मिश्रीकरणकं विवक्षितं, न तु सेचनमात्रम् ।मेढ्रं मेहनशेफसी॑ इत्यमरः । कित निवासे । कितेव्र्याधिप्रतीकारादावेव सन्नित्युक्तं । तदुदाहरति — चिकित्सतीति । रोगमपनयतीत्यर्थः । शत्रुं चिकित्सति । निगृह्णातीत्यर्थः । क्षेत्रे तृणं चिकित्सति । अपनयति, नाशयति वेत्यर्थः । अर्थान्तरे चुरादिरित्युक्तं । तदुदाहरति — केतयतीति । षच समवाये । समवायः — सम्बन्धः । भेंजतुरिति ।तृफलभजे॑त्येत्त्वम् । भक्ष्यतीति । कुत्वषत्वे । त्विष दीप्तौ । अत्विक्षदिति ।शलैगुपधादिति क्सः । कत्वषत्वे । अत्विक्षातामिति ।क्सस्याची॑ति लोपः । यज देवादेवपूजा त्विह देवतोद्देशेन विधिबोधितो द्रव्यत्यागः । Padamanjari ----------- न द्दशः॥ पूर्वेणेति।'शल इगुपधात्' इत्यनेन। अङसिचौ भवत इति। परस्मैपदेष्वन्यत्र सिजेव। अदर्शदिति। ठृद्दशोऽङ् गुणिःऽ। अद्राक्षीदिति।'सृजिद्दशोर्झल्यमकिति' । अथ'च्लेः सिच्' इत्यस्यानन्तरं क्सस्य बाधनार्थ सिजेव कस्मान्न विहितः, इरित्वसामर्थ्यादङपि भविष्यति? सत्यम्; तत्रापि'द्दशश्च' इति चकारः कर्तव्य इति लाघवे नास्ति विशेषः॥ Nyaas ----- `अदर्शत्` इति। अङ्। `ऋदशोऽङि गुणः` (7.4.16) इति गुणः। अद्राक्षीत्` इति। **सृजिदृशोर्झल्यमकिति** (6.1.58) इत्यमागमः। `वदव्रज` (7.2.3) इत्यादिना वृद्धिः, पूर्ववत् षत्वकत्वे॥ Prakriyasarvasvam ----------------- इति तन्निषेधात् सिच् । 'सृजिदृशोः—' इत्यम् । द्रश् सीत् 'वदव्रज—' इति वृद्धिः । द्राश् सीत् । ‘छशां षः’ । ‘षढोः कः-’ अद्राक्षीत् । ‘झलो झलि’ । अद्राष्टाम् । अद्राक्षुः । अद्राक्षीः । अद्राष्टम् । अद्राक्षम् । अद्राक्ष्व । कर्मणि अदर्शि । ‘हनग्रहदृशाम्—’ (६-४-६२) इति वा चिण्वदिट् । अदर्शिषाताम् । मतभेदाद्वा ढः । अदर्शिढ्वम् । अदर्शिध्वम् । अदर्शिषि । चिण्वदिडभावे दृश् साताम् । Sutra Prayogas -------------- * **द्राक्षुः** (शिशुपालवधम्): `न दृशः` इति क्साभावपक्षे सिचि वृद्धिः। * **अदृक्षता** (भट्टिकाव्यम्): `न दृशः` इति प्रतिषेधात्।