31041: विदाङ्कुर्वन्त्वित्यन्यतरस्याम् ====================================== **Padacheda:** विदाङ्-कुर्वन्तु | T | | | इति | S | 0 | 0 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The form विदाङ्कुर्वन्तु is optionally employed as an irregular form. Vasu English Translation ------------------------ The form विदाङ्कुर्वन्तु is optionally employed as an irregular form. This irregular form is obtained by adding the affix आम् to the root विद् 'to know,' when followed by लोट् or the Imperative tense; the tense-affixes of लोट् are then elided by *luk*; moreover there is no substitution of *guna* as required by (7.3.86); and when we have thus obtained the form विदाम्, we annex to it the लोट् of the verb कृ; thus we have विदाङ्कुर्वन्तु or विदन्तु 'let them know'. The third person plural is not only intended to be spoken of by the employment of the form विदाङ्कुर्वन्तु in the aphorism; on the contrary, the word इति shows that all the numbers and persons of the Imperative may be so employed; as विदाङ्करोतु विदाङ्कुरुताम् &c. Kashika ------- विदाङ्कुर्वन्त्वित्येतदन्यतरस्यां निपात्यते। किं पुनरिह निपात्यते? विदेर्लोटि आम्प्रत्ययः, गुणाभावः, लोटो लुक् , कृञश्च लोट्परस्यानुप्रयोगः। अत्र भवन्तो विदाङ्कुर्वन्तु, विदन्तु। इतिकरणः प्रदर्शनार्थः, न केवलं प्रथमपुरुषबहुवचनम्। किं तर्हि? सर्वाण्येव लोड्वचनान्यनुप्रयुज्यन्ते। विदाङ्करोतु। विदाङ्कुरुतात्। विदाङ्कुरुताम्। विदाङ्कुरु। विदाङ्कुरुतमित्यादि॥ Siddhanta Kaumudi ----------------- वेत्तेर्लोट्याङ्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥ Laghu Siddhanta Kaumudi ----------------------- वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते॥ Balamanorama ------------ **विदाङ्कुर्वन्त्वित्यन्यतरस्याम्** - विदाङ्कुवन्त्वित्यन्तयतरस्याम् ।कृञ् चानुप्रयुज्यते लिटी॑त्युत्तरमिदं सूत्रम् । इतिशब्दः प्रकारे । एवंजातीयकं वैकल्प्येन प्रत्येतवयमित्यर्थः । वेत्तेरिति । लुगविकरणाद्विदधातोः लोटिपरे आम्प्रत्ययो निपात्यते इत्यर्थः । लोडन्तेति । आम्न्ताद्विदेर्लोडनतकृञ्धातोनुप्रयोगश्च निपात्यतैत्यर्थः । ननुविदाङ्कुर्वन्तु॑ति लोटि प्रथमपुरुषबहुवचनस्यैव सूत्रे निर्देशात्कतं लोडन्तसामान्यानुप्रयोग इत्यत आह — पुरुषेति । कुर्वन्त्विति प्रथमपुरुषो बहुवचनं च न विवक्षितमित्यर्थः । तयोस्तु नान्तरीयकमुच्चारणमिति भावः । इति शब्दादिति । तस्य प्रकारवचनस्य लोकप्रयोगानुसारित्वादिति भावः । Tattvabodhini ------------- **विदाङ्कुर्वन्त्वित्यन्यतरस्याम्** - लोटो लुगिति ।आमः॑ इति सूत्रेमन्त्रे घसे॑त्यतो लेरित्यनुवर्त्त्य आमः परस्य लेर्लुगितिव्याकुर्वतां मतेनेदमुक्तम् । निष्कर्षे तु तेनैव लुगिति बोध्यम् । पुरुषवचने इति । प्रथमपुरुषो, बहुवचनं चेत्यर्थः ।परस्मैपदमप्यविवक्षितमेवे॑ति केषांचिन्मते कर्मव्यतिहारे तङि — व्यतिविदाङ्कुरुताम् । व्यतिविदाङ्कुर्वातामित्यादि ज्ञेयम् । Padamanjari ----------- विदांकुर्वन्त्वित्यन्यतरस्याम्॥ इहोतरत्र चानुप्रयोगानुसारेण आमन्ते लकार उन्नेयः। विदेर्लोट।लम्प्रत्यय इति। निपात्यत इत्यनुषङ्गः, तथा गुणाभावश्चेत्यत्र। एवं लोटो लुगित्यत्र, तथा कृञश्च लोट्परस्यानुप्रयोग इत्यत्र। सर्वमेतदप्राप्तमिति निपात्यते। इतिकरणः प्रदर्शनार्थ इति। सर्वेषां लोड्वचनानामुपलक्षणार्थ इत्यर्थः। किमेवं सति सिद्धं भवतीत्याह - न केवलमिति। प्रचुरप्रयोगत्वातु सूत्रे बहुवचनं पठितम्। कश्चितु भाष्यवार्तिककारानुक्तत्वादुपलक्षणत्वं नेच्छति, स इतिकरणस्य प्रयोजनं ब्रवीतु॥ Nyaas ----- `विदेर्लोटआम्प्रत्ययः` इति। विदेर्लिटआम् विहितो लोटि न प्राप्नोतीत्यतोऽपि निपात्यते। अममाश्रित्य लघूपधगुणः प्राप्नोतीति तदभावश्च। `आमः` (2.4.81) इति लेर्लुग्विधीयमानो लोटो न सिध्यतीत्यतो लोटो लुक्। लिट्परस्य कृञोऽनुप्रयोग उक्तो लोट्परस्य न प्राप्नोति, सोऽपि निपात्यत इति सर्वत्र सम्बन्धनीयम्। `कुर्वन्तु` इति। बहुवचनम्, झेरन्तादेशः, `एरुः` (3.4.86) , विकरणमश्रित्य धातोर्गुणः, ` अत उत् सार्वधातुके` (6.4.110) इत्युत्त्वम्, विकरणस्य यणादेशः। `इतिकरणः` इत्यादि। लोड्वचनानामुपलक्षणार्थत्वे सतीतिकरणस्य यदिष्टं तद्दर्शयितुमाह - `न केवलम्` इत्यादि। `कुरुताम्` इति। `तस्थस्` (3.4.101) इत्यादिना तसस्ताम्। `कुरु` इति। `सेह्र्रपिच्च` (3.4.87) इति हिः, `उतश्च प्रत्ययात्` (6.4.106) इत्यादिना हेर्लुक्। `कुरुतम्` इति। तसस्तम्॥ Prakriyasarvasvam ----------------- वेत्तेर्लोट्याम् गुणाभावश्च वा निपात्यते । कुर्वन्त्विति कृञो लोडुपलक्षणम् । तेन सर्वविभक्तयः स्युः । कु ति । Sutra Prayogas -------------- * **विदां कुर्वन्तु** (शिशुपालवधम्): `विदांकुर्वन्त्वित्यन्यतरस्याम्` इति विकल्पादाम्प्रत्ययनिपातः। * **विदांकुर्वन्तु** (भट्टिकाव्यम्): `विदांकुर्वन्त्वित्यन्यतरस्याम्` इति निपातितम्।