31040: कृञ् चानुप्रयुज्यते लिटि =============================== **Padacheda:** कृञ् | S | 1 | 1 | च | S | 0 | 0 | अनुप्रयुज्यते | T | | | लिटि | S | 7 | 1 | Sutrartha --------- **आम्-प्रत्ययात् परतः कृ/भू/अस्- एते धातवः लिट्-लकारे अनुप्रयुज्यन्ते ।** 'आम्' इति कश्चन प्रत्ययः अस्ति । **कास्प्रत्ययादाममन्त्रे लिटि** (3.1.35) इत्यतः **भीह्रीभृहुवां श्लुवच्च** (3.1.39) इति यावद्भिः सूत्रैः लिट्-लकारस्य विषये धातोः परः अयम् प्रत्ययः विधीयते । अस्मिन् प्रत्यये परे अग्रे उपस्थितस्य लकारस्य **आमः** (2.4.81) इत्यनेन लोपः भवति । ततः वर्तमानसूत्रेण आम्-प्रत्ययात् परः कृ-धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य उचितं रूपमागच्छन्ति । यथा, 'एध्' धातोः प्रथमपुरुषैकवचनस्य प्रक्रियायाम् - एध् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → एध् + आम् + ल् [**इजादेश्च गुरुमतोऽनृच्छः** (3.1.36) इति आम्-प्रत्ययः] → एध् + आम् [**आमः** (2.4.81) इति लकारस्य लुक्] अस्याम् स्थितौ आम्-प्रत्ययात् परः कृ धातोः / भू-धातोः / अस्-धातोः लिट्-लकारस्य रूपमागच्छति । यथा - अ) कृ-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - कृ + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्] → कृ + कृ + ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → कर् + कृ + ल् [**उरतः** (7.4.66) इति ऋकारस्य अकारादेशः । **उरण् रपरः** (1.1.51) इति सः रपरः] → क + कृ + ल् [**हलादि शेषः** (7.4.60) इति रेफस्य लोपः] → च + कृ + ल् [**कुहोश्चुः** (7.4.62) इति ककारस्य चकारः] → च + कृ + त [**तिप्तस्..** (3.4.78) इति आत्मनेपदस्य प्रथमपुरुषैकवचनस्य 'त' प्रत्ययः] → च + कृ + एश् [**लिटस्तझयोरेशिरेच्** (3.4.81) इति त-प्रत्ययस्य एश्-आदेशः] → चक्रे [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति अङ्गस्य गुणे प्राप्ते **असंयोगात् लिट् कित्** (1.2.5) इति किद्वत्भावे कृते **क्ङिति च** (1.1.5) इति गुणनिषेधः भवति । अतः **इको यणचि** (6.1.77) इति यणादेशः विधीयते ।] अतः एधाम् + चक्रे → एधाञ्चक्रे इति रूपं सिद्ध्यति । आ) भू-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - भू + लिट् [**परोक्षे लिट्** (3.2.115) ] → भूव् ल् [**भुवो वुग्लुङ्लिटोः** (6.4.88) इति वुक्-आगमः । परत्वात् अयम् द्वित्वात् पूर्वमागच्छति ।] → भूव् भूव् ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्] → भू भूव् ल् [**हलादि शेषः** (7.4.60) इति वकारस्य लोपः] → भुभूव् ल् [**ह्रस्वः** (7.4.59) इति अभ्यासे विद्यमानः यः अच्-वर्णः, तस्य ऊकारस्य ह्रस्वादेशः उकारः] → भभूव् ल् [**भवतेरः** (7.4.73) इति उकारस्य अकारः] → भभूव् तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → भभूव् णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → भभूव् अ [इत्संज्ञालोपः] → बभूव [**अभ्यासे चर्च्च** (8.4.54) इति अभ्यासस्य जश्त्वम्] अतः एधाम् + बभूव → एधाम्बभूव इति रूपं सिद्ध्यति । इ) अस्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् - लिट्-लकारस्य विषये अस्-धातोः वस्तुतः **अस्तेर्भूः** (2.4.52) इत्यनेन भू-आदेशः भवति । परन्तु अस्मिन् सूत्रे 'अस्' इत्यस्य निर्देशसामर्थ्यात् अयमादेशः न क्रियते । अतः अत्र रूपम् एतादृशं सिद्ध्यति - अस् + लिट् [**परोक्षे लिट्** (3.2.115) → अस् अस् + ल् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम् ] → अ अस् + ल् [**हलादि शेषः** (7.4.60) इति सकारस्य लोपः] → आ अस् + ल [**अत आदेः** (7.4.70) इति अभ्यास्य आदिभूतस्य अकारस्य दीर्घादेशः भवति] → आ अस् + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → आ अस् + णल् [**परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति तिप्-इत्यस्य णल्-आदेशः] → आस [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] अतः एधाम् + आस → एधामास इति रूपं सिद्ध्यति । ज्ञातव्यम् - 1) अस्मिन् सूत्रे 'कृञ्' इति प्रयुक्तः शब्दः वस्तुतः प्रत्याहारः अस्ति । **अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः** (5.4.50) अस्मिन् सूत्रे उपस्थितः कृ-शब्दः तथा **कृञो द्वितीयतृतीयशम्बबीजात् कृषौ** (5.4.58) अस्मिन् सूत्रे उपस्थितः इत्संज्ञकः 'ञ'कारः एतयोः योजनेन अस्य प्रत्यहारस्य निर्माणं भवति । अस्मिन् प्रत्याहारे कृ, भू तथा अस् एतेषाम् त्रयाणाम् समावेशः क्रियते । अस्मिन् विषये कौमुद्यां विस्तारेण उक्तमस्ति । 2) 'अनु'प्रयुज्यते इत्युक्ते 'अनन्तरम्' प्रयुज्यते । अतः आम्-प्रत्ययात् अनन्तरम् (लकारस्य लोपे कृते तस्य स्थाने) कृ/भू/अस्-धातोः रूपम् प्रयुज्यते । Sutrartha (English) ------------------- The लिट्-लकार forms of verb roots कृ, भू, and अस् are applied after the आम्-प्रत्यय. Vasu English Summary -------------------- After a verb which ends with आम् , the verb कृ 'to do', is annexed when लिट् (Perfect Tense) follows. Vasu English Translation ------------------------ After a verb which ends with आम् , the verb कृ 'to do', is annexed when लिट् (Perfect Tense) follows. After the above verbs formed by taking the augment आम् the perfect tense of कृ is added to form their Perfect. This has already been illustrated in the above examples. The word कृ includes also the verbs भू and अस्. All these three may be used as auxiliaries. The verb अस् when used as an auxiliary, is not replaced by भू (3.4.52) before the लिट् affixes which are *ardhadhatuka* affixes. Thus पाचयाञ्चकार, पाचयाम्बभूव, पाचयामास. Bhashya ------- कृञ्ञ्चानुप्रयुज्यते लिटि (657) (412 आम्संनियोगेनानुप्रयोगविधिसूत्रम्। 3.1.3 आ.11 ) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते। (आक्षेपबाधकभाष्यम्) अनुप्रयोगो यथा स्यात्। (आक्षेपसाधकभाष्यम्) नैतदस्ति प्रयोजनम्। आमन्तमव्यक्तपदार्थकं तेनापरिसमाप्तोर्थ इति कृत्वानुप्रयोगो भविष्यति ॥ (समाधानवार्तिकशेषभाष्यम्) अत उत्तरं पठति - - (1816 प्रयोजनवार्तिकम् ॥ 1 ॥) - कृञ्ञोऽनुप्रयोगवचनमस्तिभुवोः प्रतिषेधार्थम्- (भाष्यम्) कृञ्ञोऽनुप्रयोगवचनं क्रियते (किं प्रयोजनम्?। अस्तिभुवोः प्रतिषेधार्थम्) अस्तिभुवोरनुप्रयोगो मा भूदिति ॥ (1817 प्रयोजनान्तरवार्तिकम् ॥ 2 ॥) - आत्मनेपदविध्यर्थं च- (भाष्यम्) आत्मनेपदविध्यर्थं च कृञ्ञोनुप्रयोगवचनं क्रियते। आत्मनेपदं यथा स्यात्। (2 यप्रयोजनस्य यत्नान्तरसाध्यताभाष्यम्) उच्यमानेऽप्येतस्मिन्नवश्यमात्मनेपदार्थो यत्नः कर्तव्यः। (प्रथमप्रयोजननिराकरणभाष्यम्) अस्तिभूप्रतिषेधार्थेन चापि नार्थः ॥ (1818 भ्वस्त्यनुप्रयोगे इष्टापत्तिवार्तिकम् ॥ 3 ॥) - इष्टः सर्वानुप्रयोगः- (भाष्यम्) सर्वेषामेव कृभ्वस्तीनामनुप्रयोग इष्यते ॥ (आक्षेपभाष्यम्) किमिष्यत एव आहोस्वित्प्राप्नोति? ॥ (इष्टापत्तिभाष्यम्) इष्यते च, प्राप्नोति च। कथम्?। कृञ्ञिति नेदं धातुप्रग्रहणम् किं तर्हि?। प्रत्याहारग्रहणम् ॥ क्व सन्निविष्टानां प्रत्याहारः ॥ कृभ्वस्तियोगे इत्यतः प्रभृत्याकृञ्ञो ञ्ञकारात् ॥ (1819 प्रत्याख्यानवार्तिकम् ॥ 4 ॥) - सर्वानुप्रयोग इति चेदशिष्यमर्थाभावात्- (भाष्यम्) सर्वानुप्रयोग इति चेदशिष्यं कृञ्ञोऽनुप्रयोगवचनम्। किं कारणम्?। अर्थाभावात्। आमन्तमव्यक्तपदार्थकं तेनापरिसमाप्तोऽर्थ इति कृत्वा अनुप्रयोगो भविष्यति ॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - -कृभ्वस्तीनामेवानुप्रयोगो यथा स्यात् पचादीनां मा भूदिति ॥ (प्रत्याख्यानभाष्यम्) एतदपि नास्ति प्रयोजनम्। (1820 प्रत्याख्यानवार्तिकम् ॥ 5 ॥) - अर्थाभावाच्चान्यस्य सिद्धम् - (भाष्यम्) (अर्थाभावाच्चान्यस्य सिद्धमेतत् कुतः) कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः। न च सामान्यवाचिनोरेव विशेषवाचिनोरेव वा प्रयोगो भवति। तत्र विशेषवाचिन उत्पत्तिः। सामान्यवाचिनोऽनुप्रयोक्ष्यन्ते ॥ (1821 प्रयोजनवार्तिकम् ॥ 6 ॥) - लिट् परार्थं वा - (भाष्यम्) लिट्परार्थं तर्हि कृञ्ञोऽनुप्रयोगवचनं क्रियते। लिट्परस्यैवानुप्रयोगो यथा स्यात्। अन्यपरस्य मा भूदिति ॥ किं परस्य पुनः प्राप्नोति?। लट्परस्य ॥ (प्रत्याख्यानसाधकभाष्यम्) न लट्परस्यानुप्रयोगेण भूतकालो विशेषितः स्यात् ॥ (प्रयोजनभाष्यम्) निष्ठापरस्य तर्हि मा भूत् ॥ (प्रत्याख्यानभाष्यम्) न निष्ठापरस्यानुप्रयोगेण पुरुषोपग्रहौ विशेषितौ स्याताम् ॥ (प्रयोजनभाष्यम्) लुङ्परस्य तर्हि मा भूत् ॥ (प्रत्याख्यानभाष्यम्) न लुङ्परस्यानुप्रयोगेणानद्यतनभूतकालो विशेषितः स्यात् ॥ (प्रयोजनभाष्यम्) अयं तर्हि भूते परोक्षानद्यतने लङ् विधीयते हशश्वतोर्लङ्चेति, तत् - परस्य मा भूदिति ॥ (प्रत्याख्यानभाष्यम्) एतदपि नास्ति प्रयोजनम् ॥ एकस्या आकृतेश्चरितः प्रयोगो न द्वितीयस्यास्तृतीयस्याश्च भविष्यति। तद्यथा - गोषु स्वामी अश्वेषु चेति। न हि भवति गोषु वाश्वानां च स्वामीति ॥ (1822 प्रयोजनवार्तिकम् ॥ 7 ॥ ) - अर्थसमाप्तेर्वानुप्रयोगो न स्यात्- (भाष्यम्) अर्थसमाप्तेस्तर्ह्यनुप्रयोगो न स्यात्। आमन्तेन च परिसमाप्तोऽर्थ इति कृत्वा अनुप्रयोगो न स्यात् ॥ (प्रत्याख्यानभाष्यम्) एतदपि नास्ति प्रयोजनम्। इदानीमेव ह्युक्तमामन्तमव्यक्तपदार्थकं तेनापरिसमाप्तोऽर्थ इति कृत्वानुप्रयोगो भविष्यतीति ॥ (1823 प्रयोजनवार्तिकम् ॥ 8 ॥) - विपर्यासनिवृत्त्यर्थं वा - (भाष्यम्) विपर्यासनिवृत्तर्थं तर्हि कृञ्ञोऽनुप्रयोगवचनं क्रियते। इर्हांचक्रे। चक्रे इर्हामिति मा भूत्। (1842 प्रयोजनवार्तिकम् ॥ 9 ॥) - व्यवहितनिवृत्त्यर्थं च- (भाष्यम्) व्यवहितनिवृत्त्यर्थं च कृञ्ञोऽनुप्रयोगवचनं क्रियते। अन्वेव च कृञ्ञोऽनुप्रयोगो यथा स्यात् - इर्हांचक्रे ॥ (व्यवहितस्य मा भूदिति) इर्हां देवदत्तश्चक्रे इति ॥ कृञ्ञ्चानु ॥ 40 ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयाध्यायस्य प्रथमे पादे तृतीयमाह्निकम् ॥ Kashika ------- आम्प्रत्ययस्य पश्चात् कृञनुप्रयुज्यते लिटि परतः। कृञिति प्रत्याहारेण कृभ्वस्तयो गृह्यन्ते, तत्सामर्थ्यादस्तेर्भूभावो न भवति। पाचयाञ्चकार। पाचयाम्बभूव। पाचयामास॥ Siddhanta Kaumudi ----------------- आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य (SK2240) इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोगे (SK2117) इत्यतः कृञो द्वितीय - (SK2129) इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥ Laghu Siddhanta Kaumudi ----------------------- आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते। तेषां द्वित्वादि॥ Balamanorama ------------ **कृञ् चानुप्रयुज्यते लिटि** - कृञ्चानु । 'कास्प्रत्ययादा' मित्यत आमित्यनुवृत्तं पञ्चम्या विपरिणम्यते । प्रत्ययग्रहणपरिभाषया तदन्तं गृह्रते ।लिटि परे यः कृञ् सोऽनुप्रयुज्यत इत्यन्वयः । फलितमाह — आमन्ताल्लिट्परा इति । लिट्शिरस्का इत्यर्थः । कृभ्वस्तय इति ।कृ॑ञित्यनेन कृभ्वस्तीनां ग्रहणमिति भावः । अनुप्रयुज्यन्त इति । प्रशब्दादनुशब्दाच्चाऽव्यवहिताः पश्चात्पयुज्यन्त इत्यर्थः ।विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्यर्थं चे॑ति वार्तिकाद्भाष्याच्च । एवं चतं पातयां प्रथममास पपात पश्चात्प्रभ्रंशयां यो नहुषं चकारे॑त्यादिप्रयोगाः प्रामादिका एव । धातोराम् स्यात्, कृञ्चानुप्रयुज्यत इत्युक्तसमुच्चयार्थश्चकारः । ननु कृञ एवाऽनुप्रयोगश्रवणात्कथं भ्वस्त्योरप्यनुप्रयोग इत्यत आह — आम्प्रत्ययवदित्यादिना । 'कृञ्चानुप्रयुज्यत' इत्यत्र कृञ एकस्यैवानुप्रयोगविधौ सतिआम्प्रत्यव॑दिति सूत्रे अनुप्रयुज्यमानस्येत्यस्य कृञ इति विशेषणं व्यर्थं स्यात्, धात्वन्तरस्याऽनुप्रयोगाऽप्रसक्तेः । ततश्च 'कृञ' इति विशेषणादन्यस्ाप्यनुप्रयोगो विज्ञायत इत्यर्थः । ननु कृञोऽन्यस्याऽप्यनुप्रयोगो विज्ञायतां, भ्वस्त्योरपीत्येव कुत आयातमित्यत आह — तेनेति । कृञ्ग्रहणेनेत्यर्थः । प्रत्याहाराश्रयणादिति । एतच्च भाष्ये स्पष्टम् । नन्वनुप्रयुज्यमानानां कृभ्वस्तीनामाम्प्रकृतिभूतानां च कथमन्वय इत्यत आह — तेषामित्यारभ्याभेदेनान्वय इत्यन्तेन । सामान्यविसेयोरभेदान्वयस्य न्याय्यत्वादिति भावः । कृञ इव भ्वस्त्योरपि क्रियासामान्यवाचित्वात्, धातूनामनेकार्थत्वादिति ज्ञेयम् । ननु 'कृभ्वस्तियोगे' इत्यस्य, 'कृञो द्वितीये' त्यस्य च सूत्रस्य मध्येअभिविधौ संपदा चे॑ति पठितम् । एवं च कृञ्प्रत्याहारे संपदोऽपि कुतो न ग्रहणमित्यत आह — संपदिस्त्विति । अनन्वितार्थत्वादिति । सिद्धस्य वस्तुनो रूपान्तरापत्तिः सम्पदेरर्थः । एधादिधातोस्त्वाम्प्रकृतिभूतस्य वृद्ध्यादिरर्थः । तयोरुभयोरपि विशेषरूपत्वेन सामान्यविशेषभावाऽभावेन अभेदान्वयाऽसंभवादित्यर्थः । अत एव कृभ्वस्तीनां ग्रहणमिति भाष्यं सङ्गच्छत इति भावः । ननु आम्प्रत्ययवदिति कृञ आत्मनेपदविधायकसूत्रं वक्ष्यमाणं व्यर्थं, 'स्वरितञित' इत्येव तत्सिद्धेरित्याशङ्क्याह -कृञस्त्विति । Tattvabodhini ------------- **कृञ् चानुप्रयुज्यते लिटि** - कथं तर्हितं पातयां प्रथममास पपात पश्चात् ।प्रभ्रंशयां यो नहुषं चकारे॑ति । प्रमाद एवायम् । न च विपरीतप्रयोगनिवृत्तिमात्रे सूत्रस्य तात्पर्यात्पश्चात्प्रयोगो व्यवहितोऽपि न दुष्यतीति वाच्यम्,विपर्यासनिवृत्त्यर्थं व्यवहितनिवृत्त्यर्थं चे॑ति वार्तिकविरोधात् । अन्यस्यापीति । यदीह कृञ्शब्देन एक एव धातुर्गृह्रेत तदा धात्वन्तरस्य प्राप्त्यभावात्आम्प्रत्ययव॑दिति सूत्रेऽनुप्रयुज्यमानस्य कृञ इति विशेषणं व्यर्थं स्यादिति भावः । न चात्रकृञ्चे॑ति चकारेणैवाऽनुप्रयोगोऽन्यस्यापीति ज्ञायत इति शङ्क्यं,धातोराम् स्यात्, अनुप्रयुज्यते च लिट्परः कृञित्यर्थसमर्पकतया तस्योपक्षीणत्वात् । अभेदान्वय इति । सामान्यविशेषयोरभेदान्वयो लोकसिद्ध इति भावः । एवं च एंधाचक्रे एधांबभूवे इत्यादौ एककर्तृका भूतानद्यतनपरोक्षा वृद्ध्यभिन्ना क्रियेति तुल्यो बोधः । ननु करोतिः सकर्मको भवतिस्त्वकर्मक इति कथमिह तुल्यतेति चेत् । अत्राहुः — यदा हि करोतिरुत्पादनार्थकः स्वातन्त्र्येण प्रयुज्यते — घटं चक्रे राज्यं चकारेति, तदा नियमेन सकर्मकत्वम् । यदा तु क्रियान्तरसमानाधिकरणः करोतिः प्रयुज्यते — जुहवांचकारेत्यादौ, तदा यत्समानाध#इकरणः करोतिस्तस्य सकर्मकत्वाऽकर्मकत्वाभ्यां स्वयमपि तथाबावं भजते । एवं भ्वस्त्योरप्याम्प्रकृतिसामानाधिकरण्येन क्वचित्सकर्मकत्वं बोध्यम् । अत एवाऽनुप्रयुज्यमानाद्भवतेः सकर्मकत्वात्कर्मणि लिट् । तथा च माघः — तस्यातपत्रं बिभरांबभूवे॑इति, श्री हर्षश्च ।तपर्त्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे॑ इति । अत्रेदमवधेयं — जुहाव जुहवां चकार जुहवांबभूवेत्यादौ केवलो होमो गम्यते, इतरत्र तु होमरूपा क्रियेति बोधः । फले तु न कश्चिद्विशेषः, घटमानय द्रव्यघटमानयेत्यत्र यथा । एवं चाऽऽम्प्रकृत्यर्थगतिकारकसङ्ख्यादिविशेषाभिव्यक्तिरनुप्रयोगस्य फलमिति । अनन्वितेति । संपद्यर्थस्याऽऽम्प्रकृत्यर्थस्य चाऽभेदान्वयो न संभवति, उभयोरपि विशेषरूपत्वादिति भावः । Padamanjari ----------- कृञ्चानुप्रयुज्यते लिटि॥ अनुप्रयुज्यत इत्यनुशब्दः पश्चादर्थे। तत्र कस्य पश्चादित्यपेक्षायामामः प्रकृतत्वातस्यैवेति विज्ञायत इत्याह - आम्प्रत्ययस्येति। योऽयमाम्प्रत्ययो विहितः - कर्मधारयोऽयम्, न तु बहुव्रीहिः - आम्प्रत्ययो यस्मात्सोऽयमाम्प्रत्ययस्तस्येति। तथा हि सत्याम्प्रत्ययवदितिवादमः प्रत्ययस्य प्रकृत्युपलक्षणत्वाद्धातोरामश्च मध्ये कृञः प्रयोग उक्तः स्यात्। पश्चात्कृञनुप्रयुज्यत इति। पश्चाच्छब्दसन्निधावनुशब्दोऽयमनुवादः। लिटि परत इति। लिटि परतः स्थितो यः कृञ् सोऽनुप्रयुज्यत इत्यर्थः। सूत्रेऽपि लिटीति नानुप्रयोगस्य निमितनिर्देशः, किं तर्हि?'परोक्षे लिट्' इत्यनेन विहिते लिटि परभूते यः कृञ् सोऽनुप्रयुज्यत इति वचनव्यक्तिः। चकारेत्यादिपदमनुप्रयुज्यत इति यावत्। कृजिति प्रत्याहारेणेति।'कृभ्वस्तियोगे' इति कृशब्दादारभ्यऽ कृञो द्वितीयऽ इत्या कृञो ञकारात्प्रत्याहारः। अत्र च प्रमाणमाम्प्रत्यय इत्यत्र कृञ्ग्रहणम्। यदि ह्यत्र स्वरूपग्रहणं स्यातदान्यस्यानुप्रयोगस्याभावादनर्थर्क तत्र कृञ्ग्रहणं स्यात्। अत एव विपर्ययोऽपि न भवति - तत्र प्रत्याहारग्रहणम्, इह स्वरूपग्रहणमिति; न ह्यत्र स्वरूपमार्त्गग्रहणे तत्र कृभ्वस्तीनामनृप्रयोगत्वानुवाद उपपद्यते। तत्सामर्थ्यादिति। प्रत्याहारग्रहणमामर्थ्येत्यर्थः। अस्तेर्भूभावो न भवतीति। अन्यथाऽसन्देहार्थ'कृभ्वनुप्रयुज्यते लिटि' इत्येव ब्रूयादिति भावः। तत्र एषि इटि च रूपे विप्रतिपन्ना उभयत्र'ह एति - ईक्षामाह इति केचित्। अन्ये तु तासिमाहचर्यादिट।लेव हत्वमिति! अपरे तु साहचर्यादेव सार्वधातुक एवेति हत्वमित्युभयत्र ईक्षामास इति रूपमिति स्थिताः। इहामन्तमेतदनभिव्यक्तपदार्थकम्, नास्माद्भावकर्मकर्तृविशेषः पुरुषविशेषः संख्याविशेषो वा गम्यते, केवलं पूर्वापरीभूतानद्यतनकालं परोक्षे साधनादिविशेषाकाङ्क्षं क्रियारूपमर्थमाह। तत्रावश्यं तदाकाङ्क्षनिवृतये विशेषवाचिपदमनुप्रयोक्तव्यम्, तस्मादनुप्रयुज्यत इत्यंशो न विधातव्यः? इदं तर्हि प्रयोजनम् - -कृभ्वस्तीनामेव यथा स्याद्धात्वन्तरस्य मा भूत्। कस्य पुनः प्राप्नोति? सामान्यवचनस्यानुप्रयुज्येत - कारयां पपाचेति। विशेषवचनस्य वा, तत्रापि सो' नुप्रयुज्येत - उषामुवोष, विदांविवेद, जागराञ्जजागारेति। तत्समानार्थो वा - उषान्ददाहे तीत्यादि। अर्थान्तरवचनो वा - उषाम्पपाचेति। प्रथमे पक्षे यावदपेक्षमेव नानुप्रयुक्तं स्यादधिकोऽप्यर्थो गम्येत पाकादिविशेषो नाम, द्वितीयतृतीययोस्त्वनुप्रयोगेणैव सकलार्थावगतेरासप्रयोगो व्यर्थः स्यात्, चतुर्थे त्वर्थान्तरगत एव विशेषो गम्येत, न त्वामवगतः, तद्रतविशेषाभिधानाय त्वामनुप्रयोगव्यसनम्। अत एव प्रत्याहारान्तर्भूतस्यापि सम्पद्यतेरनुप्रयोगो न भवति, अन्यथा तस्यापि स्यात्।'सनाद्यन्ता धातवः' इत्यतो धात्वधिकाराद्वा धातूपसर्गसमुदायस्य न भविष्यति। एवमपि योऽत्र धानुप्रयोक्ष्यते। एवं हि सामान्यस्य सन्निहिते एव विशेषे पर्यवसानातद्रतसाधनादिविशेषाभिधानमामन्तर्गतविशेषाभिधानमेव संवर्तते। तथा भ्वस्त्योरनुप्रयुज्यमानयोरामन्तवशेन सकर्मकत्वं भवति -'तस्यातपत्रं विभराम्बभूवे,' ठहं किल व्यपेक्षामासऽ इति, तदुपपद्यते, तेन द्वयोः सहप्रयोगः। यदि तु सामान्यवचन एव प्रयुज्येत; क्रियाविशेषो न गम्येत, आमन्तस्यैवानभिव्यक्तिः। तस्मात्कृञ्चेत्ययमप्यंशो न विधेयः। इदं तर्हि प्रयोजनं लिट्परस्यैव यथा स्यात्, प्रत्ययान्तरपरस्य मा भूत्। किंपरस्य पुनः प्राप्नोति? कृत्परस्य। न कृत्परस्यानुप्रयोक्ष्यमाणपुरुषविशेषाभिव्यक्तिः। लिटि तु विरुद्धकालतैव लृलुटोरपि। लिङदिष्वपि विध्याद्यर्थान्तरप्रतीतिप्रसङ्गः, लुङ् भूतिमात्रं गम्येत नानद्यतनविशेषः, लटि न पारोक्ष्यं गम्येत। ननु च यथानुप्रयोगे प्रकृतिवाच्यस्य सामान्यस्यामन्तर्वाच्ये विशेषे पर्यवसानम्, एवं प्रत्ययवाच्यस्याप्यामन्तर्वाच्येऽनद्यतने परोक्षे च विशेषे पर्यवसानाद्यौज्यत एव लुङेऽनुप्रयोगः, तथा'हशश्वतोर्लङ् च' इति लिडर्थ एव लङ् विधीयते, लङ्न्तस्यानुप्रयोगः प्राप्नोति? नैष दोषः; एकस्या आकृतेश्चरितः प्रयोगो द्वितीयस्यास्तृतीयस्याश्चभविष्यति। कोऽर्थः? यया प्रकृत्या प्रयोगः प्रारभ्यते तयैव समापनीयः, यथा - खादिरे बध्नाति पालाशे बघ्नातीति यूपद्रव्यविकल्पे खादिरेण प्रयोगे प्रारब्धे दैवान्मानुषाद्वा कस्माच्चिदपराधात्खादिरापचारे मुख्ये पलाशे लभ्यमानेऽपि तत्परित्यागेनालभ्यमानस्यापि खादिरस्य प्रतिनिधिना बादरादिना प्रयोगः परिसमाप्यते। एवं हि प्रारब्धः प्रयोगः परिसमापितो भवति। द्रव्यान्तरोपादाने तु प्रयोगान्तरं स्याद्; द्रव्यभेदे क्रियाभेदात्। प्रतिनिधिस्तु मुख्यबुद्ध्यैवोपादीयते; तदवयवानां तत्र भूयसां सम्भवात्। तथेहाप्यामन्तेन लिट्प्रयोगः प्रारब्धोऽपरिसमाप्तः साकाङ्क्षः तस्याकाङ्क्षापूरणेन स एव प्रयोगोऽनुप्रयोगेण परिसमाप्यमानो युक्तं यल्लिट्परस्यैवानुप्रयोगेण परिसमाप्यते, तस्मान्नास्ति प्रत्ययान्तरपरस्यानुप्रयोगप्रसङ्गः। तस्माल्लिटीत्ययमप्यंशो न विधातव्यः। इदं तर्हि प्रयोजनम् - अनुप्रयोगःउपश्चात्प्रयोगो यथा स्यात्-ईक्षांचक्रे, चक्रेईक्षामिति मा भूत्। व्यवहितनिवृत्यर्थ च - ईक्षां देवदतश्चक्रे। कथं व्यवहितनिवृत्तिः? आमपेक्षया पश्चाद्भावस्य तत्रैव मुख्यत्वात्। तदेवं पूर्वनिवृत्तिर्व्यवहितनिवृत्तिश्च प्रयोजनमिति स्थितम्। इह तु तान्ह राजा मदयामेव चकारेति बह्बृचव्राह्मणे व्यवहितप्रयोगश्छान्दसः। कथं भट्टिकाव्ये ठुक्षां प्रचक्रे नगरस्य मार्गान्,'बिभयां प्रचकारासौ' इति? कथं वा'तं तातयां प्रथममास' 'प्रभ्रंशयां यो नहुषं चकार' इति? वार्तिककारः पृच्छयताम्, यः पठति -'विपर्यासनिवृत्यर्थ वाच्यम्, व्यवहितनिवृत्यर्थ च' इति!॥ Nyaas ----- `अनुप्रयुज्यते` इति। अनुप्रशब्दौ प्रत्येकं प्रथमान्ते पदे। `युज्यते` इत्यात्ममनेपदे प्रथमपुरुषैकवचनान्तं पदम्। `आम्प्रत्ययस्य` इति। आम् प्रत्ययो यस्मादिति बहुव्रीहिः। पश्चादित्यनेनानुशब्दस्यार्थमाचक्षाणः प्राक् प्रयोगं निराकरोति। सावधारणफलत्वाच्च सर्ववाक्यानामाम्प्रत्ययस्यैव पश्चात् कृञ् प्रयुज्यते - इत्यवधारणमिहाश्रितम्, तेन व्यवधाने प्रयोगो निराकृतो भवति। न हि व्यवधाने कृञनुप्रयुज्यमान आम्प्रत्ययस्यैवानुप्रयुक्तो भवति, अपि तु शब्दान्तरस्यापि।`लिटि परतः` इत्यनेन प्रत्ययान्तरे परे प्रयोगाभावमाह। ननु च `आमः` (2.4.81) इति लिटो लुका भवितव्यम्, तत्कथं लिटि परतः कृञ नुप्रयुज्यते? नैष दोषः; न ह्रयमत्रार्थः - लक्षणान्तरेण यो विहितो लिट्परः कृञनुप्रयुज्यत इति यावत्। ननु च कृञित्युच्यते, पाचयाम्बभूव पाचयामासेति भवतेरस्तेश्चानुप्रयोगो न सिध्यतीत्याह - `कृञिति प्रत्याहारेण` इत्यादि।**अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः** (5.4.50) इतीतं कृशब्दं गृहीत्वा `कृञो द्वितीयतृतीयशम्बबीजात् कृषौ` (5.4.58) इति ञकारेण प्रत्याहारग्रहणमेतत्। तेन प्रत्याहारग्रहणेन कृभ्वस्तयस्त्रयो गृह्यन्ते। तत्र च त्रयाणामप्यन्तर्भावादित्यदोषः। एवमप्यस्तेरनुप्रयोगो न सिध्यति, यस्मात् **अस्तेर्भूः** (2.4.52) इति भूभावेन भवितव्यमित्याह - `तत्सामर्थ्यात्` इति। प्रत्याहेरण कृभ्वस्तीनां ग्रहणसामर्थ्यादस्तेर्भूभावो न भवति। तेषां प्रत्याहारगर्हणस्यैतत् प्रयोजनम् - अस्तेरनुप्रयोगो यथा स्यात्। यद्यस्तेरनुप्रयोगस्य भूभावः स्यात् निष्फलं प्रत्याहारग्ररहणं स्यात्, `कृभ्वनुप्रयुज्यते लिटि` इत्येवं ब्राऊयात्। तत्राप्ययमर्थः - किमिदं करोतेग्र्रहणम्? उत प्रत्याहारस्य? इति सन्देहः परिह्मतो भवति। यदि तर्हि कृञिति प्रत्याहारग्रहणम्, एवं सति **अभिविधौ सम्पदा च** (5.4.53) इति सम्पदानुप्रयोगः प्राप्नोति; तस्य प्रत्याहारेऽन्तर्भूतत्वात्? नैष दोषः; **सनाद्यन्ता धातवः** (3.1.32) इत्यतो धातुग्रहणमनुवर्तते, तेन च कृञ् विशिष्यते - कृञ् यो धातुरिति, न च सम्पदेत्यं धातुः, किं तर्हि? धातूपसर्गसमुदायः, तस्मान्नानुप्रयुज्यते।`पाचयाम्बभूव` इति। पचेण्र्यन्तादाम्। **अयामन्ताल्वाय्येत्न्विष्णुषु** (6.4.55) इति णेरयादेशः। `भवतेरः` (7.4.73) इत्यभ्यासस्यात्त्वम्। `भुवो वुग् लुङलिटोः` (6.4.88) इति वुगागमः।किमर्थं पुनरिदमुच्यते, यावताऽमन्तमिदम्, अनभिव्यक्तक्रियापदार्थम्। अतो हि क्रियाकालमात्रस्याभिव्यक्तिर्भवति, न साधनपुरुषसंख्यानम्। न हि विना तिङन्तपदेन तासामभिव्यक्तिर्भवति। तस्मादपरिसमाप्त्यर्थत्वादेवामन्तस्यानुप्रयोगो भविष्यति? कृभ्वस्तीनामनुप्रयोगो यथा स्यात्, `{पचादीनां मा भूत्। पचादीनामिति चेन्न`} इति मुद्रितः पाठः} पचादीनां मा भूदिति चेत्, न; पचादीनां विशेषवाचित्वादनुप्रयोगस्यानुपपत्तेः। विशेषवाची ह्रनुप्रयुज्यमानः सामान्यवाचिनो ह्रामन्तस्यानुप्रयुज्यते? विशेषवाचिनो वा? तत्र न तावत् सामान्यवाचिन आमन्तस्य विशेषवाच्यनुप्रयोगमर्हति, तस्यासम्भवात्। कृभ्वस्तयो हि सामान्यवाचिनः, न च तेभ्यः केनचिदाम् विहितः। विशेषवाचिनोऽप्यामन्तस्य विशेषवाची समानार्थोऽनुप्रयुज्येत? भिन्नार्थो वा? तत्र समानार्थस्तावन्नानुप्रयुज्यते; उक्तार्थत्वात्। तस्मश्चानुप्रयोक्तुमिष्ट आमन्तस्य सकलक्रियाकालाद्यर्थाभिव्यक्तिर्भवति। सामर्थ्यात् स एवानुप्रयोक्तव्यो यत्र सर्वाभव्यक्तिर्भवति। तत्र क्रियामन्तेन समानार्थेन पूर्वेण ! भिन्नार्थोऽपि नानुप्रयोगमर्हति; तदर्थानभिव्यक्तेः। अनुप्रयोगो ह्रामन्तस्यार्थस्य#आभिव्यक्तये क्रियते, न चात्यन्तभिन्नार्थेनामन्तवाच्यस्यार्थस्य सम्बन्धिनः साधनादयः शक्यन्तेऽभिव्यङक्तुम्। सामान्यवाचिना तु शक्यन्तेऽभिव्यङक्तुम्। विशेषसन्निधौ हि सामान्यशब्दस्य विशेषेऽवस्थानादामन्तस्य सन्निधौ सामान्यशब्दाः कृभ्वस्तयोऽनुप्रयुज्यमानास्तद्वाच्य एवार्थविशेषे वर्तन्ते, तस्मादेषामेव कृभ्वस्तीनामनुप्रयोगो भविष्यतीति नारब्धव्यमिदम्? नैतदस्ति; यथैव हि कृभ्वस्तयः क्रियासामान्यवचनाः, एवं विद्यतिरपीति तस्याप्यनुप्रयोगः स्यात्। तस्मात् तन्निवृत्त्यर्थमिदमारब्धम्। व्यवहितप्रयोगनिवृत्त्यर्थञ्च, पाचयां देवदत्तश्चकारेति मा भूत्। व्यवहितप्रयोगानिवृत्तिस्त्ववधारणविशेषाल्लभ्यते। अवधारणं तु सर्ववाक्यानां व्यवच्छेदफलत्वात् सावधारणफलत्वाच्चकारस्यानुक्तसमुच्चयार्थत्वाद्वा लभ्यते। विपर्ययनिवृत्त्यर्थश्चारब्धव्यः, विपर्ययनिवृत्तिस्त्वनोः पश्चादर्थत्वाल्लभ्यते॥ Prakriyasarvasvam ----------------- आमः पश्चादव्यवहित एव लिडन्तः कृञनुप्रयुज्यते । कृञिति कृभ्वस्तय उक्ताः । Sutra Prayogas -------------- * **पातयां प्रथममास** (रघुवंशम्): `कृञ्चानुप्रयुज्यते लिटि` इत्यत्र अनुशब्दस्य व्यवहितविपर्यस्तप्रयोगनिवृत्त्यर्थत्वात् अयमपप्रयोग इति पाणिनीयाः। * **बिभरांबभूवुः** (किरातार्जुनीयम्): `कृञ्चानुप्रयुज्यते लिटि` इति भुवोऽनुप्रयोगः। * **निवेशयामासिथ** (शिशुपालवधम्): `कृञ्चानुप्रयुज्यते लिटि` इत्यस्तेरनुप्रयोगः। * **अध्यासामासुः** (शिशुपालवधम्): `कृञ्चानुप्रयुज्यते लिटि` इत्यस्तेरनुप्रयोगः। * **चक्रे** (शिशुपालवधम्): `कृञ्चानुप्रयुज्यते लिटि` इति कृजोऽनुप्रयोगः। * **ओषामासे** (शिशुपालवधम्): `कृञ्चानुप्रयुज्यते लिटि` इत्यस्तेश्वानुप्रयोगः। * **प्रचक्रुर्नगरस्य** (भट्टिकाव्यम्): `कृञ्चानुप्रयुज्यते` इति अनुशब्दस्य व्यवहितनिवृत्त्यर्थत्वात् । * **बिभरामास** (भट्टिकाव्यम्): `कृ` इति प्रत्याहारग्रहणादस्तेरप्यनुप्रयोगः। * **संत्रासयांचकाराऽरिं** (भट्टिकाव्यम्): `कृञ्चानुप्रयुज्यते-` इत्यादिना लिट्परस्य कृञो ऽनुप्रयोगः।