31038: उषविदजागृभ्योऽन्यतरस्याम् ================================ **Padacheda:** उष-विद-जागृभ्यः | S | 5 | 3 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix आम् is optionally used after these - उष् 'to burn', विद् 'to know' and जागृ 'to wake', when लिट् (Perfect Tense) follows. Vasu English Translation ------------------------ The affix आम् is optionally used after these - उष् 'to burn', विद् 'to know' and जागृ 'to wake', when लिट् (Perfect Tense) follows. Thus ओषाञ्चकार or उवोष, विदाञ्चकार or विवेद, जागराञ्चकार or जजागार. As there is an agreement in the present instance to regard the verb विद as ending in a short अ, *guna* is not substituted, as it would otherwise have been by rule (7.3.86). Bhashya ------- उषविदजागृभ्योन्यतरस्याम् (655) (410 आम्विकरणविधिसूत्रम्॥ 3.1.3 आ. 9) (1895 वार्तिकम्॥ 1 ॥) - विदेराम् कित् - (भाष्यम्) विदेराम किद्वक्तव्यः। विदांचकार॥ (वार्तिकवैर्यथ्यभाष्यम्) न वक्तव्यः। विदिरकारान्तः॥ (दूषणभाष्यम्) यद्यकारान्तः, वेत्तीति गुणो न सिध्यति॥ (दूषणपरिहारभाष्यम्) लिट्सन्नियोगेन॥ (दूषणभाष्यम्) एवमपि विवेदेति न सिध्यति॥ (दूषणपरिहारभाष्यम्) एवं तर्हि आम् सन्नियोगेन॥ भारद्वाजीयाः पठन्ति विदेराम् कित ॥ निपातनाद्वा अगुणत्वम्- इति ॥ उषविद ॥ 38 ॥ Kashika ------- **उष दाहे**, **विद ज्ञाने**,**जागृ निद्राक्षये** एतेभ्यो लिटि परतोऽन्यतरस्यामाम् प्रत्ययो भवति। ओषाञ्चकार, उवोष। विदाञ्चकार, विवेद। जागराञ्चकार, जजागार। विदेरदन्तत्वप्रतिज्ञानाद् आमि गुणो न भवति॥ Siddhanta Kaumudi ----------------- एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ ।{$ {!697 जिषु!} {!698 विषु!} {!699 मिषु!} सेचने $}। जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् ।{$ {!700 पुष!} पुष्टौ$} । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् ।{$ {!701 श्रिषु!} {!702 श्लिषु!} {!703 प्रुषु!} {!704 प्लुषु!} दाहे$} । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष ।{$ {!705 पृषु!} {!706 वृषु!} {!707 मृषु!} सेचने$} । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् ।{$ {!708 घृषु!} संघर्षे$} ।{$ {!709 हृषु!} अलीके$} ।{$ {!710 तुस!} {!711 ह्रस!} {!712 ह्लस!} {!713 रस!} शब्दे$} । तुतोस । जह्नास । जह्लास । ररास ।{$ {!714 लस!} श्लेषणक्रीडनयोः $}।{$ {!715 घसॢ!} अदने$} । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् (SK2424) इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥ Laghu Siddhanta Kaumudi ----------------------- एभ्यो लिटि आम्वा स्यात्। विदेरदन्तत्वप्रतिज्ञानादामि न गुणः। विदाञ्चकार, विवेद। वेदिता। वेदिष्यति॥ Balamanorama ------------ **उषविदजागृभ्योऽन्यतरस्याम्** - उषविद । 'कास्प्रत्यया' दित्यत आम् लिटीत्यनुवर्तते । तदाह — एभ्यो लिटीति । आमभावपक्षे आह - उवोषेति । 'अभ्यासस्याऽसवर्णे' इति उवङादेशः । जिषु विषु मिषु सेचन इति । द्वितीयो दन्त्योष्ठआदिः । थलि वसि मसि च विशेषमाह — क्रादिनियमादिडिति । विवेषिथेति । अजन्ताकारवत्त्वाऽभावेन भारद्वाजनियमाऽप्रवृत्तेस्थल्यपि क्रादिनियमान्नित्यमिट् । वेष्टेति । तासि ष्टुत्वेन तकारस्य टः । वेक्ष्यतीति ।षढो॑रिति षस्य कः, सस्य षः । अविक्षदिति ।शल इगुपधा॑दिति क्सः, षस्य कः, सस्य षः, कित्त्वान्न गुणः । पुषधातु सेडिति मत्वाह — पोषितेति । अपोषीदिति ।नेटी॑ति वृद्धिनिषेधः । नन्विट्सु पुषेः पाठात् कथं सेट्कत्वमित्यत आह -अनिट्केष्विति । अत इति । सेट्कत्वात् क्सो नेत्यर्थः । ननु पुषादित्वलक्षणः अङ्कुतो नेत्यत आह — अङ्विधाविति । एतच्चानुपदमेव पुषादिसूत्रव्याख्यावसरे स्पष्टीभविष्यति । अयमपीति । पुषधातुवत् श्लिषधातुरपि भौवादिकः सेडित्यर्थः । कैयटादय इति । 'श्लिष आलिङ्गने' इति सूत्रे कैयटहरदत्तादिभिस्तथा प्रपञ्चितत्वादिति भावः । द्वयोग्र्रहणमिति । भौवादिकदैवादिकयोरित्यर्थः । स्वोक्तीति । 'श्लिष आलिङ्गने' इति सूत्रे दैवादिकश्लिषेरनिट्केषु ग्रहणमिति न्यासकृता कैयटादिभिश्चोक्तत्वादिति भावः । पृषु वृषु इत्यारभ्य ह्मषुपर्यन्ता ऋदुपधाः । अलीकं — मिथ्याभवनं, मिथ्योक्तिर्वा । तुस ह्यसेत्यारभ्य णश गतावित्यतः प्राक् सकारान्ताः । घस्लृ धातुरनिट्कः । अयमिति । घस्लृधातुः, सर्वेषु न प्रयोज्य इत्यर्थः । कुत इत्यत आह — लिटीति । यद्ययं सार्वत्रिकः स्यात्तदा लिटपि प्रयुज्येत ततश्च 'अद भक्षणे' इति धातोर्लिटन्यतरस्यामिति घस्लृभावविधिव्र्यर्थः स्यादिति भावः । असार्वत्रिकत्वे सति क्व प्रयोगः क्व नेत्यत आह — ततश्चेति । यत्र घस्लृधातोः प्रयोगे ज्ञापकं प्रत्यक्षवचनं वास्ति तत्रैवास्य प्रयोग इत्यर्थः । ततर् तावल्लिङ्गं दर्शयति — अत्रैवेति । भ्वादिगणे अत्रैव क्रमे अस्य पाठः शपि परस्मैपदे प्रयोगे लिङ्गमित्यर्थः । न च धातुसंज्ञार्थः पाठ इति शङ्क्यं, द्युत दीप्तावित्यतः प्राक् । [॒अनुदात्तेत इत्यतोग्रे॑[ पाठेनैव सिद्धे अत्र क्रमे तत्पाठवैयथ्र्यादिति भावः । लृदित्करणमङीति ।प्रयोगे लिङ्ग॑मिति शेषः । अनिट्कारिकास्विति । अनुदात्तोपदेशेषु घस्लृधातोः पाठो वलाद्यार्धधातुके प्रयोगे लिङ्गमित्यर्थः । अथ क्वचिदस्य प्रयोगे प्रत्यक्षवचनं दर्शयति — क्मरचीति । 'सृघस्यदः क्मरः' जित्यत्र विशिष्य घसेरुपादानं क्मरचि प्रयोगे प्रमाणमित्यर्थः । घसतीति । लटि तसाद्युपलक्षममिदम् । लिटि अस्य प्रयोगाऽभावाल्लुटदाहरति — घस्तेति । Tattvabodhini ------------- **उषविदजागृभ्योऽन्यतरस्याम्** - उवोषेति ।पुगन्ते॑ति गुणः ।अब्यासस्याऽसवर्णे॑ इत्युवङ् । घृषु संघर्षे । ल्युटि — घर्षणम् । घस्लृ अदने । अयमिति । यद्ययं सार्वत्रिकः स्यात्तदा लिटपि प्रयुज्येत, ततश्चलिटन्यतरस्या॑मिति विकल्पेनादेशविधानं व्यर्थं भवेदिति भावः । अत्रैव पाठ इति । भ्वादौ परस्मैपदे पाठ इत्यर्थः । क्मरचीति ।सृघस्यदः क्मर॑ जिति सूत्रे । Padamanjari ----------- उषविदजागृभ्योऽन्यतरस्याम्॥ विद ज्ञाने इति। सताविचारणार्थयोस्त्वात्मनेपदिनोर्लाभार्थस्य चोभयपदिनो ग्रहणं न भवति, परस्मैपदिभ्यामुषिजागृभ्यां जागर्तिनाऽऽदादिकेन साहचर्यादिति भावः। विवेदेति। आम्प्रत्ययसन्नियोगेनादन्तत्वप्रतिज्ञानादत्र गुणो भवत्येव। अत एवाह - विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवतीति॥ Nyaas ----- उषजागृभ्यां साहर्याद्विदेरपि परस्मैपदिनो ज्ञानार्थस्य ग्रहणम्, न तु सत्त्ाविचारणार्थं योरात्मनेपदिनोः, नापि लाभार्थस्योभयपदिनः; जागर्त्तिनाऽऽदादिकेन वा साहचर्याद्विदेरादादिकस्यैव ग्रहणमित्याह - `विद ज्ञाने` इति। विवेदेत्यत्रादन्तत्वाभावाद्गुणो भवत्येव। आम्सन्नियोगेन विदेरदन्तत्वं विज्ञायते, तेन तत्रैव गुणाभावो नान्यत्रेति। अत आह - `विदेरदन्तत्वप्रतिज्ञानादामि गुणो न भवति` इति॥ Prakriyasarvasvam ----------------- एभ्यो लिट्याम् वा स्यात् । उषविदेत्यत्र विदेरदन्त²त्वस्य विवक्षितत्वादतो लोपे तस्य स्थानिवत्वान्न गुणः । विदाञ्चकार, विवेद । विविदतुः । विवेदिथ । विविदिव । एवम् ओषाञ्चकार । जागराञ्चकार । 'अभ्यासस्यासवर्णे' इत्युवङ् । उवोष । जजागार । कर्मणि विदाञ्चक्रे, विविदे । आशिषि विद्यात् । विद्यास्ताम् । वेदिता । वेदिष्यति । वेत्स्यतीति पदभङ्गादिति वामनः । तथा प्रयोगश्चेत् वेत्सि असीति च्छेष्यम् । असीति वाक्यालङ्कारे निपात इति । सम्पूर्वस्यास्य तदुक्तः । संवित्ते । संविदाते । Sutra Prayogas -------------- * **विदांबभूवुः** (किरातार्जुनीयम्): `उषविदजागृभ्योऽन्यतरस्याम्` इति विकल्पादाम्प्रत्ययः। * **ओषामासे** (शिशुपालवधम्): `उपविदजागृभ्योऽन्यतरस्याम्` इत्याम्प्रत्ययः। * **विदांचकार** (भट्टिकाव्यम्): `उप-विद` इति आम्। * **ओषांचक्रे** (भट्टिकाव्यम्): `उपविद` इत्याम्। * **विदांचकार** (भट्टिकाव्यम्): `उप-विद` इत्यादिना आम्।