31033: स्यतासी लृलुटोः ====================== **Padacheda:** स्य-तासी | S | 1 | 2 | लृलुटोः | S | 7 | 2 | Sutrartha --------- **लृट् लकारे लृङ्लकारे वा परे धातोः परः 'स्य' विकरणप्रत्ययः आगच्छति । लुट्-लकारे परे धातोः परः तास् -विकरणप्रत्ययः आगच्छति ।** अस्मिन् सूत्रे प्रयुक्तः 'लृ' अयम् शब्दः लृट्लकारस्य तथा लृङ्लकारस्य - उभयोः निर्देशं करोति । एतयोः लकारयोः विषये अनेन सूत्रेण अङ्गस्य (धातोः) 'स्य' अयम् विकरणः विधीयते । तथा च, 'लुट्'लकारस्य विषये अनेन सूत्रेण अङ्गस्य (धातोः) 'तास्' अयम् विकरणः विधीयते । यथा, पठ्-धातोः एतेषु त्रिषु लकारेषु प्रथमपुरुषैकवचनस्य रूपाणि एतादृशानि सिद्ध्यन्ति - 1. पठ् + लृट् [**लृट् शेषे च** (3.3.13) इति लृट्] → पठ् + स्य + लृट् [**स्यतासी लृलुटोः** (3.1.33) इति स्य-विकरणप्रत्ययः] → पठ् + इ + स्य + लृट् [**आर्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + स्य + तिप् [**तिप्तस्...** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → पठिष्यति [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्] 2. पठ् + लृङ् [**लिङ्निमित्ते लृङ् क्रियातिपत्तौ** (3.3.139) इति लृङ्] → अट् + पठ् + लृङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः] → अ + पठ् + स्य + लृङ् [**स्यतासी लृलुटोः** (3.1.33) इति स्य-विकरणप्रत्ययः → अ + पठ् + इ + स्य + लृङ् [**आर्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः] → अ + पठ् + इ + स्य + तिप् [**तिप्तस्...** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → अ + पठ् + इ + स्य + त् [**इतश्च** (3.4.100) इति इकारलोपः] → अपठिष्यत् [**आदेशप्रत्यययोः** (8.3.59) इति षत्वम्] 3. पठ् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → पठ् + तास् + लुट् [**स्यतासी लृलुटोः** (3.1.33) इति तास्-विकरणप्रत्ययः] → पठ् + तास् + तिप् [**तिप्तस्..** (3.4.78) इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः] → पठ् + इ + तास् + तिप् [**आर्धधातुकस्य इड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + तास् + डा [**लुटः प्रथमस्य डारौरसः** (2.4.85) इति डा-आदेशः] → पठ् + इ + त् + आ [**टेः** (6.4.129) इति डित्वसामर्थ्यात् भसंज्ञां विना अपि अङ्गस्य टि-संज्ञकस्य (आस्-इत्यस्य) लोपः] → पठिता ज्ञातव्यम् - 1. सूत्रे प्रयुक्तः 'तासी' शब्दः 'तासि' इत्यस्य प्रथमा-द्विवचनमस्ति । अतः लुट्-लकारस्य विषये अस्मिन् सूत्रे मूलरूपेण निर्दिष्टम् विकरणम् 'तासि' इति अस्ति । परन्तु अत्र इकारः केवलमुच्चारणार्थः अस्ति, अतः 'तास्' इत्येव विकरणप्रत्ययः प्रयुज्यते । 2. कौमुद्यां दीक्षितः वदति - 'स्य तथा तास् - एतौ विकरणौ **कर्तरि शप्** (3.1.68) इत्यस्य अपवादरूपेण आगच्छतः । एषः पक्षः स्वीक्रियते चेत् लकारस्य आदौ तिबादेशम् कृत्वा ततः विकरणप्रत्ययः आगच्छतीति स्मर्तव्यम् । Sutrartha (English) ------------------- In case of लृट् लकार and लृङ्लकार, the अङ्ग gets the विकरणप्रत्यय 'स्य'. In case of लुट्लकार, the अङ्ग gets the विकरणप्रत्यय तास्. Vasu English Summary -------------------- When ऌ and लुट् follow, then स्य and तासि are respectively the affixes of a verbal root Vasu English Translation ------------------------ When ऌ and लुट् follow, then स्य and तासि are respectively the affixes of a verbal root लृ is the common expression for लृङ् and लृट् formed by rejecting their special *anubandhas*, and means therefore the 2nd Future and the Conditional tenses. लुट् is the 1st Future also called the Periphrastic Future. Thus करिष्यति अकरिष्यत्, कर्ता. The इ of तासि is indicatory and shows that the nasal of the root is not to be dropped before this; as मन् 'to think', मन्ता 'he will think'. Bhashya ------- स्यतासी लृलुटोः (650) (406 स्यतास्प्रत्ययविधिसूत्रम्॥ 3.1.3 आ. 5 ) (विकरणानामुत्सर्गापवादत्वनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) इमे विकरणाः पठ्यन्ते। तत्र न ज्ञायते - क उत्सर्गः, कोऽपवाद इति॥ तत्र वक्तव्यम् - अयमुत्सर्गः, अयमपवाद इति॥ (समाधानभाष्यम्) इमे ब्रूमः - यगुत्सर्गः, अपवादाः शबादयः स्यादयश्च॥ (वार्तिकशेषभाष्यम्) यदि यगुत्सर्गः, अपवादः शबादिः स्यादयश्च - (1796 आक्षेपवार्तिकम्॥ 1 ॥) - अपवादविप्रतिषेधाच्छबादिबाधनम्- (भाष्यम्) अपवादविप्रतिषेधाच्छबादिभिः स्यादीनां बाधनं प्राप्नोति। शबादीनामवकाशः - पचति पठति। स्यादीनामवकाशः पक्ष्यते यक्ष्यते। इहोभयं प्राप्नोति - पक्ष्यति यक्ष्यति। परत्वाच्छबादयः प्राप्नुवन्ति॥ (1797 आक्षेपबाधकवार्तिकम्॥ 2 ॥) - आक्षेपबाधकवार्तिकम्॥ 2 ॥) (भाष्यम्) अपवादो नाम स भवति यत्रानेकलक्षणप्रसङ्गः॥ अत्र च भावकर्मणोर्यग्विधीयते, कर्तरि शप्। कः प्रसङ्गो यद्भावकर्मणोर्यकं कर्तरि शबादयो बाधेरन्॥ (1798 अन्यविधोत्सर्गापवादत्वविदूषणवार्तिकम्॥ 3 ॥) - अपवादविप्रतिषेधाच्छ्यन्नादिबाधनम्- (भाष्यम्) अपवादविप्रतिषेधात् श्यन्नादिभिः स्यादीनां बाधनं प्राप्नोति। श्यन्नादीनामवकाशः - -दीव्यति सीव्यति। स्यादीनामवकाशः - पक्ष्यति यक्ष्यति। इहोभयं प्राप्नोति - देविष्यति सेविष्यतीति। परत्वाच्छ्यन्नादयः प्राप्नुवन्ति॥ (आक्षेपबाधकभाष्यम्) नैष दोषः। शबादेशाः श्यनादयः करिष्यन्ते॥ शप् च स्यादिभिर्बाध्यते। तत्र दिवादिभ्यः स्यादिविषये शबेव नास्ति कुतः श्यन्नादयः॥ (आक्षेपभाष्यम्) तत्तर्हि शपो ग्रहणं कर्तव्यम्॥ (समाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। कर्तरि शब् इति॥ (समाधानबाधकभाष्यम्) तद्वै प्रथमानिर्दिष्टं षष्ठीनिर्दिष्टेन चेहार्थः॥ (समाधानबाधकभाष्यम्) नैष दोषः। दिवादिभ्य इत्येषा पञ्चमीशबिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति॥ (समाधानबाधकभाष्यम्) प्रत्ययविधिरयं न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति॥ (समाधानसाधकभाष्यम्) नायं प्रत्ययविधिः। विहितः प्रत्ययः प्रकृतश्चानुवर्तते॥ (समाधानान्तरभाष्यम्) अथ वा अनुवृत्तिः करिष्यते - सार्वधातुके यक् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज्भवतीति। कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिज्भवति। दिवादिभ्यः श्यन् स्यतासी लृलुटोः च्लि लुङि च्ले) सिज्भवति॥ (समाधानान्तरभाष्यम्) अथ वान्तरङ्गः स्यादयः। काऽन्तरङ्गता?। लावस्थायामेव स्यादयः। सार्वधातुके श्यन्नादयः॥ स्यतासी॥ 33 ॥ Kashika ------- लृरूपमुत्सृष्टानुबन्धं सामान्यमेकमेव, तस्मिन् लुटि च परतो धातोर्यथासंख्यं स्यतासी प्रत्ययौ भवतः। करिष्यति। अकरिष्यत्। श्वः कर्ता। इदित्करणमनुनासिकलोपप्रतिबन्धार्थम्। मन्ता। संगन्ता॥ Siddhanta Kaumudi ----------------- लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः परतः । शबाद्यपवादः ॥ Laghu Siddhanta Kaumudi ----------------------- धातोः स्यतासी एतौ प्रत्ययौ स्तो लृलुटोः परतः। शबाद्यपवादः। ऌ इति ऌङॢटोर्ग्रहणम्॥ Balamanorama ------------ **स्यतासी लृलुटोः** - भू-तीति स्थितेकर्तरि शबि॑ति शपि प्राप्ते — स्यतासी लृ । स्यश्च तासिश्चेति द्वन्द्वात्प्रथमाद्विवचनम् । तासेरिकार उच्चारणार्थः । लृ लुट् अनयोद्र्वन्द्वात्सप्तमीद्विवचनम् । ग्रहणमिति । लृस्वरूपस्योभयत्राऽविशिष्टत्वादिति भावः । धातोरित्यधिकृतम् । तदाह — धातोरिति । Padamanjari ----------- स्यतासी लृलुटोः॥ इह यद्यपि'लृ' इत्यनुकरणमुच्चारितमेकमेव, तथापि तस्य प्रतिपाद्यभूतमनुकार्थं भिद्यते - लृट्, लृङ् इति। यत्र च प्रतिपाद्यानां संख्यांसाम्यं तत्र संख्यातानुदेशः, न तूच्वारितरूपसाम्ये; अन्यथा परस्मैपदानामित्येकं णलादयस्तु नवेति वैषम्यान्त स्यात्। तथा डारौरसः प्रथमस्येत्यत्रापि न स्यात्। तदेवम्'लृ' इत्यस्य द्वे प्रतिपाद्ये, लुटिति चापरमिति त्रीणि निमितानि, निमितिनौ तु द्वाविति वैषम्यात्संख्यातानुदेशो न प्राप्नोतीत्यत्राह - लॄऊपमुत्सृष्टानुबन्ध सामान्यमेकमेवेति। नात्र प्रतिपाद्यं भिद्यते यतदुभयानुगतमुत्सृष्टानुबन्धम्'लृ' इति सामान्यरूपं तदनुक्रियते। एतच्च लृलुटोरिति द्विवचन निर्देशादवसीयते, तत्रयथानुकरणे न भेदस्तथानुकार्येऽपीत्यर्थः। करिष्यतीति। ठृद्धनोः स्येऽ इतीट्। श्वः कर्तेति।'श्वः' इत्यस्योपन्यासस्तृजन्तशङ्कानिवृत्यर्थः। इदित्करणमिति। इत्संज्ञकस्येकारस्य करणमित्यर्थः। अनुनासिकलोपप्रतिषेधार्थमिति। अन्यथा मन्तास् आ इति स्थिते टिलोपे कृते नकार उपधेत्यात्मनेपदे ङिति परतः ठनिदिताम्ऽ इति नलोपः प्राप्नोति, तस्य ठनिदिताम्ऽ इतीदित्वनिबन्धनः प्रतिषेधो यथा स्यादित्यर्थः। मन्ता, सङ्गन्तेति। कोऽर्थः? मन्तेत्येतत्पदं सङ्गन्तं भविष्यतीत्यर्थः, न तु सङ्गन्तेत्येतदुदाहरणम्; अनोपधत्वात्। अनुस्वारपरसवर्णयोः कृतयोरपि तयोरसिद्धत्वादनोपध एव। अन्ये त्वाहुः - यद्यसिद्धत्वात्सङ्गन्तेत्येतदनुदाहरणम्, मन्तेत्येतदपि उदाहरणं न भवति, अत्रापि टिलोपस्याभीयस्यासिद्धत्वाद् मन्तास् आ इति स्थिते नकार उपधा न भवतीति। यदि मतम् - आ भाच्छास्त्रीयमसिद्धत्वमनित्यम्,'श्नसोरल्लोपः' इति तपरकरणात्? तद्ध्यास्तामासन्नित्यादौ मा भूदित्येवमर्थम्, तत्राटोऽसिद्धत्वादेव लोपो न भविष्यति, किं तन्निवृत्यर्थेन तपरत्वेन! तज्ज्ञापयति - असिद्धत्वमनित्यमिति। तेन देभतुर्देअभुरित्यत्र'श्रन्थिग्रन्थिदम्भिस्वञ्जिनाम्' इति लिटः कित्वान्नलोपे तस्यासिद्धत्वाभावादेत्वाभ्यासलोपौ भवतः, तदत्र टिलोपस्यासिद्धत्वान्मन्त आ इति स्थिते उपधैव नकार इत्युदाहरणमिति। यद्येवम्, पूर्वत्रासिद्धीयमसिद्धत्वमप्यनित्यम्'न मु ने' इत्यत्र नेति योगविभागात्, तथा चैकादेशस्वरोऽन्तरङ्गः सिद्धो भवति, सिज्लोप एकादेशे सिद्धो भवति, निष्ठादेशः षत्वादिषु सिद्धो भवति, द्विर्वचनविषये च पूर्वत्रासिद्धीयं न भवति, ततश्चानुस्वारपरसवर्णयोः सिद्धत्वात् सङ्गन्तेत्येतदप्युदाहरणमेवेति। अन्ये तु संहन्तेति पठन्ति, हन्तेः'भावकर्मणोः' इत्यात्मनेपदम्, तत्र सम्पूर्वस्य पाठे प्रयोजनं मृग्यम्। एवं तावज्जयादित्येनासिद्धत्वमनित्यमाश्रित्य'तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थम्' इत्युक्तम्। वामनस्तु टिलोपस्य सिद्धत्वादेव नलोपो न भविष्यतीति मन्यमानः ठिदितोओऽ इत्यत्र वक्ष्यति -'तासि सिचोरिदित्कार्य नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठ।ल्ते' इति। यदि तु तासेरिकारोऽनुबन्धः स्याततो नुम्विधौ धातोस्तासेर्मा भूदित्येवमर्थं स्यात्, ततश्चधातूपदेशावस्थायामेव नुम् भवतीत्ययमर्थो न साधितः स्यादिति तस्याभिप्रायः। जयादित्यस्तु'नुम्विधावुपदेशिवद्वचनं प्रत्ययसिद्व्यर्थम्' इति वचनमेव शरणमशिश्रयत्। इह विकरणाः केचन लकारोपादानेन विधीयन्ते, यथा - -स्यादयः, ते किं लावस्थायामेव भवन्ति ? उताहो आदेशेषु कृतेषु? यदि लावस्थायामेव, ततस्तास्यनुदातेदित्यत्र यद्वक्ष्यते - तासेः परस्य लसार्वधातुकस्यानुदातवचनं ज्ञापकम्, सतिशिष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधत इत्यस्यार्थस्येति, तन्नोपपद्यते; लावस्थायामेव तासौ कृते तस्य च प्रत्ययाद्यौदातत्वे पश्चाल्लादेशेषु क्रियमाणेषु तेषामेव स्वरः सतिशिष्टो भवति, ततश्चानुदातवचनमप्राप्तविधिरेव स्यात्। तत्र को दोषः? चिनुतः चिन्वन्तिः, चिन्वन्ति; क्रीणीतः, क्रीणन्ति, सतिशिष्टो विकरणस्वर एव प्राप्नोति, द्वितीये तु पक्षे पूर्व तिबादयः पश्चातासिरिति तस्यैव स्वरः सतिशिष्टः, ततश्च निघातस्वरेणैव सार्वधातुकानुदातत्वे सिद्धे तासिग्रहणं क्रियमाणमुक्ता र्थस्य ज्ञापकं सम्पद्यते। अस्तु तर्हि तथा। यद्येवम्, धातुमात्रात्सार्वधातुकमात्रे भावकर्मणोर्यक् कर्तरि तु शब्विधीयत इति यक्शपावुत्सर्गौ तेष्वेवार्थेषु धातुमात्रात्सार्वधातुकविशेषे स्यादय इति तेऽपवादाः? तथा दिवादेर्धातुविशेषात्कर्तरि श्यनादयः शपोऽपवादाः, तत्र देविष्यति तनिष्यतीत्यादावुभयप्रसङ्गेऽपवादविप्रतिषेधात् श्यनादयः स्युः? पक्षान्तरे त्वन्तरङ्गाः स्यादय एव सिद्ध्यन्ति? नैष दोषः;'दिवादिभ्यः श्यन्' इत्यादिषु स्यादयोऽनुवर्तिष्यन्ते - दिवादिभ्यः श्यन् भवति, लृलुटोस्तु स्यतासी भवतो दिवादिभ्य इति। एवं सर्वत्र। एतेनैतदपि निरस्तं यत्खल्विदमाशंक्यते - परेण लावस्थायां विधीयमानाः स्यादयः किमिति सार्वधातुकोत्पतिं प्रतीक्षन्त इति, कथम्? उतरत्रानुवृतेरेव, सार्वधातुके यग्भवति, भावकर्मणोर्लृ लुटोस्तु स्यतासी भवतः सार्वधातुके। एवं सिजादिष्वपि द्रष्टव्यम्। तदेवमादेशेषु कृतेषु स्यादय इति स्थितम्॥ Nyaas ----- इह द्वे लृरूपे - एकं लृटः सम्बन्धिः, द्वितीयं लृङ। द्वयोरपि तेयोग्र्रहणम्िष्टत्वात्, विशेषानुपादानाच्च। ततश्चैते द्वे तृतीयञ्च लुडिति त्रीणि निमित्तानि भवन्ति। निमित्तिनौ तु द्वौ स्यातासी इति वैषम्यम्। अतः संख्यातानुदेशो न स्यादिति यो देशयेत्, तं प्रत्याह - `लृरूपम्ित्यादि। टकारङकारयोरनुबन्धयोः परित्यागेन ततकृत्यस्य भेदस्याभावाल्लृरूपं लृङलृटोः सामान्यमेकमेवेति निमित्तयोरपि द्वित्वम्। तेन संख्यतानुदेशो न विरुध्यत इत्यभिप्रायः। अत एवाह - `यथा संख्यम्` इति। `करिष्यति` इति। **लृट् शेषे च** (3.3.13) इति लुट्, ऋद्धनोः स्ये` (7.2.70) इतीट्। `अकरिष्यत्` इति। लृङ, अडागमः, `इतश्च` (3.4.100) इतीकारलोपः। `कर्ता` इति। `अनद्यतने लुट्`, (3.3.15) `लुटः प्रथमस्य` (2.4.85) इत्यादिना तिपो डादेशः,टिलोपः। `इदित्करणम्` इत्यादि। इच्चासावित् इत्संज्ञकश्चेतीति,तस्य करणमिदित्करणम्। इकारस्येत्संज्ञकस्य करणित्यर्थः। अथ वा - इदित् यस्य तासेः स इदित् तासिः, तस्य करणमिदित्करणसंज्ञकेकारस्य तासेः करणमित्यर्थः। `अनुनासिकलोपप्रतिबन्धार्थम्` इति। असति तु तस्मिन् `अनिदिताम्` (6.4.24) इत्यनुनासिकलोपः स्यात्। अतस्तस्य प्रतिबन्धः प्रवृत्तिविघातो यथा स्यादित्येवमर्थमिदित्करणम्। `मन्ता` इति। `मन ज्ञाने` (धातुपाठः-1176), `मनु अवबोधने`(धातुपाठः-1471) इति वा। `अनुदात्तङितः` (1.3.12) इत्यात्मनेपदम्। `संगन्ता` इति। अत्रापि संपूर्वाद्गमेः `समो गमि` (1.3.29) इत्यादिना अत्रोभयत्रापि टिलोपे कृते ङित्वादात्मनेपदमाश्रित्यानुनासकिलोपः प्राप्नोति, स इदित्करणेन प्रतिषिध्यते। यदि तर्हि तासेरिदित्करणमनुनासिकलोपप्रतिबन्धार्थम्, एवं सति **इदितो नुम् धातोः** (7.1.58) इत्यत्र यद्वक्ष्यति `तासिसिचोरिदित्कार्यं नास्तीत्युच्चारणार्थो निरनुनासिक इकारः पठते` इति तद्विरुध्यते? नास्ति विरोधः, भिन्नकर्त्तृकत्वात्। इदं हि जयादित्यवचनम्, तत् पुनर्वामनस्य। वामनवृत्तौ तु तासिसिचोरिकार उच्चारणार्थो नानुबन्धो पठते, तेन विरोधो नाशङ्कनीयः। केन पुनरभिसन्धिना जयादित्यस्तासेरिकारस्यानुनासिकलोपप्रतिबन्धार्थतां कृतवान्? वामनस्तूच्चारणर्थताम्? येनाभिसन्धिना स तावच्छरूयताम् - आभाच्छास्त्रीयमसिद्धत्वमनित्यम्, अनित्यत्वं तु तस्य तत्रैव प्रतिपादयिष्यते जयादित्येन। आभाच्छास्त्रीयस्य टिलोपस्यासिद्धत्वमिह नास्ति। अनित्यत्वादित्यभिप्रेत्य तासेरिकारस्यानुनासिकलोपे प्रतिबन्धार्थतोक्ता। वामनेनत्वसिद्धत्वमिहास्त्येवेति मन्यमानेनोच्चारणार्थतोक्ता। न हि टिलोपस्यासिद्धत्वे सत्यनुनासिकलोपः प्राप्नोति। तदयुक्ता तत्प्रतिबन्धार्थतेकारस्य। यथैव हि गोनर्द्दीय आचार्यः - सन्निपातलक्षणपरिभाषाया उपस्थानमाश्रित्यातिजरं ब्राआहृणकुलं तिष्ठति, अतिजरैब्र्राआहृणकुलैरिति भवितव्यमित्याह; अन्ये त्वनित्यत्वादस्याः परिभाषाया अनुपस्थानमाश्रित्यातिजरसं ब्राआहृणकुलमतिजरसैरिति भवितव्यमित्याहुः, तथेदमपि प्रयोजनद्वयमाभाच्छास्त्रीय्सयास्तित्वञ्चाश्रित्य वृत्तिकारावुक्तवन्ताविति वेदितव्यम्।अन्ये चाचक्षते - प्राग भादसिद्धाधिकार इतीमं पक्षमाश्रित्येकारस्यानुनासिकलोपप्रतिबन्धार्थतोक्ता। सह तेनासिद्धाधिकार इत्यश्रित्योच्चारणार्थतेति। एतच्चाशक्यं विज्ञातुम्; प्राग् भादसिद्धाधिकार इत्यस्य पक्षस्य जयादित्यवामनाभ्यामनाश्रित्वात्। अनाश्रितत्वंतु तत्रैव वृत्तावभिव्यक्तमिति तत एवावगन्तव्यम्। एते च स्वादयो येननाप्राप्तिन्यायेनान्तरङ्गत्वाच्च सर्वेषां यगादीनामपवादाः; अन्तरङ्गत्वं तु तेषां लावस्थायामेव विधानात्॥ Prakriyasarvasvam ----------------- लृलुटोः परयोः क्रमात् स्य तासि इति प्रत्ययौ स्तः । स्थानिवत्त्वेन शतुर्लृट्त्वात् स्यः । भू स्य अत् । स्यस्य वलादित्वात् इट् । गुणः । पररूपम् । प्रत्ययसस्य षः । भविष्यन् । आने मुक् । एधिष्यमाणः । प्राग्वल्लक्षणहेत्वोश्चोह्यौ । वेत्युक्तिः लृटस्तिङ्सिद्ध्यर्था ॥