31027: कण्ड्वादिभ्यो यक् ======================== **Padacheda:** कण्ड्वादिभ्यः | S | 5 | 3 | यक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix यक् is used after the roots कण्डु 'to itch' etc. Vasu English Translation ------------------------ The affix यक् is used after the roots कण्डु 'to itch' etc. Thus, कण्डूयति or कण्डूयते 'he itches or scratches'. This word takes terminations indicatory. The words कण्डु &c. are both roots and nouns, and are placed therefore in a separate list by themselves and are not included in the general list of verbs. The affix applies to those words as roots and not as nouns. कण्ड्वादिः । कण्डूञ्, मन्तु, ह्रणीञ्, वल्गु, अस्त्र, मनस्, महीङ्, लेट्, लोट्, इरस्, इरज्, इरञ्, द्रवस्, मेधा, कुषुभ, मगध, तन्तस्, पम्पस्, सुख, दुःख, सपर, अर, भिषज्, भिष्णज्, इषुध, चरण, चुरण, भुरण, तुरण, गद्गद, एला, केला, खेला, लिट् and लोट् । Bhashya ------- कण्ड्वादिभ्यो यक् (644) (402 यक्प्रत्ययविधिसूत्रम्॥ 6.1.6 आ. 1 ) (आक्षेपभाष्यम्) किमर्थः ककारः?। (समाधानभाष्यम्) गुणवृद्धिप्रतिषेधार्थः। क्ङितीति गुणवृद्धिप्रतिषेधो यथा स्यात्। (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। सार्वधातुकार्धधातुकयोरङ्गस्य गुण उच्यते। धातोश्च विहितः प्रत्ययः शेष आर्धधातुकसंज्ञां लभते। न चायं धातोर्विधीयते। कण्ड्वादीनि हि प्रातिपदिकानि॥ (1786 यकोवैकल्पिकत्वसाधकवार्तिकप्रथमखण्डम्॥) - कण्ड्वादिभ्यो वावचनम्- (भाष्यम्) काण्ड्वादिभ्यो वेति वक्तव्यम्॥ (1786 वार्तिकद्वितीयखण्डम्॥ 1 ॥) - अवचने हि नित्यप्रत्ययत्वम्- (भाष्यम्) अक्रियमाणे हि वावचने नित्यः प्रत्ययविधिः प्रसज्येत॥ (दोषप्रश्नभाष्यम्) तत्र को दोषः?॥ (1787 दोषकथनवार्तिकम्॥ 2 ॥) - तत्र धातुविधितुक् प्रतिषेधः- (भाष्यम्) तत्र धातुविधेस्तुकश्च प्रतिषेधो वक्तव्यः स्यात्। कण्ड्वौ कण्ड्वः अचिश्नुधातुभ्रुवां य्वोरियङुवङौ इत्युवङादेशः प्रसज्येत। इह कण्ड्वा कण्ड्वे इति नोङ्धात्वोः इति विभक्तेरुदात्तत्वप्रतिषेधः प्रसज्येत॥ तुक् च प्रतिषेध्यः, वल्गुर्मन्तुरिति हूस्वस्य पिति कृति तुक् इति तुक् प्राप्नोति॥ (1788 दोषकथनवार्तिकम्॥ 3 ॥) - ह्रस्वयलोपौ च- (भाष्यम्) हस्वयलोपौ च वक्तव्यौ स्याताम्॥ ह्रस्व - वल्गुर्मन्तुरिति॥ किमर्थमिदं न ह्रस्व एवायम्?। अन्तरङ्गत्वाद् अकृद्यकार इति दीर्घत्वं प्राप्नोति। ह्रस्वः॥ यलोप - यलोपश्च वक्तव्यः। कण्डूर्मन्तुर्वल्गुरिति। किमर्थमिदम्, न वलीत्येव सिद्धम्। वलीत्युच्यते, न चात्र वलं पश्यामः॥ ननु च क्विब्वलादिः॥ क्विपो लोपे कृते वलाद्यभावान्न प्राप्नोति। इदमिह संप्रधार्यम्। क्विब्लोपः क्रियतां वलि लोप इति। किमत्र कर्तव्यम्?। परत्वात् क्विब्लोपः॥ नित्यः खल्वपि क्विब्लोपः कृते यलोपे प्राप्नोति, अकृतेऽपि॥ नित्यत्वात् परत्वाच्च क्विब्लोपे कृते वलाद्यभावाद् न प्राप्नोति। एवं तर्हि प्रत्ययलक्षणेन भविष्यति॥ वर्णाश्रये नास्ति प्रत्ययलक्षणम्॥ (अनुयोगभाष्यम्) अथ क्रियमाणेऽपि वावचने यदा यगन्तात् क्विप् तदैते दोषाः कस्मान्न भवन्ति॥ (समाधानभाष्यम्) नैतेभ्यस्तदा क्विबुत्पद्यते। किं कारणम्?। अन्येभ्योपि दृश्यते इत्युच्यते। नैतेभ्यः तदा क्विब्दृश्यते॥ (अनुयोगभाष्यम्) यथैव तर्हि क्रियमाणेऽपि वावचने अन्येभ्योऽपि दृश्यते इत्यत्र क्विब् न भवति। एवमक्रियमाणेऽपि वावचने न भविष्यति॥ (क्विपीष्टापत्तिभाष्यम्) अवश्यमेतेभ्यः क्विबेषितव्यः। किं प्रयोजनम्। एतानि रूपाणि यथा स्युरिति॥ (अनुयोगभाष्यम्) तत्तर्हि वावचनं कर्तव्यम्। (समाधानभाष्यम्) न कर्तव्यम्। उभयं कण्ड्वादीनि धातवश्च प्रातिपदिकानि च॥ आतश्चोभयम्। कण्डूयतीति हि क्रियां कुर्वाणे प्रयुज्यते। अस्ति मे कण्डूरिति वेदनामात्रस्य सांनिध्ये॥ अपर आह - - धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि। आह चायमिमं दीर्घे मन्ये धातुर्विभाषितः॥ इति॥ कण्ड्वादिभ्यो यक्॥ 27 ॥ Kashika ------- कण्डूञ् इत्येवमादिभ्यो, यक् प्रत्ययो भवति। द्विविधाः कण्ड्वादयः, धातवः प्रातिपदिकानि च। तत्र धात्वधिकाराद् धातुभ्य एव प्रत्ययो विधीयते, न तु प्रातिपदिकेभ्यः। तथा च गुणप्रतिषेधार्थः ककारोऽनुबध्यते। धातुप्रकरणाद् धातुः कस्य चासञ्जनादपि। आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः॥ कण्डूञ् — कण्डूयति, कण्डूयते। ञित्त्वात् कर्त्रभिप्राये क्रियाफले (१.३.७२) इत्यात्मनेपदम्॥ कण्डूञ्। मन्तु। हृणीङ् । वल्गु। अस्मनस्। महीङ् । लेट्। लोट्। इरस्। इरज्। इरञ्। द्रवस्। मेधा। कुषुभ। मगध। तन्तस्। पम्पस्। सुख। दुःख। सपर। अरर। भिषज्। भिष्णज्। इषुध। चरण। चुरण। तुरण। भुरण। गद्गद। एला। केला। खेला। लिट्। लोट्॥ Siddhanta Kaumudi ----------------- एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे । धातुभ्यः किम् । प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च ।{$ {!1944 कण्डूञ्!} गात्रविघर्षणे$} । कण्डूयति । कण्डूयते ।{$ {!1945 मन्तु!} अपराधे$} । रोष इत्येके । मन्तूयति । चन्द्रस्तु ञितमाह । मन्तूयते ।{$ {!1946 वल्गु!} पूजामाधुर्ययोः$} । वल्गूयति ।{$ {!1947 असु!} उपतापे$} । असू । असूञ् । इत्येके । अस्यति । असूयति । असूयते ।{$ {!1948 लेट्!} {!1949 लोट्!} धौर्त्ये पूर्वभावे स्वप्ने च$} । दीप्तावित्येके । लेट्यति । लेटिता । लोट्यति । लोटिता ।{$ {!1950 लेला!} दीप्तौ$} ।{$ {!1951 इरस्!} {!1952 इरज्!} {!1953 इरञ्!} ईर्ष्यायाम्$} ॥ इरस्यति । इरज्यति । हलि च (SK354) इति दीर्घः । ईर्यति । ईर्यते ।{$ {!1954 उषस्!} प्रभातीभावे$} ।{$ {!1955 वेद!} धौर्त्ये स्वप्ने च$} ।{$ {!1956 मेधा!} आशुग्रहणे$} ॥ मेधायति ।{$ {!1957 कुषुभ!} क्षेपे$} ॥ कुषुभ्यति ।{$ {!1958 मगध!} परिवेष्टने$} । नीचदास्य इत्यन्ये ॥{$ {!1959 तन्तस्!} {!1960 पम्पस्!} दुःखे$} ।{$ {!1961 सुख!} {!1962 दुःख!} तत्क्रियायाम्$} । सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः ।{$ {!1963 सपर!} पूजायाम्$} ।{$ {!1964 अरर!} आराकर्मणि {!1965 भिषजू!} चिकित्सायाम्$} ।{$ {!1966 भिष्णज्!} उपसेवायाम्$} ।{$ {!1967 इषुध!} शरधारणे$} ।{$ {!1968 चरण!} {!1969 वरण!} गतौ$} ।{$ {!1970 चुरण!} चौर्ये$} ।{$ {!1971 तुरण!} त्वरायाम्$} ।{$ {!1972 भुरण!} धारणपोपणयोः$} ।{$ {!1973 गद्गद!} वाक्स्खलने$} ।{$ {!1974 एला!} {!1975 केला!} {!1976 खेला!} विलासे$} ।{$ {!1977 इला!} इत्यन्ये$} ।{$ {!1978 लेखा!} स्खलने च$} । अदन्तोऽयमित्यन्ये । लेख्यति ।{$ {!1979 लिट!} अल्पकुत्सनयोः$} । लिट्यति ।{$ {!1980 लाट!} जीवने$} ।{$ {!1981 हृणीङ्!} रोषणे लज्जायां च$} ।{$ {!1982 महीङ्!} पूजायाम्$} । महीयते । पूजां लभत इत्यर्थः ।{$ {!1983 रेखा!} श्लाघासादनयोः$} ।{$ {!1984 द्रवस्!} परितापपरिचरणयोः$} ।{$ {!1985 तिरस्!} अन्तर्धौ$} ।{$ {!1986 अगद!} नीरोगत्वे$} ।{$ {!1987 उरस्!} बलार्थः$} । उरस्यति । बलवान् भवतीत्यर्थः ।{$ {!1988 तरण!} गतौ$} ।{$ {!1989 पयस्!} प्रसृतौ$} ।{$ {!1990 संभूयस्!} प्रभूतभावे$} ।{$ {!1991 अंबर!} {!1992 संवर!} संभरणे$} । आकृतिगणोऽयम् ॥ Laghu Siddhanta Kaumudi ----------------------- एभ्यो धातुभ्यो नित्यं यक् स्यात्स्वार्थे । ॥ {$ {! 1 कण्डूञ् !} गात्रविघर्षणे $} ॥ कण्डूयति । कण्डूयत इत्यादि ॥ इति कण्ड्वादयः ॥ Balamanorama ------------ **कण्ड्वादिभ्यो यक्** - अथ कण्वादिप्रक्रिया निरूप्यन्ते । कण्ड्वादिभ्यो यक् । धातुभ्य इति । 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः । नित्यमिति । वाग्रहणं तु निवृत्तमिति भावः । अन्यथा कण्डवतीत्याद्यपि स्यादिति भावः । द्विधा हीति । एतच्च भाष्ये स्पष्टम् । तेन कण्डूरित्याद्यविगृहीतरूपसिद्धिः । लेटितेति । 'यस्य हलः' इति यलोपः । मेधा आशुग्रहणे इति । आशुग्रहणँ त्वरया बोधः । 'सुग्रहणे' इति पाठान्तरम् । सुख्यतीति । यकि अतो लोपः । प्रातिपदिकेभ्यो यकि तु आर्धधातुकत्वाऽभावादल्लोपो न स्यादिति बोध्यम् । चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् । अरर आराकर्मणीति । आरा = प्रतोदः, तत्करणकं कर्म- आराकर्म । भिषज् चिकित्सायाम् । जान्तोयऽयम् । भिषज्यति । लेखा स्खलने चेति । लेखायति.लेख्यतीति । अदन्ताद्यकि अतो लोपः । आकृतिगणोऽयमिति । कण्ड्वादिरित्यर्थः । तेन दुवस् संदीपने इत्यादिसङ्ग्रहः ।समिधाऽग्न दुवस्यते॑ । इति कण्ड्वादयः ।अथ कारकप्रकरणम् । — — — — — — - Tattvabodhini ------------- **कण्ड्वादिभ्यो यक्** - कण्ड्वादिभ्यो यक् ।धातोरेकाच॑ इत्यस्माद्धातोरिति वर्तते । वेति निवृत्तम् । अन्यथा कण्डवतीति स्यात्तदाह - धातोर्नित्यमिति । केचित्तुनित्यं कौटिल्ये गतौ॑ इत्यतो नित्यमित्यनुवर्तत इत्याहुः । तच्चिन्त्यम् । तत्र हि नित्यग्रहणमेवकारार्थे वर्तते तक्रकौण्डिन्यन्यायस्याऽनित्यतां ज्ञापयितुमिति प्राग्व्याख्यातत्वात् ।किं चनित्यं कौटिल्ये गतौ॑ इत्यत्रापि वेत्यनुर्तते । अन्यथा गत्यर्थेभ्यो नित्यं यह् स्यादिति । स्वार्थे इति । इति कण्ड्वादिभ्यो यक्स्यात्कृञर्थे इति प्राचोक्तमयुक्तमिति भावः । द्विधा हीति । यकः कित्त्वेन धातव इति ज्ञायते । कण्डूञिति दीर्घपाठेन प्रातिपदिकान्यपीति । यदि तु धातव एव स्युस्तर्हि ह्रस्वान्ते पठितेऽपि यकि परेअकृत्सार्वे॑ति दीर्घेण कण्डूयतीत्यादिसिद्धेः किं तेन दीर्घपाठेन । द्वैविध्ये तु धातुभ्यो यकि गुणनिषेधेन कित्त्वं सार्थकम् ।कण्डू॑रित्यादियग्रहितरूपसिद्ध्या दीर्घपाठोऽपि सार्थकः । अत एवोक्तं भाष्ये - धातुप्रकरणाद्धातुः कस्यचाऽसञ्जनादपि । आह चायमिममं दीर्घं मन्ये धातुर्विभाषितः॑ । इति.एतेन कण्डूं करोति कण्डूयतीति प्राचोक्तविग्रहोऽपि परास्तः । कण्ड्वादयः प्रातिपदिकान्येवेत्यनभ्युपगमात् । न च द्वैविध्याभ्युपगमेऽपि प्रातपदिकादेव यक् स्यादिति वाच्यं, तथाहि सति दातोर्लडादौ कण्डवतीत्याद्यनिष्टप्रसङ्गात् । सुखदुःखादिप्राप्तिपदिकेभ्यो यकि अल्लोपाऽसंभवन सुख्यतीत्याद्यसिद्धिप्रसङ्गाच्च । यत्तु कैश्चित्शब्दवैरकलहे॑ति सूत्रात्करणे इत्यनुर्तनात्कृञर्थे यगिति प्राचोक्तव्याख्यायां न किंचिद्बाधकमित्युक्तं,तच्चिन्त्यम्, अनुधृत्तौ मानाऽभावात् । अन्यथा णिजन्तेष्विव प्रकृतिप्रत्ययाभ्यां व्यापारद्वयापत्तेरिति दिक् । पूर्वभाव इति । पूर्वत्वमित्यर्थः । लेटितेति ।यस्य हलः॑ इति यलोपः । सुख्यतीति । चुरादौ तुसुख दुःख तत्क्रियायां । सुखयती॑त्याद्युदाहृतम् । सपर । यगन्तात्अ प्रत्ययात्गुरोश्च हलः॑ इत्यनेन वा अप्रत्यये टाप् । सपर्या । अरर । आरा = प्रतोदः । तत्करणकं कर्म आराकर्म । अदन्तोऽयमिति । लेख्यति । आदन्तपक्षे तु लेखायति । महीङ् ।प्रेत्य स्वर्गे महीयते॑ इति रामायणम् । प्रसृताविति । प्रसृतिः — परिमाणविशेषः । प्रभतूभावे इति । बाहुल्य इत्यर्थः ।प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु॑इत्यमरः । संभूयस्यति । असंभूयसीत् ।नेह संशब्दसय् पृथक्कृतिः, यत्र प्रातिपदिकाद्धातुसंज्ञाप्रयोजकप्रत्ययस्य विधानं तत्रैव पृथक्कृतिरित्याहुः । आकृतिगण इति । तेन दुवस् सन्दीपने इत्यादि सिद्धम् । प्रयुज्यते चसमिधाऽग्नि दुवस्यते॑त्यादि । इति तत्त्वबोधिन्याम् कण्ड्वादिप्रक्रिया । Padamanjari ----------- कण्डवादिभ्यो यक्॥ यदीमे कण्ड्वादयो धातव एव स्युस्ततो वाग्रहणमनुवर्तते वा? न वा? अनुवृतौ यगभावपक्षे लडादिषु सत्सु कण्डवतीत्याद्यनिष्ट्ंअ प्रसज्येत्, कण्डूअरित्यादि च न स्यात्; धातो- सुबभावात्। क्विबन्तात्सुप्सम्भवेऽपि कण्डूअरिति न वेदनामात्रं गम्यते; कर्तरि क्विपो विधानात्? संपदादित्वाद्भावे क्विब्भविष्यति। एवमिप कण्ड्वौ कण्ड्वः, ठचिश्नुधातुऽ इत्युवङ् प्राप्नोति, कण्ड्वा, कण्ड्वे'नोङ्धात्वोः' इति विभक्तेरुदातनिषेधः स्यात्, मन्तुवल्गुरित्यत्र च तुक् प्रसङ्गः? अथ नानुवर्तते, कण्डूअरिति न सिध्यति, यगन्तात्सम्पदादित्वाद्भावे क्विप्यल्लोपयलोपयोः कृतयोर्भविष्यति? न चैवमल्लोपस्य स्थानिवत्वादुवङ्'क्वौ लुप्तं न स्थानिवत्' इति वचनात्। ननु च क्वौ विधि प्रति स प्रतिषेधः, अन्यथा लवमाचक्षाणो लौरित्यत्र क्वौ लुप्तस्य णेः स्थानिवत्वाभावेऽपि स्थानिवत्वाभावेऽपि णौ कृतस्य टिलोपस्य स्थानिवत्वादूठ न स्यात्, अतोऽत्र स्थानिवत्वे सत्युवङ् स्यादेव? च्छस्तु'च्छवोः शूङ्' इत्यूठ करिष्यते। न चोठ।ल्पि कर्तव्ये स्थानिवत्वम्; तस्यक्वौ विधित्वाद् आदिष्टादचः पूर्वत्वाच्च, अत एवोठि कृते पुनरुवङेऽप्रसङ्गः। एवमपि कण्ड्वौ, कण्ड्वः, कण्ड्वे - धातुविधिः प्राप्नोति, मन्तुर्वल्गुरिति च न सिद्ध्यति, यकि दीर्घे कृते मन्तूर्वल्गूरिति स्यात्। अथ प्रातिपदिकान्येव? तत्रापि वाग्रहणाननुवृतौ स एव दोषो यो धातुपक्षे। अनुवर्ततां तर्हि वाग्रहणम्, सन्तु च प्रातिपदिकान्येव, तत्राप्ययमर्थः - -ककारो नानुबन्धव्यो भवति अनार्द्धधातुकत्वादेव गुणो न भविष्यति? नैवं शक्यम्; इह हि सुख्यति, दुःख्यति, मगध्यतीत्यतो लोपो न स्याद्; अनार्धधातुकत्वादेव। न च व्यञ्जनान्त एव शक्यः पठितुम्, यगभावपक्षेऽपि तथा प्रयोगप्रसङ्गदत उभये कण्ड्वादय इत्याह - द्विविधाः कण्ड्वादय इति। धातुभ्य एव प्रत्ययो विधीयत इति। नित्यमिति भावः। तेन पक्षे कण्डवतीत्यादि न भवति। न तु प्रातिपदिकेभ्य इति। तेन कण्ड्वौ, कण्ड्वः, मन्तुरित्यादिप्रयोगसिद्धिः। न चास्मिन्नपि पक्षे यगन्तात्सम्पदादिक्विब्विधीयते तदा पूर्वोक्तदोषानुषङ्गः, किं कारणम्? द्दशिग्रहणादेतेभ्यः क्विब् स्याद्, न चैतेभ्य इदानीं क्विब् द्दश्यते। पूर्वत्र तु पक्षे कण्डूअरित्यादिसिद्ध्यर्थमेव क्विब् द्रष्टव्यः। कथं पुनर्ज्ञायते - उभये कण्ड्वादय इति? तच्चलोकेन दर्शयति - घातुप्रकरणादिति। अनुवृतेन धातुग्रहणेन विशेषणात्ककारासञ्जनाच्च धातुत्वमेषाभिमतमिति विज्ञायत इत्यर्थः। यतस्तु खल्वयमाचार्यः क्वचिद्दीर्घमुच्चारयति - कण्डूअञ् हृणीञ् महीङिति, ततो मन्ये - धातुर्विभाषित इति। धातुत्वमेषां विभाषितमिति मन्य इत्यर्थः। अथ कण्ड्वादीनार्थनिर्देशः। कण्डूअञ् गात्रविकर्षणे। मन्तु अपराधे। हृणीङ् रोषे। वल्गु पूजामाधुर्ययोः। अस्मनस् उपतापे। महीङ् वृद्धिपूजनयोः। लेट लोट् धौर्त्ये पूर्वभावे स्वप्ने। इरस इरज् इरञ् ईर्ष्यायाम्। द्रवस् परिचरणे। मेधा आशुग्रहणे। कुषुभ क्षेपे। मगध परिवेष्टने। तन्तस् पम्पस् दुःखे। सुख दुः ख तत्क्रियायाम्। सपर पूजायाम्। अरर आराकर्मणि। भिषज् चिकित्सायाम्। भिष्णजुपसेवायाम्। इषुध शरधारणे। चरण भुरण गतौ। चुरण चौर्ये च। तुरण त्वरायाम्। भुरण धारणपोषणयोः। गद्गद वाक्स्स्वलने। एला केला खेला विलासे। लिट् अल्पार्थे कुत्सायां च। लोट् दीप्तौ॥ Nyaas ----- किं पुनरिमे कण्ड्वादयो धातवः? उत प्रातिपदिकानि? तत्र यदि धातवः, यकि कृते कण्डूरिति न सिध्यति। कण्डूयेति प्राप्नोति। ननु च वेत्यनुवर्तिष्यते, ततर्यदा यङ नास्ति तदा कण्डूरिति भविष्यति? नैतदस्ति; न हि धातोः सुब्विभक्तिरुत्पत्तुमुत्सहते; तस्याः प्रातिपदिकाद्विधानात्। स्यादेतत् - यगन्तात् `अन्यभ्योऽपि` (3.2.178) इति क्विपि कृते अतो लोपे (6.4.48) वलि यकारलोपे (6.1.66) च कण्डूरिति भविष्यति? असदेतत्; कर्तरि क्विब् विधीयते, कण्डूरिति च वेदनामात्रमुच्यते, न कर्ता; तथापि सम्पदादेराकृतिगणत्वात् भावे क्विपं विधाय कण्डूरिति व्युत्पाद्यते। एवमपि मन्तुः, वल्गुरिति न सिध्येत्। यदि तावद्वेत्यनुवृत्त्या मनुवल्गुशब्दाभ्यां पक्षे यग्न भवति तदा विभक्तिस्ताभ्यां नोपपद्येत, तथा च मन्तु, वल्गु इत्यविभक्तिकं रूपं स्यात्। अथापि ताभ्यां यकं विधाय क्विप् क्रियते? एवमपि मन्तूर्वल्गुरित्यनिष्टं रूपं स्यात्। अवश्यं यकि कृते `अकृत्सार्वधातुकयोः` (7.4.25) इति दीर्घत्वेन भवितव्यम्। अथ प्रातिपदिकानि कण्डवादयस्तदा यकः करारोऽनर्थकः स्यात्, स हि **सार्वधातुकार्धधातुकयोः** (7.3.84) इति प्राप्तस्य गुणस्य **क्ङिति च** (1.1.5) इति प्रतिषेधो यथा स्यादित्येवमर्थं क्रियते। प्रातिपदिकत्वे तेषामेतत्प्रयोजनं नोपपद्यते, न हि प्रातिपदिकाद्विहितः प्रत्यय अर्धधातुकसंज्ञां लभत इति यो देशयेत्, तं प्रत्याह - `द्विविधाः` इत्यादि। तत्रेति निर्धारणे सप्तमी। तेषु धातुप्रातिपदिकेषु मध्ये ये धातवः कण्ड्वादयस्तेभ्यो यक्। `धात्वधिकारात्` इत्यत्रवोपपत्तिः। एवमेवार्थं द्रढयितुमाह - `तथा च` इत्यादि। यत एवं धातुभ्यः प्रत्ययो विधीयते; धात्वधिकारात् , प्रातिपदिकेभ्यः। एवञ्च कृत्वा यकः ककारोऽनुबध्यते गुणप्रतिषेधात्। यदि तु प्रतिपदिकेभ्यो यक् स्यात् तस्यानार्धधातुकत्वाद्गुणस्य प्राप्तिरेव नास्ति, तत्प्रतिषेधार्थं ककारानुबन्धकरणमनर्थकं स्यात्।`धातुप्रकरणाद्धातुः` इति। प्रत्ययमुत्पादयतीति शेषः। `धातोरेकाचः` (3.1.22) इत्योत धातुग्रहणमनुवर्तते। तेन धातुरेव कण्ड्वादिशब्दः प्रत्ययमुत्पादयति, न प्रातिपदिकम्। `कस्य` इत्यादि। यच्चेदं ककारानुबन्धासञ्जनमतोऽपि हेतोरेव धातुः प्रत्ययमुत्पादयति। अन्यथा ककारानुबन्धकरणं पूर्वोक्तया रीत्या निरर्थकमेव स्यात्। अतएव धातुभूतेभ्यः कण्डवादिभ्यो यग्विधानात् ककारानुबन्धासञ्जनाच्च तेषां धातुत्वं विज्ञायते। न ह्रधातुभूतेभ्यो यग्विधानमुपपद्यते, नापि ककारानुबन्धकरणम्; प्रयोजनाभावात्। अथ प्रातिपदिकत्वं कण्ड्वादीनां कथमवसीयते? इत्याह - `आह चायम्` इत्यादि। चकारो हेतौ। यद्येते धातव एव स्युस्ततो यकि कृते `अकृत` (7.4.25) इति दीर्घत्वस्य सिद्धत्वात् कण्डूञ्, ह्मणीङ्, महीङिति दीर्घं नोच्चारयेत्, उच्चारयति च दीर्घम्, अतोऽवसीयते - `धातुर्विभाषितः` इति। धातुत्वमेषां विकल्पितमित्यर्थः। ननु च पक्षे यत्र यङ नास्ति तत्रायगन्तेभ्यः क्विबादौ प्रत्यय उत्पन्ने कण्डूः, कण्डूतिः, कण्डूतवानिति दीर्घस्य श्रवणं यथा स्यादित्येवमर्थं दीर्घोच्चारणं स्यात्। तत् कुतस्तस्यानर्थक्यम्! कथं पुनरयगन्तेभ्यः क्विबादयो भवन्ति, यकः पाक्षिकत्वात्, तदपि कुतः? वेत्यनुवृत्तेः, नैतत्; नित्यत्वादस्य विधेः। नित्यत्वन्तु वाग्रहणस्य निवर्तितत्वात्। कुतः पुनस्तन्निवृत्तिरवीसयते? `आयादयः` (3.1.31) इत्यादेः सूत्रारम्भात्। यद्यत्र वेत्यनुवृत्तिस्तदोत्तरत्राप्यनुवर्तनादायादयो वा भविष्यन्तीत्येतन्नारभेत। न च तदनारम्भे सार्वधातुकेऽप्यायादयो विकल्पेन प्राप्नुवन्ति; वाग्रहणस्य व्यवस्थितविभाषात्वात्। तस्मादायादय इत्यादेरारम्भाद्वाग्रहणनिवृत्तिरवसीयत इति नित्यं यका भवितव्यम्। ततश्च यद्येषां पक्षे प्रातिपदिकत्वं न स्याद्दीर्घोच्चारणमनर्थकं स्यात्। तस्माद्दीर्घोच्चारणसामर्थ्यात् प्रातिपदिकत्वमेषामस्तीत्येकान्त एष पक्षः। तत्र धातुपक्षे कण्डूयत इत्यादयः सिध्यन्ति, प्रातिपदिकपक्षे त्वसति यकि कण्डूर्मन्तुर्वल्गुरित्यादयः। मगध इत्यादयो येऽकारान्ताः कण्ड्वादिषु पठन्ते तेषां **अतो लोपः** (6.4.48) इत्यकारलोपः - मगध्यति, सुख्यति, दुःख्यति। लेट्लोटौ शब्दौ पठएते, तयोः ल्वरूपेणैव ग्रहणम्, न तु प्रत्ययत्वेन, कण्ड्वादिभिः स्वरूपशब्दैः साहचर्यात्॥ Prakriyasarvasvam ----------------- एभ्यः स्वार्थे यक् स्यात् । सुख्यतीत्याद्यतो लोपो धातुत्वे खलु सिध्यति । धातुभूतेभ्य एवातः कण्ड्वादिभ्यो यगुच्यते ॥ ८१३ ॥ एषायेव स्वतः प्रातिपदिकत्वमपीष्यते । कण्डूरित्यादिसुप्सिद्ध्यै यगन्तात् क्विप् तु नेष्यते ॥ ८१४ ॥ कण्डूञ् गात्रघर्षणे । यकः कित्त्वादगुणः । ञित्त्वादुभयपदित्वम् । कण्डूयति, कण्डूयते । मन्तु अपराधे रोषे वा । खेदेऽप्याह शङ्करः३ । मन्तूयति । मन्तूयते इ४त्यपि चन्द्रः । वल्गु पूजामाधुर्ययोः । वल्गूयति गुरुम् । वल्गूयति५ कृष्णः । शोभायां हर्षे चाह शङ्करः । असु, मनस्, उपतापे । असूयति । मनस्यति । अस् असूञ् इति चैके । अस्यति । असूयति, असूयते । लेट्, लोट्, धौर्त्ये पूर्वभावे स्वप्ने च । दीप्तौ च केचित् । लेट्यति विटः । लेट्यति श्रेष्ठः । लेट्यति श्रान्तः । लेट्यति वह्निः । एवं लोट्यति । एष्वेवार्थेषु लेयति, लोयति इति केचित् । केचित् लेट् लोट् इत्यदन्तं पेठुः । तत्राप्यल्लोपे लेट्यति, लोट्यति । लेटा लोटा इत्वादन्तमन्त्ये । लेटायति, लोटायति । लेला दीप्तौ । लेलायति । इरस् इरज्, ईर्ष्यायाम् । इरस्यति । इरज्यति । इरञ् ईर्ष्यायां मार्गविस्थाने च । अकार उक्त्यर्थः । हलि च' (८-२-७७) इति दीर्घः । ईर्यति, ईर्यते । ईर्ष्यति, सन्मार्गे तिष्ठति वेत्यर्थः । इयस् ऐश्वर्ये । इयस्यति । उपस् प्रभातीभावे । उपस्यति रात्रिः । वेद धौर्त्ये स्वप्ने च । प्रभाते चेति कचित् । 'अतो लोपः' । वेद्यति । मेधा आशुग्रहणे । मेधायति विद्याम् । कुषुभ क्षेपे । कुषुभ्यति । अन्यकर्तृकनिरोधप्राप्तिरर्थं इति केचित् । कुषुभ्यति चोरः । मगध परिवेष्टने । मगध्यन्ति हरिं गोप्यः । नीचदास्ये वा । नाऽसौ मगध्यति । न नीचं सेवत इत्यर्थः । मगध्यति स्तौतीति स्वामी । याचनार्थ इत्यपि स एव । तन्तस् पम्पस् दुःखे । तन्तस्यति, पम्पस्यति - सुखं दुःखं तदनुभवे । सुख्यति । दुःख्यति । सपर पूजायाम् । सपर इत्यदन्तोऽ। यमित्यन्ये । सपर्यति । अरर् कशाघाते । अरर्यत्यश्वम् । भिषज् चिकित्सायाम् । भिषज्यति । भिष्णज् । उपसेवायाम् । भिष्णज्यति । इषुध् शरधारणे । इषुध्यति । चरण गतौ । चरण्यति । वरण इति भोजः । वरण्यति । चुरण चौर्ये च इति हरः । चुरण्यति । तुरण त्वरायाम् । तुरण्यति । भुरण धारणपोषणयोः । रणधारणयो- रित्यन्ये । भुरण्यति । उरण्यति प्राणातीत्यर्थ इति च स्वामी । गद्गद वाक्स्खलने । गद्गद्यति । इला, एला, केला, खेला विलासे । इलायति । एलायति । केलायति । खेलायति । लेखा स्खलने च । लेखायति । अकारान्तोऽयमित्यन्ये । तत्रातो लोपे लेख्यति । लिट् अल्पार्थे कुत्सायां च । लिश् इति हरः । लिट्यति लिश्यति वौदनः । अल्पीभवति कुत्सितो भवतीति वार्थः । लाट् जीवने । लाट्यति । हृणीङ् रोषे लज्जायां च । हृणीयते । महींङ् पूज्यमानत्वे । पूजने च भट्टिः । महीयते मुनिर्मुनिं वा । वृद्धौ चाह हरः । महीयते सम्पत् । रेखा लेखा श्लाघासादने । रेखायति श्लाघामनुभवत्यनुभावयतीति वार्थः । एवं लेखायति । द्रवस् परितापपरिचरणयोः । द्रवस्यति । दुवस् परिचरण इति हरः । दुवस्यति गुरुम् । तिरस् अन्तर्धौ । तिरस्यति । अगद नीरोगत्वे । अगद्यति । उरस् बलवत्त्वे । उरस्यति । तरण गतौ । तरण्यति । पयस् पयःप्रसूतौ । पयस्यति गौः । सम्भूयस् प्रभूतभावे । सम्भूयस्यति । अम्बर, सम्बरेत्यपि केचित् । अम्बर्यति, सम्बर्यति । अस्याकृतिगणत्वाद् धव'ळय- यीत्याद्यपि । मृग अन्वेषण इति कण्ड्‌वदिपाठाऽमृग्यतीति ज्ञेयमिति माधवः । एषां लुङादौ-अकण्डूयीत्, अकण्डूयिष्ट । कण्डूयाञ्चकार, चक्रे वा । कण्डूयात्, कण्डूयिषीष्ट । कण्डूयिता २ । हलन्तानां तु 'यस्य हलः' (६-४-४९) इति यलोपे अभिषजीत । भिषजाञ्चकार । भिषज्यात् । भिषजिता । इत्यादि । 'ईर्ष्या पथस्थिति'रिति माधवेनाप्युपात्तत्वाद् 'अ प्रत्ययात्' (३-३-१०२) इत्यकारे यलोपोऽस्ति न वेति चिन्त्यम् । एषां सनि कृते-'कण्ड्‌वादेस्तृतीयस्यैकाचो द्वित्वं वाच्यम्' (वा) । कण्डूयियिषति । कण्डूयतेरप्रत्ययः । कण्डूया । 'क्तिच्क्तौ च संज्ञायाम्' (३-३-१७४) इति क्तिचि तु अतो लोपः । तस्य 'अचः परस्मिन्- (१-१-५७) इति स्थानिवत्त्वात् 'लोपो व्योः-' (६-१-६६) इति यलोपाभावे प्राप्ते । Sudha ----- **कण्ड्वादिभ्यो यक्। धातुभ्य इति ।** **धातोरेकाचो हलादेः क्रियासमभिहारे यङ्** इत्यतस्तदनुवृत्तेरितिभाव । **नित्यमिति ।** वाग्रहणं तु निवृत्तमिति भावः । अन्यथा 'कड्वति' इत्याद्यपिस्यादिति भावः । द्विधा हि कण्ड्वादयः, धातवः, प्रातिपदिकानि च-धातुप्रकरणाद्धातुः ञस्य चासञ्जनादपि । आह चायमिमं दीर्घं, मन्ये धातुर्विभाषितः ॥ इति भाष्यादिति भावः । **गात्रविघर्षणम् ।** गात्रखर्जनमिति यावत् । **कण्डूयति ।** अनुबन्धविनिर्मुक्तात् गात्रविघर्षंणार्थंककण्डूञ्धातोः **कण्ड्वादिभ्यो यक्** (3.1.27) इति स्वार्थे यकि, **हलन्त्यम्** (1.3.3) इति कस्येत्संज्ञायां **तस्य लोपः** (1.3.9) इति लोपे, **सनाद्यन्ता धातवः** इति धातुसंज्ञायां **वर्तमाने लट्** इति लटि, लटस्तिपि, शपि, अनुबन्धलोपे, 'कण्डूय अ ति' इति जाते, **अतो गुणे** इति पररूपत्वे च विहिते 'कण्डूयति' इति रूपम् । **कण्डूयते ।** कण्डूधातोः **कण्ड्वादिभ्यो यक्** इति यकि, **सनाद्यन्ता धातवः** इति धातुत्वाल्लटस्ते, शपि अनुबन्धलोपे, **अतो गुणे** इति पररूपत्वे **टित आत्मनेपदानां टेरे** इति टेरेत्वे च कृते 'कण्डूयते' इति रूपम् । लिटि -कण्डूयाञ्चकार - कण्डूयाञ्चक्रे । लुटि – कण्डूयितासि - कण्डूयितासे । लृटि - कण्डूयिष्यति, कण्डूयिष्यते । लोटि - कण्डूयतु - कण्डू यताम् । अकण्डूयत् - अकण्डूयत । कण्डूयेत् - कण्डूयेत । कण्डूय्यात् – कण्डूयिषीष्ट । अकण्डूयीत् - अकण्डूयिष्ट । अकण्डूयिष्यत् -अकण्डूयिष्यत इति । **इति कण्ड्वादयः ।** Sutra Prayogas -------------- * **कण्डूयमानेन** (रघुवंशम्): `कण्ड्वादिभ्यो यक्` इति यक्। * **विनोदयिष्यति** (कुमारसम्भवम्): `तत्करोति तदाचष्टे` (कण्ड्वादिगणीयसूत्रम्) इति णिच्। * **कण्डूयतः** (शिशुपालवधम्): `कण्ड्वादिभ्यो यक्` इति यक्प्रत्ययः। * **मन्तूयिष्यति** (भट्टिकाव्यम्): `कण्ड्वादिभ्यो यक्` इति यक् तदन्तात् लृट्। * **अशब्दायन्त** (भट्टिकाव्यम्): `शब्दवैर` इत्यादिना करोत्यर्थे क्यङ्।