31018: सुखादिभ्यः कर्तृवेदनायाम् ================================ **Padacheda:** सुखादिभ्यः | S | 5 | 3 | कर्तृ | S | | | 6 वेदनायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix क्यङ् in the sense of 'feeling', comes after the words सुख 'pleasure' etc. when the pleasure etc. belong to the agent as feels thereof. Vasu English Translation ------------------------ The affix क्यङ् in the sense of 'feeling', comes after the words सुख 'pleasure' etc. when the pleasure etc. belong to the agent as feels thereof. Thus सुखायते ' he feels pleasure'; दुःखायते 'he feels pain'. Why do we say 'when the feeling belongs to the agent'? Observe सुखं वेदयति प्रसाधको देवदत्तस्य 'the valet knows the happiness of his master Devadatta'. Here the agent viz. a valet, is not the percipient of the 'happiness', which belongs to his master; hence there is no affixing. सुखादिः। सुख, दुःख, तृप्त, गहन, कृच्छ्र, अस्, अलीक, प्रतीप, करुण, कृपण, सोट । Bhashya ------- सुखादिभ्यः कर्तृवेदनायाम् (635) (393 क्यङ्प्रत्ययविधिसूत्रम्॥ 6.1.2 आ. 9 सूत्रम्।) (कर्तृवेदनापदार्थनिर्णयाधिकरणम्।) (आक्षेपभाष्यम्) कर्तृवेदनायामिति किमर्थम्?। (समाधानभाष्यम्) इह मा भूत्। सुखं वेदयते प्रसाधको देवदत्तस्य॥ (समाधानबाधकभाष्यम्) कर्तृवेदनायामित्युच्यमानेऽप्यत्र प्राप्नोति। किं कारणम्?। कर्तुरितीयं कर्तरि षष्ठी। वेदनायामिति चानो भावे। स यद्येवात्मनो वेदयते। अथापि परस्य। कर्तृवेदनैवासौ भवति॥ (समाधानसाधकभाष्यम्) न कर्तृग्रहणेन वेदनाभिसंबध्यते। किं तर्हि?। सुखादीन्यभिसंबध्यन्ते कर्तुर्यानि सुखादीनीति॥ सुखादिभ्यः॥ 18 ॥ Kashika ------- कर्मग्रहणमनुवर्तते। सुख इत्येवमादिभ्यः कर्मभ्यो वेदनायामर्थेऽनुभवे क्यङ् प्रत्ययो भवति, वेदयितुश्चेत् कर्तुः संबन्धीनि सुखादीनि भवन्ति। सुखं वेदयते, सुखायते। दुःखायते। कर्तृग्रहणं किम्? सुखं वेदयते प्रसाधको देवदत्तस्य॥ सुख। दुःख। तृप्त। गहन। कृच्छ्र। अस्र। अलीक। प्रतीप। करुण। कृपण। सोढ। सुखादिः॥ Siddhanta Kaumudi ----------------- सुखादिभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेवचेत्सुखादीनि स्युः । सुखं वेदयते । कर्तृग्रहणं किम् । परस्य सुखं वेदयते ॥ Balamanorama ------------ **सुखादिभ्यः कर्तृवेदनायाम्** - सुखादिभ्यः ।कर्मणो रोमन्थे॑त्यतः कर्मग्रहणाऽनुवृतिंत मत्वा आह — एभ्यः कर्मभ्य इति । वेदनायामिति । ज्ञाने इत्यर्थः । कर्तृत्वं च वेदनां प्रत्येव विवक्षितम्, उपस्थितत्वात् । वेदनाकर्तृवृत्तिवाचिभ्यः सुखादिशब्देभ्य इति लभ्यते । फलितमाह — वेदनाकर्तुरेव चेदिति । सुखं वेदयते इति । जानातीत्यर्थः ।विद चेतनाया॑मिति चुरादौ । Tattvabodhini ------------- **सुखादिभ्यः कर्तृवेदनायाम्** - सुखादिभ्यः ।कर्तु॑ इति पृथक्पदं लुप्तषष्ठीकम् ।विद चेतनाख्याननिवासेष्वि॑ति चौरादिकाद्युचिवेदना॑शब्दो ज्ञानवाची, तदपेक्षमेव कर्तृत्वम् । कर्ता च सुखादिभिरन्वेति । तदेतदाह - वेदनाकर्तुरेवेति । परस्य सुखमिति । इह यन्निष्ठं सुकं तद्भिन्नो वेदनाकर्तेति वाक्यमेव । सुखादयः सुखदुःखतृप्रकृच्छ्रादयः । Padamanjari ----------- सुखादिभ्यः कर्तृवेदनायाम्॥ वेदनायामिति।'विद चेतनाख्याननिवासेषु' इत्यस्माच्चुरादिण्यन्ताद्भावे'ण्यासश्रन्थो युच्' ,'घट्टिवन्दिविदिभ्यश्च' इत्यौपसंख्यानिको वा। वेदनायामर्थेऽनुभव इति। प्रत्यक्षज्ञानमुअनुभवः। यद्यपि वेदनाशब्दो ज्ञानमात्रवचनस्तथापि कर्तृग्रहणेन सुखादीनि विशेष्यन्ते, कर्तृगतानां च सुखादीनां वेदनाऽनुभवरूपैवेति मत्वैवमुक्तम्। क्रियापेक्षं कर्तृत्वं वेदनासंनिधानातदपेक्षमेव विज्ञायते। कर्त्रा च सुखादीनि विशेष्यन्ते न वेदना; व्यभिचाराभावात्। सर्वैव हि वेदना वेदयितुरेव भवति, तदेतदाह - वेदयितुश्चेत्कर्तुः सुखादीति भवन्तीति। आश्रयाश्रयिभावलक्षणश्च सम्बन्धः, न जन्यजनकभावलक्षणः। एवं च कर्तृग्रहणं लुप्तषष्ठीकं पृथक्पदम्। वेदयत इति। ठा कुस्मादात्मनेपदीऽ इत्यधिकारे वेदिः पठितः। एवं च प्रत्युदाहरणे परस्मैपदपाठः प्रमादजः। प्रसाधकः उ अभ्यङ्गादेः कर्ता, संप्रसाध्यमानस्य नेत्रविकारादिना सुखमनुमानतो जानाति॥ Nyaas ----- `वेदनायामर्थेऽनुभवे` इति। प्रत्यक्षेण वस्तुन उपलब्धिः = अनुभवः। ननु च वेदनाशब्द उपलब्धिमातर्वचनो लोके दृष्टः, तत्कथमेष विशेषो लभ्यते? यथा लभ्यते तथोत्तरसूत्रे प्रतिपदायिष्यामः। कर्ता कारकम्, कारकञ्च क्रियापेक्षं क्रियाया एव भवति। वेदना चेह क्रिया श्रूयते, नान्या। तस्मात् तस्या एव कर्ता विज्ञायते। तस्याश्च सो वेदयिता स एव विज्ञायते। तस्मादविशेषाभिधानेऽपि वेदयितरि कर्तरि वर्तमानः कर्त्तृशब्दः गृह्रत इति - `वेदयितुश्चेत् कर्त्तुः` इत्यादि। एतेन कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न तु वेदनेति दर्शयति। यदि कर्त्तृग्रहणेन वेदना विशिष्येत - कर्त्तुः सम्बन्धिनी चेद्वेदना भवतीति, तदेहापि स्यात् - देवदत्तस्य सुखं वेदयति प्रसाधक इति। प्रसाधकस्यापि सम्बन्धिनी वेदना भवत्येव, तथा हि सोऽपि तस्याः कर्ता। यथैव हि प्रसाध्यः सुखं वेदयते तथा प्रसाधकोऽपि। एतावांस्तु विशेषः - एकः प्रत्यक्षेण वेदयते, अपरश्चानुमानेन; सर्वथा हि तदकर्त्तृकत्वे वेदयत इत्येतन्न स्यात, न ह्रकर्ता वेदयत इत्युच्यते। तस्मात् सुखादीनामेव कर्त्तृग्रहणं विशेषणं युक्तिमिति भावः। ननु च सुखादिविशेषणत्वेऽपि स एव दोषः, यस्मात् प्रसाधकस्यापि जन्यजनकभावलक्षणेन सम्बन्धेन सुखादयः सम्बन्धिनो भवन्ति? नैतत्; सर्वत्रैव हि कर्त्तृसम्बन्धिनः सुखादयः, क्रियते चेदं कर्त्तृग्रहणम्। अतः कर्त्तृग्रहणसामर्थ्याद्विशिष्टो यः कर्ता सुखादीनामाश्रयः समवायिकारणं स एव गृह्रते। तेनाश्रयाश्रयिभावेन सम्बन्धेन कर्त्तृसम्बन्धिभ्यः सुखादिभ्यः प्रत्ययो विज्ञायते। न च प्रसाधकः सुखादीनां समवायिकारणम्, किं तर्हि? निमित्तकारणम्। सुखादिसमवायिकारणस्य कर्त्तुर्ये सुखादय आश्रयाश्रयिभावेन सम्बन्धिनस्ते प्रत्यक्षेणोपलभ्यन्ते। तेन तदुपलब्धिरनुभवस्वभावा भवतीति युक्तमुक्तम् - वेदनायामर्थेऽनुभव इति। यदि तर्हि कर्त्तृग्रहणेन सुखादयो विशिष्यन्ते, न वेदना, ततश्च कर्त्तृवेदनायामिति षष्ठीसमासो न प्राप्नोति, असामर्थ्यात्? सौत्रत्वान्निर्देशस्य सत्यप्यसामर्थ्ये समासो भविष्यतीत्यदोषः। अथ वा - असमास एव, षष्ठआस्त्वश्रवणम्; `सुपां सुलुक्` (7.1.39) इति लुप्तत्वात्॥ Prakriyasarvasvam ----------------- एभ्यः कर्तुरनुभवेऽर्थे क्यङ् स्यात् । सुखायते । कर्तुरित्युक्तचान्यगतस्य सुखस्यानुभवे तु न । राधायाः सुखमनुभवति कृष्णः । सुखदुःखगहनतृप्रास्रालीकप्रतीपकरुणाश्च । कृपणं सोढमितीमे सुखादयो दश ततोऽसकृच्छ्रे द्वे ॥ ७९९ ॥ तृप्रं दुःखमेव । तृप्तिरित्यन्ये । आस्रमस्रं च तुल्यार्थौ । आस्रायते । रोदन- मनुभवतीत्यर्थः । अलीकं प्रतीपं चाप्रियम् । करुणः करुणरसः । कृपणं दैन्यम् । सोढमभिभवः क्षमा वा । इति । Sutra Prayogas -------------- * **दुःखायते** (भट्टिकाव्यम्): `सुखादिभ्यः कर्तृवेदनायाम्` इति क्यङ्-प्रत्ययः। * **अजिह्लदत्** (भट्टिकाव्यम्): `णि- श्रि` इति चङ्।