31009: काम्यच्च =============== **Padacheda:** काम्यच् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And the affix काम्यच् is also used in the sense of 'wishing' after a word ending in a case-affix, expressing the object wished as connected with the wisher's self. Vasu English Translation ------------------------ And the affix काम्यच् is also used in the sense of 'wishing' after a word ending in a case-affix, expressing the object wished as connected with the wisher's self. Thus, पुत्रकाम्यति 'he wishes for a son of his own'. The making of this a separate *sutra* instead of adding it with the last aphorism and making one *sutra* of them both, is for the sake of the subsequent *sutra*, where the *anuvritti* of *kyach* only runs, and not that of *kamyach*. The क of *kamyach* is not indicatory, but is a part of the real affix. Here, therefore, rule (1.3.8) which would have made the letter क indicatory, does not apply; because no particular purpose would be served by making indicatory. Or the affix *kamyach* may be considered to have an indicatory च before it i.e. the affix being *chakamya*. Bhashya ------- काम्यच्च (626) (687 काम्यच् प्रत्ययविधिसूत्रम्॥ 3.1.2 आ. 2 सूत्रम्) (काम्यचश्चित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थश्चकारः?। (परिहारभाष्यम्) स्वरार्थः। चितोन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्॥ (आक्षेपसाधकभाष्यम्) नैतदस्ति प्रयोजनम्। धातुस्वरेणाप्येतत्सिद्धम्॥ (परिहारान्तरशङ्काभाष्यम्) ककारस्य तर्हीत्संज्ञापरित्राणार्थ आदितश्चकारः कर्तव्यः। अत उत्तरं पठति। (1736 चकारप्रत्याख्यानवार्तिकम्॥ 1 ॥) - काम्यचश्चित्करणानर्थक्यं कस्येदर्थाभावात्- (भाष्यम्) काम्यचश्चित्करणमनर्थकं ककारस्येत्संज्ञा कस्मान्न भवति?। इदर्थाभावात्। इत्कार्याभावादत्रेत्संज्ञा न भविष्यति॥ (हेत्वसिद्धिप्रदर्शकभाष्यम्) ननु च लोप एवेत्कार्यम्॥ (हेतूपपत्तिभाष्यम्) अकार्ये लोपः। इह हि शब्दस्य कार्यार्थो वा स्यादुपदेशः श्रवणार्थो वा। कार्ये चेह नास्ति। असति कार्ये यदि श्रवणमपि न स्यात्। उपदेशोऽनर्थकः स्यात्। (कित्करणप्रयोजनभाष्यम्) इदमस्ति कार्यम् - -अग्निचित्काम्यति। कितीति गुणप्रतिषेधो यथा स्यात्॥ (प्रयोजननिराकरणभाष्यम्) नैतदस्ति प्रयोजनम्। सार्वधातुकार्धधातुकयोरङ्गस्य गुण उच्यते। धातोश्च विहितः प्रत्ययः शेष आर्धधातुकसंज्ञां लभते। न चायं धातोर्विधीयते॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम्। उपयट्काम्यति। कितीति संप्रसारणं यथा स्यात्। (प्रयोजननिराकरणभाष्यम्।) एतदपि नास्ति प्रयोजनम्। यजादिभिरत्र कितं विशेषयिष्यामः। यजादीनां यः किदिति॥ कश्च यजादीनां कित्?। यजादिभ्यो यो विहितः॥ (सिद्धान्तिसमाधानभाष्यम्) अथापि कथं चिदित्कार्यं स्यात्। एवमपि न दोषः। क्रियते न्यास एव द्विचकारो निर्द्देशः सुप आत्मनः क्यच् काम्यच्चेति॥ अथ वा छान्दसमेतत्। दृष्टानुविधिः छन्दसि भवति। न चात्र संप्रसारणं दृश्यते॥ काम्यच्च॥ 9 ॥ Kashika ------- सुबन्तात् कर्मण आत्मेच्छायां काम्यच् प्रत्ययो भवति। आत्मनः पुत्रमिच्छति, पुत्रकाम्यति। वस्त्रकाम्यति। योगविभाग उत्तरत्र क्यचोऽनुवृत्त्यर्थः। ककारस्येत्संज्ञा प्रयोजनाभावान् न भवति। चकारादित्वाद् वा काम्यचः। उपयट्काम्यति। Siddhanta Kaumudi ----------------- उक्तविषये काम्यच् स्यात् । पुत्रमात्मन इच्छति पुत्रकाम्यति । इह यस्य हलः (SK2631)इति लोपो न । अनर्थकत्वात् । यस्येति संघातग्रहणमित्युक्तम् । यशस्काम्यति । सर्पिष्काम्यति । मान्ताव्ययेभ्योऽप्ययं स्यादेव । किंकाम्यति । स्वःकाम्यति ॥ Laghu Siddhanta Kaumudi ----------------------- उक्तविषये काम्यच् स्यात्। पुत्रमात्मन इच्छति पुत्रकाम्यति। पुत्रकाम्यिता॥ Balamanorama ------------ **काम्यच्च** - ॒सुप आत्मनः क्य॑जित्युत्तरमिदं सूत्रम् । तदाह — उक्तविषये इति । पुत्रकाम्यतीति । कस्येत्संज्ञा तु न, फलाऽभावात् । अनर्थकत्वादिति । काम्यच एकदेशस्य यकारस्य अर्थाऽभावादित्यर्थः । ननु बेभिदितेत्यत्राऽपि यकारस्य अनर्थकत्वाल्लोपो न स्यादित्यत आह — यस्येतीति । 'यस्य हलःर' इत्यत्रयस्ये॑त्यनेन यकाराऽकारसङ्घातग्रहणमित्यनुवपदमेवोक्तमित्यर्थः । तथा च बेभिद्य इता इति स्थिते यङो यस्य सङ्घातस्याऽर्थवत्त्वाद्यकारलोपो निर्बाधः । प्रकृते तु काम्यजेकदेशस्य यस्याऽनर्थकत्वाल्लोपो नेति भावः । यशस्काम्यतीति । 'सोऽपदादौ' इति सत्वम् । ननु किमात्मन इच्छति किंकाम्यति, स्वःकाम्यतीति कथम् मान्ताव्ययानां ने॑त्यनुवृत्तेरित्यत आह — मान्ताव्ययेभ्योऽप्ययमिति । Tattvabodhini ------------- **काम्यच्च** - काम्यच्च । उच्चारणसामर्थ्यान्न कस्येत्संज्ञा ।मान्ताव्ययेभ्यः प्रतिषेधः॑ इत्यस्यानुवृत्त्यभां सूचयति — अयं स्यादेवेति । आचरतीति । व्यवहरतीत्यर्थः । *अधिकरणाच्चेति वक्तव्यम् । अधिकरणाच्चेति । सप्तम्यन्तरूपात्सुबन्तादित्यर्थः । Padamanjari ----------- काम्यच्च॥ किमर्थो योगविभागः, न'सुप आत्मनः क्यच्काम्यचौ' इत्येकयोग एव क्रियते, एवं हि चकारो न कर्तव्यो भवति? तत्राह - योगविभाग इत्यादि। एकयोगे हि सति उतरसूत्रे द्वयोरप्यनुवृत्तिः स्यात्। ननु योगविभागेऽप्यानन्तर्यात्काम्यच एवानुवृत्तिः प्राप्नोति? नैष दोषः; चकारोऽत्र क्रियते, स क्यचोऽनुकर्षणार्थः, तदनुकर्षणस्य चैतदेव प्रयोजनम् - उतरत्रानुवृत्तिर्यथा स्यात्। काम्यचस्तु योगविभागसामर्थ्यादननुवृत्तिः। प्रयोजानाभावादिति। अग्निकाम्यतीत्यादौ गुणनिषेधो न प्रयोजनम्, अनार्द्धधातुकत्वादेव गुणस्याप्रङ्गत्।'विजुपे च्छन्दसि' उपयट्, उपयजमिच्छति उपयट्काम्यतीत्यत्र न संप्रसारणं प्रयोजनम्; यजादिभिः कितो विशेषणात् - यजादिभ्यो यो विहितः किदिति। वाक्काम्यतीत्यत्रापि धातोः सरूपग्रहणे कार्यविज्ञानान्न संप्रसारणं प्रयोजनम्। चकारादित्वाद्वेति। केचिद्व्याचक्षते - अन्तेऽस्य चकारोऽनर्थकः, धातुस्वरेणैवान्तोदातत्वस्य सिद्ध्त्वात्, स आदौ कर्तव्यः। अथ वा - अन्तेऽपि कृतो नियमार्थः संपद्यते - चिद्वायं व्यपदेष्टव्यो नानुबन्धान्तरेणेति तेनान्ते कृत आदित्वफलसंपादनादादितः संपद्यत इति। अन्ये तु'सुप आत्मनः क्यच्' 'काम्यच्च' इति द्विचकारकनिर्देशाश्रयेण चकारादित्वं वर्णयन्तिऽ चित्करणं तु पुत्रकामिष्यतीत्यत्र सति शिष्टमपि स्यस्वरं चित्स्वर एव यथा स्यादिति॥ Nyaas ----- ननु च द्वावप्येतौ क्यच्काम्यचौ सुबन्तात् कर्मण आत्मेच्छायां विधीयेते, तदेकयोग एव कथं न कृत इत्याह - `योगविभागः` इत्यादि। `सुप आत्मनः क्यच्काम्यचौ` (इत्येक योगे सत्युत्तरत्र द्वयोरप्यनुवृत्तिः स्यात्। ननु च योगविभागेऽप्यानन्तर्यात् काम्यच एवानुवत्तिः स्यात्, न क्यचः? नैष दोषः; चकारोऽत्र क्रियते क्यचोऽनुकर्षणार्थः; क्यचोऽनुकर्षणस्यैतत्प्रयोजनम् - उत्तरसूत्रेऽनुवृत्तिर्यथा स्यात् इह योजनाभावात्। काम्यजपि कस्मान्नानुवर्ततत इति चेत्, न; योगविभागसामर्थ्यात्। अथ **लशक्वतद्धिते** (1.3.8) इति ककारस्येत्संज्ञा कस्मान्न भवतीत्याह - `ककारस्येत्संज्ञा` इत्यादि। ननु च लोप एव कार्यम्? न कार्यम्; लोप इह हि वर्णस्य कार्यार्थो भव्तयुपदेशः, श्रवणार्थो वा। कार्यं तावदिह नास्ति। तत्रि यदि श्रवणार्थो न स्यादुपदेशोऽनर्थकः स्यात्। इदं तर्हि कार्यम् - अग्निकाम्यतीति गुणप्रतिषेधो यथा स्यात्? नैतत् प्रयोजनम्, सार्वधातुकार्धधातुयोरङ्गस्य गुण उच्यते। धातोर्विहितश्च प्रत्ययः शेष आर्धधातुकसंज्ञो भवति; न चायं धातोर्विधीयते, किं तर्हि? सुबन्तात्। इदं तर्हि प्रयोजनम् - उपयट्काम्यतीति, वच्चादिना (6.1.15) संप्रसारणं यथा स्यात्? नैतदपि; यस्मात् तत्र यजादिभिः किद्विशिष्यते - यजादीनां यः किदिति। कश्च यजादीनां कित्? यो यजादिभ्यो विहितः, न चायं तथा विहितः। अभ्युपगम्यापि प्रयोजनं परीहारान्तरमाह - `चकारादित्वात्` इति। एवं मन्यते - क्रियते विन्यास एवम्, द्विचकारो निर्देशः, सुप आत्मनः क्यच्च काम्यच्चेति; स इत्संज्ञकश्चकारः ककारस्यत्संज्ञापरित्राणार्थो भविष्यतीति। अथ द्वितीयश्चकारः किमर्थः, यावता `धातोः` (6.1.162) इत्येवमन्तोदात्तत्वं सिद्धम्? इह पुत्रकाम्यिष्यीतति सतिशिष्टस्वरमपि बाधित्वा चित्करणसामर्थ्यात् काम्यच एव स्वरो यथा स्यात्। `उपयट्काम्यति` इति। **विजुपे छन्दसि** (3.2.73) इति विच्, उपयजमिच्छतीति काम्यच्, व्रश्चादिना (8.2.36) षत्वम्, तस्य जश्त्वं डकारः, तस्यापि `वावसाने` (8.4.55) इति चर्त्वं टकारः॥ Prakriyasarvasvam ----------------- क्यज्विषये काम्यजपि स्यात् । आत्मनः पुत्रमिच्छति पुत्रकाम्यति । अत्र मान्ताब्यययोरपि स्यात् । इदङ्काम्यपि । स्वःकाम्यति । लुङादौ—अपुत्रकाम्यीत् । पुत्रकाम्यामास । ‘हलोयमां—’ (८-४-६४) इति यलोपः । पुत्रकाम्यात् । पुत्रकम्यीता । क्विप्यतोलोपे वलि लोपे च—पुत्रकाम् । पदत्वे ‘मो नः—’(८-२-६४)। पुत्रकान् । पुत्रकामो इत्यादि । Sudha ----- **काम्यच्चेति** । **सुप आत्मनः क्यच्** (3.1.8) इत्युत्तरमिदं सूत्रम् । तदाह - **उक्तविषये इति** । "पुत्रकाम्यति" । आत्मनः पुत्रमिच्छतीत्यर्थे "पुत्र अम्" इति सुबन्तात् काम्यच्प्रत्यये **सनाद्यन्ता धातवः** (3.1.32) इति धातुसंज्ञायां **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति अमो लुकि, "पुत्रकाम्य" इत्यस्मात् धातोर्लटस्तिपि, शपि, अनुबन्धलोपे, **अतो गुणे** (6.1.97) इति पररूपत्वे "पुत्रकाम्यति" इति रूपम् । लिटि "पुत्रकाम्याञ्चकार" इति । **पुत्रकाम्यिता ।** आत्मनः पुत्रमिषिता इत्यर्थे पुत्रम् इति सुबन्तात् काम्यचि, **सनाद्यन्ता धातवः** (3.1.32) इति धातुत्वादमो लुकि, तस्मात् लुटि, लुटस्तिपो डात्वे अनुबन्धलोपे, तासि, तासः आर्धधातुकत्वाद् इटि **अतो लोपः** (6.4.148) इति काम्यचोऽकारस्य लोपे, "पुत्रकाम्यिता" इति रूपम् । लृट - "पुत्रकाम्यिष्यति" । लोटि - "पुत्रकाम्यतु" । लङि - "अपुत्रकाम्यत्" । लिङि - "पुत्रकाम्येत्" । आशिषि - "पुत्रकाम्यात्" । लुङि - "अपुत्रकाम्यीत्" । लृङि - "अपुत्रकाम्यिष्यत्" । Sutra Prayogas -------------- * **पुत्रकाम्यया** (रघुवंशम्): `काम्यच्च` इति पुत्रशब्दात् काम्यच्प्रत्ययः। * **गुणवदुपघ्नकाम्ययेव** (शिशुपालवधम्): `काम्यच्च` इति काम्यच्-प्रत्ययः। * **पुत्र-काम्या** (भट्टिकाव्यम्): `पुत्रशब्दात् काम्यच्च` इति काम्यच्।