31004: अनुदात्तौ सुप्पितौ ========================= **Padacheda:** अनुदात्तौ | S | 1 | 2 | सुप्पितौ | S | 1 | 2 | Sutrartha --------- **सुप्-प्रत्ययानाम् तथा पित्-प्रत्ययानाम् प्रथमः स्वरः अनुदात्तः भवति ।** **आद्युदात्तश्च** (3.1.3) अनेन सूत्रेण सर्वेषां प्रत्ययानामादिस्वरस्य उदात्तत्वे प्राप्ते अनेन सूत्रेण सुप्-प्रत्ययानां विषये तथा पित्-प्रत्ययानां विषये अपवादः उच्यते । 'सुप्-प्रत्ययेषु तथा पित्-प्रत्ययेषु विद्यमानः आदिस्वरः अनुदात्तः भवति' इत्याशयः । उदाहरणम् - 1) सुप्-प्रत्ययाः - औ, जस्, अम्, औट् आदयः । एतेषाम् सर्वेषाम् प्रथमस्वरः अनेन सूत्रेण अनुदात्तः भवति । यथा - 'राम + भ्याम् → रामाभ्याम्' इत्यत्र 'भ्या' इत्यस्य आकारः अनुदात्तः भवति । 2) पित्-प्रत्ययाः (= ते प्रत्ययाः येषु पकारः इत्संज्ञकः अस्ति) = ल्यप्, शप्, ङीप् - आदयः । एतेषां सर्वेषां प्रथमस्वरः अनेन सूत्रेण अनुदात्तः भवति । यथा, 'भू + शप् + ति → भवति' इत्यत्र वकारोत्तरः अकारः अनुदात्तः भवति । Sutrartha (English) ------------------- The first letter of the सुप् and the पित् प्रत्ययाः is अनुदात्त. Vasu English Summary -------------------- The case-affix es (सुप्) and the affixes having an indicatory प (पित्) are अनुदात्त। Vasu English Translation ------------------------ The case-affix es (सुप्) and the affixes having an indicatory प (पित्) are अनुदात्त। This is an exception (*apavada*) to the last aphorism. As दृसदौ 'two stones'; the case-affix औ is *anudatta*; so also तृपदः; so also पचति; The third person singular affix तिप् has an indicatory प, and is *anudatta*. But not पचतः. Kashika ------- पूर्वस्यायमपवादः। सुपः पितश्च प्रत्यया अनुदात्ता भवन्ति। दृषदौ। दृषदः। पितःखल्वपि — पचति। पठति॥ Siddhanta Kaumudi ----------------- पूर्वस्य अपवादः । यज्ञस्य । न यो युच्छति (न यो युच्छ॑ति) । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ॥ Padamanjari ----------- अनुदातौ सुप्पितौ॥ सुबिति प्रत्याहारस्येदं ग्रहणम्, न स्पतमीबहुवचनस्य; पित्वादेवानुदातत्वस्य सिद्धत्वात्। अत एव वृतौ'सुपः' इति बहुवचनम्। पित एततु प्रक्रमानुरोधेन बहुवचनम्। सुपश्च पकारेण प्रत्याहारः, न कप; टाबादीनां पित्करणात्। पचतीति। शबन्तोदाहरणम्, तिपस्त्वदुपदेशात्'लसार्वधातुकम्' इत्येव सिद्धम्॥ Nyaas ----- `पूर्वस्यायमपवादः` इति। नाप्राप्ते तस्मिन्नस्यारम्भात्। सुबिति प्रत्याहारस्य ग्रहणम्, न सप्तमीबहुवचनस्य; तस्य पित्त्वादेवानुदात्तस्य सिद्धत्वात्। अत एव वृत्तौ `सुपः` इति बहुवचनेन निर्देशः कृतः। प्रत्याहारग्रहणञ्चेदं सुप एव पकारेण नान्येन; तस्यानन्यार्थत्वात्। `पचति, पठति` इति। शबत्रोदाहरणम्, न तिप; तस्य `तास्यनुदात्त` (6.1.180) इत्यादिनैव सिद्धत्वात्॥ Prakriyasarvasvam ----------------- सुपः पितश्च प्रत्यया अनुदात्ताः स्युः । क्यप् । गुहाहितं गुह्यम् । सूर्यो नो दिवः । (वा. ३-३-५८) इत्यप् । रणं कृधिरणकृत् । एषु प्रत्ययानुदात्तत्वाद् धातोरुदात्तता* । सुप्स्वरमुपरि वक्ष्यामः ।