31001: प्रत्ययः
===============
**Padacheda:** प्रत्ययः | S | 1 | 1 |
Sutrartha
---------
**अधिकारोऽयम् । इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तम् प्रत्ययाः वक्ष्यन्ते ।**
अयमधिकारः अष्टाध्याय्याः महत्तमः अधिकारः अस्ति । अस्य व्याप्तिः तृतीय-चतुर्थ-पञ्चमेषु अध्यायेषु वर्तते । एतेषु त्रिषु अध्यायेषु प्रोक्ताः नूतनाः शब्दाः प्रत्ययसंज्ञकाः भवन्ति ।
प्रत्ययानाम् सप्त भेदाः सन्ति । ते एतादृशाः -
1) सनादिप्रत्ययाः - एते धातुभ्यः तथा प्रातिपदिकेभ्यः अनन्तरमागच्छन्ति । एते सर्वे **गुप्तिज्किद्भ्यः सन्** (3.1.5) इत्यतः **आयादय आर्धधातुके वा** (3.1.31) एतेषु सूत्रेषु दीयन्ते ।
2) विकरणप्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । एते सर्वे **स्यतासी लृलुटोः** (3.1.33) इत्यतः **लिङ्याशिष्यङ्** (3.1.86) इति यावत् पाठ्यन्ते ।
3) तिङ्-प्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । एते प्रत्ययाः **तिप्तस्झिसिप्थस्थमिब्वस्मस्ताऽतांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) अनेन सूत्रेण दीयन्ते । प्रक्रियायाम् एतेषां भिन्नाः आदेशाः भवितुमर्हन्ति, ये **लस्य** (3.4.77) अस्मिन् अधिकारे दीयन्ते ।
4) कृत्-प्रत्ययाः - एते धातुभ्यः अनन्तरमागच्छन्ति । तृतीयाध्याये पाठिताः सनादिभिन्नाः, विकरणभिन्नाः तिङ्भिन्नाः सर्वे प्रत्ययाः कृत्-प्रत्ययाः सन्ति ।
5) सुप्-प्रत्ययाः - एते प्रातिपदिकेभ्यः अनन्तरमागच्छन्ति । एते सर्वे **स्वौजस्..** (4.1.2) अनेन सूत्रेण दीयन्ते ।
6) स्त्री-प्रत्ययाः - **अजाद्यतष्टाप्** (4.1.4) इत्यतः **दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्** (4.1.81) एतेषु सूत्रेषु स्त्रीप्रत्ययाः पाठ्यन्ते ।
7) तद्धितप्रत्ययाः - **तद्धिताः** (4.1.76) अस्मिन् अधिकारे पाठिताः सर्वे प्रत्ययाः तद्धितप्रत्ययाः सन्ति ।
प्रत्ययाधिकारस्य विस्तृतं विवरणम् अस्मिन् लेखे कृतमस्ति, तत् दृश्यताम् ।
प्रत्ययसंज्ञायाः प्रयोगः - **अर्थवदधातुरप्रत्ययः प्रातिपदिकम्** (1.2.45), **प्रत्ययलोपे प्रत्यययलक्षणम्** (1.1.62), **प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः** (7.3.44) एतेषु सूत्रेषु कृतः दृश्यते ।
ज्ञातव्यम् - अस्मिन् अधिकारे पाठितानि सर्वाणि सूत्राणि 'नूतनप्रत्ययान् एव वदेयुः' एतत् न आवश्यकम् । ये केऽपि नूतनशब्दाः पाठ्यन्ते, ते सर्वे प्रत्ययसंज्ञकाः भवन्ति, इत्येव अस्य सूत्रस्य आशयः । प्रत्ययान् विहाय अस्मिन् अधिकारे कानिचन संज्ञासूत्राणि, अधिकारसूत्राणि, नियमसूत्राणि, अतिदेशसूत्राणि चापि सन्ति एतदपि स्मर्तव्यम् ।
Sutrartha (English)
-------------------
Everything told in this अधिकार are known as प्रत्ययाः.
Vasu English Summary
--------------------
An affix.
Vasu English Translation
------------------------
An affix.
This is an aphorism intended solely to regulate the sense of others. From this place forward up to the end of the Fifth Book, whatsoever we shall treat of, will get the name of '*Pratyaya*' or an affix, except the '*prakriti*' or base (such as गुप्, तिम्, कित् in (3.1.5) are bases, the affix being सन्), the '*upapada*' or dependent word (such as स्तम्ब, शकृत in (3.2.24) are *upapadas*), the '*upadhi*' or attribute, the special cause that occasions changes (such as पशु in III.2.25 is an *upadhi*); in the sutra, (3.2.25), the word हरति is a *prakriti*, दृति and नाथ are *upapadas*, पशु is an *upadhi*, the affix being इन्, the substitute and the augment. Such as the affixes तव्यत्, तव्य, अनीयर् taught in (3.1.96), as कर्त्तव्यम्, करणीयम् 'to be done'.
Bhashya
-------
प्रत्ययः (617) (380 अधिकारसूत्रम्॥ 3 । 1। 1 आ. 1 सूत्रम्) (अधिकारत्वस्थापनाधिकरणम्) (आक्षेपभाष्यम्।) अधिकारेणेयं प्रत्ययसंज्ञा क्रियते। सा प्रकृत्युपपदोपाधीनामपि प्राप्नोति। तस्याः प्रतिषेधो वक्तव्यः। प्रकृति गुप्तिज्कितः। उपपद स्तम्बकर्णयोः। उपाधि हरतेर्दृतिनाथयोः पशौ। एतेषां प्रतिषेधो वक्तव्यः॥ (तृतीयस्य प्रत्याक्षेपप्रश्रभाष्यम्) किं च स्यात् यद्येतेषामपि प्रत्ययसंज्ञा स्यात्?॥ (प्रत्याक्षेपसमाभानभाष्यम्) परत्वमाद्युदात्तत्वमङ्गसंज्ञेत्येते विधयः प्रसज्येरन्॥ (समाधानभाष्यम्) अत उत्तरं पठति - (1.6.8।1 अधिकारत्वे दूषणनिराकरणवार्तिकप्रथमखण्डम्) - प्रत्ययाधिकारे प्रकृत्युपपदोपाधीनामप्रतिषेधः- (भाष्यम्) अधिकारेणापि प्रत्ययसंज्ञायां सत्यां प्रकृत्युपपदोपाधीनामप्रतिषेधः। अनर्थकः प्रति षेधोऽप्रतिषेधः॥ प्रत्ययसंज्ञा कस्मान्न भवति?। (वार्तिकद्वितीयखण्डम्॥ 1 ॥ ) - निमित्तस्य निमित्तिकार्यार्थत्वादन्यत्रापि- (भाष्यम्) निमित्तानि हि निमित्तिकार्यार्थानि भवन्ति। किं पुनर्निमित्तम्। को वा निमित्ती?॥ प्रकृत्युपपदोपाधयो निमित्तम्, प्रत्ययो निमित्ती॥ अन्यत्रापि चैष न्यायो दृष्टः नावश्यमिहैव। क्वान्यत्र?॥ लोके। तद्यथा - बहुष्वासीनेषु कश्चित्कंचित्पृच्छति - कतरो देवदत्तः, (कतमो यज्ञदत्त) इति। स आह - योश्वे, यः पौठे इति। योश्वे यः पीठ इत्युक्ते निमित्तस्य निमित्तिकार्यार्थत्वादध्यवस्यति अयं देवदत्तोऽयं यज्ञदत्त इति। नेदानीमश्वस्य पीठस्य धा देवदत्त इति संज्ञा भवति॥ किं पुनर्निमित्तम्, को वा निमित्ती?॥ निर्ज्ञातोऽर्थो निमित्तम्। अनिर्ज्ञातोऽर्थो निमित्ती। इह च प्रत्ययोऽनिर्ज्ञातः, प्रकृत्युपपदोपाधयो निर्ज्ञाताः॥ क्व। धातूपदेशे प्रातीपदिकोपदेशे च॥ ते निर्ज्ञाता निमित्त्वेनाश्रीयन्ते॥ (10) (1.6.82 समाधानान्तरवार्तिकम्॥ 2 ॥) - प्रधाने कार्यसंप्रत्ययाद्वा सिद्धम् - (भाष्यम्) अथ वा प्रधाने कार्यसंप्रत्ययो भवति॥ किं च प्रधानम्?। प्रत्ययः। तद्यथा - बहुषु यात्सु कश्चित्कंचित् पृच्छति को यातीति। स आह - राजेति। राजेत्युक्ते प्रधाने कार्यसंप्रत्ययाद्यः पृच्छति, यश्च कथयति, उभयोः संप्रत्ययो भवति॥ किं कृतं पुनः प्राधान्यम्?॥ अर्थकृतम्। यथा पुनर्लोकेऽर्थकृतं प्राधान्यम्॥ शब्दस्येदानीं किं कृतं प्राधान्यम्?। शब्दस्या पूर्वोपदेशः प्राधान्यम्। यस्यापूर्वोपदेशः स प्रधानम्॥ प्रकृत्युपपदोपाधयश्च निर्दिष्टाः। क्व ?। धातूपदेशे प्रातिपदिकोपदेशे च॥ (विकारागमानां प्रत्ययसंज्ञापादनभाष्यम्) यद्येव निमित्तस्य निमित्तिकार्यार्थत्वात् यद्वा ति। विकारागमानां तु प्राप्नोति हनस्त च त्रपुजतुनोः षुकू एतेषां ह्यपूर्वोपदेशात्प्राधान्यम्, निमित्तिनशेचैवैते॥ (1683 विकारागमानां प्रत्ययत्वापत्तिनिराकरणवार्तिकम्॥ 6 ॥ ) - विकारागमेषु च परविज्ञानात् - ( भाष्यम्) विकारागमेषु च परविज्ञानात् प्रत्ययसंज्ञा न भविष्यति। प्रत्ययः परो भवतीत्युच्यते। न च विकारागमाः परे (संभवन्ति)॥ (आक्षेपभाष्यम्) किं पुनः कारणं समाने अपूर्वोपदेशे प्रत्ययः परो, न विकारागमाः परे॥ - षष्ठीनिर्दिष्टस्य च तद्युक्तत्वात्- (भष्यम् षष्ठीनिर्दिष्ठं विकारागमयुक्तं भवति। पञ्चमीनिर्दिष्टाच्च प्रत्ययो विधीयते॥ (1685 बाधकवार्तिकम्॥ 5 ॥ ) - प्रत्ययविधानानुपपत्तिस्तु- (भाष्यम्) प्रत्ययविधिस्तु नोपपद्यते॥ क्व ?। यत्र विकारागमाः शिष्यन्ते हनस्त च त्रपुजतुनोः षुकू इति॥ (अनुपपत्तिकारणप्रश्रभाष्यम्) किं पुनः कारणं न सिध्यति। (अनुपपत्तिकारणकथनभाष्यम्) विकारागमयुक्तत्वात्। अपञ्चमीनिर्दिष्टत्वाच्च॥ (1685 पञ्चमीकरणवार्तिकम्॥ 6 ॥) - तस्मात्तत्र पञ्चमीनिर्देशात्सिद्धम्- (भाष्यम्) तस्मात्तत्र पञ्चमीनिर्देशः कर्तव्यः॥ (सूत्रव्यत्यासकरणप्रश्रभाष्यम्) (स तर्हि पञ्चमीनिर्देशः कर्तव्यः॥ ) (यथान्यासस्थापनभाष्यम्) न कर्तव्यः। इह तावद् हनस्त चेति धातोरिति वर्तते। त्रपुजतुनोः षुकू इति प्रातिपदिकादिति वर्तते॥ (आपत्तिभाष्यम्) यद्येवं हनस्त च धातोः क्यप् भवतीति धातुमात्रात् क्यप् प्राप्नोति॥ (आपत्तिवारकभाष्यम्) नैष दोषः। आचार्यप्रवृत्तिर्ज्ञापयति - न धातु मात्रात् क्यप् भवतीति, यदयम् एतिस्तुशास्वृदृजुषः क्यप् इति परिगणनं करोति॥ अथ वा हन्तिरेवात्र धातु ग्रहणेनाभिसंभन्त्स्यते हन्तेस्तो भवति धातोः क्यप् भवतीति, कस्माद्? हन्तेरिति॥ (1687 समाधानान्तरवार्तिकम्॥ 7 ॥) (भाष्यम्) अथ वा अर्थाश्रयः प्रत्ययविधिः, यः स्वमर्थे प्रत्याययति स प्रत्ययः॥ किं वक्तव्यमेतत्?। न हि॥ कथमनुच्यमानं गंस्यते?। प्रत्यय इति महती संज्ञा क्रियते। संज्ञा च नाम यतो न लघीयः। कुत एतत्?। लघ्वर्थे चहि संज्ञाकरणम्। तत्र महत्याः संज्ञायाः करण एतत्प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेन प्रत्याययतीति प्रत्ययः॥ (अन्वर्थसंज्ञाङ्गीकारदूषणभाष्यम्) यदि प्रत्याययतीति प्रत्ययः, अविकादीनां प्रत्ययसंज्ञा न प्राप्नोति। न हि ते किंचित्प्रत्याययन्ति॥ (कर्मसाधनताङ्गीकारभाष्यम्) एवं तर्हि - प्रत्याय्यत इति प्रत्ययः॥ (कर्मसाधनतायां दूषणभाष्यम्) एवमपि सन्नादीनां न प्राप्नोति॥ (उभयसाधनाङ्गीकारभाष्यम्।) एवं तर्ह्युभयसाधनोयम् कर्तृसाधनः कर्मसाधनश्च॥ (अर्थप्रत्यायनहेतुप्रश्रभाष्यम्) एवमपि कुत एतत् समाने अपूर्वोपदेशे त्रापुषं जातुषमित्यत्राकारस्तमर्थे प्रत्याययति, न पुनः षकार इति॥ (अर्थप्रत्यायनहेतुप्रतिपादनभाष्यम्) अन्यत्राप्यकारेण तस्यार्थस्य प्रत्यायनान्मन्यामहे - अकारस्तमर्थे प्रत्याययति, न पुनः षकार इति॥ क्वान्यत्र?। बिल्वादिभ्योऽण्। बैल्वः॥ प्रत्ययः॥ 1 ॥
Kashika
-------
अधिकारोऽयम्। प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते। आ पञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामः, प्रत्ययसंज्ञास्ते वेदितव्याः, प्रकृत्युपपदोपाधिविकारागमान् वर्जयित्वा। वक्ष्यति — **तव्यत्तव्यानीयरः**(३.१.९६)। कर्त्तव्यम्। करणीयम्। प्रत्ययप्रदेशाः — **प्रत्ययलोपे प्रत्ययलक्षणम्** (१.१.६२) इत्येवमादयः॥
Siddhanta Kaumudi
-----------------
आपञ्चमपरिसमाप्तेः अधिकारः अयम् ॥
Balamanorama
------------
**प्रत्ययः** - प्रत्ययः । तृतीयाध्यायस्यादिमं सूत्रमिदम् । इत ऊध्र्वमा पञ्चमाध्यायपरिसमाप्तेः प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः ।हनश्च वधः॑,ई च खनः॑,नडादीनां कुक्चे॑त्यादीनामादेशागमानां तु न प्रत्ययसंज्ञा, महासंज्ञाकरणात् ।
Tattvabodhini
-------------
**प्रत्ययः** - अधिकारोऽयमिति । प्रत्ययशब्दः संज्ञात्वेनाधिक्रियत इत्यर्थः ।
Padamanjari
-----------
प्रत्ययः॥ इह यदि सर्वानेव संज्ञिनः स्वरूपेण निर्द्दिश्य संज्ञा विधीयेत - सन् प्रत्ययः क्यच् प्रत्ययः, क्यङ् प्रत्यय इति, ततो गौरवं स्यात्। अथ'सप्' प्रत्यय इति सनः सशब्दादारभ्य कपः पकारेण प्रत्याहाराश्रयेणात्र वा प्रदेशान्तरे वा संज्ञा विधीयेत, तदानेकस्य पकारस्य सम्भवात्सन्देहः स्यात्। तथा हि र्प्यासतिन्याये आश्रीयमाणे सिपः पकारेण स्याद्, व्याप्तौ तु'तप्तनप्तनथनाश्च' इति तनपः। स्यादेतत् - व्याप्तिरेवाश्रयिष्यते, अथ च तनपः पकारेण प्रत्याहारो न भविष्यति; ज्ञापकात्, यदयम् ठिच एकाचोऽम्प्रत्ययवच्चऽ इत्यमः प्रत्ययवद्भावं शास्ति, अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादमोऽपि स्वत एव प्रत्ययत्वातद्वद्भावो नातिदेश्यः स्यादिति ? तन्न; तत्र ह्यमिति द्विरावर्तते, ततश्चाप्रत्ययप्रतिबद्धम् ठौतोऽम्शसोःऽ इत्यादिविशिष्ट्ंअ कार्यं यथा स्यादिति सोऽतिदेशः स्यात्। नन्वेवमपि प्रत्ययग्रहणमनर्थकम्, अम्वदिति वक्तव्यम्, अतः प्रत्ययग्रहणात्प्रत्ययप्रयुक्तमपि कार्यमतिदेश्यमति प्रतीयते, तज्ज्ञापकमुक्तार्थस्य भविष्यति? एवमप्यम आगमत्वात्पुगादिवदप्राप्तेः प्रत्ययत्वातिदेशः स्यात्। अस्तु वा ज्ञापकम्, एवमपि कुत एतद्व्याप्तिराश्रीयते, न पुनः प्रत्यासतिरिति? किञ्च यथान्यासाद्रौरवं स्थितमेव, सबित्यस्याधिकस्य करणात्? अतो गौरवातिप्रसङ्गपरिहारायाधिकारेणेयं संज्ञा विधीयते। तदाह - प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते इति 'कारके' इति तद्विशेषणमधिक्रियते, स्वादिषु कप्पर्यन्तेषु प्रकृतिरियमधिक्रियत इतिवत्।'प्रत्ययशब्दः संज्ञाधिक्रियते' इति वक्तव्ये संज्ञात्वेनेति वचनमनर्थभेदात्। तथा ह्यमत्र कर्मकरत्वेनाधिकृतः, अयमत्र कर्मकरोऽधिकृतः, नार्थभेदोऽस्ति; किन्तु'कर्मकरो' धिकृतःऽ इत्युक्ते यः कर्मकरः सोऽधिकृतो रूपान्तरेणेत्यपि गम्यते, कर्मकरत्वेनेति पुनरुच्यमाने तस्यैवाकारस्याधिकृतत्वं गम्यते। अधिक्रियतेउ विनियुज्यते सूत्रकारेण। यानु नादीननुक्रमिष्यामःउ अनुक्रमेण विधास्यामः। सूत्रकारायमाणस्य वृतकारस्यैतद्वचनम्। यदि तर्ह्यधिकारेण संज्ञा क्रियते, प्रतियोगमुपस्थानात्प्रकृत्युपपदोपाधिविकारागमानामपि प्राप्नोति -'हरतेर्द्दतिनाथयोः पशौ' हरतेरिति प्रकृतिः, द्दतिनाथयोरित्युपपदम्, पशावित्युपाधिः;'हनस्त च' इत्यादिर्विकारः,'त्रपुजतुनोः पुक्' इत्यागमः। सत्यां च संज्ञायां प्रकृतिप्रत्यययोः तर्यायेण परस्परापेक्षं परत्वं स्यात्; शब्दान्तरापेक्षं वा प्रकृतेः, प्रकृत्यपेक्षं तु प्रत्ययस्य? उपपदस्यापि परत्वात् ठुपसर्जनं पूर्वम्ऽ इत्येतद्राजपुरुषादिषु सावकाशं बाधित्वा परत्वं स्यात्, यत्र समासाभावात्ठुपसर्जनं पूर्वम्ऽ इत्यस्याप्रसङ्गः, तत्रोपपदस्य परत्वं स्यात्? एवं च सति भोक्तुअं व्रजतीत्येवमेव नित्यं स्यान्न तु व्रजति भोक्तुमिति, उपाधेरप्यर्थस्य परत्वासम्भवेऽपि तद्वाचिनः प्रयोगानियमे प्राप्ते परश्चेति नियमः स्यात्? आद्यौदातत्वं च यथायथं स्वरान्तरं बाधित्वा स्यात्? अङ्गसंज्ञा तु विधानप्रतिबद्धा, न चेह प्रकृत्यादयः कुतश्चिद्विधीयन्ते इति न सा प्रकृत्यादिषु परतः पूर्वस्य प्राप्नोति? ननु च प्रतियोगमुपस्थानेऽपि वाक्यभेदप्रसङ्गात्प्रकृत्यादीनां संज्ञा न भविष्यति, तथा हि - हरतेर्द्दतिनाथयोः कर्मणोरुपपदयोः पशौ कर्तरीन् प्रत्ययो भवतीत्येकं वाक्यम्, ते च हरत्यादयः प्रत्ययसंज्ञका इति द्वितीयम्, सम्भवत्येकवाक्यत्वे वाक्यभेदस्तु नेष्यते? नैतदस्ति; सनादीनामप्यसतां संज्ञानुपपतेर्वाक्यभेदेनैव संज्ञा विधेया, ततश्च सनादीनामेकेन वाक्येन विधिरपरेण संज्ञाविधिः, एवं प्रकृत्यादीनामपि प्राप्नोति? तत्राह - प्रकृत्युपपदेत्यादि। अयमभिप्रायः - प्रकृत्यादीनां सनाद्यौत्पतौ निमितत्वेनोपादानात्पारार्थ्यात्स्वसंस्कारं प्रति प्रयोजकत्वाभावः यथा - यः पीठे स देवदत इति पीठस्य देवदतसंज्ञा न भवति। ननु सनाद्यौत्पतिवाक्ये प्रथमे तेषां पारार्थ्यम्, न द्वितीये संज्ञासंज्ञिसम्बन्धप्रतिपादनपरे वाक्ये, ततश्च संज्ञाविधानपरमेवंरूपमेव - गुप्तिज्किद्भ्यः सन् प्रत्यय इति, ततश्च तत्रापि भूतविभक्त्यानिर्द्देशान्निमितत्वात्पारार्थ्यं स्थितमेव। किञ्च, योग्यविभक्त्यभावाच्च न प्रकृत्यादीनां संज्ञा, प्रथमान्तस्य षष्ठ।ल्न्तस्य वा संज्ञासम्बन्धः'वृद्धिरादेच्' 'स्वं रूपं शब्दस्य' इति। न च द्वितीये वाक्ये योग्यविभक्त्यध्याहारेण संज्ञा भवितुमर्हति; योग्यविभक्तिनिर्द्दिष्टेषु सनादिषु चरितार्थत्वात्। उपपदसंज्ञा तु सप्तमीनिद्दिष्टस्य विधीयमाना युक्तं यद्वाक्यभेदेन योग्यविभक्त्यध्याहारेण च भवतीति। किञ्च, प्रधानेतरसन्निधौ प्रधाने कार्यसंप्रत्ययो भवति, यस्य चापूर्वविधानं तत्प्रधानम्; अतः प्रथमवाक्ये तावत्सनादीनामेव प्राधान्यम्, द्वितीयेऽपि संज्ञा संज्ञिनमपेक्षमाणा यत्पूर्ववाक्ये प्रधानतयावगतं तदेवापेक्षते, न तु पारतन्त्र्यादप्रधानमिति सिद्धमिष्टम्। एवमपि विकारागमानां प्राप्नोति? नैष दोषः; महती संज्ञा क्रियते, अन्वर्थसंज्ञा यथा विज्ञायेत - प्रतियन्त्यनेनार्थमिति प्रत्यय इति। न च विकारागमाभ्यामर्थं प्रतयिन्ति। यद्येवम्, ठवेः कःऽ इत्यादीनां समासान्तानां च न स्याद्, न ह्यएषामन्वयव्यतिरेकाभ्यां कश्चिदर्थोऽवधार्यते, तदभावेऽपि केवलाया एव प्रकृतेस्तदर्थावगमात्। यदप्युच्यते - अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्तीति स्वार्थ एवैषामर्थ इति, तदपि कल्पनामात्रम्; अन्वयव्यतिरेकगम्यत्वादर्थवत्वस्य। इतरेतराश्रयत्वं च भवति - सति प्रत्ययत्वे स्वार्थे विधानम्, स्वार्थे विधानाच्चार्थवत्वे सति प्रत्यय संज्ञेति। एवं तर्हि प्रयोजनाभावान्न भविष्यति? तथा हि तेषां स्थानषष्ठ।लसम्बन्धस्यावयसम्बन्धस्य च प्रतिपादनात्परत्वं तावन्न सम्भवति, आगमानां चानुदातत्वविधानादाद्यौदातत्वस्यासम्भवः, सति तु प्रयोजने आगमस्यापि श्नमः शकारस्येत्संज्ञार्थ भवत्येव संज्ञा। अथ'हनश्च वधः' 'नाभि नभञ्च' 'विराग विरङ्गञ्च' इत्यादौ वधादीनामनेकालानामादेशानां संज्ञा कस्मान्न भवति, सम्भवति हि तेषु परत्वं प्रयोजनम्? यद्यपि स्थानिन आदेशेन निवर्तितत्वान्न तदपेक्षं परत्वम्, शब्दान्तरापेक्षया स्यादेव परत्वम्। यथोक्तं प्राक् - गुपादिषु अर्थवत्वं च तेषामस्ति, विधेयत्वात्प्राधान्यं च, योग्या च विभक्तिः। अतः सर्वथा वधादिषु संज्ञानिवृतये यत्नः कर्तव्यः। कर्तव्यम्, करणीयामति। अत्र प्रत्ययसंज्ञायां धातोरङ्गसंज्ञा, अङ्गस्य गुणः। अनन्तरमपि सनादिकमतिक्रम्य व्यवहितोऽपि तव्यदादिरुदाहःतः, तत्राद्यौदातादेरपि प्रत्ययकार्यस्य सम्भवात्। सनादौ तु नित्स्वरेण धातुस्वरेण च तद्वाध्यते॥
Nyaas
-----
`प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते` इति। शास्त्रस्य लाघवार्थम्। यदि सन्प्रत्ययः, क्यच्प्रत्ययः, क्यङप्रत्ययः इत्येवमेकैकं संज्ञिनमुपादायानकेषां भिन्नवाक्यैः प्रत्ययसंज्ञा विधीयेत् तदा शास्त्रसय् गौरवं स्यात्; संज्ञिनां बहुत्वात्। न हि तेषां तथाविधं सायान्यमभिन्नमस्ति यदुपादायैकेन वाक्येनानेकेषां संज्ञा कविधीयेत् यथा - **वृद्धिर्यस्याचामादिस्तद् वृद्धम्** (1.1.73) इति। ननु चेदमस्ति समान्यं सविति, एवञ्च सूत्रं करिष्यते - `सप्प्रत्ययः` इति, सविति प्रत्याहारग्रहणं च सनः सकारादारभ्य कपः पकारेण? नैतदस्ति; अन्येऽपि बहवः पकाराः सन्ति - **सिब्बहुलं लेटि** (3.1.34) , **वदः सुपि क्यप् च** (3.1.106) इत्येवमादयः तत्र यदि प्रत्यासत्तिमाश्रित्यानन्तरः पकारः प्रत्याहारार्थ गृह्रते,तदा सिपः पकारेमैव प्रत्याहारग्रहणं विज्ञायेत। अथ व्याप्तिर्गृह्रते? तदा `तप्तनप्तनाथनाश्च` (7.1.45) इति तनपः पकारेणैव स्यात्। स्यादेतत् - व्याप्तेरेव न्याय आश्रयितव्यः। न च तनपः पकारेण प्रत्याहारगर्हणं भविष्यति, अपि तु कप एव, **इच एकाचोऽम्प्रत्ययवच्च** (6.3.68) इति वचनाज्ज्ञापकात्; अन्यथा षष्ठेऽपि प्रत्ययसंज्ञाव्यापारादपार्थकमिदं स्यात्? नैतदस्ति; असति हि प्रयोजने ज्ञापकं भवति, अस्ति ह्रस्य प्रयोजनम्, किं तत्? अम्प्रत्ययप्रतिबद्धं विशिष्टमेव यथा स्यात्। प्रत्ययमात्रप्रतिबद्धं मा भूदिति नियमार्थमेतत् स्यात्, तत्कुतो वैयर्थ्यम्। अथापि कथञ्चित् कपः पकारेणैव प्रत्याहारो लभ्येत, एवमपि प्रतिपत्तिगौरवं स्यात्। अतो लाघवार्थमधिकारेणैवेयं संज्ञा विधातुं युक्तेति मत्वाऽऽह - `प्रत्ययशब्दः संज्ञात्वेनाधिक्रियते` इति। यद्येवम्, प्रतियोगं तेनोपस्थातव्यम्, तत्रासावुपस्थितः सन्नादिभिरेव सम्बध्यते, न प्रकृत्यादिभिरिति नियमहेतुर्नास्ति। अतः प्रकृत्युपपदोपाधिविकारागमानामप्येषा संज्ञा स्यात्। तत्र प्रकृतिः - **गुप्तिज्किद्भ्यः सन्** (3.1.5) , उपपदम् - `स्तम्बकर्णयो रमिजपोः` (3.2.13) , उपाधिः - `हरतेर्दतिनाथयोः पशौ` (3.2.25) । यद्यपि पआर्थस्य संज्ञायाः प्रयोजनं नास्ति, तथापि तद्वाचिनोऽस्तीति तस्य स्यादेव। विकारः - **हनस्त च** (3.1.108) , आगमः - **त्रपुजतुनोः षुक्** (4.3.138) । प्रत्ययसंज्ञायाञ्चैषां परत्वमाद्युदात्तत्वञ्च स्यात्। यद्यपि युगपदगुपादीनां परस्परापेक्षया सनादीनाञ्च परत्वं न सम्भवति, तथापि पर्यायेण स्यात् - कदाचित् गुपादयः परे स्युः, कदाचित् सन्नादयः, अन्यतो वा कुतश्चिद्गुपादयः परे भवेयुरित्यत आह - `प्रकृत्युपपद` इत्यादि। एतच्च न्यायप्राप्तमेवोक्तम्। कथम्? प्रकृत्युपपदोपाधयस्तावत् परकार्यसिद्धये भूतविभक्त्या पञ्चम्यादिकया निर्दिश्यन्त इति तेषां पञ्चम्यादिविभक्त्यन्तं शब्दरूपं संज्ञासंज्ञिसम्बन्धं प्रतिपत्तुमयोग्यम्। तथा हि - प्रथमान्तसय् वा सामानाधिकरण्येन संज्ञासंज्ञिसम्बन्धो भवति यत्र बुद्ध्याहितसंज्ञारूपः सोऽयमित्यभेदसम्बन्धमुपगतः संज्ञी संज्ञया सह निर्दिश्यते, यथा - **वृद्धिरादैच्** (1.1.1) इति; षष्ठन्तस्य वा यत्र संज्ञासंज्ञिनोर्भेदविवक्षायां संज्ञाशब्देन स्वरूपपदात्मकेनोपादीयमानेनोपजनितव्यतिरेकः षष्ठआ संज्ञी निर्दिश्यते, यथा - **स्वं रूपं शब्दस्याशब्दसंज्ञा** (1.1.68) इति। प्रकृत्यादयस्तु परोपकारयोग्यं विभक्तिविशेषमुपादाय वर्तन्त इत्यशक्य एषां संज्ञासम्बन्धः कर्त्तुम्। न च संज्ञासंज्ञिसम्बन्धयोग्यविभक्त्यध्याहारे सत्येषां संज्ञा भविष्यतीति युक्तं परिकल्पियितुम्। असति हि वचनस्यावकाशेऽध्याहारो युक्तः, न तु सति। अस्ति चावकाशः सन्नादिः। अप्राधान्याच्च प्रकृत्यादीनामयुक्ता संज्ञा। प्रधाने ह#इ कार्यसम्प्रत्ययो लोके दृष्टः, यथा - बहुषु गच्छत्सु कश्चित् पृच्छति कोऽयं याति? स आह - राजेति। तत्र यः पृच्छति, यश्चाचष्टे - तयोरुभयोरपि प्रधाने राजनि सम्प्रत्यययो भवति। तस्मादिहापि प्रधाने सन्नादौ कार्यसम्प्रत्ययात् तस्यैव संज्ञा भविष्यति। प्राधान्यं पुनस्तस्यापूर्वस्य विधानात्। प्रकृत्यादीनां धात्वदिपाठे निज्र्ञातस्वरूपाणां सन्नाद्यर्थोपादानादप्राधान्यम्, तत् कुतस्तेषां संज्ञा? आगमविकारयोर्यद्यपि संज्ञासंज्ञिसम्बन्धयोग्यतया प्रथमया निर्देशः, विधेयत्वाच्च प्राधान्यम्, तथापि न भवति संज्ञा;यस्मात्प्रत्यय इति महती संज्ञा क्रियते। तस्या एतत्प्रयोजनमन्वर्थसंज्ञा यथा स्यात् - प्रतियनत्यनेनार्थानिति प्रत्ययः। न च विकारागमाभ्यां कञ्चनार्थं प्रतियन्ति। यदि तह्र्रन्वर्थसंज्ञेयम्, **अवेः कः** (5.4.28) **यावादिभ्यः कन्** (5.4.29) इत्येवमादीनां प्रत्ययसंज्ञा न प्राप्नोति; अर्थाभावात्। द्विवधो ह्रर्थः - लौकिकः, शास्त्रीयश्च; तत्र पूर्वः पदेनैव प्रतीयते, द्वितीयस्त्वन्वयव्यतिरेकाभ्याम्; स च तेषां नास्ति, विना प्रत्ययैः प्रकृतेरेव तदर्थस्य प्रतीतेः? नैष दोषः; यद्यपि तेषामन्वयव्यतिरेकाभ्यामर्थो न समधिगम्यते, तथापि `अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति` (पु।प।90) इत्यस्मादेवाप्तवचनात् समधिगम्यते। तस्मात् तैरपि स्वार्थं प्रतियन्तीति तेऽपि प्रत्यया इत्लमतिप्रसङ्गेनेति स्थितमेतत् - प्रकृत्यादीनां प्रत्ययसंज्ञा न भवतीति। `कर्तव्यम्, करणीयम्` इति। तव्यदादेः प्रत्ययसंज्ञायां `यस्मात्प्रत्ययविधिः` (1.4.13) इति तस्मिन् परतोऽङ्गसंज्ञा भवति। अथ कथं तदनन्तरं सन्नादिमतिक्रम्य व्यवहित एव तव्यदादिरुदाहृतः? तत्राद्युदात्तादेरपि प्रत्ययसंज्ञाकार्यस्य सम्भवात्। सन्नादौ तु तन्न सम्भवति; धातुस्वरेणैव बाधितत्वात्॥
Prakriyasarvasvam
-----------------
गहनतरग्रन्थार्थनितिविततान् वीक्ष्य मङ्क्षु संक्षिपताम् । स्खलितमपि सम्भवेन्नस्तत्र तु विबुधा विमत्सराः शरणम् ॥ ५० ॥ अथ सुपां प्रातिपदिकाश्रयत्वात् प्रातिपदिकानां च कृत्तद्धितसमासान् विना दुर्लभत्वात् कृदादयस्तावत् कथ्यन्ते । इतः परं विधीयमानाः प्रत्ययाख्याः ।
Sutra Prayogas
--------------
* **नियोजयिष्यन्** (किरातार्जुनीयम्): `प्रत्ययः` इति अधिकारसूत्रम्।
* **पर्वतीयः** (किरातार्जुनीयम्): `प्रत्ययः` इति अधिकारसूत्रम्।
* **बिभराम्बभूवुः** (किरातार्जुनीयम्): `प्रत्ययः` इति अधिकारसूत्रम्।