24085: लुटः प्रथमस्य डारौरसः ============================ **Padacheda:** लुटः | S | 6 | 1 | प्रथमस्य | S | 6 | 1 | डा-रौ-रसः | S | 1 | 3 | Sutrartha --------- **लुट्-लकारस्य प्रथमपुरुषस्य प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति ।** लुट्-लकारस्य विषये प्रथमपुरुषस्य परस्मैपदस्य तिप्-तस्-झि प्रत्ययानाम्, तथा आत्मनेपदस्य त-आताम्-झ प्रत्ययानाम् (क्रमेण) डा, रौ, रस् - एते आदेशाः भवन्ति । यथा - 1) पठँ व्यक्तायां वाचि इति परस्मैपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतादृशं सिद्ध्यन्ति - (अ) पठ् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → पठ् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + तास् + तिप् [**तिप्तस्..** (3.4.78) इति तिप्] → पठ् + इ + तास् + डा [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति तिप्-प्रत्ययस्य डा-आदेशः] → पठ् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् **टेः** (6.4.143) इति अ-भस्य टिसंज्ञकस्य अपि लोपः] → पठि + ता [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → पठिता (आ) पठ् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → पठ् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + तास् + तस् [**तिप्तस्..** (3.4.78) इति तस् ] → पठ् + इ + तास् + रौ [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति तस्-प्रत्ययस्य रौ-आदेशः] → पठ् + इ + ता+ रौ [**रि च** (7.4.51) इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठितारौ (इ) पठ् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → पठ् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → पठ् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → पठ् + इ + तास् + झि [**तिप्तस्..** (3.4.78) इति झि ] → पठ् + इ + तास् + रस् [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति झि-प्रत्ययस्य रस्-आदेशः] → पठ् + इ + ता+ रस् [**रि च** (7.4.51) इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → पठि + तारस् [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → पठितारः [**ससजुषो रुँः** (8.2.66) इति रुत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] 2) एधँ वृद्धौ इति आत्मनेपदी धातुः । अस्य लुट्-लकारस्य प्रथमपुरुषस्य रूपाणि एतानि - एधिता, एधितारौ, एधितारः । (अ) एध् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → एध् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → एध् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → एध् + इ + तास् + त [**तिप्तस्..** (3.4.78) इति त] → एध् + इ + तास् + डा [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति त-प्रत्ययस्य डा-आदेशः] → एध् + इ + त् + आ [प्रत्ययस्य डित्वसामर्थ्यात् **टेः** (6.4.143) इति अ-भस्य टिसंज्ञकस्य अपि लोपः] → एधि + ता [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → एधिता (आ) एध् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → एध् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → एध् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → एध् + इ + तास् + आताम् [**तिप्तस्..** (3.4.78) इति आताम् ] → एध् + इ + तास् + रौ [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति आताम्-प्रत्ययस्य रौ-आदेशः] → एध् + इ + ता+ रौ [**रि च** (7.4.51) इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → एधि + तारौ [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → एधितारौ इ) एध् + लुट् [**अनद्यतने लुट्** (3.3.15) इति लुट्] → एध् + तास् + ल् [**स्यतासी लृलुटोः** (3.1.33) इति विकरणप्रत्ययः तास्] → एध् + इट् + तास् + ल् [**आर्धधातुकस्येड्वलादेः** (7.2.35) इति इडागमः] → एध् + इ + तास् + झ [**तिप्तस्..** (3.4.78) इति झ ] → एध् + इ + तास् + रस् [ **लुटः प्रथमस्य डारौरसः** (2.4.85) इति झ-प्रत्ययस्य रस्-आदेशः] → एध् + इ + ता+ रस् [**रि च** (7.4.51) इति रेफे परे तास्-इत्यस्य सकारस्य लोपः] → एधि + तारस् [**पुगन्तलघूपधस्य च** (7.3.86) इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य उपधा-इकारस्य गुणे प्राप्ते **दीधीवेवीटाम्** (1.1.6) इत्यनेन इडागमस्य इकारस्य गुणः निषिध्यते] → एधितारः [**ससजुषो रुँः** (8.2.66) इति रुत्वम् । **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः] Sutrartha (English) ------------------- The प्रथमपुरुष प्रत्ययाः of लुट्-लकार are converted respectively to डा, रौ and रस्. Vasu English Summary -------------------- डा , रौ and रस् are substituted respectively in the room of the three-affixes of the 3rd Person of लुट् (First Future), both in the परस्मैपद and आत्मनेपद। Vasu English Translation ------------------------ डा , रौ and रस् are substituted respectively in the room of the three-affixes of the 3rd Person of लुट् (First Future), both in the परस्मैपद and आत्मनेपद। Thus in the *Parasmaipada* कर्ता 'he will do,' कर्तारौ 'they two will do;' कर्तारः 'they will do.' So also in the *Atmanepada* we have अध्येता, अध्येतारौ, अध्येतारः । Why do we say 'in the 3rd person'? Observe श्वः कर्तासि । श्वोऽध्येतासे ॥ Bhashya ------- लुटः प्रथमस्य डारौरसः (626) (379 आदेशसूत्रम् ॥ 2। 4। 2 आ.14 सू.) (डारौरसां टेरेत्वनिवारणाधिकरणम्) (1670 पूर्वविप्रतिषेधवार्तिकम् ॥ 1 ॥) - टितां टेरेविधेर्लुटो डारौरसः पूर्वविप्रतिषिद्धम् - (भाष्यम्) टितां टेरेविधेर्लुटो डारौरसो भवन्ति पूर्वविप्रतिषेधेन। टेरेत्वस्यावकाशः - पचते पचते पचन्ते। डारौरसामवकाशः - श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः प्र् इहोभयं प्राप्नोति - श्वः अध्येता श्वः अध्येतारौ श्वः अध्येतार इति। डारौ रसो भवन्ति पूर्वविप्रतिषेधेन ॥ (आक्षेपभाष्यम्) स तर्हि पूर्वविप्रतिषेधो वक्तव्यः? (समाधानभाष्यम्) न वक्तव्यः ॥ (1671 वार्तिकम् ॥ 2 ॥) - आत्मनेपदानां चेति वचनात्सिद्धम् - (भाष्यम्) आत्मनेपदानां च डारौरसो भवन्तीति वक्तव्यम् ॥ (1672 वार्तिकम् ॥ 3 ॥) - तच्च समसंख्यार्थम् - (भाष्यम्) तच्चावश्यमात्मनेपदग्रहणं कर्तव्यं समसंख्यार्थं संख्यातानुदेशो यथा स्यात्। अक्रियमाणे ह्यात्मनेपदग्रहणे षट् स्थानिनस्त्रय आदेशाः वैषम्यात्संख्यातानुदेशो न प्राप्नोति ॥ (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) पूर्वविप्रतिषेधार्थेन तावन्नार्थ आत्मनेपदग्रहणेन। इदमिह संप्रधार्यम् - डारौरसः क्रियन्ताम्, एत्वम्, इति। किमत्र कर्तव्यम्? परत्वादेत्वम् ॥ नित्या डारौरसः कृतेप्येत्वे प्राप्नुवन्ति, अकृतेपि प्राप्नुवन्ति ॥ टेरेत्वमपि नित्यम्उकृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति ॥ अनित्यमेत्वमु अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु। शब्दान्तरस्य प्राप्नुन्विधिरनित्यो भवति ॥ डारौरसोप्यनित्याः अन्यस्य कृते एत्वे प्राप्नुवन्ति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन्तोऽनित्या भवन्ति। अभयोरनित्ययोः परत्वादेत्वम्। एत्वे कृते पुनः प्रसङ्गविज्ञानाद् डारौरसो भविष्यन्ति ॥ (द्वितीयवार्तिकप्रत्याख्यानभाष्यम्) समसंख्यार्थेन चापि नार्थ आत्मनेपदग्रहणेन। स्थानेन्तरतमेन व्यवस्था भविष्यति। कुत आन्तर्यम्? अर्थतः। एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः ॥ अथ वा आदेशा अपि षडेव निर्दिश्यन्ते। कथम्? एकशेषनिर्देशोयम् ॥ (आक्षेपभाष्यम्) अथैतस्मिन्नेकशेषे सति किमयं कृतैकशेषाणां द्वन्द्वः - डा च डा च डा। रौ च रौ च रौ। रश्व रश्च रः। डा च रौ च रश्च डारौरस इति ॥ आहोस्वित्कृतद्वन्द्वानामेकशेषः - डा च रौ च रश्च डारौरसः। डारौरसश्च डारौरसश्च डारौरस इति ॥ (भाष्यम्) किं चातः ॥ (प्रथमपक्षदूषणभाष्यम्) यदि कृतैकशेषाणां द्वन्द्वः अनिष्टः समसंख्यः प्राप्नोति। एकवचनद्विवचनयोर्डा प्राप्नोति बहुवचनैकवचनयो रौ प्राप्नोति द्विवचनबहुवचनयो रस्प्राप्नोति ॥ अथ कृतद्वन्द्वानामेकशेषः। न दोषो भवति ॥ (सिद्धान्तलक्षणम्) यथा न दोषस्तथास्तु ॥ (आक्षेपभाष्यम्) किं पुनरत्र ज्यायः? (समाधानभाष्यम्) उभयं हि दृश्यते - बहु शक्तिकिटकं बहुनि शक्तिकिटकानि। बहु स्थालीपिठरं बहूनि स्थालीपिठराणि ॥ (श्लोकार्थोपसंहारभाष्यम्) डारौरसः कृते टेरे यथा द्वित्वं प्रसारणे ॥ समसंख्येन नार्थोस्ति सिद्धं स्थानेर्थतोन्तरः ॥ आन्तर्यतो व्यवस्था त्रय एवेमे भवन्तु सर्वेषाम् ॥ टेरेत्वं च परत्वात्कृतेपि तस्मिन्निमे सन्तु ॥ (डादेशेसर्वादेशत्वाधिकरणम्) (1673 वार्तिकम् ॥ 4 ॥) - डाविकारस्य शित्करणं सर्वादेशार्थम् - (भाष्यम्) डाविकारः शित्कर्तव्यः। किं प्रयोजनम्? सर्वादेशार्थम् शित्सर्वस्य इति सर्वादेशो यथा स्यात्। अक्रियमाणे हि शकारे अलोन्त्यस्य विधयो भवन्ति इत्यन्त्यस्य प्रसज्येत ॥ (1674 वार्तिकम् ॥ 5 ॥) - निघातप्रसङ्गस्तु - (भाष्यम्) निघातस्तु प्राप्नोति। श्वः कर्ता। तासेः परं लसार्वधातुकमनुदात्तं भवतीत्येष स्वरः प्राप्नोति ॥ (प्रथमवार्तिकप्रत्याख्यानभाष्यम्) यत्तावदुच्यते - डाविकारस्य शित्करणं सर्वादेशार्थम् इति ॥ (1675 शित्करणप्रत्याख्यानवार्तिकम् ॥ 6 ॥ - सिद्धमलोन्त्यविकारात् - (भाष्यम्) सिद्धमेतत् ॥ कथम्? अलोन्त्यविकारात् ॥ (आक्षेपभाष्यम्) अस्त्वयमलोन्त्यस्य। का रूपसिद्धिः - कर्ता? (1676 समाधानवार्तिकम् ॥ 7 ॥) - डिति टेर्लोपाल्लोपः - (भाष्यम्) डिति टेर्लोपेन लोपो भविष्यति ॥ (बाधकभाष्यम्) अभत्त्वान्न प्राप्नोति ॥ (समाधानसाधकभाष्यम्) डित्करणसार्मथ्याद्भविष्यति ॥ (1677 शित्करणप्रत्याख्यानवार्तिकम् ॥ 8 ॥) - अनित्त्वाद्वा - (भाष्यम्) अथ वा अनित्त्वादेतत्सिद्धम् ॥ किमिदमनित्त्वादिति? अन्त्यस्यायं स्थाने भवन्न प्रत्ययः स्यात्। असत्यां प्रत्ययसंज्ञायामित्संज्ञा न। असत्यामित्संज्ञायां लोपो न। असति लोपेनेकाल्। यदानेकाल् तदा सर्वादेशः। यदा सर्वादेशः तदा प्रत्ययः। यदा प्रत्ययस्तदेत्संज्ञा। यदेत्संज्ञा तदा लोपः ॥ (1678 शित्करणप्रत्याख्यानवार्तिकम् ॥ 9 ॥) - प्रश्लिष्टनिर्देशाद्वा - (भाष्यम्) अथ वा प्रश्लिष्टनिर्देशोयम् - डा आ डा। सः अनेकाल्शित्सर्वस्य इति सर्वादेशो भविष्यति ॥ (प्रत्याख्याननिराकरणभाष्यम्) यदा तर्ह्ययमन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणं न प्राप्नोति ॥ (1679 प्रत्याख्यानसाधकवार्तिकम् ॥ 10 ॥) - तिङ्ग्रहणमेकदेशविकृतस्यानन्यत्वात् - (भाष्यम्)एकदेशविकृतमनन्यवद्भवतीति तिङ्ग्रहणेन ग्रहणं भविष्यति ॥ (आक्षेपभाष्यम्) स्वरः कथम्? (1680 वार्तिकम् ॥ 11 ॥) - स्वरे विप्रतिषेधात्सिद्धम् - (भाष्यम्) (इदमिह संप्रधार्यम् - ) डारौरसः क्रियन्तामनुदात्तत्वमिति। किमत्र कर्तव्यम्? परत्वादनुदात्तत्वम् ॥ नित्या डारौरसः कृतेऽप्यनुदात्तत्वे प्राप्नुवन्ति, अकृतेऽपि प्राप्नुवन्ति ॥ अनुदात्तत्वमपि नित्यं कृतेष्वपि डारौरस्सु प्राप्नोति, अकृतेष्वपि प्राप्नोति ॥ अनित्यमनुदात्तत्वम्। अन्यस्य कृतेषु डारौरस्सु प्राप्नोति, अन्यस्याकृतेषु। शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति ॥ डारौरसोऽप्यनित्याः। अन्यथास्वरस्य कृतेऽनुदात्तत्त्वे प्राप्नुवन्ति। अन्यथास्वरस्याकृते। स्वरभिन्नस्य च प्राप्नुवन्तोऽनित्या भवन्ति। उभयोरनित्ययोः परत्वादनुदात्तत्वम्। अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानाद् डारौरसः। टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ॥ (बाधकभाष्यम्) न सिध्यति। किं कारणम्? अन्तरङ्गत्वाद् डारौरसः। तत्रान्तरङ्गत्वाड्डारौरस्सु कृतेषु अनुदात्तत्वं क्रियतां टिलोप इति ॥ किमत्र कर्तव्यम्? परत्वाटि्टलोपेन भवितव्यम् ॥ (वार्तिकतात्पर्यान्तरभाष्यम्) एवं तर्हि स्वरविप्रतिषेधात् सिद्धम् । न्याय्य एवायं स्वरविप्रतिषेधः। इदमिह संप्रधार्यम् - अनुदात्तत्वं क्रियतामुदात्तनिवृत्तिस्वर इति। किमत्र कर्तव्यम्? परत्वादनुदात्तत्वम्। अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानादुदात्तनिवृत्तिस्वरो भविष्यति ॥ (आक्षेपभाष्यम्) तदेतत्क्व सिद्धं भवति यत् पिद्वचनम्। यदपिद्वचनं तत्र न सिध्यति? (समाधानभाष्यम्) तत्रापि सिद्धम्। कथम्? इदमद्य लसार्वधातुकानुदात्तत्वं प्रतद्ययस्वरस्यापवादः। न चापवादविषये उत्सर्गोभिनिविशते पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः प्रकल्प्य वापवादविषयं तत उत्सर्गोभिनिविशते। तन्न तावदत्र कदाचित्प्रत्ययस्वरो भवति अपवादं लसार्वधातुकानुदात्तत्वं प्रतीक्षते। तत्रानुदात्तत्वं क्रियतां लोप इति। यद्यपि परत्वाल्लोपः सोसावविद्यमानोदात्तत्वे अनुदात्ते उदात्तो लुप्यते ॥ प्रत्ययस्वरापवादो लसार्वधातुकानुदात्तत्वम् ॥ तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदाचित् ॥ प्रत्ययस्वरश्च तासेर्वृत्तिसंनियोगशिष्टः। तेन चाप्यसावुदात्तो लोप्स्यते तथा न दोषः ॥ लुटः प्र ॥ 85 ॥ इति श्रीभगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य चतुर्थे पादे द्वितीय माह्निकम् ॥ समाप्तश्चायं पादोऽध्यायश्च ॥ Kashika ------- लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डा रौ रस् इत्येत आदेशा भवन्ति। कर्ता, कर्तारौ, कर्तारः। आत्मनेपदस्य — अध्येता, अध्येतारौ, अध्येतारः। प्रथमस्येति किम्? श्वः कर्तासि। श्वोऽध्येतासे॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य चतुर्थः पादः॥ Siddhanta Kaumudi ----------------- डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥ Laghu Siddhanta Kaumudi ----------------------- डा रौ रस् एते क्रमात् स्युः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥ Balamanorama ------------ **लुटः प्रथमस्य डारौरसः** - भू इ तास् इति स्थिते — उकारस्य गुणेऽवादेशे च भविता स् इति स्थिते — लुटः प्रथमस्य । डा रौ रस् एषां द्वन्द्वात्प्रथमाबहुवचनम् । 'लुट' इति स्थानषष्ठी । लुडादेशस्य प्रथमपुरुषस्येत्यर्थः । क्रमादिति — यथासङ्ख्यलभ्यम । ननु परस्मैपदस्य त्रयः प्रथमाः, आत्मनेपदस्य च त्रयः प्रथमा इति स्थानिनः षट्, आदेशास्तु त्रय इति कथं यथासङ्ख्यमिति चेन्न, डाश्च रौश्च रस् चेति कृतद्वन्द्वानां डारौरसश्च डारौरसश्चेत्येकशेषमाश्रित्य भाष्ये समाहितत्वात् । डाभावस्य चादेशत्वात् प्राक् प्रत्ययत्वाऽभावेन 'चुटू' इत्यस्याऽप्रवृत्त्या सर्वादेशत्वम् । सति च तस्मिन् प्रत्ययत्वच्चुटू इति टकारस्येत्संज्ञेति भाष्ये स्पष्टम् । एवं च भू तास् आ इति स्थिते प्रक्रियां दर्शयति — डित्त्वसामर्थ्यादिति । डाभावस्य कप्रत्ययावधिषु स्वादिष्वनन्तर्भूतत्वेन तस्मिन् परे भत्वाऽभावेऽपि डित्त्वसामर्थ्याट्टेरिति टिलोप इत्यर्थः । Padamanjari ----------- लुटः प्रथमस्य डारीरसः॥ परस्मीपदस्यात्मनेपदस्य चेति। यद्येवं परस्मैपदे त्रयः प्रथमपुरुषसंज्ञकास्तिबादयः, आत्मनेपदेष्वपि त्रयस्तादय इति षट् स्थानिनस्त्रय आदेशा इति वैषम्यात्संख्यातानुदेशो न प्राप्नोति। मा भूत्संख्यातानुदेशः, आन्तर्यतो व्यवस्था भविष्यति? अर्थतश्चान्तर्यम्, एकार्थस्यैकार्थो द्व्यर्थस्य द्व्यर्थो बह्वर्थस्य बह्वर्थः। कथं पुनर्डादीनामैकार्थ्याध्यवसायः, यावता यस्तिपः स्थाने स एकार्थः, यस्तस्स्थाते स द्व्यर्थः यो झेः स्थाने स बह्वर्थः? नेत्याह, प्रयोगदर्शनादप्यैकार्थ्यादिकमध्यवसातुं शक्यम्। अथ वाऽऽदेशा अपि षडेव निर्दिश्यन्ते, कथम्? एकशेषनिदशात्, डारौरसश्च डारौरसश्चेति कृतद्वन्द्वानामेकशेषः। यदि तु डा च डा च डा, रौ च रौ च रौ, रस् च रस् च रस्, डा च रौ च रस् च डारौरस इति कृतैकशेषणां द्वन्द्वः स्यात्? अनिष्टः संख्यातानुदेशः प्राप्नोति तिप्तसोर्डा, झितयो रौ, आतांझयो रसिति। कर्तिति। लुट्,तिप्, तस्य डा इत्ययं सर्वादेशः। नानुबन्धकृतमनेकाल्त्वम्। अस्तु तर्ह्मन्त्यस्यैव, तिपस्तकारेण सह टिलोपो भवति। ननु तकारान्तमङ्गं न भवति, डित्करणसामर्थादनङ्गस्यापि भविष्यति, यथा - सिद्धान्तेऽभस्यअपि। अथ वाऽऽनुपूर्व्यात्सिद्धम्, कथम्? अन्त्यस्याप्ययं स्थाने भवन्नप्रत्ययः स्याद्, असत्यां प्रत्ययसंज्ञायां डकारस्येत्संज्ञा नास्ति, असत्यां चेत्संज्ञायामनेकाल्, यदानेकाल् तदा सर्वादेशः, यदा सर्वादेशस्तदा प्रत्ययः, यदा प्रत्ययस्तदेत्संज्ञा, यदेत्संज्ञा तदा लोपस्तदैकाल्, न चेदानीं प्रत्यावृत्यान्तादेशो भवितुमर्हति? तदेतदानुपूर्व्यात्सिद्धम्। कर्तारौ, कर्तार इति। रि चऽ इति तासस्त्योर्लोपः। अध्येतेति। ठिङ् अध्ययनेऽ। अथात्र डारौरस्सु कृतेषु टेरेत्वं कस्मान्न भवति? पूर्वमेवास्मिन्योगे स्थानिषु प्रवृतत्वात्। इह हि तशब्दस्य टेरेत्वं च प्राप्नोति, डादेशश्च; द्वयोरपि शब्दान्तरप्राप्तेरनित्यत्वात्परत्वाट्टेरेत्वे कृते पुनः प्रसङ्गविज्ञानाड्डादेशः। एवं रौरसोरपि द्रष्टव्यम्। अथ वा - पूर्वमेव डारौरसो भवन्तु, थासः सेवचनं ज्ञापकम् - ये तिङदेशास्तेषां टेरेत्वं न भवतीति, अन्यथा'थासः स' इत्येव वाच्यं स्यात्। कर्तासीति।'तासस्त्योः' इति सलोपः॥ इति श्रीहरदतमिश्रविरचितायां पदमञ्चर्यो द्वितीयाध्यायस्य तुरीयश्चरणः॥ Nyaas ----- परस्मैपदस्यात्मनेपदस्य च यथाक्रमं डारौरस् - इत्येत आदेशा भवन्ति` इति। यद्ेयवम्, परस्मैपदेषु तिप् तस् झीत्येतत् प्रत्येकं प्रथमपुरुषसंज्ञा, आत्मनेपदेष्वपि त आतां झ इति; तत्र स्थानिनः षट्, त्रय आदेशा इति वैषम्यात् संख्यायानुदेशाभावादेकैकस्य पर्यायेण सर्व आदेशाः स्युः? नैष दोषः; आनन्तर्यतो हि व्ययस्था भविष्यति। तच्चार्थकृतमानन्तर्यम् - ` एकार्थस्यैकार्थः, द्वयर्थस्य द्व्यर्थः, बह्वर्थस्य बह्वर्थ इति। `कर्ता` इति। **अनद्यतने लुट्** (3.3.15) , तिप्, तस्यानेकाल्त्वात् डा इत्ययं सर्वादेशः। ननु च नानुबन्धकृतमनेकाल्त्वम् (व्या।प।14), डकारश्चानुबन्धः,तत् कुतोऽनेकाल्त्वं यतः सर्वादेशः स्यात्? नैष दोषः; न ह्रकृते सर्वादेशे `चुटू` (1.3.7) इतीत्संज्ञा भवति। इत्संज्ञाया अभावे चानुबन्धो न भवतीत्यनेकाल्त्वात् सर्वादेशो भवति। डित्यभस्यापि `टेः` (6.4.143) इति टिलोपः। `कर्तारौ, कार्तारः` इति। `रिच` (7.4.51) इति सकारलोपः। एवमध्येतेत्येवमादीनि रूपाणि `इङ अध्ययने` (धातुपाठः-1046) इत्येतस्य। अत्र परमपि टेरेत्वं बाधित्वाऽन्तरङ्गत्वात् डादय आदेशा भवन्ति। अन्तरङ्गत्वं पुनस्तेषां स्थानिमात्रापेक्षत्वात्। टेरेत्वन्तु बहिरङ्गम्; तद्धि धातुमप्यपेक्षते, न केवलं स्थानिनम्; आ तृतीयाध्यायपरिसमाप्तेः `धातोः` (3.1.7) इत्यस्याधिकृतत्वात्। `थासः से` (3.4.80) इति ज्ञापकम् - तिङादेशस्य टेरेत्वं न भवतीति। तेन कृतेष्वपि डारौरस्स्वेत्त्वं न भवति। `कर्तासि` इति। **तासस्त्योर्लोपः** (7.4.50) इति सकारलोपः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांद्वितीयाध्यायस्य चतुर्थः पादःसमाप्तश्चायं द्वितीयोऽध्यायः॥ Prakriyasarvasvam ----------------- लुडादेशस्य प्रथमपुरुषस्य क्रमादेते स्युः । तिपो णल्वत् सर्वादेशो डा । डलोपः । भवितास् आ । डित्त्वाट्टिलोपः । भवित् आ । लघूपधत्वादिटो गुणे प्राप्ते—