24080: मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः ================================================== **Padacheda:** मन्त्रे | S | 7 | 1 | घस-ह्वर-णश-वृ-दह-आत्-वृच्-कृ-गमि-जनिभ्यः | S | 5 | 3 | लेः | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the मन्त्र portion of the Vedas there is लुक् elision of the sign of the Aorist (& लिट् -Perfect Tense) after the verbs घस् 'to eat', हूर् 'to be crooked', णश् 'to destroy', वृ 'to choose, to cover', दह् 'to burn', verbs ending in long आ , वृच् 'to avoid', कृ 'to make', गमि 'to go' and जनि 'to be produced'. Vasu English Translation ------------------------ In the मन्त्र portion of the Vedas there is लुक् elision of the sign of the Aorist (& लिट् -Perfect Tense) after the verbs घस् 'to eat', हूर् 'to be crooked', णश् 'to destroy', वृ 'to choose, to cover', दह् 'to burn', verbs ending in long आ , वृच् 'to avoid', कृ 'to make', गमि 'to go' and जनि 'to be produced'. The word लि is the name given by ancient grammarians to the affixes of Perfect tense as well as the Aorist, or it might be common term for all tense-affixes. Thus from घस we have अक्षन in the sentence, अक्ष॑न् पि॒तरोऽमी॑ मदन्त पितरो॑ऽतीतृपन्त पि॒तरः॒ पित॑रः शुन्ध॑ध्वम् (*Yajurveda*. XIX 36 so also *Rig*.1.82. 2). From the verb ह्वृ we have माहूर्मित्रस्य त्वम्. From नश we have प्रणङ् in the following verse मानः शंसो अररुषो धूर्तिः प्रणङ्मर्त्थस्य । रक्षा सोब्रह्मणस्पते ॥ (*Rig*. 1.18. 3.) The word वृ in the *sutra* includes both वृङ् and वृञ्, as the word वेन in the following ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पुर॒ स्ता॒द्विसी॒॑ मतः सुरु॒चो॑ वेन आवः । सयु ध॒न्या॒ उपमा अ॑स्य विष्ठाः मतश्च योनि॒मस॑तश्च वि वः॑ ॥ (*Yajurveda* 13.3). From दह we have आधक् as in सर॑स्वत्य॒भिनो॑ नेषि॒वस्यो माप॑स्फरीः॒ पय॑सा॒ मान॒ आध॑क् ॥ (*Rig*.VI.61.14). The word आत् means verbs ending in long आ as प्रा 'to fill.' Thus, मित्रः देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावा पृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थु श्च ॥ (*Rig*. I.115.1.) The root वृच gives us वर्क as in the following verse:- मा मो अस्मिन्महाधमे परा वग् र्भारभृद्यथा । संवर्गं संरथिं जवः ॥ (*Rig*. VIII 75.12). From कृ we have अक्रम् as in the following verse अक्र॒म् कर्म॒ कर्म॒ कृतः॑ सह वा॒चा म॑यो॒ भुवा॑ । दे॒ वेभ्यः॑ कर्म क्र॒त्वास्तं॒ प्रेत॑ सचाभुवः ॥ (*Yajurveda* III.47). From गम we have अग्मन; as in the following verse: वृतेव यंत बहुभिर्वसवौ स्वेरमिं जागृवांसो अनुग्मन् । रूशंतमग्निं दर्शतः वृहंतं वपावंतं विश्चहा दीदिवांसं (*Rig*. VI.1.1). From जन we have अज्ञत as अज्ञत वा अस्य दन्ताः. This is an example from the *Brahman* literature, as the word मंत्रं in the *sutra* refers also to the *Brahman* literature. Kashika ------- मन्त्रविषये घस ह्वर णश वृ दह आत् वृच् कृ गमि जनि इत्येतेभ्य उत्तरस्य लेर्लुग् भवति। घस — अक्ष्॑ा॑न् पि॒तरोऽमी॑मदन्त पि॒तरः(तै०सं० १.८.५.३.)। ह्वर इति **ह्वृ कौटिल्ये**। मा ह्वा॑र्मि॒त्रस्य॑॑ त्वा॒ (तै०सं० १.१.४.१)। णश — धू॒र्तिः प्रण्ा॒ङ् मत्॑॑र्यस्य (ऋ० १.१८.३)। वृ इति वृङ्वृञोः सामान्येन ग्रहणम्। सु॒रुचो॑॑ वे॒न अ॑ा॑वः (मा०सं० १३.३)। दह — मा न॒ आ ध॑॑क् (ऋ० ६.६१.१४)। आदिति आकारान्तग्रहणम्। **प्रा पूरणे** — आप्॒रा द्याव॑ा॑पृथि॒वी अ॒न्तरि॑॑क्ष॒म् (ऋ० १.११५.१)। वृच् — मा नो॑॑॑ अ॒स्मिन् म॑॑हाध॒ने पर॑ा॑ वर्क(ऋ०८.७५.१२)। कृ — अक्॒रन् कर्म॑ कर्म॒कृतः॑ (तै०सं० १.८.३.५)। गमि — अग्मन् (ऋ० १.१२२.७)। जनि — अज्ञत वा अस्य दन्ताः (ऐ०ब्रा० ७.१४.८)। ब्राह्मणे प्रयोगोऽयम्। मन्त्रग्रहणं तु छन्दस उपलक्षणार्थम्॥ Siddhanta Kaumudi ----------------- एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन - (SK2363) इत्युपधालोपे शासिवसि - (SK2410) इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा - (SK431) इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥ Padamanjari ----------- मन्त्रे गसह्वरणशवृदहाद्वृचकृगमिजनिभ्यो लेः॥ च्लेरेवात्र ग्रहणमिष्यते, न लिङदीनाम्, तदर्थं'सिचः' इत्यनुवर्तयन्ति - सिचो यो लिः स्थानिभूतस्तस्येति व्याचक्षते। सिचि प्रकृते लिग्रहणम् ठादिः सिचोऽन्यतरस्याम्ऽ इत्यादिसिच्कार्यं मा भूदिति। पूर्वत्र हि मा हि दातामिति सिच्स्वरो भवत्येव। ह्वरेति विहितगुणस्यानुकरणम्, अकारश्चाग्न्तुक उच्चारणार्थः। अक्षन्निति।'लुङ्सनोर्घस्लृ' ,'गमहन्' इत्युपधालोपः,'शासिवसि' इति षत्वम्। प्राणडिति। ब्रश्चादिना षत्वे जश्त्वचत्वे। प्राणगिति पाठे'नशेर्वा' इति कुत्वम्। आप्रादिति।'प्रा पूर्तौ' आङ्पूर्वः। अज्ञतेति।'जनी प्रादुर्भावे' , अनुदातेत्। बहुवचनस्य ठात्मनेपदेष्वनतःऽ इत्यदादेशः, पूर्ववदुपधालोपः, श्चुत्वम्। ब्राह्मणे प्रयोगोऽयमिति। मन्त्रव्यतिरिक्तो वेदभागःउब्राह्मणम्। यथाह भगवाञ्जैमनिः -'यच्चोदकेषु मन्त्राख्या इति मन्त्रलक्षणान्तरम्, शेषे ब्राह्मणशब्दः' इति। बह्वचानां हरिश्चन्द्रब्राह्मणे हरिश्चन्द्रं प्रति वरुणस्यैतद्वाक्यम् - अज्ञत वा अस्य दन्ता इति। कथं पुनर्मन्त्रग्रहणे ब्राह्मणग्रहणं भवति? तत्राह - मन्त्रग्रहणन्त्विति। मन्त्रस्य च्छन्दोरूपत्वातएन तदुपलक्ष्यते। बाहुल्येन तु मन्त्रे दर्शनान्मन्त्राग्रहणं कृतम्॥ Nyaas ----- सिच इत्यनुवर्तमाने पुनर्लिग्रहणं **आदिः सिचोऽन्यतरस्याम्** (6.1.187) इत्यादेःसिच्कार्यस्य निवृत्त्यर्थम्, उत्तरार्थञ्च। `अक्षन्` इति। `अद भक्षणे` (धातुपाठः-1011) लुङ, `लुङसनोर्धस्लृ` (2.4.37) इति घस्लादेशः। ततः **च्लि लुङि** (3.1.43) इ#इत च्लिः, तस्यानेन लुक्, झेरन्तादेशः, `इतश्च` (3.4.100) इकतीकारलोपः, `संयोगान्तस्य` (8.2.23) इति तकारलोपः, `गमहन` (6.4.98) इत्यादिनोपधालोपः, `शासिवसिघलसीनाञ्च` (8.3.60) इति षत्वम्, **झलां जश् झशि** (8.4.53) इति जश्त्वम्, `खरि च` (8.4.54) इति चर्त्वम्। ह्वरेत्यागन्तुकेनाकारेण निर्देशः। `मा ह्वः` इति। लुङ, तिङगुणरपरत्वानि, हल्ङ्यादिलोपः, (6.1.66) , `न माङयोगे` (6.4.74) इत्यडागमाभावः। `प्राणड्` इति। `णश अदर्शने` (धातुपाठः-1194), पूर्ववल्लुङादिकार्यम्, व्रश्चादिसूत्रेण (8.2.36) षत्वम्, **झलां जशोऽन्ते** (8.2.39) इति जस्त्वम् - षकारस्य डकारः, तस्य `वावसाने` (8.4.55) इति चर्त्वं टकारः,`उपसर्गादसमासेऽपि` (8.4.14) इति णत्वम्। क्वचित् `प्राणग्` इति पाठः। तत्र **क्विन्प्रत्ययस्य कुः** (8.2.62) इत्यतः कुरित्यनुवर्तमाने **नशेर्वा** (8.2.63) इति कुत्वम्। `आवः` इति। वृञस्तिप्, गुणो रपरत्वम्, हल्ङ्यादिना (6.1.66) सिपो लोपः। `धक्` इति। `दह भस्मीकरणे` (धातुपाठः-911), सिप्,हल्ङ्यादिना (6.1.66) सिपो लोपः। **दादेर्धातोर्घः** (8.2.32) इति हस्य घः। `एकाचो बशो भष्` (8.2.37) इत्यादिना दकारस्य धकारः, धकारस्य जश्त्वम् - गकारः, तस्य चर्त्वम् - ककारः, आडागमस्य `बहुलं छन्दस्यामाङ्योगेऽपि` (6.4.75) इति निषेधः। `आप्रात्` इति। `प्रा पूरणे` (धातुपाठः-1061) इत्यस्मात् तिप्। `परावर्क` इति। वृजेस्तिप्, लघूपधगुणः,हल्ङ्यादिना (6.1.66) लोपः। `रात्सस्य` (8.2.24) इति नियमात् संयोगान्तलोपाभावः। जकारस्य पूर्ववत् कुत्वं गकारः, तस्य चर्त्वं ककारः। `अक्रन्` इति। कृञो झेरन्तादेशः, संयोगान्तलोपः। `अज्ञत` इति। जनेर्झस्य **आत्मनेपदेष्वनतः** (7.1.5) इत्यदादेशः, पूर्ववदुपधालोपः, **स्तोः श्चुना श्चुः** (8.4.40) इतिश्चुत्वम्। क्वचित् `अज्ञन्` इति पाठः। तत्र झिः, ततः परस्मैपदं वधेयम्। `ब्राआहृणे प्रयोगोऽयम्` इति। योऽयमनन्तरं मन्त्रे जनेरुक्तः स ब्राआहृणो मन्त्रव्याख्यानग्रन्थः। मन्त्रे जनेर्लुक् च दृश्यत इति तद्विषयमुदाहरणं नोपन्यस्तम्। यदि तह्र्रमन्त्रे लुग्भवति मन्त्रग्रहणं किमर्थमित्याह - `मन्त्रग्रहणम्` इत्यादि॥ Prakriyasarvasvam ----------------- मन्त्र इति वेदोपलक्षणम् । एभ्यः परस्य च्लेर्लुक् स्यात् । अक्षन्नमीमदन्त । घसेर्लि । घस् अन् । 'गम हन'— (६-४-९८) इत्युपधालोपः । षत्वचत्वें । अक्षन् । ह्वृधातोस्तिप् । गुणः । हल्ङ्यादिलोपः । अह्वरिति । बृहस्पते । मा प्रणक् नेशति । हल्ङ्यादिलोपः । 'नशेर्वा' (७-२-६३) इति कुत्वम् । जश्त्वचत्वें । सुरुचो वेन आवः । तिपि वृधातोर्गुणः । मा न आधक् । दहेर्हल्ङ्यादिलोपे घत्वभष्भावजश्त्वचत्वानि । आदन्तात् । आप्राद्यावापृथिवी । प्रा पूरणे इत्यस्य सिप् वृजि' वर्जने । परावग्भारभृद्यथा । तिपि गुणः । कृञो झि । अक्रन् गमेर्झिः । ‘गमहन’ — (६-४-९८) इत्युपधालोपः । अग्मन् । जनेर्झस्य अत् । उपधालोपः । अशत वा अस्य दन्ताः ।