24074: यङोऽचि च =============== **Padacheda:** यङः | S | 6 | 1 | अचि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And there is diversely the लुक् elision of यङ् -- धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22), when the affix अच् -- नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134), follows. Vasu English Translation ------------------------ And there is diversely the लुक् elision of यङ् -- धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22), when the affix अच् -- नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः (3.1.134), follows. By using 'diversely' there is elision of यङ् when other affixes than अच् follow, both in the sacred and profane literature; as लोलुवः 'much cutter' (लोलुव + अव्); पोपुवः 'much purifier' समीत्रंसः from स्रंस 'to drop.' दनीध्वंसः from ध्वंस 'to fall,' the नी being added by (7.4.84). So also यङ् is elided before other affixes than अच् : thus शाकुनिकी लालपीति दुन्दुभिवीवदीति ॥ See also (1.1.4). Bhashya ------- यङोचि च। ऊतोचि। ऊतः अचीति वक्तव्यम्। इह मा भूत् - सनीस्रसो दनीध्वस इति ॥ अथ ऊत इत्युच्यते। इह कस्मान्न भवति - योयूयः। रोरूयः? विहितविशेषणमूकारग्रहणम्। ऊकारान्ताद्यो विहित इति। तत्तर्हि वक्तव्यम् ? न वक्तव्यम्। इष्टमेवैतत्संगृहीतम् - सनीस्रंसो दनीध्वंस इत्येव भवितव्यम् ॥ यङो ॥ 74 ॥ Kashika ------- यङो लुग् भवत्यचि प्रत्यये परतः। चकारेण बहुलग्रहणमनुकृष्यते, न तु छन्दसीति। तेन छन्दसि भाषायां च यङो लुग् भवति। लोलुवः। पोपुवः। सनीस्रंसः। दनीध्वंसः। बहुलग्रहणादनच्यपि भवति। शाकुनिको लालपीति। दुन्दुभिर्वावदीति॥ Siddhanta Kaumudi ----------------- यङोऽच्प्रत्यये लुक् स्याच्चकारात्तं विनापि बहुलं लुक् स्यात् । अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति । ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम् । अभ्यासकार्यम् । धातुत्वाल्लडादयः । शेषात्कर्तरि - (SK2149) इति परस्मैपदम् । अनुदात्तङित - (SK2157) इति तु न । ङित्त्वस्य प्रत्ययाप्रत्ययसाधारणत्वेन प्रत्ययलक्षणाप्रवृत्तेः । यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत् । अत एव सुदृषत्प्रासाद इत्यत्र अत्वसन्तस्य - (SK425) इति दीर्घो न । येऽपि स्पर्धशीङादयोऽनुदात्तङितस्तेभ्योपि न । अनुदात्तङित - (SK2157) । इत्यनुबन्धनिर्देशात् । तत्र च [(परिभाषा - ) श्तिपा शपा...] इति निषेधात् । अत एव श्यन्नादयो न । गणेन निर्देशात् । किंतु शबेव । चर्करीतं चेत्यादादौ पाठाच्छपो लुक् ॥ Laghu Siddhanta Kaumudi ----------------------- यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। अनैमित्तिकोऽयमन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। शेषात्कर्तरीति परस्मैपदम्। चर्करीतं चेत्यदादौ पाठाच्छपो लुक्॥ Tattvabodhini ------------- **यङोऽचि च** - यङोऽचि च । यङा साहचर्यादचीति प्रत्ययो गृह्रते न तु प्रत्याहारः ।ण्यक्षत्रियार्षे॑ त्यतोऽत्र लुगनुवर्तते । तदाह — अच्प्रत्यये लुक् स्यादिति । चकारेणबहुलं छन्दसी॑त्यतो बहुलमित्यनुकृष्यत इत्याह — बहुलं लुक स्यादिति । केचित्तुछन्दसी॑त्यनुकर्षन्ति,तेषामपि मते क्वचिद्भाषायां यङ्लुग्भवत्येव ।भूसुवो॑रिति गुणनिषेधे सिद्धे बोभूत्विति छन्दसि निपातनाज्ज्ञापकात् । एतच्च मूले एव स्फुटीभविष्यति । अनैमित्तिकोऽयमिति । अच्प्रत्यये विधीयमानो यङ्लुक्तु तन्निमित्त एव.तेन लोलुवः पोपुव इत्यादौन धातुलोपे॑ति निषेधः सिद्ध्यति । यङन्तत्वादिति ।सन्यङो॑रिति षष्ठी, न तु सप्तमी, अन्यथा यङो लुका लुप्तत्वेन प्रत्ययलक्षणाऽप्रवृत्तेद्र्वत्वं न स्यादिति भावः । न चाऽङ्गाधिकारविहितकार्यस्यैवन लुमते॑ति निषेधाद्द्वित्वमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यं,न लुमते॑त्यत्राऽङ्गाधिकारो न गृह्रते किं तु आङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात् । अन्यथाराजपुरुष॑ इत्यादौ नलोपो न स्यात्, त्वदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भत्वेन पदत्वबाधात् । यद्यपिएकाच॑ इति विधीयमानं द्व#इत्वंश्तिपा शपे॑ त्यादिना निषिध्यते तथापि तत्स्यादेव ।गुणो यङ्लुकोः॑,रुग्रिकौ च लुकी॑त्याद्यभ्यासकार्यविधिभिर्द्वित्वाऽनिषेधस्य ज्ञापनात् । प्रत्ययाप्रत्ययेति । प्रत्यये ङित्त्वं दृश्यतेऋतेरीय॑ङित्यादिषु, अप्रत्ययेऽपि दृश्यते — चित्रङादिषु । एवं च यङो लुकि प्रत्ययलक्षणेन यङाश्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्क्यमिति बावः ।ङित इत्यनुबन्धनिर्देशा॑दिति परिहारस्त्वत्र नोक्कतः, शीङादीनामिव भू इत्यादिधातूनामनुबन्धेनाऽनिर्दिष्टत्वात् । यङो ङकारस्य प्रत्ययाऽनुबन्धत्वेन समुदायाऽननुबन्धत्वाद्यङन्तोऽपि धातुरनुबन्धेनाऽनिर्दिष्ट इति बोध्यम् । सुदृषदिति । शोभना दृषदोऽस्मिन्नतिति बहुव्रीहौ दृषच्छब्दो जसन्तः । दीर्घो नेति ।अ॑सिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्याऽसाधारणरूपानाश्रयणात्प्रत्ययक्षणेनाऽसन्तत्वाऽभावादिति भावः । तेभ्योऽपीति । ये त्वनुदात्तेतः, प्रत्ययलक्षणं विनैव ङितश्च तेभ्योऽपीत्यर्थः । अदादौ पाठादिति । तथा चआदिप्रभृतिभ्यः शपः॑ इत्यनेन यङ्लुगन्तात्परस्य शपो लुगित्यर्थः । Padamanjari ----------- यङेऽचि च॥ अचि प्रत्यये परत इति। पचाद्यचीत्यर्थः। एतदेव ज्ञापकम् - सर्वधातुभ्यः पचाद्यच् भवतीति। प्रत्याहारग्रहणं तु न भवति, तथा हि सति - अणीत्येव वक्तव्यम्; अन्याजादेः प्रत्ययस्यासंभवात्। न तु च्छन्दसीति।'हुश्नुवोः सार्वधातुके' इत्यत्र वार्तिकम् -'हुश्नुग्रहणमनर्थकमन्यस्याभावात्' । यान्ति वातीत्यत्र क्ङ्तीत्यिधिकारान्न भविष्यति, यातः वातः, अचीत्यनुवर्तते। यान्ति वान्ति, ओरिति। युवन्ति रुवन्ति, अनेकाचेति वर्तते। अयुवन्, अरुवन्, अडागमोऽसिद्धः। प्रोर्णवन्ति, असंयोगपूर्वस्येति वर्तते। यङ्लुङ्निवृत्यर्थ तर्हि हुश्नुग्रहणम् - योयुवति, रोरुवति। यङ्लुगर्थमिति चेदार्धधातुकत्वास्तिद्धम्, छान्दसो यङ्लुक्, तत्र'च्छन्दस्युभयथा' इत्यार्धधातुकत्वादेव न भविष्यति। तदेवं यङ्लुकश्छान्दसत्वमभ्युपगम्य हुश्नुग्रहणं प्रत्याख्यातं वार्तिककारेण। स मन्यते - चकारेणात्र'बहुलं च्छन्दसि' इति सर्वमनुवर्तिष्यते, तेनाचि प्रत्यये परतः च्छन्दसि भाषायां यङे लुग् भवतीत्येकं वाक्यम्, च्छन्दसि बहुलमनैमितिको लुगिति द्वितीयम्, प्रसिद्धश्च तथा छान्दसो यङ्लुगिति। प्रयोगश्च चिरन्तनः पद्ये गद्ये च काव्याख्यायिकादौ विकटपदएपन्यासप्रधानैरपि कविभिर्न कृतो द्दश्यते। भाष्यकारस्तु'हुश्नुवोरिति वक्ष्यन्ति, एवं तर्ह्येतज्ज्ञापयति - भाषायामपि यङ्लुक्' इति, तेन चेचिदीति, चेच्छिदीति, योयवीतीत्यादि सिद्धं भवति। वृत्तिकारस्तु मन्यते -'यदि ज्ञापकेनापि तावद्भाषायामपि यङ्लुकः प्रयोगे भवति, हन्तैवमत्रैव च्छन्दोग्रहणं मानुवृतत्! प्रयेगस्तु ज्ञापकाश्रयेणैव यथाभिधानं व्यवस्थास्यते' इति, अतो न भाष्यवार्तिकविरोधो वृतेः शङ्कनीयः॥ Nyaas ----- `अचि प्रत्यये परतः` इति। प्रत्ययग्रहणमचीति न प्रत्याहारग्रहणमिति प्रदर्शनार्थम्। यदि हि प्रत्याहारग्रहणभिमतं स्यात् तदाऽणीति णकारेणैव कुर्यात्। न हि यङन्तादणोऽन्येऽचः परे सम्भवन्तीत्यभिप्रायः। इदमेवाज्ग्रहणं ज्ञापकम् - सर्वे धातवः पचाद्यन्तःपातिन इति। `लोलुवः`इति। `धातोरेकाचो हलादेः क्रियासमभिहारे` (3.1.22) इति यङ्, द्वर्वचनं **सन्यङोः** (6.1.9) इत्यनेन, `गुणो यङलुकोः` (7.4.82) इति गुणः। लोलू य इति स्थिते पचाद्यच्, यङो लुक्, `न धातुलोप` (1.1.4) इत्यादिना गुणप्रतिषेधः। `अचि श्नुधातु` (6.4.77) इत्यादिनोवङ। `सनीरुआंसः। दनीध्वंसः` इति। `रुआन्सु ध्वन्सु अवरुआंसने` (धातुपाठः-754,755), पूर्ववद्यङ्दिकार्यम्। **न लुमताङ्गस्य** (1.1.63) इति प्रतिषेधात् प्रत्ययलक्षणेन `अनिदिताम्` (6.4.24) इत्यादिनाऽनुनासिकलोपो न भवति। `नीग्वञ्चु` (7.4.84) इत्यादिनाऽभ्यासस्य नीगागमः। `लालपीति।वावदीति` इति। लपेर्वदेश्च **दीर्घोऽकितः** (7.4.83) इत्यभ्यासस्य दीर्घः। `यङो वा` (7.3.94) इतीट्॥ Prakriyasarvasvam ----------------- अचि परे यङो लुक् स्यात् । Sudha ----- **यङोऽचि चेति** । अचि इति प्रत्ययग्रहणम्, न तु प्रत्याहारः, यङा साहचर्यात् । **ण्यक्षत्रियार्ष** (2.4.58) इत्यतो लुगित्यनुवर्तते । तदाह — **यङोऽचि प्रत्यये इति** । **चकारात्तं विनापीति ।** अच्प्रत्ययाभावेऽपीत्यर्थः । **तत इति** । यङो लुगनन्तरमित्यर्थः । **न लुमता** (1.1.63) इत्यनेन हि लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं निषिध्यते । द्वित्वादिकं तु यङन्तस्य कार्यम्, नतु यङ्निमित्तकम्, यङि परतस्तद्विध्यभावादिति भावः । **द्वित्वमिति ।****सन्यङोः** (6.1.9) इत्यनेनेति भावः । **अभ्यासकार्यमिति ।** गुणादीति भावः । **धातुत्वादिति ।** यङो लुकि सत्यपि प्रत्ययलक्षणमाश्रित्य यङन्तत्वात् **सनाद्यन्ता धातवः** (3.1.32) इति धातुत्वम् । **चर्करीतमिति ।** यङ्लुगन्तमदादौ बोध्यमिति व्याख्यातं प्राक् । अतो यङ्लुगन्ताच्छपो लुगित्यर्थः ॥ Sutra Prayogas -------------- * **जङ्गमा** (भट्टिकाव्यम्): `यङोऽचि च` इति यङो लुक्।