24064: यञञोश्च ============== **Padacheda:** यञ्-अञोः | S | 6 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And there is लुक् elision of the गोत्र affix यञ् -- गर्गादिभ्यो यञ् (4.1.105) and अञ् -- अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104), when the word of itself and not as part of a compound epithet dependent on another, takes the plural, but not in the feminine. Vasu English Translation ------------------------ And there is लुक् elision of the गोत्र affix यञ् -- गर्गादिभ्यो यञ् (4.1.105) and अञ् -- अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104), when the word of itself and not as part of a compound epithet dependent on another, takes the plural, but not in the feminine. गर्ग + यञ् = गार्ग्यः; plural गर्गाः 'the male descendents of *Garga*'. So also वत्साः 'the male descendents of *Vatsa*'; the singular being, वात्स्यः Similarly, विद + अञ् = वैदः (4.1.104); plural विदाः and not वैदाः; similarly और्व singularly; और्वाः plural. But these affixes are not elided when the word forms part of a compound. Thus, प्रियगार्ग्याः those to whom *Gargya* is beloved;' प्रियवैदाः 'those to whom *Baida* is beloved.' These affixes will not be elided in the feminine. Thus, गार्ग्यः, वैद्य, feminine plurals. Of course these affixes must be *Gotra* or patronymic affixes, otherwise there will be no elision. Thus द्वीप + यञ् = द्वैप्यः 'living on the island,' plural द्वैप्याः; here the affix यञ् is not elided as it does not denote a *Gotra*. So उत्स + यञ् = औत्सः 'the pupil of *Utsa*,' plural औत्साः. Vart:- In forming *Tat*-*purusha* compound of the singular and dual genitive, the affix यञ् and अञ् are optionally elided. Thus गार्ग्यस्य कुलं = गार्ग्यकुलं or गार्गकुलं, गार्ग्ययीः कुलं = गार्ग्यकुलं or गर्गकुलं. Similarly वैदस्य or वैदयोः कुलं = वैदकुलं or विदकुलं. Why do we say 'the affixes यञ् or अञ्'? Because other affixes will not be elided in forming तत्पुरुष compound; such as आङ्गकुलं । Why do we say 'singular or dual'? Because in the plural तत्पुरुष compounds, these affixes must necessarily be elided and not optionally; thus गर्गाणां कुलं = गर्गकुलं. Why do we say 'in forming तत्पुरुष compound'? Because in forming other compounds, these affixes will not be elided. Thus, उपगार्ग्य which is an अव्ययीभाव compound, meaning गार्गस्य समीपं. Of course, it is only in the Genitive तत्पुरुष that this rule is applicable; it will not therefore apply in कर्मधारय तत्पुरुष &c., as परमगार्ग्यः । Bhashya ------- यञ्ञञ्ञोश्च (595) (367 लुक्सूत्रम् ॥ 2.4.2 आ.2) (षष्ठीतत्पुरुषेद्व्येकयोर्विकल्पाधिकरणम्) (1636 वार्तिकम् ॥ 1 ॥) - यञ्ञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम् - यञ्ञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानं कर्तव्यम्। गार्ग्यस्य कुलं गार्ग्यकुलं गर्गकुलं वा। गार्ग्ययोः कुलं गार्ग्यकुलं गर्गकुलं वा। बैदस्य कुलं बैदकुलं बिदकुलं वा। बैदयोः कुलं बैदकुलं बिदकुलं वा ॥ यञ्ञादीनामिति किमर्थम्? आङ्गस्य कुलमाङ्गकुलम्। आङ्गयोः कुलमाङ्गकुलम् ॥ एकद्वयोरिति किमर्थम्? गर्गाणां कुलं गर्गकुलम् ॥ तत्पुरुष इति किमर्थम्? गार्ग्यस्य समीपमुपगार्ग्यम् ॥ षष्ठ्या इति किमर्थम्? शोभनगार्ग्यः परमर्गग्यः ॥ यञ्ञञ्ञो ॥ 64 ॥ Kashika ------- बहुषु तेनैवास्त्रियां गोत्र इति चानुवर्तते। यञोऽञश्च गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति। **गर्गादिभ्यो यञ्**(४.१.१०५) — गर्गाः। वत्साः। अञः खल्वपि — **अनृष्यानन्तर्ये बिदादिभ्योऽञ्** (४.१.१०४) — बिदाः। उर्वाः। बहुष्वित्येव — गार्ग्यः। बैदः। तेनैवेत्येव — प्रियगार्ग्याः। प्रियबैदाः। अस्त्रियामित्येव — गार्ग्यः स्त्रियः। बैद्यः स्त्रियः। गोत्र इत्येव — **द्वीपादनुसमुद्रं यञ्**(४.३.१०) — द्वैप्याः। **उत्सादिभ्योऽञ्** (४.१.८६) — औत्साश्छात्राः॥ यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम्॥ गार्ग्यस्य कुलम्, गार्ग्यकुलम्, गर्गकुलं वा। गार्ग्ययोः कुलम्, गार्ग्यकुलम्, गर्गकुलं वा। एवं बैदस्य कुलम्, बैदकुलम्, बिदकुलं वा। बैदयोः कुलम्, बैदकुलम्, बिदकुलं वा। यञादीनामिति किम्? आङ्गकुलम्। एकद्वयोरिति किम्? गर्गाणां कुलम्, गर्गकुलम्। तत्पुरुष इति किम्? गार्ग्यस्य समीपमुपगार्ग्यम्। षष्ठ्या इति किम्? परमगार्ग्यः॥ Siddhanta Kaumudi ----------------- गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक्स्यात्तत्कृते बहुत्वे, न तु स्त्रियाम् । गर्गाः । वत्साः बिदाः । ऊर्वाः । तत्कृते इति किम् ? प्रियगार्ग्याः । स्त्रियां तु गार्ग्यः स्त्रियः । गोत्रे किम् ? द्वैप्याः । औत्साः । प्रवराध्यायप्रसिद्धमिह गोत्रम् । तेनेह न । पौत्राः । दौहित्राः ॥ Laghu Siddhanta Kaumudi ----------------------- गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्वे न तु स्त्रियाम्। गर्गाः। वत्साः॥ Balamanorama ------------ **यञञोश्च** - यञञोश्च । द्वितीयचतुर्थपादे इदं सूत्रं न त्विदं चातुर्थिकमपत्याधिकारस्थम् । तत्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् ।तद्राजस्य बहुषु तेनैवाऽस्त्रिया॑मिति सूत्रं तद्राजस्येतिवर्जमनुवर्तते ।ण्यक्षत्रिये त्यतोलु॑गिति,यस्कादिभ्यो गोत्रे॑ इत्यतो 'गोत्रे' इति च । तदाह — गोत्रे यदिति । एतयोरिति । यञञोरित्यर्थः । प्रत्ययाऽदर्शनस्यैव लुक्त्वादिति भावः । तत्कृते इति । यञञ्प्रत्ययार्थगतबहुत्वे इति यावत् । गर्गाइति । गर्गस्यापत्यानीत्यादिविग्रहः । प्रियागाग्र्या इति । प्रियो गाग्र्यो येषामिति विग्रहः । अत्र यञर्थगतबहुत्वाऽभावान्न लुगिति भावः । द्वैप्या इति । द्वीपे भवा इत्यर्थः ।द्वीपादनुसमुद्र॑मिति यञ् । औत्सा इति । उत्से भवा इत्यर्थः ।उत्सादिभ्योऽञ् । इहोभयत्रापि यञञोर्गौत्रवाचित्वाऽभावान्न लुगिति भावः । ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात् । नच तस्यानन्तरापत्यवाचित्वाऽभावान्न लुगिति भावः । ननु पौत्रा दौहित्रा इत्यत्राप्यनृषिविदादिलक्षणाऽञो लुक्स्यात् । नच तस्यानन्तरापत्यवाचित्वाद्रोत्रवाचित्वाऽभावान्न लुगिति वाच्यं,यूनि लु॑गिति सूत्रभाष्ये अपत्य#आधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते इति सिद्धान्तित्वादित्यत आह — प्रवरेति ।कश्यपोऽत्रिर्भरद्वाजो विआआमित्रोऽथ गौतमः । जमदग्निर्वसिष्ठश्च सप्तैते ऋषयः स्मृताः ।तेषां यदपत्यं तद्गोत्रमित्याचक्षते॑ इति बोधायनीयादिप्रवराध्यायप्रसिद्धा भार्गवादय एवैह गोत्रत्वेन विवक्षिता इत्यर्थः । कैयटेनलौकिकस्य गोत्रस्य ग्रहण॑मिति भाष्यमुपादाय तथैव व्याख्यातत्वादिति भावः । एवंच पौत्रा दौहित्रा इत्यादौ पौत्रदौहित्रयोस्तथाविधगोत्रवाचित्वाऽभावान्न लुगिति स्थितम् । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । Tattvabodhini ------------- **यञञोश्च** - यञञोश्च ।ण्यक्षत्रियार्षे॑त्यतो लुगिति, तद्राजस्ये॑ति सूत्राद्बहुषु तेनैवाऽस्त्रियामिति चानुवर्तते,यस्कादिभ्यो गोत्रे॑इत्यतो गोत्र इति च । Padamanjari ----------- यञञोश्च॥ गोत्रप्रत्ययस्य बहुषु वर्तमानस्येति। अत्रापि व्यधिकरणे षष्ठयौ। बहुषु वर्तमानस्य समुदायस्य सम्बन्धी यो गोत्रप्रत्ययो यत्र अञ् च तस्येत्यर्थः। तेन द्वन्द्वेऽपि भवति - गर्गवत्सवाजाः, बिदौर्वभरद्वाजा इति। गार्ग्यः स्त्रिय इति।'यञश्च' इति ङीप्,'हलस्तद्धितस्य' । बैद्य इति।'शाङ्गर्रवाद्यञो ङीन्' । एकद्वयोरिति। एकत्वद्वित्वयोरित्यर्थः।'संख्याया अल्पीयस्याः' इत्येकशब्दस्य पूर्वनिपातः।'द्व्येकयोः' इति निर्देशाद् द्विशब्दस्यापि भवति। गार्ग्ययोः कुलं गार्ग्यकुलमिति। प्रकरणादिवशाद् द्वित्वावगतौ द्विवचनान्तस्यापि विरुद्धः समासः॥ Nyaas ----- `गार्ग्यः` इति। `यञश्च` (4.1.16) इति ङीप्। **यस्येति च** (6.4.148) इत्यकारलोपः, **हलस्तद्धितस्य** (6.4.150) इति यकारस्य च। तत्र हि **सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः** (6.4.149) इत्यतः `य` इत्यनुवर्तते, **अल्लोपोऽनः** (6.4.134) इत्यतो लोप इति च। `वैद्यः` इति। `शाङ्र्गरवाद्यञो ङीन्` (4.1.73) । `द्वैप्याः, औत्साः` इति। जातादौ शैषिकेऽर्थे यञञो।`यञादीनाम्` इत्यादि। यञादीनां बहुषु लुगुच्यमान एकत्वे द्वित्वे च प्राप्नोतीति वचनम्। एकद्वयोरिति च संख्याप्रधानोऽयं निर्देशः, यथा - `द्वयेककयोर्द्विचवनैकवचने` (1.4.22) इति, एकत्वद्वित्वयोरिति यावत्; उपसंख्यानशब्दस्य प्रतिपादनमर्थः। कर्तव्यमित्यध्याहार्यम्। तत्रेदं प्रतिपादनम् - `वा यौ` (2.4.57) इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणमनुवर्तते। चकारो वात्रानुक्तसमुच्चयार्थः क्रियते। तेन यञादीनामेकद्वयोर्वा तत्पुरुषे षष्ठआ लुग्भवतीति। यदि वेत्यनुवर्तते तदा बहुष्वपि विकल्पः स्यात्। व्यवस्थिविभाषाविज्ञानान्न भविष्यतीत्यदोषः।`आङ्गकुलम्` इति। अत्राङ्गशब्दात् तद्राजसंज्ञकोऽण्, स च यञादिर्न भवति तस्येह प्रकरणे यञादिभ्यः प्राङ्निर्देशात्। `उपगाग्र्यम्` इति। `अव्ययं विभक्ति` (2.1.6) इत्यादिनाव्ययीभावः। `परमगार्ग्यः` इति। **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इत्यादिना प्रथमान्तयोस्तत्पुरुषः॥ Prakriyasarvasvam ----------------- गोत्रार्थयोः यञञोर्बहुत्वे लुक् । गर्गादिभ्यो यञ् । गार्ग्यः गार्ग्यौ गर्गाः । बिदादिभ्योऽञ् । बैदः बैदौ बिदाः ॥ षष्ठीतत्पुरुषे लुग्वा यञादेरबहुष्वपि । गार्ग्यस्य हि प्रिया गर्गप्रिया गार्ग्यप्रियापि वा ॥ २१४ ॥ एवं बिदप्रिया बैदप्रियेत्याद्युत्तरेष्वपि । बहुत्वे तु लुगेव स्याद् गर्गाणां भूर्हिः गर्गभूः ॥ २१५ ॥ Vartika ------- यज्ञञादीनामेकस्य द्वयोर्वा तत्पुरुषे षष्ठ्या उपसंख्यानम् ।