24063: यस्कादिभ्यो गोत्रे ========================= **Padacheda:** यस्क-आदिभ्यः | S | 5 | 3 | गोत्रे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the word यस्क etc. there is the लुक् elision of the गोत्र affix when the word of itself and not as part of a compound epithet dependent on another word, takes the plural; but not in the feminine. Vasu English Translation ------------------------ After the word यस्क etc. there is the लुक् elision of the गोत्र affix when the word of itself and not as part of a compound epithet dependent on another word, takes the plural; but not in the feminine. यस्क + अण् = यास्कः 'a descendent of *Yaska* not nearer than grandson.' In the plural, the affix is elided and the form is यस्काः 'the decendents of *Yaska*.' ॥ यस्कादयः ॥ 1. यस्क. 2. लह्य. 3. द्रुह्य. 4. अयस्थूण. 5. अयःस्थूण. 6. तृणकर्ण. 7. सदामत्त. 8. कम्बलहार. 9. बहिर्याग. 10. कर्णाढक. 11. पर्णाढक. 12. पिण्डी जङ्घ. 13. वकसस्थ. 14. वकसक्थ. 15. विश्रि. 16. कुद्रि. 17. अजबस्ति. 18. मित्रयु 19. रक्षोमुख. 20. जङ्घारथ. 21. उत्कास. 22. कटुक, 23. मथक. 24. मन्थक. 25. पुष्करट्. 26. पुष्करसट्. 27. विषपुट. 28. उपरिमेखल. 29. क्रोष्टुकमान. 30. क्रोष्टुमान. 31. क्रोष्टुपाद. 32. क्रोष्टुमाय. 33. शीर्षमाय. 34. श्वरप. 35. पदक. 36. वपुक. 37. भलन्दन. 38 भडिल. 39. भण्डिल. 40. भडित. 41. भण्डिल. Kashika ------- बहुषु तेनैवास्त्रियामिति सर्वमनुवर्तते। यस्क इत्येवमादिभ्यः परस्य गोत्रप्रत्ययस्य बहुषु वर्तमानस्यास्त्रीलिङ्गस्य लुग् भवति, तेनैव चेद् गोत्रप्रत्ययेन कृतं बहुत्वं भवति। प्रत्ययविधेश्चान्यत्र लौकिकस्य गोत्रस्य ग्रहणमित्यनन्तरापत्येऽपि लुग् भवत्येव। यस्काः। लभ्याः। बहुष्वित्येव — यास्कः। तेनैवेत्येव — प्रिययास्काः। अस्त्रियामित्येव — यास्क्यः स्त्रियः। गोत्र इति किम्? यास्काश्छात्राः॥ यस्क। लभ्य। दुह्य। अयःस्थूण। तृणकर्ण। एते पञ्च शिवादिषु पठ्यन्ते। ततः परेभ्यः षड्भ्य इञ्। सदामत्त। कम्बलभार। बहिर्योग। कर्णाटक। पिण्डीजङ्घ। बकसक्थ। ततः परेभ्यश्चतुर्भ्यो **गृष्ट्यादिभ्यश्च**(४.१.१३६) इति ढञ्। बस्ति। कुद्रि। अजबस्ति। मित्रयु। ततः परेभ्यो द्वादशभ्य इञ्। रक्षोमुख। जङ्घारथ। उत्कास। कटुकमन्थक। पुष्करसत्। विषपुट। उपरिमेखल। क्रोष्टुमान। क्रोष्टुपाद। क्रोष्टुमाय। शीर्षमाय। पुष्करसच्छब्दाद् बाह्वादिपाठादिञ्। खरपशब्दो नडादिषु पठ्यते। ततःफक्। पदक। वर्मक। एताभ्याम् **अत इञ्** (४.१.९५)। भलन्दनशब्दात् **शिवादिभ्योऽण्** (४.१.११२)। भडिल। भण्डिल। भडित। भण्डित। एतेभ्यश्चतुर्भ्यः**अश्वादिभ्यः फञ्**(४.१.११०)॥ Siddhanta Kaumudi ----------------- एभ्योऽपत्यप्रत्ययस्य लुक् स्यात्तत्कृते बहुत्वे । न तु स्त्रियाम् । मित्रयवः ॥ Balamanorama ------------ **यस्कादिभ्यो गोत्रे** - यस्कादिभ्यो । नेदं सूत्रमपत्याधिकारस्थं, किंतु द्वैतीयीकम् । अतो गोत्रशब्देन प्रवराध्यायप्रसिद्धमेव गोत्रमिह विवक्षितम्,अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते॑ इति 'यूनि लुक्' इति स्त्रीपुसाभ्या॑मित्यादिसूत्रभाष्ये सिद्धान्तितत्वात् ।ण्यक्षत्रियार्षे॑त्यतो सुगित्यनुवर्तते ।तद्राजस्य बहुषु तेनैवास्त्रिया॑मिति सूत्रं तद्राजवर्जमनुवर्तते । तदाह — एभ्योऽपत्यप्रत्ययस्येति । मित्रयव इति । मित्रयोरपत्यानि पुमांस इत्यर्थः । गृष्टआदिढको लुकि आदिवृद्धिनिवृत्तिः । Tattvabodhini ------------- **यस्कादिभ्यो गोत्रे** - यस्कादिभ्यो । अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्रत इत्याशयेनाह — अपत्यप्रत्ययस्येति ।ण्यक्षत्रियार्षे॑त्यतो लुगित्यनुवर्तते,तद्राजस्ये॑ति सूत्रात्बहुषु तेनैवास्त्रिया॑मिति च, तदाह — — लुक् स्यादित्यादि । तत्कृते इति किम् । प्रिययास्काः । बहुत्वे किम् । यास्कः । शिवद्यण् । यस्क, लुह्र, द्रुह्र, कर्णाटक, वस्ति, कुद्रि, मित्रयु — इत्यादि । Padamanjari ----------- यस्कादिभ्यो चगोत्रे॥ प्रत्ययविधेश्चान्यत्रेति। गोत्रे यत्र प्रत्ययो विधीयते'गोत्रे कुञ्जादिभ्यश्च्फञ्' इत्यतोऽन्यत्रेत्यर्थः। तत्र तावदपत्याधिकारे गोत्रग्रहणादेव पारिभाषिकस्य ग्रहणम्, अन्यत्र लौकिकस्येत्यत्र ज्ञापकं वक्ष्यामः। पुष्करसच्छब्दस्येति। किमर्थ पुनरयमत्र पठ।ल्ते, यावता'बह्वच इञः प्राच्यभरतेषु' इत्येव सिद्धं पुष्करसदः प्राच्यत्वात्, तथा चेतः प्राचामिति प्राप्तस्य लुकः प्रतिषेधाय तौल्वल्यादिषु पठितः? एवं तर्हि गोपनादिषु केचितौल्वल्यादयश्चेति पठन्ति, तौल्वल्यादिषु प्रकृतिभागा अपि गोपवनादिषु द्रष्टव्या इत्यर्थः। तेन'न गोपवनादिभ्यः' इति निषेधे प्राप्तेऽत्रास्य पाठः। अयमेव च पाठो ज्ञापयति - गोपवनादिषु तौल्वल्यादयोऽपि पठिता इति॥ Nyaas ----- `अपत्यं पौत्रप्रभृति गोत्रम्` (4.1.162) इति पारिभाषिकमेवेदं गोत्रं गृह्रते, न लौकिकमिति कस्यचिद्भ्रान्तिः स्यात्। अतस्तां निराकर्त्तुमाह - `प्रत्ययविधेयश्चान्यत्र ` इत्यादि। एतच्चोभयगतिरिह शास्त्रे संभवतीति लभ्यते। लौकिके गोत्रे गृह्रमाणे शास्त्रीयमपि तत्रान्तर्भवति; प्रत्ययविधौ तु लौकिकगोत्रस्य ग्रहणं न भवतीति ज्ञापकात्। यदयम् - **गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्** (4.2.39) इत्यत्र गौत्रग्रहणं कृत्वा राजन्यग्रहमं करोति, तज्ज्ञापयति - प्रत्ययविधौ लौकिकगोत्रग्रहणं न भवतीति।`यास्काश्छात्राः` इति। **तस्येदम्** (4.3.120) इत्यण्। पुष्करच्छब्दोऽप्यत्र पठते, स किमर्थः; यावता `बह्वच इञ् प्राच्यभरतेषु` (2.4.66) इत्येवं सिध्यति? न सिध्यति; **न गोपवनादिभ्यः** (2.4.67) इति प्रतिषेधः प्राप्नोति। गोपवनादिषु हि कैश्चित् तौल्वल्यादयश्चेति पठते, तौल्वल्यादिषु पुष्करसच्छब्दः पठते, तौल्वल्यादीनाञ्च गोपवनादिषु पाठोऽस्तीत्ययमेव यस्कादिषु पुष्करसच्छब्दपाठो ज्ञापयति॥ Prakriyasarvasvam ----------------- एभ्यः परस्य गोत्रप्रत्ययस्य तेनैव कृते बहुत्वे सति स्त्रीलिङ्गादन्यत्र लुक् स्यात् । अत्रानन्तरापत्यमपि गोत्रम् । यस्कापत्ये शिवाद्यण् । यास्कः यास्कौ यस्काः ।