24060: इञः प्राचाम् =================== **Padacheda:** इञः | S | 5 | 1 | प्राचाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- After a word ending in the गोत्र affix -- (4.1.95), there is elision of लुक् of the युवन् affix, when the गोत्र of the people called प्राच्य 'Eastern' is denoted. Vasu English Translation ------------------------ After a word ending in the गोत्र affix -- (4.1.95), there is elision of लुक् of the युवन् affix, when the गोत्र of the people called प्राच्य 'Eastern' is denoted. पान्नागर + इञ् = पान्नागारिः 'the *Gotra* descendent of *Pannagara*'; after this the *Yuvan* affix फक (4.1.101) is elided by the present rule, and so पान्नागारिः is both the father and the son. So मान्यरैषणिः father and son. The word प्राचाम् here qualifies the word *Gotra* understood and does not show that it is an optional rule in the opinion of Eastern Grammarians. When the *Gotra* of *Prachyas* is not denoted, there is no elision. Thus दाक्षिः and दाक्षायणः 'son of *Dakshi*.' Kashika ------- गोत्रे य इञ् तदन्ताद् युवप्रत्ययस्य लुग् भवति। गोत्रविशेषणं प्राग्ग्रहणम् ,न विकल्पार्थम् । पान्नागारेरपत्यं युवा। **यञिञोश्च**(४.१.१०१) इति फक्, तस्य लुक्। पान्नागारिः पिता। पान्नागारिः पुत्रः। मान्थरैषणिः पिता। मान्थरैषणिः पुत्रः। प्राचामिति किम्? दाक्षिः पिता। दाक्षायणः पुत्रः॥ Siddhanta Kaumudi ----------------- गोत्रे य इञ् तदन्ताद्युवप्रत्ययस्य लुक्स्यात्, तच्चेद् गोत्रं प्राचां भवति । पन्नागारस्य अपत्यम् । अत इञ् (SK1095), ञञिञोश्च (SK1103) इति फक् । तस्य लुक् । पान्नागारिः पिता पुत्रश्च । प्राचाम् किम् । दाक्षिः पिता । दाक्षायणः पुत्रः ॥ Balamanorama ------------ **इञः प्राचाम्** - इञः प्राचाम् । 'इञः' इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् ।ण्यक्षत्रिये॑त्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः । अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह — गोत्रे य इञ्तदन्ताद्युवप्रत्ययस्य लुगिति । प्राचामिति गोत्रविशेषणं, न तु विकल्पार्थं, व्याख्यानात् । तदाह — तच्चेद्गोत्रं प्राचां भवतीति । प्राग्देशीयमित्यर्थः । पन्नागारस्येति । प्राग्देशे पन्नागारो नाम कश्चित्, तस्य गोत्रापत्यमित्यर्थेअत इ॑ञिति इञि पान्नागारिः । पान्नागारेरपत्यं युवेत्यर्थे पान्नागारिशब्दात्यञिञोश्चे॑ति फक् । तस्यानेन लुक् । एवंच पन्नागरस्य गोत्रापत्ये युवापत्ये च पान्नागारिरित्येव रूपमित्यर्थः । प्राचां किमिति । गोत्रविशेषणं किमर्थमित्यर्थः । दाक्षिः पिता, दाक्षायणः पुत्र इति । दक्षस्य गोत्रापत्यं दाक्षिः ।अत इञ् । तस्यापत्यं युवादाक्षायणः ।यञिञोश्चे॑ति फक् । तस्य लुङ् न भवति, दाक्षिशब्दस्य प्राग्देशीयगोत्रप्रत्ययान्तत्वाऽभावेन न युवप्रत्ययस्य फकः प्राग्देशीयगोत्रार्थंकादिञः परत्वम् । Padamanjari ----------- इञः प्राचाम्॥'प्राचामवृद्धम्' इत्यादौ प्राग्ग्रहणं विकल्पार्थम्, इह तु न तथेत्याह - गोत्रविशेषणमिति। युवप्रत्ययस्य लुग्विधानादर्थादाक्षिप्तं गोत्रमिति भावः। पन्नमु प्राप्तमगारं येन स पन्नागारः। मन्थरा उ मन्दीभूता एषणा यस्य स मन्थरैषणः॥ Nyaas ----- अन्यत्र प्राग्ग्रहणं विकल्पार्थं दृष्टम्, अत इहापि विकल्पो मा विज्ञायीत्याह - `गोत्रविशेषणम्` इत्यादि॥ Prakriyasarvasvam ----------------- प्राग्देशगोत्रवाचिभ्य इञन्तेभ्योऽत्र यूनि लुक् । पान्नागारेर्युवापत्यं पान्नागारिः फकोऽत्र लुक् ॥ २१२ ॥ उदग्देशजे तु दाक्षेर्युवापत्यं दाक्षायण इति फगस्त्येव ।