24054: चक्षिङः ख्याञ् ===================== **Padacheda:** चक्षिङः | S | 6 | 1 | ख्याञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- ख्याञ् is the substitute of चक्षिङ् 'to perceive, to tell', when any आर्धधातुक affix is to be applied. Vasu English Translation ------------------------ ख्याञ् is the substitute of चक्षिङ् 'to perceive, to tell', when any आर्धधातुक affix is to be applied. आख्याता 'he will perceive or tell'; अख्यातुम् 'in order to tell;' अख्यातव्यम् 'must be told.' The substitute being like the principal, चक्षिङ् being always *Atmanepadi* (1.3.12), ख्याञ् would have also been always *Atmanepadi*. But in that case the letter ञ् would have no scope; it therefore follows that ख्याञ् is not always *Atmanepadi*, but under conditions mentioned in (1.3.72). Vart:- This substitute is also said to begin with क्श instead of ख्य. Thus अक्शाता, आक्शातुम्, आक्शातव्यं. Vart:- Prohibition must be stated when meaning 'exclusion'; as दुर्जनाः संचक्ष्याः 'bad men should be excluded.' Vart:- Prohibition must be stated when the affixes अस and अन follow : as नृचक्षा राक्षसः 'the *Rakshasas* are cruel.' This is Vedic Sanskrit; modern नृचक्षः. The meaning of the root चक्ष् here, is 'to injure.' So also निचक्षणः पण्डितः; here the affix is अन. Vart:- Substitutes are made diversely in denoting appellatives and not qualities and in the Vedic Sanskrit; as अन्नम् 'food' (here the substitute जग्धि does not replace अद); वधकम् 'killer' (वध being substituted for हन् before ण्वुल्); गात्रं 'body' (गा is substituted for इण before the *unadi* affix ष्टन्); विचक्षणः (here चक्ष is not replaced by ख्या before अन); अजिरम् 'a court yard' (here अज is not replaced by व्यै as the next *sutra* 56 requires.) Bhashya ------- चक्षिङः ख्याञ्ञ् (585) (आदेशनिर्णयाधिकरणम्) (आक्षेपभाष्यम्) किमयं कशादिः, आहोस्वित्ख्यादिः ॥ (1611 समाधानवार्तिकम् ॥ 1 ॥) - चक्षिङः कशाञ्ञ्ख्याञ्ञौ - (भाष्यम्) चक्षिङः कशाञ्ञ् ख्याञ्ञ् इति कशादिः ख्यादिश्च ॥ (1612 सिद्धान्तिसमाधानवार्तिकम् ॥ 2 ॥) - खशादिर्वा - (भाष्यम्) अथ वा खशादिर्भविष्यति ॥ (आक्षेपभाष्यम्) केनेदानीं कशादिर्भवति? (समाधानभाष्यम्) चर्त्वेन ॥ (आक्षेपभाष्यम्) (अथ) ख्यादिः कथम् ॥ (1613 समाधानवार्तिकम् ॥ 3 ॥) - असिद्धे शस्य यवचनं विभाषा - (भाष्यम्) असिद्धे शस्य विभाषा यत्वं वक्तव्यम् ॥ (आक्षेपभाष्यम्) किं प्रयोजनम्? (1614 प्रयोजनवार्तिकम् ॥ 4 ॥) - प्रयोजनं सौप्रख्येवुञ्ञ्विधिः - (भाष्यम्) सौप्रख्य इति योपधलक्षणो वुञ्ञ्विधिर्न भवति ॥ सौप्रख्यीय इति वृद्धाच्छ इति छो भवति ॥ (1615 प्रयोजनवार्तिकम् ॥ 5 ॥) - निष्ठानत्वमाख्याते - (भाष्यम्) आख्यात इति निष्ठानत्वं न भवति ॥ (1613 प्रयोजनवार्तिकम् ॥ 6 ॥) - रुविधिः पुंख्याने - (भाष्यम्) पुंख्यानमिति रुविघिर्न भवति ॥ (1617 प्रयोजनवार्तिकम् ॥ 7 ॥) - णत्वं पर्याख्याने - (भाष्यम्) पर्याख्यानमिति णत्वं न भवति ॥ (1618 प्रयोजनवार्तिकम् ॥ 8 ॥ - सस्थानत्वं नमः ख्यात्रे - (भाष्यम्) नमः ख्यात्र इति सस्थानत्वं न भवति ॥ (1619 आदेशप्रतिषेधवार्तिकम् ॥ 9 ॥ - वर्जने प्रतिषेधः ॥ (भाष्यम्) वर्जने प्रतिषेधो वक्तव्यः। अवसंचक्ष्याः। परिसंचक्ष्याः ॥ (1620 आदेशप्रतिषेधवार्तिकम् ॥ 10 ॥ ) - असनयोश्च - (भाष्यम्) असनयोश्च प्रतिषेधो वक्तव्यः। नृचक्षा रक्षः। विचक्षण इति ॥ (1621 वार्तकम् ॥ 11 ॥) - बहुलं तणि - (भाष्यम्) बहुलं तणीति वक्तव्यम् ॥ किमिदं तणीति? संज्ञाछन्दसोर्ग्रहणम् ॥ किं प्रयोजनम् ? (1622 प्रयोजनवार्तिकम् ॥ 12 ॥) - अन्नवधकगात्रविचक्षणाजिराद्यर्थम् - (भाष्यम्) अन्न - अन्नम् ॥ वधक - वधकम् ॥ गात्र - गात्रं पश्य ॥ विचक्षण - विचक्षणः ॥ अजिर अजिरे तिष्ठति। चक्षि ॥ 54 ॥ Kashika ------- चक्षिङः ख्याञादेशो भवत्यार्धधातुके। आख्याता। आख्यातुम्। आख्यातव्यम्। स्थानिवद्भावेन नित्यमात्मनेपदं न भवति, ञकारानुबन्धकरणसामर्थ्यात्। आख्यास्यति। आख्यास्यते॥ क्शादिरप्ययमादेश इष्यते॥ आक्शाता। आक्शातुम्। आक्शातव्यम्॥ वर्जने प्रतिषेधो वक्तव्यः॥ दुर्जनाः संचक्ष्याः। वर्जनीया इत्यर्थः॥ असनयोश्च प्रतिषेधो वक्तव्यः॥ नृ॒चक्षा॒ रक्षः॒ (शौ०सं० ८.३.१०) हिंसार्थोऽत्र धातुः। अने खल्वपि — विचक्षणः पण्डितः॥ बहुलं संज्ञाछन्दसोरिति वक्तव्यम्॥ अन्नवधकगात्रविचक्षणाजिराद्यर्थम्॥ Balamanorama ------------ **चक्षिङः ख्याञ्** - चक्षिङः ख्याञ् । चक्षिङः ख्याञ् स्यादार्धधातुके परे इत्यर्थः । Tattvabodhini ------------- **चक्षिङः ख्याञ्** - ख्शादिरिति । तेनपुंख्यान॑मित्यत्रपुमः खय्यम्परे॑ इति रुत्वं नेत्यादि पूर्वार्धे एवोक्तम् । Padamanjari ----------- चक्षिङ्ः ख्याञ्॥ कर्त्रभिप्राये क्रियाफले आख्यास्यते, आचख्ये इत्यात्मनेपदं यथा स्यात्, तृजादौ चक्षितेत्यादि मा भूदिति च योगारम्भः। आख्यातेत्यादि'ख्या प्रकथने' इत्यस्यैव सिद्धम्। अत्र यथान्यासे आकारात्पूर्वो भागः खकारयकारात्मेति स्यादाख्यातेति, ककारशकारात्मापि त्विष्यते - आक्शातेति, तदेतदाह - क्शादिरप्ययमिति। ककारेऽकार उच्चारणार्थः। अपर आह - ख्यादिरेवायमादेश इति। अत्राप्यकार उच्चारणार्थः। तत्र चर्त्वे कृते क्शातेत्यादि भवति। कथमाख्यातेति खकारयकारयोः श्रवणम्? असिद्धकाण्डे णत्वविधानानान्तरं ख्शाञः शस्य यो वेति शस्य यत्वं विभाषा वक्तव्यम्। तत्र चर्त्वे यत्वं सिद्धमित्याख्यातेत्यादि यत्वपक्षे रूपम्, अन्यदा कशातेति रूपम्। अवश्यं च शस्य यत्वमित्याश्रयणीयम्। इह सुप्रचष्टे सुप्रख्यः, ठातश्चोपसर्गेऽ इति कः, ततो यत्वस्यासिद्धत्वात्सुप्रख्यस्य भाव इति'योपधाद्गुरूपोतमात्' इति वुञ् न भवति, अयोपधत्वात्। तस्मिन्सति ष्यञ् भवति - सौप्रख्यमिति। तथा सुप्रख्येन निर्वृते देशे भवः सौप्रख्यीयः, सौप्रख्यीयः, धन्वयोपधादिति वुञ् न भवति,'वृद्धाच्छः' एव भवति। अख्यातः, यत्वस्यासिद्धत्वाद्यण्वत्वा भावात्'संयोगादेः' इति नत्वं न भवति,'न ध्याख्यापृमूर्च्छिमदाम्' इत्यत्र ख्याग्रहणं न कर्तव्यं भवति। पुंसः ख्यानं पुंख्यानमित्यत्र यत्वस्यासिद्ध्त्वात्'पुमः खय्यम्परे' इति रुविधिर्न भवति। पर्याख्यानम्, यत्वस्यासिद्धत्वाच्छकारेणानटा व्यवायात्'कृत्यचः' इति णत्वाभावः। नटः ख्यातेत्यत्र यत्वस्यासिद्धत्वात् खरः शर्परत्वात्'शर्परे विसर्जनीयः' इतेयष विधिर्भवति। नन्वसिद्धे शस्य यवचनेऽपि'ख्या प्रकथने' इत्यस्यौत्पतिक एव यकार इति तत्र वुञादिप्रसङ्गः? एवं तर्हि सोऽपि ख्शादिः, शस्य यवचनमपि साधारणं द्रष्टव्यम्। नृचक्षा रक्ष इति। छान्दसः प्रसोगः। भाषायां तु नृचक्षौ रक्ष इति। विचक्षण इति। ठनुदातेतश्च हलादेःऽ इति युच्। वधक इति। अतो लोपस्य स्थानिवत्वाद्वृद्ध्यभावः। गात्रमिति। ष्ट्रनिगादेशः। अजिरमिति। ठजिरशिशिरऽ इति निपातनमनाद्दत्योक्तम्॥ Nyaas ----- `नित्यमात्मनेपदं न भवति` इति। यदि हि स्यात्, अकारानुबन्धकरणमनर्थकं स्यात्। तस्मात् कत्र्रभिप्राये क्रियाफले विवक्षित आत्मनेपदं स्यान्नान्यत्र।`क्शादिरपि` इति। ककारशकारयोरकार उच्चारणार्थः। क्श् ख्याञित्येवंरूप आदेशो वक्तव्यः। कथं पुनरिष्यमाणोऽप्येवंविध आदेशो लभ्यते? पूर्वोक्तस्य बहुलग्रहणस्यानुवृत्तेः। अत ए बहुलग्रहणस्यानुवृत्तेर्वर्जनेऽसनयोश्चादेशप्रतिषेधो भवतीति व्याख्यानं कर्तव्यम्।`संचक्ष्या` इति। `ऋहलोण्र्यत्` (3.1.124) ।`नृचक्षा` इति। `सर्वधातुभ्योऽसुन्` (द।उ।9।49), **अत्वसन्तस्य चाधातोः** (6.4.14) इति दीर्घः। `विचक्षणः` इति। **कृत्यल्युटो बहुलम्** (3.3.113) इति कर्तरि ल्युट्।`बहुलम्` इत्यादि। संज्ञायां छन्दसि च जग्ध्यादेशादिकार्यं बहुलं न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। किमर्थम्? अन्नाद्यर्थम्। अन्नादयः शब्दा साधवो यथा स्युः। व्याख्यानन्तु तदेव बहुलग्रहणमाश्रित्य कर्तव्यम्। `अन्नम्` इति। अदो जग्धिरादेशो न भवति; बहुलग्रहणस्य सिंहावलोकितन्यायेनानुवृत्तेः। `वधक` इति। `हनो वध` (2.4.42) इत्यादिना वधादेशो लिङ्युटच्यमानो हन्तेर्ण्वुल्प्रत्यये कृतेऽपि भवति। `गात्रम्` इति। औणादिकः ष्ट्रन्। **इणो गा लुङि** (2.4.45) इति लुङ्युच्यमानो गादेशोऽत्रापि भवति। ` विचक्षणः` इति। चक्षिङ ख्याञादेशो न भवति ल्युटि। अजिरशब्दस्तु `अजिरशिशिरशिथिर` (द।उ।8।27) इति किरच्प्रत्ययान्त औणादिको निपातितः। तस्यात एव निपातनात् `अजेघञपोः` (2.4.56) इति विधीयमानो वीभावो न भवति। आदिशब्देन `प्रघस` इत्यादेग्र्रहणम्॥ Vartika ------- वर्जने प्रतिषेधः । Sutra Prayogas -------------- * **विचक्षणः** (शिशुपालवधम्): `असनयोश्च प्रतिषेधो वक्तव्यः` (वा०) इति चक्षिङः ख्याञादेशाभावः। * **अभितर्जयन्** (शिशुपालवधम्): `चक्षिङः ख्याञ्` इति सूत्रे ख्याञो ञित्करणसामर्थ्यादनित्यत्वज्ञापनात् परस्मैपदम्। * **आख्यन्मुनिस्तस्य** (भट्टिकाव्यम्): `चक्षिङः ख्याञ्` इत्यादिना च्लेरङ् । * **ऊचे** (भट्टिकाव्यम्): `ब्रुवो वचिः` इति आदेशस्य स्थानिवद्भावेन कर्तुः क्रियाफलविवक्षायां तङ् न।