24052: अस्तेर्भूः ================= **Padacheda:** अस्तेः | S | 6 | 1 | भूः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- भू is the substitute of the verb अस् 'to be' when an आर्धधातुक affix is to be applied. Vasu English Translation ------------------------ भू is the substitute of the verb अस् 'to be' when an आर्धधातुक affix is to be applied. भविता 'he will be,' भवितुम् 'in order to be' भवितव्यम् 'must be.' Now the Perfect tense affixes are also *ardhadhatuka* affixes (3.4.115). The Perfect of अस् is therefore the same as that of भू, namely, बभूव &c. There is, however, an important exception to this rule, namely, when अस् is employed as an auxiliary verb in forming Periphrastic Perfect of other verbs. In that case अस् forms its Perfect tense regularly, आस आसतुः आसुः &c. This apparent breach of the present *sutra* is explained by taking the term कृञ् in (3.1.40) as a *Pratyahara* including कृ, भू and अस्, and if अस् could not form its Perfect in the regular way, its inclusion in this *Pratyahara* would be useless; hence we conclude, that as an auxiliary verb, अस् forms its Perfect regularly. Kashika ------- अस्तेर्धातोर्भू इत्ययमादेशो भवत्यार्धधातुके। भविता। भवितुम्। भवितव्यम्। इह कस्माद् न भवति — ईहामास, ईहामासतुः, ईहामासुः? **कृञ्चानुप्रयुज्यते लिटि** (३.१.४०) इति प्रत्याहारग्रहणेनास्तेर्ग्रहणसामर्थ्यात्। तथा चोच्यते — “अनुप्रयोगे तु भुवास्त्यबाधनं स्मरन्ति कर्तुर्वचनान् मनीषिणः” (महाभाष्य ३.२१६) इति॥ Siddhanta Kaumudi ----------------- बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥ Laghu Siddhanta Kaumudi ----------------------- आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥ Balamanorama ------------ **अस्तेर्भूः** - अस्तेर्भूः । असधातोर्भूभावः स्यादार्धधातुके परे इत्यर्थः । अस् हि इति स्थिते — Padamanjari ----------- अस्तेर्भूः॥ भवतेरेव भवितेत्यादौ सिद्धेऽसेतरसितेत्यादिनिवृतये योगारम्भः। अनुप्रयोगे त्विति। अनुप्रयोगेउविषये भुवाउभूभावेनास्तेरनिवृत्तिं मनीषिणः स्मरन्ति। कर्तुःऊ सूत्रकारस्य वचनात्। मनीषिणः कर्तुरिति वा॥ Nyaas ----- `ईहामास` इति। ईहतेः **इजादेश्च गुरुमतोऽनृच्छः** (3.1.36) इत्याम्। `आमः` (2.4.81) इति लेर्लुक्; `कृञ्चानुप्रयुज्यते लिटि` (3.1.40) इत्यस्तेर्लिट्परस्यानुप्रयोगः। `प्रत्याहरग्रहणेनास्तेग्र्रहणसामर्थ्यात्` इति। `कृञ्चानुप्रयुज्यते लिटि` (3.1.40) इत्यत्र कृञिति प्रत्याहारग्रहणम्, `अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि` (5.4.50) इति कृशब्दादारभ्य `कृञो द्वितीयतृतीयशम्बबीजात्` (5.4.58) इत्याकृञो ञकारात्। तेन च प्रत्याहारग्रहणेनास्तेरपि ग्रहणम्; तस्यैतदेव प्रयोजनम् - आसेत्ेयतदनुप्रयोगे रूपं यथा स्यादिति। यदि चास्तेरनुप्रयोगेऽपि भूभावः स्यात्, तदासेत्येतदनुप्रयोगे रूपं न स्यादिति प्रत्याहारग्रहणमनर्थकम्। ततश्च`कृभ्वनुप्रयुज्यते लिटि` इत्येवं ब्राऊयात्। तत्राप्ययमर्थः - किमिदं प्रत्याहारग्रहणमुत करोतेरित्येव सन्देहः परिह्मतो भवति, कृतञ्च प्रत्याहारग्रहणम्, तस्मात् प्रत्याहारग्रहणसामर्थ्यादनुप्रयोगेऽपि भूभावोऽस्तेर्न भवति। `तथा चोच्यते` इत्यादिनाऽनन्तरोक्तमेवार्थमाप्तवचनेन द्रढयति। भूरिति दीर्घोच्चारणं निष्ठायां ह्रस्वश्रवणं मा भूत् - भूतो भूतवानिति, अस्तेरिति श्तिपा निर्देशोऽस्यतेर्मा भूत्; नैतदस्ति, निरनुबन्धक(व्या।प।53) पिरभाषयैवास्यतेर्न भविष्यति। तस्य ह्रुकारोऽनुबन्धः `इदितो वा` (7.2.56) इति विशेषणार्थः कृतः। अस्तेस्त्वकार उच्चारणार्थः, नानुबन्धः। एवं तर्हि श्तिपा निर्देशो वैचित्र्यार्थ इत्येके। निरनुबन्धकपरिभाषायाः प्रत्ययविधिविषयत्वादित्यपरे॥ Prakriyasarvasvam ----------------- अस्तेरार्धधातुके भूः स्यात् । भूयते । लुङयभूत् । अत्र स्थानिवत्त्वाद् ‘अस्तिसिच—’ इतीटि प्राप्ते, ‘आहभुवोरीण्नेति वाच्यम्*।’ शेषं भूवत् अनुप्रयोगे त्वस्तेर्लिङस्ति । लिङन्यत्रापि चान्द्रोक्तेः² प्रादुरासेति दर्शनात् । आसाऽऽहेत्यव्ययं केचिद् दीप्त्यर्थादसतेः परे ॥ ७११ ॥ Sutra Prayogas -------------- * **धातोः स्थान इवादेशं** (रघुवंशम्): `अस्तेर्भूः` इति अस्तिधातोः स्थान आदेशो भूधातुः तद्वत्।