24050: विभाषा लुङ्लृङोः ======================= **Padacheda:** विभाषा | S | 1 | 1 | लुङ्-लृङोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- गाङ् is optionally the substitute of इङ् when लुङ् (Aorist) and ऌङ् (Conditional Future) follow. Vasu English Translation ------------------------ गाङ् is optionally the substitute of इङ् when लुङ् (Aorist) and ऌङ् (Conditional Future) follow. Let us take the case when गाङ् replaces इङ्. The affixes of लुङ् and लृङ् are treated as ङित् by (1.2.1). and then by the Rule (6.4.66) (When an *ardhadhatuka* affix, beginning with a consonant and distinguished by an indicatory क or ङ् follows; then let ई be the substitute of long आ of the verbs termed घु and of मा, स्था, गा पा, हा, सी), we get अध्यगीष्ट (अधि + अ + गी + स्त), अध्यगीषाताम्, अध्यगीषत. In the alternative we have अध्यैष्ट, अध्यैषाताम् and अध्यैषत. So also in लृङ्; as अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त, or in the alternative, अध्यैष्यत,आध्यैष्येताम् and अध्यैष्यन्त. Kashika ------- लुङि लृङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे **गाङ्कुटादिभ्यः०** (१.२.१) इति ङित्त्वम्, **घुमास्थागापाजहातिसां हलि** (६.४.६६) इतीत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति — अध्यैष्ट, अध्यैषाताम्, अध्यैषत। लृङि खल्वपि — अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति — अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त॥ Siddhanta Kaumudi ----------------- इङो गाङ् वा स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- इङो गाङ् वा स्यात्॥ Balamanorama ------------ **विभाषा लुङ्लृङोः** - आगस्त्य । अगस्तयः । कुण्डिना इति । अगस्त्यशब्दादृष्यणो लुक् । प्रकृतेरगस्त्यादेशः । कौण्डिन्यशब्दो गर्गादियञन्तः । बहुत्वे यञो लुक् । प्रकृतेः कुण्डिनादेशश्च ।यस्कादिभ्यो गोत्रे॑ इत्यारभ्यआगस्त्यकौण्डिन्ययोः॑ इत्यन्तं द्वैतीयीकम् । अथ प्रकृतं चातुर्थिकम्- । Tattvabodhini ------------- **विभाषा लुङ्लृङोः** - आगत्स्य । आगस्त्यशब्दादृष्यण् । , कुण्डिनीशब्दात्तु गर्गाद्यञ । ननु कुण्डिनीशब्दस्य यञिभस्याढे॑इति पुंवद्भावेनस्तद्धिते॑इति टिलोपः प्राप्नोति । न चसंयोगादिश्चे॑ति प्रकृतिभावः शङ्क्यः,अणी॑ति तत्रानुवर्तनात् । मैवम् । अस्मादेव निपातनात्तम्याऽप्रवृत्तेः कौण्डिन्यः सिध्यति । चकारस्त्वन्तोदात्तार्थः । मध्योदात्तोहि कुण्डिनीशब्दः । कुण्डमस्त्यस्या इति मत्वर्थीयस्यनेरुदात्तत्वादादेशस्यापि कुण्डिनशब्दस्यान्तरतम्यान्मध्योदात्तत्वात् । अवशिष्टस्य प्रकृतिभागस्येति । न च प्रत्ययविशिष्टस्यादेशमात्रम विधीयतां किं लुग्विधानेनेति वाच्यम्, अगस्तीयाश्छात्रा इत्यनापत्तेः, लुकि हि सतिगोत्रेऽलुगची॑ति लुकि प्रतिषिद्धे वृद्धत्वाच्छः सिध्यति । प्रत्ययविशिष्टस्यादेशविधौ तु वृद्धत्वापगमे शौषिको ।ञणेन स्यात् । कौण्डिनाश्छात्रा इति तूभयथापि सिद्द्यत्येव । छापवादस्यकण्वादिभ्यो गोत्रे॑ इत्यण्प्रत्ययस्य प्रवृत्त्या तत्र विशेषाऽभावात् । Nyaas ----- `अध्यैष्ट` इति। **आडजादीनाम्** (6.4.72) इत्याट्। `आटश्च` (6.1.87) इति वृद्धि। बाल-मनोरमाविभाषा लुङ्लृङोः 291, 2.4.50 विभाषालुङ्लृङोः। शेषं पूरयति - इङोगाङ्वा स्यादिति। `इङश्चे`त्यतो, `गाङ् लिटी`त्यतश्च तदनुवृत्तेरितिभावः। सिचि अधि अ गा स् त इति स्थिते - बाल-मनोरमाआगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् 1136, 2.4.50 आगस्त्य। अगस्तयः। कुण्डिना इति। अगस्त्यशब्दादृष्यणो लुक्। प्रकृतेरगस्त्यादेशः। कौण्डिन्यशब्दो गर्गादियञन्तः। बहुत्वे यञो लुक्। प्रकृतेः कुण्डिनादेशश्च। `यस्कादिभ्यो गोत्रे` इत्यारभ्य `आगस्त्यकौण्डिन्ययोः` इत्यन्तं द्वैतीयीकम्। अथ प्रकृतं चातुर्थिकम्-। Prakriyasarvasvam ----------------- इङो लुङ्लृङोः गाङ् वा स्यात् । 'गाङ्कुटादिभ्यः—' इति ङित्त्वम् । 'घुमास्था-' इतीत्त्वम् । अध्यगीष्ट । अध्यगीषाताम् । अध्यगीष्ठाः । 'इणः षीध्वं-' । अध्यगीढ्वम् । अध्यगीषि । गाङ्भावे तङि सिचिवृद्ध्यभावात् गुणे कृते एष्ट । एषाताम् । आड्वृद्धौ । अध्यैष्ट । अध्यैषाताम् । अध्यैढ्वम् । अध्यैषि । कर्मणि अध्यगायि । अध्यगायिषाताम्, अध्यगीषाताम् । अध्यायि । अध्यायि- षाताम् । अध्यैषाताम् । Sutra Prayogas -------------- * **सोऽध्यैष्ट** (भट्टिकाव्यम्): `विभापा लुङ् लुङोः` इति गाङ् । * **वेदोऽङ्गवांस्तौरखिलोऽध्यगायि** (भट्टिकाव्यम्): `विभाषा लुङ्लुङोः` इति गाङादेशः। * **नाध्यगीढ्वं** (भट्टिकाव्यम्): `विभाषा लुङ् -लुङोः` इति गाङादेशः। * **अध्यगीष्ठाश्च** (भट्टिकाव्यम्): `विभाषा लुङ्-लुङोः` इति इंडो गादेशः। * **अद्यगीष्ट** (भट्टिकाव्यम्): `विभाषा लुङ्लृङोः` इति इङो गाङादेशः।