24049: गाङ् लिटि ================ **Padacheda:** गाङ् | S | 1 | 1 | लिटि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- गाम् is the substitute of इङ् when लिट् (Perfect Tense) follows. Vasu English Translation ------------------------ गाम् is the substitute of इङ् when लिट् (Perfect Tense) follows. The substitute being like its original (1.1.68) गाङ् would have been *Atmanepadi*, even without the indicatory, ङ्. Why has then this ङ् been added to it? The object is that in the *sutra* (1.2. 1.) गाङ् there should mean this substitute गाङ् and not the verb 'to go.' Thus we get अधिजगे 'he studied'. अधिजगाते, अधिजगिरे. See (6.4.64) and (3.4.8). Bhashya ------- गाङ् ल्लिटि (580) (362 आदेशसूत्रम् ॥ 2.4.1 आ.27) (ङित्करणप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) ङित्करणं किमर्थम्? (1605 सिद्धान्तिसमाधानवार्तिकम् ॥ 1 ॥) - गाड्यनुबन्धकरणं विशेषणार्थम् - (भाष्यम्) गाङ्यनुबन्धकरणं क्रियते। विशेषणार्थम् ॥ क्व विशेषणार्थेनार्थः? गाङ्कुटादिभ्योऽञ्ञ्णिन्ङिद् इति। गाकुटादिभ्यः इति ह्युच्यमाने इणादेशस्यापि प्रसज्येत ॥ (1606 एकदेशिसमाधानान्तरवार्तिकम् ॥ 2 ॥) - ज्ञापकं वा सानुबन्धकस्यादेशवचन इत्कार्याभावस्य - (भाष्यम्) अथ वैतज्ज्ञापयत्याचार्यः - सानुबन्धकस्यादेश इत्कार्यं न भवतीति ॥ (भाष्यम्) किमेतस्य ज्ञापने प्रयोजनम्? (1607 प्रयोजनवार्तिकम् ॥ 3 ॥) - प्रयोजनं चक्षिङः ख्याञ्ञ् - (भाष्यम्) (चक्षिङः ख्याञ्ञ्प्रयोजनम् - चख्यौ ख्यास्यति) इति ङित इत्यात्मनेपदं नित्यं न भवति ॥ (1608 प्रयोजनवार्तिकम् ॥ 4 ॥) - लटः शतृशानचौ - (भाष्यम्) (लटः शतृशानचौ) प्रयोजनम् पचमानो यजमान इति टित इत्येत्वं न भवति ॥ (1609 प्रयोजनवार्तिकम् ॥ 5 ॥) - युवोरनाकौ - (भाष्यम्) युवोरनाकौ च प्रयोजनम्। नन्दनः कारकः नन्दना कारिकेति। उगिल्लक्षणौ ङीब्नुमौ न भवतः ॥ (1610 दूषणवार्तिकम् ॥ 6 ॥) - मेश्चाननुबन्धकस्याम्वचनम् - (भाष्यम्) मेश्चाननुबन्धकस्याम्वक्तव्यः। अचिनवम्। असुनवम्। अकरवम् ॥ (वार्तिकपूर्तिभाष्यम्) अत्यल्पमिदमुच्यते - मेरिति। तिप्सिम्मिपामिति वक्तव्यम्। इहापि यथा स्यात् - वेद वेत्थ ॥ (ज्ञापितप्रत्याख्यानभाष्यम्) अस्य ज्ञापकस्य सन्ति दोषाः ॥ सन्ति प्रयोजनानि ॥ दोषाः समाः भूयांसो वा। तस्मान्नार्थो ज्ञापकेन ॥ (आक्षेपभाष्यम्) कथं यानि प्रयोजनानि? (समाधानभाष्यम्) नैतानि सन्ति। इह तावत् चक्षिङः ख्याञ्ञ् इति। ञित्करणसामार्थ्याद्विभाषात्मनेपदं भविध्यति ॥ (द्वितीयप्रयोजननिराकरणम्) लटः शतृशानचौ इति। वक्ष्यत्येतत् - प्रकृतानामात्मनेपदानां टेरेत्वं भवतीति ॥ (तृतीयप्रयोजननिराकरणभाष्यम्) युवोरनाकौ इति। वक्ष्यत्येतत् - सिद्धं तु युवोरनुनासिकत्वाद् इति गाङ् ॥ 49 ॥ Kashika ------- गाङादेशो भवतीङो लिटि परतः। अधिजगे, अधिजगाते, अधिजगिरे। गाङोऽनुबन्धकरणं विशेषणार्थम्,**गाङ्कुटादिभ्यः०** (१.२.१) इत्यत्रास्य ग्रहणं यथा स्यात्। नहि स्थानिवद्भावेन गाङिति रूपं लभ्यते॥ Siddhanta Kaumudi ----------------- इङो गाङ् स्याल्लिटि लावस्थायां विवक्षते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपर्गेणेति- दर्शनेन् तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तम् (SK3036) इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयत् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ॥ Laghu Siddhanta Kaumudi ----------------------- इङो गाङ् स्याल्लिटि। अधिजगे। अधिजगाते। अधिजगिरे। अध्येता। अध्येष्यते। अधीताम्। अधीयाताम्। अधीयताम्। अधीष्व। अधीयाथाम्। अधीध्वम्। अध्ययै। अध्ययावहै। अध्ययामहै। अध्यैत। अध्यैयाताम्। अध्यैयत। अध्यैथाः। अध्यैयाथाम्। अध्यैध्वम्। अध्यैयि। अध्यैवहि। अध्यैमहि। अधीयीत। अधीयीयाताम्। अधीयीरन्। अध्येषीष्ट॥ Tattvabodhini ------------- गाङ् लिटि। लावस्थायामिति। वार्तिकमते तु एकादेशात्प्रागेव गाङ्गादेशे `द्विर्वचनेऽचि` इति सूत्रं न प्रवर्तते, द्वित्वनिमित्ताऽचोऽभावात्। विवक्षित इति। भाष्यमते तु सुतरां न प्रवर्तते, अनैमित्तिकत्वादिति भावः। निर्देशान्न भवतीति। `वार्णादाङ्गं बलीयः` इति समाधानं तु न प्रवर्तते, व्याश्रयत्वादिति भावः। अध्यैयतेति। `आत्मनेपदेष्वनतः` इति झस्य अत्। लड्मध्यमे तु - अध्यैथाः। अध्यैयाथाम्। अध्यैध्म्। अध्येषीष्टेति। लिङः सीयुट्। अध्यैषीयास्ताम्। अध्यैषीरन्। Padamanjari ----------- गाङ् लिटि॥ द्विलकारकोऽयं निर्देशः - लिटि लकारादाविति। तेन प्रागेवादेशेभ्यो लावस्थायामेवादेशो भवति। किं सिद्धं भवति? अधिजगे -'द्विर्वचने' चिऽ इति स्थानिवद्भावो न भवति। ङ्त्किरणमनर्थकं स्थानिवद्भावादेव सिद्धमात्मनेपदमित्याशङ्क्याह - गाङ्यनुबन्धकरणमिति। गाङिति ग्रहणं यथा स्यादिति। ननु चैतदपि स्थानिवद्भावादेव सिद्धम्, नेत्याह - न हीति।'गाङ्कुटादिभ्यः' इति उच्यमाने'कै गै रै शब्दे' इणो गा लुङीत्येतयोरपि ग्रहणं प्राप्नोति, ततश्चागासीन्नटः, अगासातां ग्रामौ देवदतेनेत्यत्रापि घुमास्थादिसूत्रेणेत्वं प्रसज्येत। अपर आह - यत्र सानुबन्धकात्षष्ठयुच्चार्यते, तत्राकृतायामेवेत्सञ्ज्ञायामादेशः प्रवर्तते, सत्यामपि वा तस्यामनुबन्धकार्यमादेशे न भवतीत्यस्यार्थस्य ज्ञापनार्थ गाङ्यनुबन्धकरणमिति। किं प्रयोजनम्?'चक्षिङ्ः ख्याञ्' ङ्ति इत्यात्मनेपदं न भवति; ञिदादेशकरणसामर्थ्यात्'स्वरितञितः' इत्येतदेव भविष्यति। इह तर्हि'लटः शतृशानचौ' , लट इति सानुबन्धकात्षष्ठी, पचमानः,'टितः' इत्येत्वं न भवतीति?प्रकृतानामात्मनेपदानामेत्वविधानादिह न भवति। इह तर्हिठ्युवोरनाकौऽ इत्यत्र भुज्यः, शंयुरित्यत्र मा भूदिति, अनुनासिकोकारानुबन्धौ युवू सूत्रे निर्दिष्टौ; ततश्च नन्दनः, कारकः, नन्दना, कारिका स्थानिवद्भावादुगिल्लक्षणौ ङीब्नुमौ प्राप्नुतः, अस्माज् ज्ञापकान्न भवतः। अनुनासिकयणोस्तत्र ग्रहणम्, न त्वनुनासिकोकारानुबन्धयोरिति नात्रोगित्कार्यप्रसङ्गः। इह हि'सेर्ह्यपिच्च,' सिपो हिरिति वक्तव्यम्, अपिच्चेति न वक्तव्यम्, इह च'तुह्यएस्तातङ् इति तिप्सिपोस्तदाशिषीति सानुबन्धकात्षष्ठीमुच्चार्थादेशो विधेयः, ङ्त्किरणं न कर्तव्यम्। इह च'तस्थस्थमिपाम्' इति पकारो नोच्चार्थः, तेनाचिनवमित्यादौ गुणसिद्धिः, ठणिञोरनार्षयोः क्त्वो ल्प्' इत्यादऐ यत्र स्थान्यनुबन्धकार्यमिष्यते तत्राननुबन्धकः स्थान्युपादेयः। वाराह्या प्रकृत्येत्यादौ वृद्धिर्गुणप्रतिषेधश्च भब्रति तदेवमस्य पक्षस्य मन्दत्वादनुपन्यासः॥ Nyaas ----- `अधिजगे` इति। **लिटस्तझयोरेशिरेच्** (3.4.81) इत्येश्। **आतो लोप इटि च** (6.4.64) इत्याकारलोपः। गा इत्येतस्य द्विर्वचनम्। ननु लिटि परभूते तशब्दस्य परत्वात् प्रगेवैशादेशेन भवितव्यम्; पश्चात् गाङादेशेन, ततश्च द्विर्वचने निमित्तेऽच्ययं गाङादेश इति **द्विर्वचनेऽचि** (1.1.59) इति स्थानिवद्भावादिवर्णस्य द्विर्वचनं प्राप्नोति, तत्कथं गा इत्येतस्य द्वर्वचनम्? नैतदस्ति; यस्मात् लिण्मात्रापेक्षत्वात् गाङादेशोऽन्तरङ्गः, लिडादेशविशेषाश्रयत्वादेशादेशो बहिरङगः, तस्मादन्तरङ्गत्वादेशादेशात् प्रागेव गाङ्गादेशेन भवितव्यम्, ततश्च द्विर्वचननिमित्तेनायमच्यजादेश इति स्थानिवद्भावो न भवति, तत्कुत इवर्णस्य द्विर्वचनप्रसङ्गः। `गाङोऽनुबन्धकरणं विशेषणार्थम्` इति। गाङकुटादिसूत्रे (1.2.1) `गाङकुटादिभ्यः` इत्युच्यमाने `कै गै शब्दे` (धातुपाठः-916,917) इत्यस्यापि ग्रहणं स्यात्, ततश्चागासीन्नट इत्यत्र ग्रहणं कस्मान्न भवति? येन हेतुना न भवति स हेतुर्गाङ्कुटादिसूत्रे एव दर्शितः। ननु चेङो ङितस्तत्र स्थानिवद्भावेनैव ग्रहणं भविष्यति, तत्क ङकारेणेत्यत आह - `न हि` इत्यादि। तत्र हि गाङित्येतस्य स्वरूपस्य ग्रहणम्। न च तत् स्थान#इवद्भावेन लभ्यते। किं तर्हि? कार्यम्। यस्मात् **स्थानिवदादेशोऽनल्विधौ** (1.1.56) इति कार्यातिदेशोऽयम्, न रूपातिदेशः॥ Prakriyasarvasvam ----------------- इङो लिटि नित्यं गाङ् स्यात् । अधिजगे । अधिजगाते । अधिजगिरे । अधिजगिषे । अधिजगिध्वे । अधिजगिवहे । आशिषि अध्येषीष्ट । अध्येषीयास्ताम् । अध्येषीष्ठाः१ । अध्येषीध्वम् । अध्येषीय । लृटि अध्येष्यते । लृङि अध्यगीष्यत, अध्यैष्यत । कर्मणि चिण्वदिड्वुहाः । द्विष अप्रीतौ । स्वरितेत् । द्वेष्टि । द्विष्टः । द्विषन्ति । पकारस्य कत्वम् । द्वेक्षि । द्विष्टः । द्विष्ट । द्वेष्मि । द्विष्वः । द्विष्मः । तङ् द्विष्टे । द्विषाते । द्विषते । द्विक्षे । द्विषाथे । ष्टुत्वम् । पस्य जश्त्वम् । द्विड्ढ्वे । द्विषे । द्विष्वहे । द्विष्महे । कर्मणि द्विष्यते । लिङि द्विष्यात् । द्विष्याताम्; द्विषीत । द्विषीयाताम् । द्विषीथाः । द्विषीध्वम् । द्विषीय । द्विषीवहि । लोटि द्वेष्टु, द्विष्टात् । द्विष्टाम् । द्विषन्तु । हेर्धित्वम् । ष्टुत्वजश्त्वे । द्विड्ढि । द्वेषाणि । द्वेषाव । द्विष्टाम् । द्विषाताम् । द्विक्ष्व । द्विड्ढ्वम् । द्वैषै । द्वेषावहै । लङि तिप्सिपोर्लोपे पदान्ते जश्त्वचर्त्वे । अद्वेट् अद्विष्टाम् ।