24034: द्वितीयाटौस्स्वेनः ========================= **Padacheda:** द्वितीया-टा-ओस्सु | S | 7 | 3 | एनः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When an affix of the Accusative -2nd case or टा - Instrumental -3rd case singular or ओश् Locative -7th-case dual follows, एन् which is अनुदात्त is the substitute of इदम् and its re-employment. Vasu English Translation ------------------------ When an affix of the Accusative -2nd case or टा - Instrumental -3rd case singular or ओश् Locative -7th-case dual follows, एन् which is अनुदात्त is the substitute of इदम् and its re-employment. The word इदम् is also understood in this *sutra* though it was not so in the last. This skipping is technically called 'frog-leap.' Thus:- इमं or एतं छात्रं छन्दोऽध्यापय, अथो एमं व्याकरणमप्यध्यापय 'teach this pupil Prosody, and teach him Grammar also,' अनेन or एतेन छात्रेण रात्रिरधीता 'अथो एनेनाहरप्यधीतम् 'this pupil studied in the night and he studied in the day also'. अनयोः or एतयोः छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वं 'the family of these two students is respectable and their wealth is great.' Vart:- The word एनत् neuter and singular, is also used in *anvadesa*: as, इदम् कुण्डमानय प्रक्षालयैनत् 'bring this bowl and wash it.' The above three *Sutra* regulate the accent only of certain pronouns. Bhashya ------- द्वितीयाटौस्स्वेनः 565 (353 आदेशसूत्रम् ॥ 2.4.1 आ.18) (इदमोपि स्थानित्वाधिकरणम्) (आक्षेपभाष्यम्) कस्यायमेनो विधीयते। एतदः प्राप्नोति। इदमोपि त्विष्यते। तदिदमो ग्रहणं कर्तव्यम् ॥ (समाधानभाष्यम्) न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम्?। इदमोऽन्वादेशेशनुदात्तस्तृतीयादौ इति ॥ (आक्षेपभाष्यम्) यदि तदनुवर्तते, एतदस्त्रतसोस्त्रतसौ चानुदात्ताविदमश्च इतीदमोपि प्राप्नोति ॥ (आक्षेपबाधकभाष्यम्) नैष दोषः। संबन्धमनुवर्तिष्यते। इदमोऽन्वादेशेशनुदात्तस्तृतीयादौ। एतदस्त्रतसोस्त्रतसौ चानुदात्तौ इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादावशू भवति। ततः द्वितीयाटौस्रत्वेनः। इदमः एतदश्च। तृतीयादौ इति निवृत्तम् ॥ अथ वा मण्डूकगतयोऽधिकाराः। तद्तथा - मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः ॥ (आक्षेपबाधकशेषभाष्यम्) अथ वा एकयोगः करिष्यते - इदमोऽन्वादेशेशनुदात्तस्तृतीयादावेतदस्त्रतसोस्त्रतसौ चानुदात्तौ। ततः द्वितीयाटौस्स्वेनः इदम एतदश्च। तृतीयादाविति निवृत्तम् ॥ (आक्षेपबाधकशेषभाष्यम्) अथवोभयं निवृत्तं तदपेक्षिष्यामहे ॥ (1596 वार्तिकम् ॥ 1 ॥) - एनदिति नपुंसकैकवचने - (भाष्यम्) एनदिति नपुंसकैकवचने वक्तव्यम्। इदं कुण्डमानय प्रक्षालयैनत् परिवर्तयैनत् ॥ (आक्षेपभाष्यम्) यद्येनत्क्रियते एनो न वक्तव्यः ॥ (प्रत्याक्षेपभाष्यम्) का रूपसिद्धिः - अथो एनम्, अथो एने, अथो एनानीति? ॥ (प्रत्याक्षेपसमाधानभाष्यम्) त्यदाद्यत्वेन सिद्धम् ॥ (समाधानबाधकभाष्यम्) यद्येवमेनश्रितको न सिध्यति। एनच्छ्रितक इति प्राप्नोति ॥ (समाधानसाधकभाष्यम्) यथालक्षणमप्रयुक्ते ॥ द्वितीयाटौ ॥ 34 ॥ Kashika ------- अन्वादेश अनुदात्त इति वर्तते। द्वितीया टा ओस् इत्येतेषु परत इदमेतदोरन्वादेशविषययोरेनशब्द आदेशो भवत्यनुदात्तः। इदमो मण्डूकप्लुतिन्यायेनानुवृत्तिः। इमं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमध्यापय। अनेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। अनयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्। एतदः खल्वपि — एतं छात्रं छन्दोऽध्यापय, अथो एनं व्याकरणमप्यध्यापय। एतेन छात्रेण रात्रिरधीता, अथो एनेनाहरप्यधीतम्। एतयोश्छात्रयोः शोभनं शीलम्, अथो एनयोः प्रभूतं स्वम्॥ एनदिति नपुंसकैकवचने वक्तव्यम्॥ प्रक्षालयैनत्। परिवर्तयैनत्। इह कस्माद् न भवति — अयं दण्डो हरानेन, एतमातं ङितं विद्यादिति? यत्र किञ्चिद् विधाय वाक्यान्तरेण पुनरन्यदुपदिश्यते सोऽन्वादेशः। इह तु वस्तुनिर्देशमात्रं कृत्वैकमेव विधानम्॥ Siddhanta Kaumudi ----------------- द्वितीयायां टौसोश्च परत इदमेतदोरेनादेशः स्यादन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातु पुनरुपादानमन्वादेशः । यथाऽनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । गणयतेर्विच् । सुगण् । सुगणौ । सुगणः । सुगण्ठ्सु । सुगण्ट्सु । सुगण्सु । क्विप् । अनुनासिकस्य क्विझलोः (SK2666)इति दीर्घः । सुगाण् । सुगाणौ । सुगाणः । सुगाण्ठ्सु । सुगाण्ट्सु । सुगाण्सु । परत्वादुपधादीर्घः । हल्ङ्यादिलोपः । ततो नलोपः । राजा ॥ Laghu Siddhanta Kaumudi ----------------------- इदमेतदोरन्वादेशे । किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा - अनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति ॥ एनम् । एनौ । एनान् । एनेन । एनयोः । एनयोः ॥ राजा ॥ Balamanorama ------------ **द्वितीयाटौस्स्वेनः** - द्वितीयाटौस्स्वेनः । द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः । 'इदमोऽन्वादेशे' इत्यत 'इदम' इति, 'अन्वादेशे' इति चानुवर्तते । 'एतदस्त्रतसोः' इत्यत 'एतद' इति च । तदाह — द्वितीयायामित्यादिना । 'अनावादेश' शब्दं व्याचष्टे-किञ्चिदिति । विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । अन्वादेशमुदाहृत्य दर्शयति -यथेति । उदाहरणप्रदर्शने यथाशब्द ।ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित् इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात् । किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम् । इति मान्ताः । अथ णकारान्ताः । गणयतेर्विजिति । 'गण सङ्ख्याने' इति चुरादिरदन्तः । ततः सुपूर्वात्स्वार्थे णिच् । अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्माद्विच्,अन्येभ्योऽपि दृश्यते॑ इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः । सुगण् इति रूपम् । सुगणौ, सुगण इत्याद्यविकृतमेव । सुपिङ्णोः कुक्टुक्शरी॑ति टुग्विकल्पः । 'चयो द्वितीयाः' इति टस्य ठ इत्यभिप्रेत्याह — सुगण्ठ्सु इति । द्वितीया.ञभावे रूपमाह — सुगण्ट्सु इति । टुगभावे रूपमाह — सुगण्सु इति । सुगाणिति । गणधातोरदन्ताण्णिच्, अल्लोपः । तस्य स्थानिवत्त्वान्नोपधावृद्धिः । तस्मात्क्विप्, णिलोपः अपृक्तलोपः ।अनुनासिकस्य क्विझलो॑रिति दीर्घः । सुगाणिति रूपम् । सुगाणौ सुगाण इत्यादि । नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च । इति आन्ताः । अथ नान्ताः । राजन्शब्दे विशेषमाह — परत्वादिति । हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेवसर्वनामस्थाने चाऽसंबुद्धौ॑ इति दीर्घः । ततो हल्ङ्यादिलोप इत्यर्थः । नचविप्रतिषेधे यद्बाधितं तद्वाधितमेवे॑ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं,पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति । विप्रतिषेधे यद्वाधितं॑मित्यस्याऽसार्वत्रिकत्वादिति भावः । नलोप इति ।न लोपः प्रातिपदिकान्तास्ये॑ति नकारस्य लोप इत्यर्थः । Tattvabodhini ------------- **द्वितीयाटौस्स्वेनः** - द्वितीयाटौस्सु ।इदमोऽन्वादेशे॑इत्यतःइदम॑इत्यनुवर्तते,अन्वादेश॑इति च ।एतदस्त्रतसो॑रित्यतएतद॑इत्यपि, तदाह — इदमेतदोरेनादेश इत्यादि ।अनुदात्त॑इत्यनुवर्तनादेनादेशोऽनुदात्त इति ज्ञेयः । कार्य विधातुमिति । अपूर्वं बोधयितुमित्यर्थः । ईषदर्थेक्रियायोगे मर्यादाङिविधौ च यः । एतमातंङितं विद्या॑दित्यत्र तु ईषदर्थादयो न विधीयन्ते किंत्वनूद्यते इति न तत्रैनादेशः । एतेननक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापये॑त्यपि व्याख्यातम् । भीरुत्वस्याऽनुवाद्यकत्वेन विवक्षितत्वात् ।इति मान्ताः । सुदाणिति । क्विप् । न चअनुनासिकस्य क्वी॑ति दीर्घे कर्तव्ये अल्लोपणिलोपयोः — स्थानिवद्भावः शङ्क्यः, दीर्घविधौ तन्निषेधात् । क्वौ विधिं प्रति निषेधाच्च । इति णान्ताः । Padamanjari ----------- द्वितीयाटौस्स्वेनः॥ अनन्तरत्वादेतद एवैनादेशः प्राप्नोति, इदमोऽपीष्यते, तदिदमो ग्रहणं कर्तव्यम्? न कर्तव्यम्, ठिदमोऽन्वादोशेऽ इत्यत इदम इत्यनुवर्तिष्यते, एतदस्त्रतसोरित्यत्रापि संबन्धातस्यापि त्रतसोरादेशप्रसङ्गस्तत्राह - इदमो मण्डूअकप्लूतिन्यायेनानुवृत्तिरिति। इदमप्यत्र वक्तव्यम् - इदमो हप्रत्ययेन बाधितत्वात्रलोऽसम्भावात्रतसोहित्यत्रासम्बन्ध इति। यदि परमनुवृत्तिसामर्थ्यातस्याप्यादेशेन भाव्यम्, न चासति त्रलि तद्विधानमुपपद्यत इति त्रलः सता परिकल्प्यते? कल्प्यते? तदपि न; उतरार्थमप्यनुवृत्तिसम्बवादिति। एनदिति नपुंसकैकवचने वक्तव्यमिति। एनादेशे कृते ठतोऽम्ऽ इत्यम्भावे सत्येनमिति प्राप्नोत्यत एनदादेशो वक्तव्यः। यद्येवम्, अयमेव सर्वत्रास्तु, नार्थ एनादेशेन, कथम् - एनम् एनौ एनान्, ऐनेन, एनयोरिति? त्यदाद्यत्वे कृते भविष्यति, नपुंसकैकवचने तु नित्यत्वात्'स्वमोर्नपुंसकात्' इति लुकि कृते एनदिति स्यादिति सिद्धम्, इह त्वेनं श्रित इति द्वितीयासमासे यद्यप्येनादेशोऽथाप्येनदादेशः, उभायभ्यामपि न भाव्यम्, कथम्? ठन्तरङ्गानपि विधीन् बहिरङ्गो लुग्बाधतेऽ,तस्मादेतच्छ्रित इति भवति। एकमएव विधानमिति। ठयं दण्डःऽ इत्यनेन दण्डस्य सतामात्रमुपलक्ष्यते, न तु किञ्चिद्विधीयते। एवमीषदर्थ इत्यादिना आकारस्य स्वरूपमात्रं निर्दिश्यते, न तु किञ्चिद्विधीयते॥ Nyaas ----- द्वितीयाटौस्स्वेनः। द्वितीया च टाश्च ओश्च द्वितीयाटौसः, तेष्विति द्वन्द्वः। `इदमोऽन्वादेशे` इत्यत `इदम` इति, `अन्वादेशे` इति चानुवर्तते। `एतदस्त्रतसोः` इत्यत `एतद` इति च। तदाह - द्वितीयायामित्यादिना। `अनावादेश` शब्दं व्याचष्टे-किञ्चिदिति। विधातुमिति। अपूर्वं बोधयितुमित्यर्थः। अन्वादेशमुदाहृत्य दर्शयति -यथेति। उदाहरणप्रदर्शने यथाशब्द। `ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः। एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्` इत्यत्र तु एनादेशो न, पूर्वार्धस्य यच्छब्दयोगेनानुवादत्वात्। किञ्चित् कार्यं विधातुमुपात्तस्य इत्यत्र च पूर्ववाक्ये यथाकथंचित्तदुपादानं विवक्षितं, न त्विदमैवेत्याग्रह इति भाष्ये स्पष्टम्। इति मान्ताः। अथ णकारान्ताः। गणयतेर्विजिति। `गण सङ्ख्याने` इति चुरादिरदन्तः। ततः सुपूर्वात्स्वार्थे णिच्। अल्लोपस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्माद्विच्, `अन्येभ्योऽपि दृश्यते` इति वचनाण्णिलोपः, अपृक्तलोपः, ततः सुबुत्पत्तिः, हल्ङ्यादिना सुलोपः। सुगण् इति रूपम्। सुगणौ, सुगण इत्याद्यविकृतमेव। सुपि `ङ्णोः कुक्टुक्शरी`ति टुग्विकल्पः। `चयो द्वितीयाः` इति टस्य ठ इत्यभिप्रेत्याह - सुगण्ठ्सु इति। द्वितीया।ञभावे रूपमाह - सुगण्ट्सु इति। टुगभावे रूपमाह - सुगण्सु इति। सुगाणिति। गणधातोरदन्ताण्णिच्, अल्लोपः। तस्य स्थानिवत्त्वान्नोपधावृद्धिः। तस्मात्क्विप्, णिलोपः अपृक्तलोपः। `अनुनासिकस्य क्विझलो`रिति दीर्घः। सुगाणिति रूपम्। सुगाणौ सुगाण इत्यादि। नच दीर्घे कर्तव्ये णिलोपाऽल्लोपयोः स्थानिवत्त्वं शङ्क्यं, दीर्घविधौ तन्निषेधात् , क्वौ विधिं प्रति तन्निषेधाच्च। इति आन्ताः। अथ नान्ताः। राजन्शब्दे विशेषमाह - परत्वादिति। हल्ङ्यादिलोपापेक्षया परत्वात्पूर्वमेव `सर्वनामस्थाने चाऽसंबुद्धौ` इति दीर्घः। ततो हल्ङ्यादिलोप इत्यर्थः। नच `विप्रतिषेधे यद्बाधितं तद्वाधितमेवे`ति न्यायात्कथमिह हल्ङ्यादिलोप इति वाच्यं, `पुनः प्रसङ्गविज्ञानात्सिद्ध`मिति। विप्रतिषेधे यद्वाधितं`मित्यस्याऽसार्वत्रिकत्वादिति भावः। नलोप इति। `न लोपः प्रातिपदिकान्तास्ये`ति नकारस्य लोप इत्यर्थः। Praudhamanorama --------------- **कार्यं विधातुमिति।** अपूर्वं बोधयितुमित्यर्थः। 'ईषदर्थे क्रियायोगे' इति श्लोके तु ईषदर्थादयो न विधीयन्ते, किन्त्वनूद्यन्ते। तेन एनादेशो न। एतेन— नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय। इत्यपि व्याख्यातम्, भीरुत्वस्यानुवाद्यत्वेन विवक्षितत्वात्॥ मान्ताः ॥ **सुगाणिति॥** 'अनुनासिकस्य क्विझलोः' इति दीर्घः. न च तस्मिन् कर्तव्येऽल्लोपणिलोपयोः स्थानिवद्भावः शङ्क्यः। दीर्घविधौ तन्निषेधात्, क्वौ विधिं प्रति निषेधाच्चेति भावः। एतेन सुगण्णीश इति प्राचो ग्रन्थं गणयतेः क्विबिति व्याचक्षाणा उपेक्ष्या इति ध्वनयति। तदीयो ग्रन्थोऽपि समर्थनीय इत्याग्रहे तु इत्थं समर्थ्याताम्— सर्वलोपित्वेन क्विबिवाचरतीति क्विप्। क्वप्शब्दादाचारक्विबन्तात् कर्तरि क्विप्, तेन विजित्यर्थः॥ इति णान्ताः ॥ **उपधादीर्घ इति।** 'सर्वनामस्थाने चासम्बुद्धौ' इत्यनेन। Prakriyasarvasvam ----------------- द्वितीयायां टायामोसोश्च परेष्वन्वादेशार्थयोरिदमेतदोरनुदात्त एनादेशः स्यात् । उक्तस्यार्थस्य पुनरुक्तिरन्वादेशः । कृष्णो वने क्रीडति' पश्यैनम् । निर्देशमात्रं प्राग्वाक्ये न किञ्चिद्विहितं यदि । तदान्वादेशता न स्यात् कृष्णोऽसाविममर्चय ॥ ५९४ ॥ एवम् एनौ । एनान् । एनेन । एनयोः । एनयोः । भ्यामादौ त्वन्वादेशे साकचोऽप्याभ्यामित्येव स्यात् । 'इदमोऽन्वादेशेऽनुदात्तस्तृतीयादौ (२-४-३२) इत्यश्भावात् ॥ राजन् सु । 'सर्वनामस्थाने च—' (६-४-८) इति दीर्घः । सुलोपनलोपौ । राजा । राजानौ । राजानः ॥ Sudha ----- द्वितीया टौस्स्वेन इति । **इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ**(2.4.32) इत्यतः इदम इति, अन्वादेश इति चानुवर्तते । **एतदस्त्रतसोस्त्रतसौ चानुदात्तौ**(2.4.33) इत्यतः एतद इति चानुवर्तते, तदाह - **द्वितीयायामित्यादिना एनमिति ।** इदम् + अम् इत्यत्र **द्वितीयाटौस्स्वेनः**(2.4.34) इति इदम एनादेशे विहिते **अमि पूर्वः**(6.1.107) इति पूर्वरूपादेशे च कृते 'एनम्' इति रूपम् । **राजा ।** 'राजन् सु' इत्यत्र सोरुकारस्येत्सञ्ज्ञायां लपे च कृते **सुडनपुंसकस्य**(1.1.43) इति सर्वनामस्थानसञ्ज्ञायाम् **सर्वनामस्थाने चासम्बुद्धौ**(6.4.8) इति नान्तस्योपधाया दीर्घत्वे **हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्**(6.1.68) इति स् लोपे **नलोपः प्रातिपदिकान्तस्य**(8.2.7) इति नलोपे 'राजा' इति रूपम् । Vartika ------- अन्वादेशे नपुंसके एनद्वक्तव्यः । Sutra Prayogas -------------- * **एनं** (भट्टिकाव्यम्): `द्वितीया- टौ` इत्येनादेशः।