24030: अपथं नपुंसकम् ==================== **Padacheda:** अपथम् | S | 1 | 1 | नपुंसकम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The तत्-पुरुष word अपथम् 'a bad road', is neuter. Vasu English Translation ------------------------ The तत्-पुरुष word अपथम् 'a bad road', is neuter. अपथमिदम् 'this (neuter) is a bad road' अपथानि गाहते मूढः 'the fool roams on wrong roads.' But अपथोदेशः a (masc.) 'a roadless country.' Here the compound being *Bahuvrihi* the word is masculine so; also अपथा नगरी ॥ Bhashya ------- अपथं नपुंसकम् (561) (349 नपुंसकसूत्रम् ॥ 2.4.1 आ.14) (शेषपूर्त्यधिकरणम्) (1581 शेषवार्तिकम् ॥ 1 ॥) - पुण्यसुदिनाभ्यामह्नः - (भाष्यम्) पुण्यसुदिनाभ्यामह्नो नपुंसकत्वं वक्तव्यम्। पुण्याहम्। सुदिनाहम् ॥ (1582 शेषवार्तिकम् ॥ 2 ॥) - पथः संख्याव्ययादेः - (भाष्यम्) पथः संख्याव्ययादेरिति वक्तव्यम् ॥ द्विपथं त्रिपथं चतुष्पथमुत्पथं विपथम् ॥ (1583 शेषवार्तिकम् ॥ 3 ॥) - द्विगुश्च - (भाष्यम्) द्विगुश्च समासो नपुंसकलिङ्गो भवतीति वक्तव्यम्। पञ्चगवं दशगवम् ॥ (1584 शेषवार्तिकम् ॥ 4 ॥) - अकारान्तोत्तरपदो द्विगुः स्त्रियाम् - (भाष्यम्) अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यत इति वक्तव्यम्। पञ्चपूली दशपूली ॥ (1585 शेषवार्तिकम् ॥ 5 ॥) - वाबन्तः - (भाष्यम्) वा आबन्तः स्त्रियां भाष्यत इति वक्तव्यम्। पञ्चखट्वी पञ्चखट्वम्। दशखट्वी दशखट्वम् ॥ (1586 शेषवार्तिकम् ॥ 6 ॥) - अनो नलोपश्च - (भाष्यम्) अनो नलोपश्च वा च स्त्रियां भाष्यत इति वक्तव्यम्। पञ्चतक्षी पञ्चतक्षम् ॥ (1587 शेषवार्तिकम् ॥ 7 ॥) - पात्रादिभ्यः प्रतिषेधः - (भाष्यम्) पात्रादिभ्यः प्रतिषेधो वक्तव्यः। पञ्चपात्रं द्विपात्रम् ॥ 30 ॥ Kashika ------- अपथशब्दो नपुंसकलिङ्गो भवति। अपथमिदम्। अपथानि गाहते मूढः। इह कस्माद् न भवति — अपथो देशः, अपथा नगरी? तत्पुरुष इति वर्तते॥ Siddhanta Kaumudi ----------------- तत्पुरुषः इत्येव । अन्यत्र तु अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ॥ Balamanorama ------------ **अपथं नपुंसकम्** - अपथं नपुंसकं । न-पन्था इति विग्रहे नञ्समासे नञो नस्य लोपे 'ऋक्पूः' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति ।परवल्लिङ्ग॑मित्यतस्तदनुवृत्तेरिति भावः । द्वन्द्वग्रहणं तु नानुवर्तते, अयोग्यत्वात् । अन्यत्र त्विति । बहुव्रीहावित्यर्थः । अपन्था इति । 'पथो विभाषा' इति समासान्तविकल्पः ।पथः संख्याव्ययादेः॑ इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् । Tattvabodhini ------------- **अपथं नपुंसकम्** - अपथं नपुंसकम् । तत्पुरुष इत्येवेति । द्वन्द्व ग्रहणं तु नानुवर्तते, अयोग्यत्वादिति भावः । अपन्था इति ।पथो विभाषा॑ इति समासान्तविकल्पः । इदं सूत्रं शक्यमकर्तुम् ।पथः सङ्ख्याव्ययादेः॑इति वक्ष्यमाणवार्तिकेन गतार्थत्वात् । प्रसङ्गादाह — । Padamanjari ----------- अपथं नपुंसकम्॥'पथः संख्याव्ययादेः' इत्यस्यापरकालभावित्वादयमारम्भः। अपथमिति।'पथो विभाषा' इति यदा समासान्तप्रतिधेषो न भवति तदा ठृक्पूरब्धूःऽ समासान्तः। समासान्तनिर्देशाच्च तदभावपक्षे पुंस्त्वमेव भवति - अपन्था इति। तत्पुरुष इति वर्ततैति। एतदर्थमेव'स नपुंसकम्' इत्यस्यानन्तरं न कृतम्॥ Nyaas ----- `अपधम्` इति। **पथो विभाषा** (5.4.72) इति यदा समासान्तप्रतिषेधो नास्ति तदा `ऋक्पूरब्धूपथामानक्षे` (5.4.74) इत्यकारः समासान्तः। समासान्तनिर्दशाद्यदा समासान्तो नास्ति तदा पुंल्लिङ्गतैव भवति - अपन्था इति॥ Prakriyasarvasvam ----------------- तत्पुरुषोऽपथशब्दः क्लीबं स्यात् । बहुव्रीहौ तु अपथो देशः ॥ Vartika ------- पुण्यसुदिनाभ्यामह्नः नपुंसकत्वं वक्तव्यम् । Sutra Prayogas -------------- * **अपथे** (रघुवंशम्): `अपथं नपुंसकम्` इति नपुंसकम्।