24029: रात्राह्नाहाः पुंसि ========================== **Padacheda:** रात्र-अह्न-अहाः | S | 1 | 3 | पुंसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The द्वन्द and तत्-पुरुष compound ending with the words रात्र and अह्न are spoken of in masculine. Vasu English Translation ------------------------ The द्वन्द and तत्-पुरुष compound ending with the words रात्र and अह्न are spoken of in masculine. These words refer to *krit* and *Samasanta* affixes. Thus the word रात्र is formed by रात्रि + अच् (5.4.87) अह्न is formed by (5.4.88) and अह by (5.4.91). The general rule (2.4.26) also does not apply here. द्विरात्रः, त्रिरात्रः 'A space of two or three nights' पूर्वाह्नः, अपराह्नः, मध्याह्नः 'the forenoon, the afternoon and noon', द्वहः 'two days' त्र्यहः, 'three days.' Vart:- The words अनुवाक &c., are masculine, as अनुवाकः, शंयुवाकः, सूक्तवाकः &c. Bhashya ------- रात्राह्नाहाः पुंसि (460) 348 पुंलिङ्गसूत्रम् ॥ 2.4.1 आ.13) (शेषपूरणाधिकरणम्) (1580 शेषवार्तिकम् प्र्प्र् 1प्र्प्र्) - अनुवाकादयः पुंसि - (भाष्यम्) अनुवाकादयः पुंसि भाष्यन्त इति वक्तव्यम्। अनुवाकः। शंयुवाकः ॥ रात्रा । 29 ॥ Kashika ------- कृतसमासान्तानां निर्देशः। रात्र अह्न अह इत्येते पुंसि भाष्यन्ते। परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोरिदं वचनम्। द्विरात्रः। त्रिरात्रः। चतूरात्रः। पूर्वाह्णः। अपराह्णः। मध्याह्नः। द्व्यहः। त्र्यहः॥ अनुवाकादयः पुंसीति वक्तव्यम्॥ अनुवाकः। शंयुवाकः। सूक्तवाकः॥ Siddhanta Kaumudi ----------------- एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव । अनन्तरत्वात्परवल्लिङ्गतापवादोऽप्ययं परत्वात्समाहारनपुंसकतां बाधते । अहोरात्रः । रात्रेः पूर्वभागः पूर्वरात्रः । पूर्वाह्णः । द्व्यहः ॥ संङ्ख्यापूर्वं रात्रं क्लीबम् ॥ लि. (SK131) द्विरात्रम् । त्रिरात्रम् । गणरात्रम् ॥ Laghu Siddhanta Kaumudi ----------------------- एतदन्तौ द्वन्द्वतत्पुरुषौ पुंस्येव। अहश्च रात्रिश्चाहोरात्रः। सर्वरात्रः। संख्यातरात्रः। **संख्यापूर्वं रात्रं क्लीबम्**। द्विरात्रम्। त्रिरात्रम्॥ Balamanorama ------------ **रात्राह्नाहाः पुंसि** - रात्राह्नाहाः ।द्वन्द्वतत्पुरुषयो॑रित्यनुवृत्तं प्रथमाबहुवचनेन विपरिणतं रात्रादिभिर्विशष्यते, तदन्तविधिः । रात्राह्नाहान्तद्वन्द्वतत्पुरुषाः पुंसीत्यर्थः । फलितमाह — एतदन्ताविति । परवल्लिङ्गतापवादः । नन्वहोरात्र इति समाहारद्वन्द्वेःस नपुंसक॑मिति नपुंसकत्वप्रसङ्गः । नच नपुंसकत्वस्याप्ययं पुंस्त्वविधिरपवाद इति वाच्यं,पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरा॑निति न्यायेनऽनस्य पुंस्त्वविधेः परवल्लिङ्गतामात्रापवादत्वात् । तस्मादहोरात्राविति इतरेतरद्वन्द्व एवेहोदाहर्तुमुचित इत्यत आह-अनन्तरत्वादिति । अयमिति ।पुंस्त्वविधि॑रिति शेषः । अहोरात्र इति । अहश्च रात्रिश्च तयोः समाहार इति द्वन्द्वे परत्वान्नपुंसकत्वम् । अपवादत्वात्परवल्लिङ्गमपि बाधित्वाऽनेन पुंस्त्वम् ।अहःसर्वैकदेशे॑त्यच् । पूर्वाह्ण । इति अह्नः पूर्वमित्येकदेशिसमासः । 'राजाहःसखिभ्यः' इति टच् । 'अह्नोऽहः' #इत्यह्नादेशः । परवल्लिङ्गं नपुंसकं च बाधित्वा पुंस्त्वम् । द्व्यह इति द्वयोरह्नोः समाहार इति विग्रहे द्विगुः, टच्,न सङ्ख्यादेः समाहारे॑ इत्यह्नादेशनिषेधः । परवल्लिङ्गं बाधित्वा पुंस्त्वम् । उत्तरपदस्याऽहन्शब्दस्य#आऽकारान्तत्वाऽभावान्न स्त्रीत्वं, समासन्तस्य समासभक्तत्वात् । सङ्ख्यापूर्वं । लिङ्गानुशासनसूत्रमिदम् । न त्वाष्टाध्यायीस्थं सूत्रं, नापि वार्तिकम्, भाष्ये अदर्शनात् ।रात्राह्नाहाः पुंसी॑त्यस्यायमपवादः । द्विरात्रमिति । समाहारद्विगुः ।अहःसर्वैकदेशे॑त्यच् । गणरात्रमिति । गणशब्दो बहुपर्यायः, 'बहुगणवति' इति सङ्ख्यात्वम् । गणाना रात्रीणां समाहार इति द्विगुः । अच् । Tattvabodhini ------------- **रात्राह्नाहाः पुंसि** - अहोरात्र इति । प्राचा तु अहोरात्रमित्युदाहृतं, तन्नेति प्रागेवोक्तम् । अत्र वदन्ति — ॒रात्राह्नाहा-॑इत्यनेन रात्रादीनामेव पुंस्त्वं विधीयते । तदन्तस्य तुपरवल्लिङ्ग॑मित्येव सिध्यति । अतएव भिन्नविषयत्वात्विप्रतिषेधे परं कार्य॑मिति न प्रवर्तते । एवं चरात्राह्नाहाः॑इति पुंस्त्वाऽप्रवृत्त्या समाहारेस नपुंसक॑मित्येव भवति, परवल्लिङ्गापवादत्वादिति । तन्न । उक्तरीत्या व्द्यहत्र्यहादावपि नपुंसकत्वप्रसङ्गात् । न चेष्टपत्तिः । द्व्यहस्त्र्यह इति प्राचाप्युदाहृतत्वेन स्वमूलग्रम्थेन सह विरोधापत्तेः ।ते तु तिंरशदहोरात्रः॑इत्यादिकोशविरोदाच्च । तस्माद्रात्र्याद्यन्तस्यैवायां पुंस्त्वविधिःद्वन्द्वतत्पुरुषयो॑रिति प्रकमणात्, तथा च भिन्नविषयात्वाऽभावात्रात्राह्नाहाः॑इति पुंस्त्व समाहारनपुंसकतां परत्वेन बाधत एव ।सङ्ख्यापूर्व रात्र क्लीबम् ।सङ्ख्यापूर्वमिति । अत्र चअपथपुण्याहौ नपुंसकौ॑सङ्ख्यापूर्वा रात्रिः॑इति लिङ्गानुशासनसूत्रं मूलम् । सङ्ख्याग्रहणेषु कृत्रिमाऽकृत्रिमन्यायो न प्रवर्ततेव्द्यष्टनः सङ्ख्याया॑मिति सूत्रेऽशीतिपर्युदासादित्याशयेनोदाहरति -द्विरात्रम् गणरात्रमिति । गणानां बहूनां रात्रीणां बहूनां रात्रीणां समाहार इति विग्रहः । Padamanjari ----------- रात्राह्नाहाः पुंसि॥ इत्येते पुंसि भाष्यन्ते इति। केचिदाहुः - रात्रादीनामेवानेन पुंस्त्वं विधीयते, तदन्तस्य तु परवल्लिङ्गमित्येव सिद्धमिति। एवं तु समाहारे'स नपुसकम्' इत्येतदेव स्यात्, परवल्लिङ्गपवादत्वातस्य, तस्माद्रात्राद्यन्तस्य समासस्यैवेदं लिङ्गविधानं युक्तम्,। एवं हि समाहारेऽपि परत्वादिदमेव प्रवर्तते। इत्येते पुंसि भाष्यन्ते इत्यत्र त्वेतदन्ता इत्यर्थो द्रष्टव्यः। त्रिरात्र इति। समाहारे द्विगुः, ठहः सर्वैकदेशेऽ इत्यच् समासान्तः। पूर्वाह्ण इति। अह्नः पूर्वो भागः, एकदेशिसमासः। राजाहः सखिभ्यष्टच्ऽ,ठह्नेह्न एतेभ्यःऽ इत्यह्नादेशः, ठह्नोऽदन्तात्ऽ इति णत्वम्। द्व्यह इति।'न संख्यादेः समाहारे' इत्यह्नादेशाभावः, ठह्नष्टखोरेवऽ इति टिलोपः। अनुवाकादयः पुंसिति। वाक्यविशेषस्य ताः संज्ञाः कर्मणि घञन्ता इति नपुंसकत्वे प्राप्ते वचनम्॥ Nyaas ----- `परवल्लिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः` इति। रात्रिशब्दस्य स्त्रीलिङ्गत्वादहः शब्दस्य च नपुंसकत्वात्। `द्विरात्रः` इति। द्वयो रात्र्योः समाहारः। `तद्धितार्थ` (2.1.50) इत्यादिना समाहारे द्विगुः। `अहः सर्वैकदेशसंख्यातपुण्याच्च रात्रेः` (5.4.87) इत्यच् समासान्तः। अत्र हि `अच् प्रत्यन्ववपूर्वात् सामलोम्नः` (5.4.75) इत्यतोऽजित्यनुवर्तते। `पूर्वाह्णः` इति।र अह्नः पूर्वमिति विगृह्र `पूर्वापर` (2.2.1) इत्यादिना समासः, `राजाहःसखिभ्यष्टच्` (5.4.91) इति टच्, **अह्नोऽह्न एतेभ्यः** (5.4.88) इत्यह्नादेशः; `अह्नोऽदन्तात्` (8.4.7) इति णत्वम्। `द्वयहः` इति। पूर्ववत् समाहारे द्विगुः। पूर्ववत् टच्। **न संख्यादेः समाहारे** (5.4.89) इति प्रतिषेधावह्नदेशो न भवति। **अह्नष्टखोरेव** (6.4.145) इति टिलोपः। `अनुवाकादयः` इति। केचिदाहः - बहुव्रीहिरयम्, अनुक्रान्तो वाकोऽनयानेन वाऽनुवाकः। स्त्रीलिङ्गे नपुंसकलिङ्गे च प्राप्ते वचनम्। अन्ये च मन्यन्ते - योऽयं घञ् स सामर्थ्यात् पुंल्लिङ्गः। तस्य हि नपुंसके भावे क्तोऽपवादः, स्त्रियाञ्च क्तिन्। तेनासौ सामर्थ्यात् पुंस्यवावतिष्ठते। यस्त्वकर्तरि कारके विधीयते स पुंसि नपुंसके च वर्तते; बाधकाभावात्। स्त्रियान्तु न भवति; यतः **स्त्रियां क्तिन्** (3.3.94) इत्यकर्तरि च कारके विदीयते, स विशेषविहितो घञं बाधते। इह च वचेः **अकर्तरि च कारके संज्ञायाम्** (3.3.19) इति घञ् विहितः। अनूच्यते यत् पदं तदनुवाकः। **कुगतिप्रादयः** (2.2.18) इति समासः। अस्मिन् पक्षे नपुंसके प्राप्ते वचनम्॥ Praudhamanorama --------------- रात्राह्नाहाः पुंसि ॥ **परत्वादिति ।** यत्तु प्राचा ‘एकवद्भावात् क्लीबते’त्युक्त्वा ‘अहारात्रमि’त्युदाहृतं, तन्नेत्यवोचाम । यत्तु वदन्ति - रात्रादीनामेवाऽनेन पुंस्त्वं विधीयते । तदन्तस्य तु ‘परवल्लिङ्गम्’ इत्येव सिद्ध्यति । अत एव भिन्नविषयत्वान्न विप्रतिषेधशङ्का । एवञ्च समाहारे ‘स नपुंसकमि’त्येव भवति, परवल्लिङ्गाऽपवादत्वादि’ति । तन्न । उक्तरीत्या द्व्यहत्र्यहादावपि क्लीबत्वं स्यात् । न चेष्टाऽऽपत्तिः । प्राचाऽपि ‘द्व्यहः’ ‘त्र्यहः’ इत्युदाहृतत्वात्, आकरविरोधाच्च । अमरोऽप्याह--’ते तु त्रिंशदहोरात्र’ इति । ‘मासेन स्यादहोरात्र’ इति च । तस्मात्तदन्तस्यैवाऽयं पुंस्त्वविधिः । ‘द्वन्द्वतत्पुरुषयोरिति प्रक्रमणादिति स्थितम् । **सङ्ख्या पूर्वमिति ।** तथा च लिङ्गानुशासनसूत्रम्- ‘अपथपुण्याहौ नपुंसकौ सङ्ख्यापूर्वा रात्रिरि’ति । अमरोऽप्याह- ‘रात्रं प्राक्सङ्ख्ययाऽन्वितम्’ इति । ‘गणरात्रं निशा बह्व्यः’ इति च । पुंस्त्वाऽधिकारेऽपि’ स एवाऽऽह - ‘रात्राऽन्ताः प्रागसङ्ख्यका’ इति । एवं स्थिते ‘द्विरात्रस्त्रिरात्र’ इति वृत्तिकार-हरदत्तादिभिरुक्तं पुंस्त्वं प्रामादिकमेवेत्यवधेयम् । Prakriyasarvasvam ----------------- एतदन्ताः पुंल्लिङ्गा एव । अहःसहिता रात्रिरहोरात्रः । शाकपार्थिवादिः । अयं समाहारद्वन्द्व इति मतेऽपि पुंस्त्वमेवेति केचित् । क्लीबतेति कौमुदी । सर्वरात्रः । एकदेशे—रात्रेः पूर्वभागः पूर्वरात्रः । अपररात्रः । सङ्ख्यातरात्रः । सङ्ख्यातं परिमितम् । पुण्यरात्रः त्रिरात्रः । सङ्ख्यापूर्वस्य रात्रस्य क्लीबतेति केचित् । त्रिरात्रम् । गणरात्रम् । अव्यये-रात्रिमति क्रान्तोऽतिरात्रः ।। Vartika ------- अनुवाकादयः पुंसि । Sutra Prayogas -------------- * **दशाहतः** (रघुवंशम्): `रात्राह्राहाः पुंसि` इति पुंवत्। * **त्र्यहात्** (कुमारसम्भवम्): `रात्राह्नाहाः पुंसि` इति पुलिङ्गता। * **सर्वरात्रम्** (शिशुपालवधम्): `रात्राह्नाहाः पुंसि` इति पुंलिङ्गता।