24026: परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः ====================================== **Padacheda:** परवत् | S | 0 | 0 | लिङ्गम् | S | 1 | 1 | द्वन्द्व-तत्पुरुषयोः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The gender of द्वन्द compound or तत्-पुरुष compound is like that of the last word in it. Vasu English Translation ------------------------ The gender of द्वन्द compound or तत्-पुरुष compound is like that of the last word in it. This applies to *Itaretara* *Dvandva* or coupling by mutual conjunction कुक्कटमयूर्याविमे 'those two (fem.) the cock and the peahen' मयूरीकुक्कुटाविमौ 'those two (mas.) the peahen and the cock.' The *Samahara* *Dvandva* is always neuter. So also in *Tat*-*purusha* compound not especially mentioned in the previous aphorism : As अर्द्धपिप्पल्याः, अर्द्धपिप्पली 'half a *pippali.' अर्द्धकोशतकी. Vart:- Prohibition must be made in regard to (1) *Dvigu* compound, (2) compounds with प्राप्त, आपन्न and, अलं, and (3) compounds with *Gati* words; as, पंचकपालः '*Purodasa* prepared in five cups'; प्राप्तजीविकः (प्राप्त + जीविका) 'has obtained living,' आपन्नजीविकः, अलंजीविकः, निष्कौशाम्बिः 'gone beyond *Kausambi_.' Bhashya ------- परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (557) (347 द्वन्द्वतत्पुरुषलिङ्गानुशासनसूत्रम् ॥ 2.4.1 आ. 12) (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (समाधानभाष्यम्) द्वन्द्वोयमुभयपदार्थप्रधानः। तत्र कदाचित्पूर्वस्य यल्लिङ्गं तत्समासस्यापि स्यात्, कदाचिदुत्तरपदस्य इष्यते च परस्य यल्लिङ्गं तत्समासस्य यथा स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीति परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः इत्येवमर्थमिदमुच्यते ॥ (समाधानशेषभाष्यम्) तत्पुरुषश्चापि कः प्रयोजयति? यः पूर्वपदार्थप्रधान एकदेशिसमासः - अर्धपिप्पलीति ॥ यो ह्युत्तरपदार्थप्रधानः, दैवकृतं तस्य परवल्लिङ्गम् ॥ (अनिष्टापत्तिवारणाधिकरणम्) (1573 आक्षेपवार्तिकम् ॥ 1 ॥) - परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः - (भाष्यम्) परवल्लिङ्गं द्वन्द्वतत्पुरुषयोरिति चेत्प्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः ॥ प्राप्तो जीविकां प्राप्तजीविकः। आपन्नो जीविकामापन्नजीविकः ॥ अलंपूर्व - अलं जीविकायै अलंजीविकः ॥ गतिसमास - निष्कौसाम्बिः निर्वाराणसिः ॥ (1574 प्रतिषेधवार्तिकम् ॥ 2 ॥) - पूर्वपदस्य च - (भाष्यम्) पूर्वपदस्य च प्रतिषेधो वक्तव्यः। मयूरीकुक्कुटौ ॥ (आशयान्तरेण प्रतिषेधनवैर्यथ्यभाष्यम्) यदि पुनर्थथाजातीयकं परस्य लिङ्गं तथाजातीयकं समासादन्यदतिदिश्यते ॥ (1575 आशयान्तरदूषणवार्तिकम् ॥ 3 ॥) - समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम् - (भाष्यम्) समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टापो लुग्वक्तव्यः। अश्ववडवौ ॥ (1576 दूषणबाधकवार्तिकम् ॥ 4 ॥) - निपातनात्सिद्धम् - (भाष्यम्) निपातनात्सिद्धमेतत् ॥ किं निपातनम्? अश्ववडवपूर्वापरेति ॥ (1577 दूषणबाधकान्तरवार्तिकम् ॥ 5 ॥) - उपसर्जनह्रस्वत्वं वा - (भाष्यम्) अथ वा उपसर्जनस्य इति ह्रस्वत्वं भविष्यति ॥ (आक्षेपभाष्यम्) इहापि तर्हि प्राप्नोति - कुक्कुटमयूर्यौ इति ॥ (इष्टापत्तिभाष्यम्) अस्तु ॥ (1578 व्याख्यान्तरवार्तिकम् ॥ 6 ॥) - परवल्लिङ्गमिति शब्दशब्दार्थो - (भाष्यम्) परवल्लिङ्गमिति शब्दशब्दार्थावतिदिश्येते। तत्रौपदेशिकस्य ह्रस्वत्वम्। आतिदेशिकस्य श्रवणं भविष्यति ॥ (आक्षेपान्तरभाष्यम्) इदं तर्हि - दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये। दत्ता च गार्ग्यायणी च दत्तागार्ग्यायण्यौ। द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः ॥ (इष्टापत्तिभाष्यम्) स्ताम्। पुंवद्भावेनैकस्य निवृत्तिर्भविष्यति ॥ (आक्षेप्रभाष्यम्) इदं तर्हि - दत्ता च युवतिश्च दत्तायुवती। द्वौ तिशब्दौ प्राप्नुतः ॥ (उपसंहारभाष्यम्) तस्मान्नैतच्छक्यं वक्तुं शब्दशब्दार्थावतिदिश्येते इति ॥ (आक्षेपस्मारणभाष्यम्) ननु चोक्तं समासादन्यल्लिङ्गमिति चेदश्ववडवयोष्टाब्लुग्वचनम् इति ॥ (समाधानभाष्यम्) परिहृतमेतत् - निपातनात्सिद्धम् इति ॥ (समाधानभाष्यम्) अथ वा नैवं विज्ञायते - परस्यैव परवदिति। कथं तर्हि? परस्येव परवदिति। यथाजातीयकं परस्य लिङ्गं तथाजातीयकं समासस्यातिदिश्यते। अथ पूर्वपदस्य न प्रतिषिध्यते ॥ (आक्षेपभाष्यम्) प्राप्तादिषु कथम्? (1579 समाधानवार्तिकदम् ॥ 7 ॥) - प्राप्तादिषु चैकदेशिग्रहणात्सिद्धम् - (भाष्यम्) द्वन्द्वैकदेशिनोः इति वक्ष्यामि ॥ (आक्षेपभाष्यम्) तदेकदेशिग्रहणं कर्तव्यम्? (समाधानभाष्यम्) न कर्तव्यम्। एकदेशिसमासो नारभ्यते ॥ (आक्षेपभाष्यम्) कथमर्धपिप्पलीति? (समाधानभाष्यम्) समानाधिकरणो भविष्यति - अर्धं च सा पिप्पली च अर्धपिप्पलीति ॥ (समाधानबाधकभाष्यम्) न सिध्यति। परत्वात्षष्ठीसमासः प्राप्नोति ॥ (षष्ठीसमासासंभवभाष्यम्) अद्य पुनरयमेकदेशिसमास आरभ्यमाणः षष्ठीसमासं बाधते ॥ (षष्ठीसमासेष्टापत्तिभाष्यम्) इष्यते च षष्ठीसमासोपि। तद्यथा - अपूपार्धं मया भक्षितं ग्रामार्थं मया लब्धमिति। एवं पिप्पल्यर्धमित्यपि भवितव्यम् ॥ (आक्षेपभाष्यम्) कथमर्धपिप्पलीति? (समाधानभाष्यम्) समानाधिकरणो भविष्यति ॥ परवल्लिङ्गम् ॥ 26 ॥ Kashika ------- समाहारद्वन्द्वे नपुंसकलिङ्गस्य विहितत्वाद् इतरेतरयोगद्वन्द्वस्येदं ग्रहणम्। परस्य यल्लिङ्गं तद् भवति द्वन्द्वस्य तत्पुरुषस्य च। उत्तरपदलिङ्गं द्वन्द्वतत्पुरुषयोर्विधीयते। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। तत्पुरुषस्य — अर्धं पिप्पल्याः, अर्धपिप्पली। अर्धकोशातकी अर्धनखरञ्जनी॥ द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः॥ द्विगुः — पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः। प्राप्तो जीविकाम्, प्राप्तजीविकः। आपन्नो जीविकाम्, आपन्नजीविकः। अलं जीविकायै, अलंजीविकः। गतिसमासः — निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः॥ Siddhanta Kaumudi ----------------- एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । (वार्तिकम्) ॥ पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः । अत एव ज्ञापकात्समासः । निष्कौशाम्बिः ॥ Laghu Siddhanta Kaumudi ----------------------- एतयोः परपदस्येव लिङ्गं स्यात्। कुक्कुटमयूर्याविमे। मयूरीकुक्कुटाविमौ। **द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः** (परिभाषा) । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः॥ Balamanorama ------------ **परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः** - परवल्लिङ्गं ।परहव॑दिति षष्ठन्ताद्वतिः । तदाह — एतयोः परपदस्येवेति । द्व्न्द्वपदमत्र इतरेतरयोगद्वन्द्वपरं, समाहाद्वन्द्वेस नपुंसक॑मित्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति । अत्र द्वन्द्वे अवयवलिङ्गनाऽनियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति । 'अर्धं नपुंसकम्' इति तत्पुरुषः । अस्यैकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदलिङ्गे प्राप्ते उत्तरपदलिङ्गार्थं विधिः । अत्रद्वन्द्वतत्पुरुषयोः॑ इति षष्ठन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवंचकुक्कुटमयूर्याविमे॑ इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति । 'द्विगु' 'प्राप्त' 'आपन्न' 'अलंपूर्व'गतिसमास॑-एतेषु परवल्लिङ्गस्य प्रतिषेधो वक्तव्यः इत्यर्थः । पञ्चस्विति । उत्तरपदस्य नपुंसकत्वात्समासस्य नपुंसकत्वं प्राप्तं, न भवति, किन्तु विशेष्यलिङ्गमेव प्राप्तजीविक इति । अत्रोत्तरपदस्य जीविकाशब्दस्य यल्लिङ्गं तत्समासस्य न भवति । अलंपूर्वस्योदाहरति — अलंकुमारिरिति । अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाऽभावान्न चतुर्थीसमासः ।पर्यादयो ग्लानाद्यर्थे॑ इत्यपि न भवति, तस्य समासस्य नित्यत्वेन 'अलं कुमार्यै' इति भाष्ये विग्रहप्रदर्शनानुपपत्तेरित्यत आह — अत एवेति ।एकविभक्ति चे॑ति कुमारीशब्दस्योपसर्जनत्वाद्ध्रस्वः । गतिसमासमुदाहरति — निष्कौशाम्बिरिति । अत्र कौशाम्बीशब्दलिङ्गं समासस्य न भवति । यद्यपि निरादिसमास एवायं, न तु गतिसमासः, प्रादिग्रहणमगत्यर्थमित्युक्तेः, तथापि गतिसमासग्रहणं प्रादिसमासोपलक्षणमित्याशयः । Tattvabodhini ------------- **परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः** - परवल्लिङ्गम् । इतरेतरयोगे द्वन्द्वोऽत्र गृह्रते न समाहारे द्वन्द्वः,स नपुंसक॑मित्यपवादस्य वक्ष्यमाणत्वात् । सूत्रेद्वन्द्वतत्पूरुषयो॑रिति न सप्तमीद्विवचनम्, तथात्वे द्वन्द्वे तत्पुरुषे च यत्परपदं तद्वल्लिङ्गं पूर्वपदस्यातिदिश्येत, परपदस्य संबन्धिशब्दत्वेन पूर्वंपदाक्षेपकत्वात्, ततश्च मयूरी कुक्कुटावित्यत्र पूर्वपदे ईकारनिवृत्तिप्रसङ्गः । कुक्कुटमयूर्यौ, अद्र्धपिप्पलीत्यादौ तु पूर्वपदे स्त्रीप्रत्यय उत्पद्येत । किं तु षष्ठीद्विवचनमित्याशयेनाह — एतयोरिति । द्वन्द्वतत्पुरुषार्थयोरित्यर्थः । एवं चानुप्रयोगेऽपि तदेव लिङ्गं सिद्धम् । उपमेये षष्ठभ्युपगमाद्वतिरपि षष्ठन्तादेवेत्याशयेनाह — परपदस्येवेति । भाष्ये तुलिङ्गमशिष्यं, लोकाश्रयत्वाल्लिङ्गस्ये॑ति प्रत्याख्यातमिदं सूत्रम् । अस्मश्च प्रत्याख्याने तुल्यन्यायत्वाल्लिङ्गनुशासनं सर्वमेव प्रत्याख्यातं, तथापि तत्प्रौढिवादमात्रम् । अन्यथा व्याकरणस्यैव वैयथ्र्याप्रसङ्गात् ।द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः । गतिसमासेष्विति । गतिग्रहणं प्रादीनामुपलक्षणं प्रादीनामुलक्षणं, मुख्यस्य गतेरसंभवादित्याशयेनोदाहरति -निष्कौशाम्बिरिति । अतन्त्रमिति । अत्र च लिङ्गंपूर्वव॑द्ग्रहणम् । अन्यथा निपातनादेव सिद्धे किं तेनेति भावः । इह समासार्थस्य वा पूर्ववल्लिङ्गातिदेशः, उत्तरपदार्थस्य वा, उभयथाप्यआवडवौ शोभनावित्यनुप्रयोगेऽपि पुंस्त्वं सिध्यति । ननु समासार्थस्य पुंस्त्वेऽपि स्वाश्रयस्त्रीत्वस्याऽनिवर्तनाट्टापः श्रवणप्रसङ्गः । न चातिदेशवैयथ्र्यं, शसि नत्वप्रवृत्त्या, अनुप्रयोगे पुंलिङ्गत्वलाभेन च तत्सार्थक्यादिति चेदत्राहुः — इहैव निपातनात्,अआवडवपूर्वापराधरोत्तराणा॑मित्यत्र निपातनाद्वा टापो निवृत्तिरिति । Padamanjari ----------- परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः॥ किमर्थमिदम्? इह द्वन्द्वे त्रीणि दर्शनानिअवयवार्था एवापेक्षितपरस्पराः द्वन्द्वार्थो न तु तद्व्यतिरिक्तः समुदायो नामेत्येकम्; अवयवार्थव्यतिरिक्त एव समुदायो द्वन्द्वर्थः, स चावयवलिङ्गेन लिङ्गवानिति द्वितीयम्; स एव स्वयं लिङ्गशून्य इति तृतीयम्। तत्र पूर्वके दर्शनद्वये विभिन्न लिङ्गावयवद्वन्द्वे युगपदुभयलिङ्गतानुपपतेः पर्यायेण लिङ्गद्वयप्रसङ्गे परस्यैव लिङ्गं भवतीति नियमार्थ भवति। तृतीये तु समासार्थस्यालिङ्गस्य परवल्लिङ्गता भवतीति विध्यर्थः। तत्पुरुषोऽपि द्विविधः - पूर्वपदार्थप्रधानोऽर्धपिप्पाल्यादिः; उतरपदार्थप्रधानो राजकुमार्यादिः। तत्रोतरपदार्थप्रधाने प्राधान्यादेव परवल्लिङ्गस्य सिद्धत्वात्पूर्वपदार्थप्रधाने विध्यर्थ भवति। तत्र वृत्तिकारेण विधिपक्ष आश्रितस्तदाह - परस्य यल्लिङ्गं तद्भवतीति। एवं हि सूत्रस्यैकरूपा वचनव्यक्तिर्भवति, इतरथा तत्पुरुषे विधिरूपा द्वन्द्वे नियमरूपेति वचनव्यक्तिभेदः स्यादिति भावः। द्वन्द्वस्य तत्पुरुषस्य वेति। एतेन द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति। सप्तम्यां त्वयमर्थो भवति - द्वन्द्वे तत्पुरुषे च यत्परं तद्वल्लङ्गिं भवतीति। तत्र कार्यिणोऽनुपादानात्परशब्दत्वातदाक्षिप्तस्य पूर्वपदस्य लिङ्गविधिर्भवति। यद्वा - द्वन्द्वे तत्पुरुषे च विषये परस्यैव लिङ्गं भवतीत्यक्षरार्थः। तत्रापि पूर्वपदस्यैव लिङ्गविधिः। अत्र पक्षे मयूरीकुक्कुटावित्यत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे स्त्रीप्रत्ययस्य निवृत्तिः प्राप्नोति; कुक्कुटमयूर्यौ, राजकुमारी, अर्द्धपिप्पलीत्यादौ पूर्वपदे स्त्रीप्रत्ययप्रसङ्गः। कि पुनरस्मिन्पक्षे किंचिदिष्ट्ंअ सिध्यति? आहोस्विद्दोषान्तमेव? सिध्यतीत्याह। इह पूर्वकायः अर्धद्रोण इति, यत्र पूर्वपदं नपुंसकमुतरपदं च पुंल्लिङ्गम्, तत्र परस्य लिङ्गे पूर्वस्यातिदिष्टे समासस्यापि तदेव भवति, न च पूर्ववदिह किंचिदनिष्टमापद्यते। द्वन्द्वेऽपि पूर्वके दर्शनद्वये गुणकर्मणी द्रव्यगुणावित्यादौ यत्र पुंनपुंसकाभ्यां भिन्नलिङ्गे पूर्वोतरपदे, यत्र वाऽवर्णान्तं स्त्रीप्रत्ययान्तं वा पदं न भवति - गतिस्थाने, योषित्पूरुषौ, तितिरिबलाके इति, तत्रोतरपदार्थलिङ्गे पूर्वपदार्थस्यातिदिष्टे द्वन्द्वस्य पर्यायेण द्वयोरपि लिङ्गे प्रवृतेऽपि सर्वमिष्ट्ंअ सिध्यति, पूर्ववदेव न किं ञ्चिदनिष्टमापद्यते।'व्यतिरिक्तो द्वन्द्वार्थः स्वयं लिङ्गशून्यः' इत्यत्र तु पक्षे द्वन्द्वार्थस्यालिङ्गत्वं तदवस्थमेवेत दोषान्तिमेव। द्वन्द्वस्य तत्पुरुषस्य चेति। द्वन्द्वार्थस्य तत्पुरुषार्थस्य चेत्यर्थः। तेनानुप्रयोगेऽपि तदेवं लिङ्गं भवति। यदि तर्हि षष्ठ।लश्रयणेन समासार्थस्य परवल्लिङ्गमतिदिश्यते,'पूर्ववदश्ववडवौ' इत्यत्रापि पूर्वपदार्थलिङ्गं समासार्थेऽतिदिश्यते, ततश्चोतरपदार्थस्य स्त्रीत्वं स्थितमेवेति टापः श्रवणप्रसङ्गः। सप्तमीपक्षे तु'पूर्ववदश्ववडवौ' इत्यत्रापि पूर्वपदार्थलिङ्गमुतरपदार्थस्यातिदिश्यत इति वडवाशब्दस्य पुंस्त्वातिदेशात् स्त्रीत्वाभावे टापोनिवृत्तिः सिध्यति। निपातनात्सिद्धम्। किं निपातनम्? न तावत्'पूर्ववदश्ववडवौ' इति निपातनमाश्रयितुमुचितम्, वचनान्तरेऽनतिदेशप्रसङ्गाद् अश्ववडवान्, अश्ववडवैरिति। एवं तर्ह्यश्ववडवपूर्वापराधरोतराणामित्यत्र टापोऽनुच्चारणान्निपातानादश्ववडवयोर्द्वन्द्वे टाब्निवर्तिष्यते। अपर आह -'चार्थे द्वन्द्वः' इत्यत्रानेकमित्यधिकारात्सर्वेषामेव वर्तिपदार्थष्यति। इहापि तर्हि प्राप्नोति - कुक्कुटमयूर्याविति? अस्तु, का रूपसिद्धिः? परवल्लिङ्कमिति शब्दशब्दार्थो, कोऽर्थः? लिङ्गशब्देन लिङ्गाभिधायी प्रत्ययोऽर्थश्चतन्त्रेणैकशेषेण वाच्यते। तदयमर्थो भवति - द्वन्द्वार्थस्य तत्पुरुषार्थस्य परस्येव लिङ्गं भवति, तदभिधायी प्रत्ययश्च परस्यैव भवति ताभ्यामिति। तत्र च यत्र द्रव्यगुणौ गुणकर्मणी - अर्द्धद्रोण इत्यादौ, लिङ्गाभिधायी प्रत्ययो न संभवति तत्रार्थ एवातिदिश्यते, उभयसम्भवे तूभयम् - यथा कुक्कुटमयूर्याविति, ततश्चौपदेशिकस्य ह्रस्वत्वेऽप्यातिदेशिकस्य श्रवणं भविष्यति; तस्य चानुपसर्जनत्वातदन्तस्य चाप्रातिपदिकत्वात्पुनर्ह्रस्वत्वाभावः। इह तर्हि दतागार्ग्यायण्यौ, दताकारीषगन्ध्ये इति ह्रस्वत्वे कृते समासात्पुनः ष्फष्यङै प्राप्नुतः? स्ताम्,'भस्या' ढेअ तद्धितेऽ इति पूर्वोत्पन्नयोर्निवृत्तिर्भविष्यति। यत्र तर्हि पुंवद्भावो नास्ति अभत्वाद्, यथा - दता च युवतिश्च दतायुवती इति, तत्र द्वयोः स्त्रीप्रत्यययोः श्रवणप्रसङ्गः, तस्मादुपसर्जनह्रस्वत्वं द्वन्द्वे न भवति। अन्वर्था ह्युपसर्जनसंज्ञाऽप्रधानस्य विधीयते, द्वन्द्वे चावयवार्थानामेव कार्यान्वयादप्राधान्याभावः। परवल्लिङ्गमिति चार्थ एवातिदिश्यते, अश्ववडवाविति च निपातनादित्येतदेव सम्प्रति। द्विगुप्राप्तापन्नेत्यादि। स तर्हि प्रतिषेधो वक्तव्यः? न वक्तव्यः, तत्पुरुषग्रहणं न करिष्यते, परवल्लिङ्गं द्वन्द्वस्येत्येव। कथं पूर्वकायः, अर्धपिप्पलीति? एकदेशिसमासो नारप्स्यते, कर्मधारय एवात्र भविष्यति - पूर्वश्चासौ कायश्च, अर्धं चासौ पिप्पली चेति। पूर्वादयः शब्दा एकदेशे वर्तन्ते, कायादयस्तु समुदाये, कथमेषां सामानाधिकरण्यम्? अवयवेन समुदायोपचारात्। तदेवं कर्मधारये कृते प्राधान्यादेवोतरपदार्थस्य लिङ्गं भविष्यति, नार्थस्तत्पुरुषग्रहणेन, नाप्येकदेशिसमासेन षष्ठीसमासप्रङ्गः इति चेन्न; इष्टत्वादनभिधानाच्च। तत्रैत्स्यात् - यद्यपि पूर्वकाय इत्यादीति रूपाणि कर्मधारयेणापि सिध्यन्ति, तथापि मुख्यार्थवृत्तिषु कायादिशब्देषु यथा पूर्वं कायस्येत्येवमादि वाक्यं भवति, तथा कायपूर्व इत्यादि षष्ठीसमासोऽपि स्याद्, अतस्तन्निवृतये एकदेशिसमास आरब्ध इति? तच्च नैवम्; इष्टत्वादनभिधानाच्च। तत्र तावद्'द्वितीयतृतीय' इत्यत्रान्यतरस्यांप्रहणात्सूत्रकारस्य षष्ठीसमास इष्टः - भिक्षाद्वितीयमिति, ठर्द्धं नपुंसकम्ऽ इत्यत्रापि भाष्यकार आह - ठिष्यतेऽत्र षष्ठी समासोऽपि, तद्यथा - अपूपार्धं मया भक्षितम्ऽ इति। अस्ति च पैङ्गलेसूत्रे प्रयोगः - स्वरार्धं चार्यार्धमिति। पूर्वापरेत्यत्र त्वनभिधानात् षष्ठीसमासो न भविष्यति॥ Nyaas ----- किमर्थमिदम्? इहायं द्वन्द्वः सर्पवदार्थप्रधानः, स यदा भिन्नलिङ्गावयवो भवति तदा पूर्वोत्तरयोः पदयोर्भिन्नलिङ्गयोरनुग्राहकमेकं लिङ्गं नास्ति येन समुदायो व्यपदिश्यते। उभाभ्याञ्च युगपदसम्भवादशक्यो व्यपदेशः कर्तृम्। अतः पर्यायः स्यादिति द्वन्द्वे नियमार्थं वचनम्। तत्पुरुषोऽपि द्विविधः - पूर्वपदार्थप्रधानः, उत्तरपदार्थप्रधानश्चेति। ततो य उत्तरपदार्थप्रधानस्तत्पुरुषस्तस्य प्रधानत्वादेव परस्य यल्लिङ्गं तत्समुदायस्य भविष्यतीति तं प्रत्यनर्थकं वचनम्। यस्तु पूर्वपदार्थप्रधानस्तस्य पूर्वपदस्य यल्लिङ्गं तस्मिन् प्रसक्त उत्तरपदस्य यल्लिङ्गं तद्विधीयत इति तत्र विध्यर्थमेतद्भवति। `द्वन्द्वस्य तत्पुरुषस्य च` इति। द्वन्द्वतत्पुरुषयोरिति षष्ठीयमिति दर्शयति, न सप्तमी। यदीयं सप्तमी स्यात् तदा द्वन्द्वे तत्पुरुषे च यत् परं तदीयं लिङ्गं पूर्वपदस्य आपद्येत; परशब्दस्य सम्बन्धिशब्दत्वात्। तथा च मयूरीकुक्कुटावित्यत्र पूर्वपदस्य स्त्रीप्रत्ययो निवर्तेत, तत्पुरुषेऽप्यर्धपिप्पलीत्यत्र पूर्वपदस्यापि स्त्रीप्रत्ययः स्यात्; तस्मात् षष्ठीयम्। तथा च सति समासार्थस्यायमतिदेशो विज्ञायते। पूर्वपदस्य न प्रतिषिध्यते; नापि विधीयत इति न भवति पूर्वोक्तदोषावसरप्रसङ्गः। समासार्थस्य लिङ्गातिदेशादनुप्रयोगोऽपि समासार्थस्यैव विशेषणमिति तल्लिङ्गमेव भवति। कुक्कुटमयूर्याविमे` इति। उपसर्जनह्रस्वत्वं न भवति, उपसर्जनसंज्ञाया अभावात्। उक्तं ह्येतत् प्राक् - `उपसर्जनमिति महत्याः संज्ञायाः प्रयोजनमन्वर्थसंज्ञा यथा विज्ञायेत - अप्रधानमुपसर्जनम्` इति। द्वन्द्वश्च सर्वपदार्थप्रधान इति नास्त्युपसर्जनसंज्ञा। अर्धपिप्पलीत्यादावपि सत्येकविभक्तियोगे यथा पिप्पल्यादेरुपसर्जनसंज्ञा न भवति, तथोपसर्जनसंज्ञाविधावेव तत्प्रतिपादितम्। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - **तत्पुरुषः** (2.1.22) इत्यनुवर्तमाने पुनस्तत्पुरुषग्रहणस्यैतत् प्रयोजनम् - तत्पुरुषविशेषस्य परवल्लिङ्गता यथा स्यादिति। तेन द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु परवल्लिङ्गता न भवति; अन्यथा यदि सर्वस्येयं तत्पुरुषस्य परवल्लिङ्गता स्यात् तदा `परवल्लिङ्गं द्वन्द्वस्य च` इत्येवं ब्रूयात्। चकाराद्धि प्रकृतस्य तत्पुरुषस्येति विज्ञास्यत एवेति। `पञ्चकपालः` इति। तद्धितार्थे द्विगुः। संस्कृतार्थ उत्पन्नस्याणः **द्विगोर्लुगनपत्ये** (4.1.88) इति लुक्। `प्राप्तजीविकः` इति। प्राप्तापन्ने च द्वितीयया` (2.2.4) इति समासः। `अलञ्जीविकः` इति। `पर्यादयो ग्लानाद्यर्थे चतुर्थ्या (वा। 93) इति समासः। निष्कौशाम्बिः` इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।94) इति॥ Prakriyasarvasvam ----------------- द्वन्द्वे तत्पुरुषे च उत्तरपदवल्लिङ्गं स्यात् । राधापतिः । कृष्णगोप्यौ । 'प्राप्तापन्नालंपूर्वप्रादिसमासेषु नेति वाच्यम्' । प्राप्तो राधां प्राप्तराधः । आपन्नयमुनः । अलंतरुणिः । अतिमायः ॥ Vartika ------- द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वक्तव्यः । Sutra Prayogas -------------- * **अतीन्द्रियेषु** (रघुवंशम्): `द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधात्` इति वार्त्तिकवचनात् विशेष्यनिघ्नत्वम्। * **राज्य-धुरां** (भट्टिकाव्यम्): `परवल्लिङ्गं` इति धूरिति स्त्रीलिङ्गम्।