24022: छाया बाहुल्ये ==================== **Padacheda:** छाया | S | 1 | 1 | बाहुल्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A तत्-पुरुष compound ending with the word छाया 'shadow' in neuter in gender when the sense is that of profuseness of the thing indicated by the first term. Vasu English Translation ------------------------ A तत्-पुरुष compound ending with the word छाया 'shadow' in neuter in gender when the sense is that of profuseness of the thing indicated by the first term. Thus, शलभछायम् 'A crowd of locusts darkening the sky.' इक्षुछायम् 'the sugarcane shade i. e., groves of sugarcane,' Otherwise, कुड्यच्छाया 'the shadow of a wall.' (6.2.14), accent.) The *sutra* (2.4. 25) gives optional neuter; this rule enjoins invariable neuter when *chhaya* has the sense of profuseness. Kashika ------- **विभाषा सेनासुराच्छाया०** (२.४.२५) इति विभाषां वक्ष्यति, नित्यार्थमिदं वचनम्। छायान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मो बाहुल्यम्। शलभादीनां हि बहुत्वं गम्यते। शलभच्छायम्। इक्षुच्छायम्। बाहुल्य इति किम्? कुड्यच्छाया॥ Siddhanta Kaumudi ----------------- छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । विभाषासेना - (SK828) इति विकल्पस्यायमपवादः । इक्षुच्छायानिषादिन्यः इति तु आ समन्तान्निषादिन्य इत्याङ्श्लेषो बोध्यः ॥ Balamanorama ------------ **छाया बाहुल्ये** - छाया बाहुल्ये । छायया तत्पुरुषस्य विशेषणात्तदन्तविधिमभिप्रेत्याह — छायान्त इति । पूर्वपदार्थेति । कस्य बाहुल्ये इत्याकाङ्क्षायामापादकद्रव्यनिमित्तकत्वाच्छायायास्तद्बाहुल्ये इति गम्यते । तच्चापादकद्रव्यमर्थात्पूर्वपदार्थभूतमिति भावः । बाहुल्ये किम् । कुडस्य छाया कुडच्छाया । Tattvabodhini ------------- **छाया बाहुल्ये** - छाया बाहुल्ये । बाहुल्ये सति या छाया तद्वाची यश्छायान्तस्तत्पुरुष इत्यर्थः । इह कस्य बाहुल्य इत्यपेक्षायामावरकद्रव्यनिमित्तत्वाच्छायायास्तद्बाहुल्यैति गम्यते । तच्चावरकं पूरीवपदार्थभूतमेवेत्याशयेनाह -पूर्वपदार्थबाहुल्ये इति । पूर्वपदार्थबाहल्ये किम् । कुडस्य छाया कुडछाया । प्रश्लेषो बोध्य इति । केचित्तु — ॒इक्षुच्छायनिषादिन्यः॑इत्येवं पठन्ति । Padamanjari ----------- छाया बाहुल्ये॥ पूर्वपदार्थधर्मो बाहुल्यमिति। कथम्? बाहुल्य इति निमितसप्तमी। बाहुल्ये सति या छाया तद्वाची यश्छायाशब्दस्तदन्तस्तत्पुरुष इति सूत्रेऽक्षरान्वयः। तत्र कस्य बाहुल्यमित्यपेक्षायामावारकरद्रव्यनिमितकत्वाच्छायायास्तद्वाहुल्य इति गम्यते। तेन यानि बहूनि सम्भूयोपलम्भयोग्यामुपजीव्यां वा छायामारभन्ते तेष्वयं विधिः॥ Nyaas ----- `पूर्वपदार्थधर्मो बाहुल्यम्` इति। अत्र हेतुमाह - `शलभादीनाम्ित्यादि। शळभादीनां बहुत्वं शलभच्छायमित्यादौ हि गम्यते, न हि तेन विना छाया सम्भवति। अतः पूर्वपदार्थस्य शलभादेर्बाहुल्यं धर्मः॥ Prakriyasarvasvam ----------------- छायान्तस्तत्पुरुषश्छायावतां बाहुल्ये सति क्लीबम् । बहूनां गृध्राणां छाया गृध्रच्छायम् । रत्नच्छायम् । आयुधच्छायमिति आयुधबाहुल्यमेवेति शङ्करः ॥ Sutra Prayogas -------------- * **इक्षुच्छायनिषादिन्यः** (रघुवंशम्): `छाया बाहुल्ये` इति नपुंसकत्वम्। * **ध्वजच्छायनिवारितोष्णम्** (रघुवंशम्): `छाया बाहुल्ये` इति नपुंसकत्वम्। * **गृध्रच्छाये** (रघुवंशम्): `छाया बाहुल्ये` इति क्लीबत्वम्। * **संतानकतरुच्छायासुप्तविद्याधराध्वगम्** (कुमारसम्भवम्): `छाया बाहुल्ये` इति नपुंसकत्वं नास्तीत्यनुसंधेयम्। * **शिलीमुखच्छायवृताम्** (किरातार्जुनीयम्): `छाया बाहुल्ये` इति नपुंसकत्वम्। * **** (भट्टिकाव्यम्): `छाया - बाहुल्ये` इति नपुंसकत्वे ह्रस्वत्वम् ।