24019: तत्पुरुषोऽनञ् कर्मधारयः ============================== **Padacheda:** तत्पुरुषः | S | 1 | 1 | अ-नञ् | S | 1 | 1 | कर्मधारयः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A तत्-पुरुष compound, with the exception of that which is formed by the particle नञ् , and or the कर्मधारय compound, becomes neuter gender, in the cases explained in the following sūtras. Vasu English Translation ------------------------ A तत्-पुरुष compound, with the exception of that which is formed by the particle नञ् , and or the कर्मधारय compound, becomes neuter gender, in the cases explained in the following sūtras. This is a governing *sutra* and regulates the sense of the succeeding aphorisms which show when a *Tat*-*purusha* may be neuter. Thus, ब्राह्मणसेनम् or ना (2.4.25); but दृढसेनो राजा (the compound not being *Tat*-*purusha*); असेना (it being a compound with नञ् = अ); and परमसेना (it being *Karmadharaya*). Bhashya ------- तत्पुरुषोऽनञ्ञ्कर्मधारयः (550) (अथ लिङ्गानुशासनप्रकरणम्) (346 नपुंसकत्वसूत्रम् ॥ 2.4.1 आ.11) (सूत्रप्रयोजनाधिकरणम्) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते? (एकदेशिसमाधानभाष्यम्) संज्ञायां कन्थोशीनरेषु इति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा माभूदिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। नहि संज्ञायां कन्थात उशीनरेष्वतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥ (समाधानभाष्यम्) उत्तरार्थं तर्हि - उपज्ञोपक्रमं तदाद्याचिख्यासायाम् इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। नहि तदाद्याचिख्यासायामुपज्ञोपक्रमान्तोऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥ (समाधानभाष्यम्) उत्तरर्थमेव तर्हि - छाया बाहुल्ये इति वक्ष्यति, तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। नहि च्छायान्तो बाहुल्येऽतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥ (समाधानभाष्यम्) उत्तरर्थमेव तर्हि सभा राजाऽमनुष्यपूर्वा अशालाचेति वक्ष्यति। तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥ (समाधानबाधकभाष्यम्) एतदपि नास्ति प्रयोजनम्। नहि सभान्तोऽशालायामतत्पुरुषो नञ्समासः कर्मधारयो वास्ति ॥ (समाधानभाष्यम्) इदं तर्हि विभाषा सेनासुरा - इति वक्ष्यति तदतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूदिति ॥ (आक्षेपभाष्यम्) तत्पुरुष इति किमर्थम्? (समाधानभाष्यम्) दृढसेनो राजा ॥ (आक्षेपभाष्यम्) अनञिति किमर्थम्? (समाधानभाष्यम्) असेना ॥ (आक्षेपभाष्यम्) अकर्मधारय इति किमर्थम्? (समाधानभाष्यम्) परमसेना। उत्तमसेना ॥ तत्पुरुदृ ॥ 19 ॥ Kashika ------- अधिकारोऽयमुत्तरसूत्रेषूपतिष्ठते। नञ्समासं कर्मधारयं च वर्जयित्वान्यस्तत्पुरुषो नपुंसकलिङ्गो भवतीत्येतदधिकृतं वेदितव्यं यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र। वक्ष्यति — **विभाषा सेनासुरा०** (२.४.२५) इति — ब्राह्मणसेनम्, ब्राह्मणसेना। तत्पुरुष इति किम्? दृढसेनो राजा। अनञिति किम्? असेना। अकर्मधारय इति किम्? परमसेना॥ Siddhanta Kaumudi ----------------- अधिकारोऽयम् ॥ Balamanorama ------------ **तत्पुरुषोऽनञ् कर्मधारयः** - तत्पुरुषोऽनञ । नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह — अधिकारोऽयमिति ।परवल्लिङ्गमित्यतः प्रा॑गिति शेषः । Tattvabodhini ------------- **तत्पुरुषोऽनञ् कर्मधारयः** - तत्पुरुषोऽनञ् । नञ्समासकर्मधारयभिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभाग्भवतीति सूत्रार्थः । Padamanjari ----------- तत्पुरुषोऽनञ्कर्मधारयः॥ असन्देहार्थं नञ्कर्मधारयस्तत्पुरुष इत्यन्यासादनञ्कर्मधारय इति पदच्छेदः। अत्र कर्मधारयशब्दो भावप्रधानः, नञ्च कर्मधारयश्च नञ्कर्मधारयौ, तौ न विद्येते यस्मिंस्तत्पुरुषे सोऽनञ्कर्मधारय इति बहुव्रीहिः। तत्पुरुषे त्वस्मिन्नञ्मात्रस्य तत्पुरुषस्याभावातद्यौक्ततत्पुरुषो नञ्शब्देन लक्षणोयः स्यात्, लिङ्गवचनयोश्चान्यतरस्य व्यत्ययो वाच्यः स्यात्, अतो बहुव्रीहिरेव न्याय्यः। वृतौ वस्तुमात्रं दर्शितम् - नञ्समासं कर्मधारयं च वर्जयित्वेति। विभाषा सेनेति। अनन्तरेषु सूत्रेष्वस्य नातीवोपयोगः,'सञ्ज्ञायां कन्था' इत्यत्र तावदनादिः सञ्ज्ञा गृह्यते, न वा तत्पुरुषो नञ्समासः कर्मधारयो वा उशीनरेषु सञ्ज्ञास्ति, उपज्ञोपक्रममित्यत्रापि षष्ठीतत्पुरुषाद्विना तदादित्वासम्प्रत्ययः।'छाया बाहुल्ये' इत्यत्रापि पूर्वपदार्थधर्मो बाहुल्यं षष्ठीतत्पुरुषमन्तरेण न गम्यते। सभाराजेत्यत्र तु राजाऽमनुष्यपूर्वेति वचनान्नञ्समासस्य कर्मधारयस्य च सभान्तस्याप्रसङ्गः। द्वन्द्वस्य तु प्राप्नोति - ईश्वरश्च सभा च ईश्वरसभे इति, अतस्तत्रापि तत्पुरुष इत्यस्यांशस्योपयोगोऽस्त्येव। ठशाला चऽ इत्यत्र समूहवचनः सभाशब्दः, समूहस्य च समूह्यपेक्षा स्फुटतरेति षष्ठी तत्पुरुषस्यैव भविष्यति, नान्यस्य, ब्राह्मणश्च सभा च ब्राह्मणसभे, असभा, परमसभेति। अतः'विभाषासेना' इत्यत्रैवास्य साक्षादुपयोग इति भावः॥ Prakriyasarvasvam ----------------- नञ् कर्मधारयवर्जितस्तत्पुरुषः ऊर्ध्वं लिङ्गविधिश्वधिक्रियते ।