24018: अव्ययीभावश्च =================== **Padacheda:** अव्ययीभावः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- An अव्ययीभाव -- अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु (2.1.6), compound is also neuter gender. Vasu English Translation ------------------------ An अव्ययीभाव -- अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु (2.1.6), compound is also neuter gender. Thus, अधिस्त्रि 'pertaining to a woman;' so also, उपकुमारि, उन्मत्तगंगम् &c. But for this rule, an *Avyayibhava* compound would have been either without any gender, if gender were to be regulated by its first member, which is generally an indeclinable, and which is the principal member in the compound; or it would have taken the gender of its subsequent member, like other compounds in which the last member is principal. The force of च is to include cases not mentioned already. Vart:- Neuter gender is employed after the word अह्न preceded by पुण्य or सुदिन; as पुण्याहम् 'sacred day'; सुदिनाहम् 'lucky day.' Vart:- The word पथ is neuter when compounded with a numeral or an *Avyaya*; as त्रिपथम्, चतुष्पथम्, विपथम्, सुपथम्. Vart:- Adverbs, qualifying verbs, are put in the neuter gender and accusative case; as मृदु पचति 'he cooks mildly,' शोभनं पचति 'he cooks well.' Kashika ------- अव्ययीभावश्च समासो नपुंसकलिङ्गो भवति। अधिस्त्रि। उपकुमारि। उन्मत्तगङ्गम्। लोहितगङ्गम्। पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता, अन्यपदार्थप्रधानस्याभिधेयवल्लिङ्गता, अत इदमुच्यते। अनुक्तसमुच्चयार्थश्चकारः॥ पुण्यसुदिनाभ्यामह्नः क्लीबतेष्यते॥ पुण्याहम्। सुदिनाहम्॥ पथः संख्याव्ययादेः क्लीबतेष्यते॥ त्रिपथम्। चतुष्पथम्। विपथम्। सुपथम्॥ क्रियाविशेषणानां च क्लीबतेष्यते॥ मृदु पचति। शोभनं पचति॥ Siddhanta Kaumudi ----------------- अयं नपुंसकं स्यात् ॥ ह्रस्वो नपुंसके प्रातिपदिकस्य (SK318) । गोपायतीतीति गाः पातीति वा गोपाः । तस्मिन्नित्यधिगोपम् । समीपे । कृष्णस्य समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु नाव्ययीभावः ॥ (वार्तिकम्) ॥ अन्यारात् (SK595) इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सुमद्रम् । यवनानां व्यृद्धिर्दुर्यवनम् । विगता ऋद्धिव्यृद्धिः । मक्षिकाणामभावो निर्मक्षिकम् । हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यतिनिद्रम् । हरिशब्दस्य प्रकाश इति हरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः । ततः पश्चात्स्रंस्यते इति भाष्यप्रयोगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः । अनुरूपम् । रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति । हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे ॥ Laghu Siddhanta Kaumudi ----------------------- अयं नपुंसकं स्यात्॥ Balamanorama ------------ **अव्ययीभावश्च** - अव्ययीभावश्च । अयं नपुंसकमिति ।स नपुंसक॑मित्यतस्तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह-ह्रस्वो नपुंसक इति । गोपायतीति । रक्षतीत्यर्थः ।गुपू रक्षणे॑विच् ।आयादय आर्धधातुके वा॑ इत्यायप्रत्ययः । 'लोपो व्योः' इति यलोपः ।वेरपृक्तस्ये॑ति वकारलोपः । गोपाशब्द अकारान्तः । गाः पातीति । पातेर्विचि उपपदसमासे गोपाशब्द इति भावः । अधिगोपमिति । विभक्त्यर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति 'नाव्ययीभावात्' इत्यमिपूर्वरूपमिति भावः । 'गोस्त्रियोः' इति तु नात्र प्रसज्यते, स्त्रीप्रत्ययान्तत्वाऽभावात् । समीपे इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति । लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीपमिति प्रयुक्तम् । कृष्णस्य-उप इति तु न विग्रहः नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । ननु समया ग्रामं, निकषा लङ्कामाराद्वनादित्यत्रापि समयाद्यव्ययानां समीपार्थकत्वादव्ययीभावः स्यात्, ततश्चग्रामं समया, ग्रामं निकषा, वनादारा॑दिति च प्रयोगो न स्यात् । अव्ययीभावसमासेऽव्ययस्य पूर्वनिपातनियमादित्यत आह समयेति । विधानसामर्थ्यादिति । समया ग्रामं, निकषा लङ्कामाराद्वनादित्यत्र शेषषष्ठआं सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वादुपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठआ वा लुकि समासात्प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथसम्भावे तद्विकल्पे चसमयाग्रामं॑,निकषालङ्कमाराद्वनं,॑समयाग्रामेण॑, निकषालङ्केन, 'आराद्वनेन'समयाग्रामे॑,निकषालङ्के॑, 'आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिव्र्यर्थः स्यात् । षष्ठऐव गतार्थत्वात् । नच समासात्पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्क्ये, सकृत्प्रवृत्तयोः पुनः प्रवृत्त्य योगात् । वस्तुतस्तु मध्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमीविधानस्य चरितार्थत्वादिदमयुक्तम् । नचैवं सतिसमया ग्राम॑मित्यादावव्ययीभावः शङ्क्यः, अब्भक्ष इत्यादाविव विभक्त्यर्थसमीपादिमात्रवृत्त्यव्ययस्यैव ग्रहणात्, समयानिकषाऽऽराच्छब्दानां चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाऽभावात् । ग्रामस्य समीपे इति हि तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । 'उपकृष्णं भक्ता' इत्यत्र कृष्णसामीप्यवन्त इति बोधात् । मद्राणां समृद्धिरिति । स॑मित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्रविहितसमासस्य नित्यतयाऽस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । संमद्रमिति । सर्वत्र सुब्लुगादि पूर्ववज्ज्ञेयम् । समृद्धा मद्राः संमद्रा इत्यादौ तु नाव्ययीभावः, वचनग्रहणसामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिः दुर्यवनमिति । दुर्शब्दार्थको व्यृद्धिशब्दो विग्रहे ज्ञेयः । विगतेति । अभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यं, समस्यमानपदार्थाऽभावस्यैव तत्र विवक्षितत्वात् । इह च यवनाऽभावस्याऽप्रतीतेः । यवनीयवृद्ध्यभावस्यैव प्रतीतेः । तद्ध्वनयन्नर्थाऽभावे उदाहरति — मक्षिकाणामभावो निर्मक्षिकमिति । विग्रहे निर्शब्दसमानार्थकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः, अर्थग्रहणसामर्थ्येनात्यन्ताऽभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहिममिति । अतीत्यव्ययपर्यायोऽत्ययशब्दो विग्रहे ज्ञेयः । अर्थाभावेत्यनेन पौनरूक्त्यं निरस्यति-अत्ययो ध्वंस इति । अर्थाऽभावशब्देनाऽत्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावो निष्पटमिति न भवतीति भावः । सूत्रे असंप्रतीत्यस्य संप्रति न युज्यते इत्यर्थः ।एतर्हि संप्रतीदानी॑मित्यमरः । युजिक्रियान्तर्भावेण एकार्थीभावान्नञ्समासः । तदाह — निद्रा संप्रति न युज्यते इत्यतिनिद्रमिति । अतीत्यव्ययस्याऽसंप्रत्यर्थकस्य स्थाने 'संप्रति न युज्यते' इति विग्रहवाक्यं ज्ञेयम् । सूत्रे 'शब्दप्रादुर्भाव' इत्यनेन शब्दस्य प्रकाशनं विवक्षितं, तदाह — हरिशब्दस्य प्रकाश इतिहरि इति ।इती॑त्यव्ययं शब्दप्रकाशे वर्तते । तस्य हरिशब्देन स्वरूपपरेण षष्ठन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति । 'अनु' इत्यव्ययं पश्चादर्ते वर्तते इत्यर्थः । भाष्येति । 'अचः परस्मिन्' इति सूत्रभाष्ये इत्यर्थः । 'ततः पश्चात्' इत्यत्राव्ययीभावे तु पश्चाच्छब्दस्य पूर्वनिपातः स्यादिति भावः । एतद्भाष्यप्रयोगादेव एतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनाऽयं समासो नेति विज्ञायते । अत एव 'यथाऽसादृश्ये' इति सूत्रेसादृश्यसंपत्तीति प्राप्नोती॑त्येवोक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः, उत्तरसूत्रारम्भात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यते इति लभ्यत इत्यभिप्रेत्याह — योग्यतेति । अनुरूपमिति । अत्रानु इत्यव्यय योग्यतायाम्, अतो यथार्थे वर्तत इति भावः । अर्थमर्थं प्रतीति — लौकिकविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् ।लक्षणेत्थंभूताख्यान॑ इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । समासे तु द्विर्वचनं न, समासेन वीप्साया द्योतितत्वात् — इति 'हयवरट्' इति सूत्रे कैयटः । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । प्रतिना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थं प्रतीति लौकिकविग्रहप्रदर्शनं न संभवति । नित्यसमासत्वादित्यत आह — प्रतिशब्दस्येति । सामर्थ्यादिति । अव्ययीभावसमासस्य नित्यत्वे तु शेषषष्ठआमपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामम्भावे तद्विकल्पे च प्रत्यर्थं प्रत्यर्थेनेत्यादिसिद्धे द्वितीयाफलकं प्रते कर्मप्रवचनीयत्वविधानमर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाऽभावसंपादन#एन कर्मप्रवचनीयत्वं चरितार्थमेव ।अर्थमर्थं प्रति प्रत्यर्थ॑मितिसरूपाणा॑मिति सूत्रे भाष्ये प्रयोगदर्शनादिह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्येति ।परावरयोगे चे॑ति क्त्वाप्रत्ययः । परावरत्वं च बौद्धम् । अत् यथेत्यव्ययं पदार्थानतिक्रमे वर्तत इत्यर्थः । हरेः सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणनेति । 'अव्ययीभावे चाकाले' इत्यनेनेत्यर्थः । ज्येष्ठस्यानुपूर्व्येणेति ।कार्यं कृ॑मिति शेषः । तत्तद्विभक्त्या विग्रह इति पक्षाभिप्रायेणेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वं । ततः स्वार्थे यञ् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनुपदमेवोक्तम् । तथापि सूत्रगृहीतानुनाऽप्यनुज्येष्ठमिति समासः, अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छब्दात्स्वार्थे ष्यञि यौगपद्यशब्दः । तद्ध्वनयन्नाह — चक्रेण युगपदिति । युगपत्पर्यायस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः, सूत्रे गृहीतत्वादिति भावः । Tattvabodhini ------------- **अव्ययीभावश्च** - नपुंसकं स्यादिति । एतच्च॒स नपुंसक॑मित्यतो लभ्यते । समीप इति.॒अव्ययीभाव॑ इत्यन्वर्थसंज्ञाश्रयणात्सप्तमीरूपाव्ययार्थप्राधान्य एवायं समासः । समीपवर्तिप्रधान्ये तुसंख्ययाव्ययासन्ने॑ति बहुव्रीहिर्वक्ष्यति -॒उपदशाः॑इति यथा । विधानसामर्थ्यादिति । ननुसमया ग्राम॑मित्यादौ द्वितीयाविधानसामर्थ्यान्मास्त्वव्ययीभावः,आराद्वनादित्यत्र तु भवेदेव ।अन्यारा॑दिति पञ्चमीविधानस्य दूरार्थकाराच्चब्दयोगे सावकाशत्वादिति चेत् । अत्र केचिदुत्प्रेक्षयन्ति — ॒दूरान्तिकार्थैः षष्ठन्यतरस्या॑मिति षष्ठीपञ्चम्योः प्राप्तयोस्तदपवादतया पञ्चम्येव तेन विधीयते । तथा चाऽन्तिकार्थकाऽऽराच्छब्दयोगे षष्ठपवादतया पञ्चमीविधानं निरवकाशमेवेति तत्समाथ्र्या द्वययीभावो नेत्युक्तिः सम्यगेवेति । तदपरे न क्षमन्ते । अन्तिकार्थाऽऽराच्छब्दयोगे विशिष्य पञ्चमीविधानाऽभावात्,अन्यारा॑दिति सूत्रस्य त्वन्यत्र कृतार्थत्वाच्च, सामीप्ये आराद्वनमित्यव्ययीभावो दुर्वार एव॑इति । एवं हि व्याकुर्वतां पदस्येत्यपकर्षाऽभावे भृशार्थे सावकाशोऽयं यङ् पौनःपुन्ये परेण द्विर्वचनेन बाध्येतेतिनित्यवीप्सयो॑रिति सूत्रस्थमनोरमाग्रन्थोऽनुकूल इति दिक् । सुमद्रमिति । उत्तरपदार्थप्राधान्ये तुकुगती॑ति तत्पुरुषः -समृद्धा मद्राः सुमद्राः । दुर्यवनमिति । न चार्थाऽभावेनेह सिद्धिः, येन समस्यते तदीयार्थभावे तत्र समासस्वीकारात् । न चेह यवनानामभावो, येनार्थाऽभावे समासः स्यात्, किंतु तदीयाया ऋद्धेरभाव इति । निर्मक्षिकमिति । संसर्गाऽभावेऽयं समासो, न त्वन्योन्याऽभावेऽपि । अर्थग्रहणसामर्थ्येन समस्यमानपदजन्यप्रतीतिविशेष्यविरोधिन एवाऽभावस्य ग्रहणात् । अन्योन्याऽभावस्य तु प्रतियोगितावच्छेदकेनैव विरोधात्, तस्य च प्रकारत्वेऽप्यविशेष्यत्वात् । ये तु वदन्तिघटः पटो नेत्यत्रापि पटत्वात्यन्ताऽभाव एवार्थः, आकृत्यधिकरणन्यायेन जातेः पदार्थत्वा॑दिति, तेषामपि मते अर्थग्रहणसामर्थ्यादेवाक्षिप्तधम्र्यभावेऽयं समासो न तु धर्माभाव इति न दोषः । अत्यय इथि । स्पष्टार्थमेतत् । अर्थाभावेन गतार्थत्वात् । अर्थाऽभावेन संसर्गाऽभावो विवक्षितो न त्वन्योन्याभावः । घटः पटो नेत्यत्रातिप्रसङ्गादिति निष्कर्षात् । संप्रति नेति ।संप्रतीत्य॑व्ययमिदानीमित्यर्थे ।एतर्हि संप्रतीदानी॑मित्यमरोक्तेः । तच्चाधिकरणशक्तिप्रधानत्वात्क्रियापदेनैवान्वयार्हम् । निषेषोऽपि क्रियाया एवोचितः । तदेतदाह — युज्यत इति । असंप्रतीति सौत्रप्रयोगे तु युजिक्रियान्तर्भावेण नञ्समास इति बोध्यम् । यत्तु प्रसादकृतोक्तम् — ॒असंप्रति । संप्रत्ययभाव इत्यर्थः । अनेन उपयोग्यवस्तुनो यो वर्तमानः कालः स निषिध्यत॑इति । तन्न । अधिकरणशक्तिप्रधानस्य क्रियायैवान्वयार्हस्य निषेधं प्रति प्रतियोगित्वेनान्वयस्याऽयुक्तत्वात् । न हिभूतले घटो नास्ती॑त्यनेन भूतलं निषिध्यत इति कश्चिदभ्युपैति, येनात्र वर्तमानकालनिषेधो युक्त्यर्हः स्यात् । इतिहरीति । स्वरूपपरेण षष्ठन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः । ततः पश्चादिति । सति चात्राव्ययीभावे पश्चाच्छब्दस्य पूर्वमिपातः स्यादिति भावः । भाष्यप्रयोगादिति ।अनेकमन्यपदार्थे॑इति सूत्रेसर्वपश्चा॑दिति भाष्यप्रयोगाच्चेत्यपि बोध्यम् । प्रत्यर्थमिति । वृत्तौ वीप्सान्तर्भावान्न द्विर्वचनम् । प्रतिशब्दस्येति । यत्त्वाहुः — ॒ग्रामस्य वृक्षं वृक्षं प्रतीत्यत्र सापेक्षत्वेन समासाऽभावे द्वितीयाविधानं सावकाश॑मिति । तन्न । नित्यसमासेषुसविशेषणानां वृत्तिर्ने॑त्यस्याऽप्रवृत्तेः । आनुपूर्व्येणेति । अनुपूर्वस्य भाव आनुपूर्व्यं । ब्राआहृणादित्वात् ष्यञ् । Padamanjari ----------- अव्ययीभावश्च॥ पूर्वपदार्थप्रघानस्येति। अधिस्त्रीत्यादौ पूर्वपदार्थस्यालिङ्गत्वादिलिङ्गतैव प्राप्नोति। अन्यपदार्थप्रधानस्येति। उन्मत्त्गङ्गमित्यादेः। पुष्याहमिति। कर्मधारये राजाहः सखिभ्यष्टच्ऽ, रात्राह्नाहाः पुसिऽ इत्यस्यापवादः। सुदिनमिति। सुदिनशब्दः प्रशस्तवचनः। सुदिनासु समासु कार्यमेतदिति तथा। त्रिपथमिति। षष्ठीसमासः। द्विगोः पात्रादित्वात्सिद्धम्। विरूपः पन्था विपथम्,प्रादिसमासः। क्रियाविशेषणानां चेति। क्रियाद्वारेण स्त्रीलिङ्गत्वे प्राप्ते वचनम्॥ Nyaas ----- `अधिस्त्रि` इति। `अव्ययं विभक्ति` (2.1.6) इत्यादिनाऽव्ययीभावः। `ह्रस्वो नपुंसके प्रातिपदिकस्य` (1.2.47) इति ह्रस्वत्वम्। `उन्मत्तगङ्गम्, लोहितगङ्गम्` इति। **अन्यपदार्थे च संज्ञायाम्** (2.1.21) इति समासः। पूर्ववद्ध्रस्वत्वम्। `पूर्वपदार्थप्रधानस्यालिङ्गतैव प्राप्ता` इति। अधिस्त्रीत्यादौ पूर्वपदस्यालिङ्गत्वात्। `अन्यपदार्थप्रधानस्याभिधेयलिङ्ता` इति। उन्मत्तगङ्मित्यादौ देशोऽभिधेयः, स च पुंल्लिङ्ग इति पुंल्लिङ्गत्वं प्राप्तम्।`पुण्याहम्` इति। कर्मधारयः। `राजाहःसखिभ्यष्टच्` (5.4.91) इति टच् समासान्तः। **रात्राह्नाहाः पुंसि** (2.4.29) इति पुल्लिङ्गतायां वचनम्।`विपथम्` इति। `पथः संख्याव्ययादेः` (वा। 161) इति परवल्लिङ्गतायां प्राप्तायां वचनम्। **कुगतिप्रादयः** (2.2.18) इतकि समासः। `चतुष्पथम्` इति। षष्ठीसमासः। समाहारद्विगौ तु पूर्वेणैव सिद्धम्। `ऋक्पूरब्धूःपथामानक्षे` (5.4.74) इत्यकारः समासान्तः॥नञ्मात्रस्य तत्पुरुषस्याभावन्नञात्र नञ्समासो लक्ष्यत इत्याह - `नञ्समासम्` इति। `वक्ष्यति-विभाषा सेनासुराच्छाया` इति। अनन्तरयोगेय्वस्याधिकारस्य प्रयोजनं नास्तीत्यस्तानुल्लङ्घ्य व्यवहितस्य `विभाषा सेनासुरा` (2.4.25) इत्यादियोगस्योपन्यासः। इत उत्तरेष्वनन्तरेषु योगेष्वस्य प्रयोजननाभावः `न हि संज्ञायां कन्थोशीनरेषु तत्पुरुष नञ्समासः, कर्मधारयो वाऽस्ति` इत्यादिना भाष्ये प्रतिपादितः। `दृढसेनः` इति। बहुव्रीहिः। अथानञ्कर्मधारय इति कोऽयन्निर्देशः? यदि ह्यत्र नञ्कर्मधारययोर्वदन्द्वः, तदा समाहारे वा स्यादितरेतरयोगे वा? तत्र पूर्वस्मिन् पक्षे नपुंसकत्वं प्रसज्येत; इतरत्र तु द्विवचनम्। निर्देशस्य सौत्रत्वादुभयथाप्यदोषः। तथा हि - च्छन्दोवत् सूत्राणि भवन्तीति। छन्दसि च लिङ्गवचनव्यत्ययं तृतीयेऽध्याये वक्ष्यति॥ Praudhamanorama --------------- **द्वितीयापञ्चम्योरिति।** एतच्च रक्षितग्रन्थे स्पष्टम्। यत्तु वदन्ति— चैत्रस्य वनादारादित्यादौ सापेक्षत्वादसमासे चरितार्थत्वाद्विधानसामर्थ्यं नास्तीति; तच्चिन्त्यम्, नित्यसमासस्य न्याय्यत्वे सति चैत्रस्येत्यादिविशेषणप्रयोगस्यैवासम्भवात्। उक्तं हि भाष्ये— 'वृत्तस्य विशेषणयोगो न' इति। ननु 'सविशेषणानां वृत्तिर्न' इत्यपि भाष्ये उक्तमिति चेत्? सत्यम्, अनित्यसमासविषयं तत्। नित्यसमासस्यापि सविशेषणेष्वप्रवृत्तौ महतः कुम्भस्योप इत्याद्यापद्येत। यत्तु प्राचा कृष्णस्योपेत्युक्तम्, यच्च व्याचख्युरीदृशे प्रक्रियावाक्ये स्थिते इति, तदुभयमपि प्रागुक्तरीत्या प्रामादिकमेव। **सम्प्रति नेति।** सम्प्रतीत्यव्ययमिदानीमित्यर्थे। एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा॥ इत्यमरः। तच्चाऽधिकरणशक्तिप्रधानत्वात्क्रियापदेनैवान्वयार्हम्। निषेधोऽपि क्रियाया एव। तदातदाह— **युज्यते इति। असम्प्रतीति।** समासवृत्तौ तु युजिक्रियाऽन्तर्भवति 'दध्योदन' इत्यत्र सेकक्रिया यथा। यत्तु प्राचोक्तम्— असम्प्रतीति सम्प्रत्यभाव इत्यर्थः। अनेनोपभोग्यवस्तुनो यो वर्तमानः कालस्तस्यैव निषेधः क्रियते इति; तन्न, अधिकरणस्य निषेधं प्रति प्रतियोगित्वेनान्वयस्य सर्वतन्त्रविरुद्धत्वात्। न हि भूतले घटो नास्तीत्यनेन भूतलं निषिध्यत इति कश्चिदभ्युपैति, न वा युक्तिसहमित्यस्तां तावत्। **इतिहरीति।** स्वरूपपरेण षष्ठ्यन्तेन हरिशब्देन सह प्रकाशार्थस्येतिशब्दस्य समासः। **प्रतिशब्दस्येति।** यत्त्वाहुः— ग्रामस्य वृक्षं प्रतीत्यत्र सापेक्षत्वेन समासाभावे द्वितीयाविधानं सावकाशमिति तत्प्रागेव दूषितम्। हरदत्तस्त्वाह- अर्थमर्थं प्रतीति भाष्यकारप्रयोगाद् वाक्यमपि साधु। यद्वा नात्राव्ययं वीप्सावृत्ति किं तर्हि कर्मप्रवचनीयत्वात् सम्बन्धमवच्छिनत्ति। वीप्सा तु द्विर्वचनद्योत्येति। Prakriyasarvasvam ----------------- असौ क्लीबं स्यात् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (१-२-४७) इत्यन्त्यस्य ह्रस्वः । सौ कृते लुक् । अधिनदि मज्जति । 'समर्थः—' (२-१-१) इत्युक्तेर्ग्राहोऽस्ति नद्याम्, आधिरोहत्वमित्यत्र नद्यामधीत्यनयोरनन्वयादसमासः ॥ कृष्णस्य समीपमित्यर्थे कृष्ण ङस् उप सु । सुबुत्पत्त्यन्तं प्राग्वत् । उपकृष्ण सु, अव्ययत्वात् सुब्लुकि प्राप्ते, Vartika ------- पथश्च संख्याव्ययादेः क्लीबतेष्यते ।