24017: स नपुंसकम् ================= **Padacheda:** सः | S | 1 | 1 | नपुंसकम् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- It, namely the द्विगु or द्वन्द compound, with regard to which singular number has been ordained by the above rules, is always neuter gender. Vasu English Translation ------------------------ It, namely the द्विगु or द्वन्द compound, with regard to which singular number has been ordained by the above rules, is always neuter gender. As, दशगवम् 'an aggregate of ten cows,' पाणिपादम् 'hands and feet.' शिरोग्रीवम् 'head and neck.' This *sutra* debars the operation of the rule by which a compound gets the gender of its subsequent member. See (2.4.26). Vart:- A *Dvigu*, the last member of which ends in short अ, is employed in the feminine gender only; as पञ्चपूली, दशरथी. Vart:- A *Dvigu*, the last member of which is a feminine word ending in आप् affix, is optionally feminine; as, पञ्चखट्वम् or पञ्चखट्वी. Vart:- A *Dvigu*, the last member of which is a word ending in अन्, is optionally feminine and the न is elided : as पञ्चतक्षम् or पञ्चतक्षी. Vart:- A Prohibition must be stated in the case of *Dvigu* compounds ending in पात्र &c., पञ्चपात्रम्; चतुर्युगम्; त्रिभुवनम्. Kashika ------- यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च। पञ्चगवम्। दशगवम्। द्वन्द्वः खल्वपि — पाणिपादम्। शिरोग्रीवम्। परवल्लिङ्गतापवादो योगः॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते॥ पञ्चपूली। दशरथी॥ वाबन्तः स्त्रियामिष्टः॥ पञ्चखट्वम्, पञ्चखट्वी॥ अनो नलोपश्च वा च द्विगुः स्त्रियाम्॥ पञ्चतक्षम्, पञ्चतक्षी॥ पात्रादिभ्यः प्रतिषेधो वक्तव्यः॥ पञ्चपात्रम्। चतुर्युगम्। त्रिभुवनम्॥ Siddhanta Kaumudi ----------------- समाहारे द्विगुर्द्वन्द्वाश्च नपुंसकं स्यात् । परवल्लिङ्गपवादः । पञ्चगवम् । दन्तोष्ठम् । (वार्तिकम्) ॥ पञ्चमूली । (वार्तिकम्) ॥ पञ्चखट्वम् । पञ्चखट्वी । (वार्तिकम्) ॥ पञ्चतक्षी । पञ्चतक्षम् । (वार्तिकम्) ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । (वार्तिकम्) ॥ पुण्याहम् । सुदिनाहम् । (वार्तिकम्) ॥ संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः । (वार्तिकम्) ॥ मृदु पचति । प्रातः कमनीयम् ॥ Laghu Siddhanta Kaumudi ----------------------- समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्॥ Balamanorama ------------ **स नपुंसकम्** - स नपुंसकं ।द्विगुरेकवचन॑मिति द्विगुः, द्विगुः,द्वन्द्वश्च प्राणी॑ति द्वन्द्वश्च तच्छब्देन परामृश्येते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह — समाहारे इति । पञ्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च ओष्ठौ चेति विग्रहः ।द्वन्द्वश्च प्राणी॑ति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तमुत्तरपदं यस्येति विग्रहः ।स नपुंसक॑मित्यस्यापवादः । पञ्चमूलीति । समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः' इति ङीप् । आबन्तो वेति ।स्त्रियां वे॑ति वक्तव्यमित्यर्थः । पञ्चखट्वमिति । समाहारद्विगुः । नपुंसकत्वे ह्रस्वः । पञ्चखट्वीति । उपसर्जनह्रस्वत्वे अदन्तत्वात्, 'द्विगोः' इति ङीप् । अनो नलोपश्चेति । 'अन' इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं स्त्रियामित्यत्रैव संबध्यते, न तु नलोपेऽपि तेन स्त्रीत्वाऽभावेऽपि नलोपः । पञ्चतक्षीति । पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं नलोपः, 'द्विगोः' इति ङीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाऽभावपक्षेस नपुंसक॑मिति नपुंसकत्वं, नलोप इति भावः । न चान्तर्वर्तिर्नी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात्न लोपः प्रातिपदिके॑त्यनेन नलोपो भविष्यतीति वाच्यम्उत्तरपदत्वे चे॑ति प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति । पात्रादिर्गणः । तदन्तस्य समाहारद्विगोर्न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रं त्रिभुवनं चतुर्युगमिति । स्त्रीत्वाऽभावेस नपुंसक॑मिति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परो योऽहन्शब्दस्तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः ।रात्राह्ने॑त्यस्यापवादः । पुण्याहमिति । पुण्यमहरिति कर्मधारयः, 'राजाहः' इति टच्, टिलोपः ।उत्तमैकाभ्यां चे॑त्यत्यह्नादेशनिषेधः । सुदिनाहमिति । सुदिनमहरिति कर्मधारयः, टच्, टिलोपः । प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम् । पथः सङ्ख्याव्ययादेरिति ।नपुंसकत्वं वक्तव्य॑मिति शेषः । संख्याव्ययेति समाहारद्वन्द्वः । संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी । पर इति शेषः । पथ इति कृतसमासान्तादकारान्तात्प्रथमा । तदाह — सङ्ख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋक्पूः' इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि ।प्रादयो गताद्यर्थे॑ इति समासः । सुपन्था अतिपन्था इति ।स्वती पूजाया॑मिति समासः ।न पूजना॑दिति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे अपथं नपुंसक॑मिति न कार्यम् । सामान्ये नपुंसकमिति । न्यायसिद्धमेतत्, विशेष्यविशेषणसंनिधाने सति स्त्रीत्वपुंस्तवयोरनभिव्यक्तौउभयोरन्तरं यच्च तदभावे नपुंसक॑मिति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् ।अत एवदाण्डिनायने॑ति सूत्रभाष्येएकश्रुतिः स्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामे॑त्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्चव्यापारे साध्यत्वेनान्वेति । तथाच धातूपात्तव्यापारं प्रति कर्मीभूतेन विक्लित्त्यंशेन सामानाधिकरण्यान्मृद्विति द्वितीया । यत्र तु धात्वर्थः करणत्वेनान्वेति 'यजेत स्वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्गं कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेवज्योतिष्टोमेन यजेत स्वर्गकामः॑ इत्यादावित्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापिप्रात॑रित्यव्ययस्य विशेष्यस्याऽलिङ्गत्वात्तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाऽभावान्नपुंसकत्वमेवेति भावः । इदं चाऽनियतलिङ्गविषयम् । तेन आदिं पचति, प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात् । Tattvabodhini ------------- **स नपुंसकम्** - स नपुंसकम् ।अनन्तरस्ये॑ति न्यायोऽत्र नाश्रीयते, तथात्वे द्विहुसङ्ग्रहो न स्यादित्याशयेनाह -द्विगुद्र्वन्द्वश्चेति.अत्र व्याचक्षते — प्रकरणादेवानुवाद्यलाभेस॑ ग्रहणमेतत्प्रकरणानुपात्तस्यापि समाहारद्वन्द्वस्य सङ्ग्रहार्थम्, तेनसञ्ज्ञापरिभाष॑मित्यादि सिद्धमिति । पञ्चगवमिति ।तद्धितार्थ॑इत्यादिना समाहारे द्विगुः । दन्तोष्ठमिति ।द्वन्द्वश्च प्राणी॑त्यादिना समाहारे द्वन्द्वः । आबन्तो वा । पञ्चखट्वमिति नपुंसकह्रस्वः । पञ्चखट्वीति । उपसर्जनह्रस्वस्वत्वे सत्यदन्तत्वात्द्विगो॑रिति स्त्रीत्वपक्षे ङीप् ।अनो नलोपश्च वा द्विगुः स्त्रियाम् । अनो नलोपश्चेति ।उत्तरपदत्वे चापदादिविधौ॑इति प्रत्ययलक्षणप्रतिषेधादप्राप्ते नलोप इति भावः । इह वाशब्दः स्त्रियामित्यनेन संबध्यते, नतु पूर्वेण । तेन नित्यो नलोप इत्याह — पञ्चतक्षमित्यादि ।पात्राद्यन्तस्य न । पात्राद्यन्तस्येति ।स्त्रीत्व॑मिति शेषः । आकृतिगणोऽयम् ।पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा । सुदिनाहमिति । प्रशस्तपर्यायः सुदिशब्दः,सुदिनासु समासु कार्यमेतत्प्रविचिन्वीत विशेषतः स्वयं च॑इत्यादिप्रयोगात् ।पथः सङ्ख्याव्ययादेः । पथः सङ्ख्याव्ययेति । संख्याव्ययरूपो य आदिस्तस्मादित्यर्थः । त्रपथं विपथमिति, -॒ऋक्पूरब्धूः॑इत्यप्रत्ययः । सुपन्थाः अतिपन्था इति ।न पूजना॑दिति समासन्तनिषेधः । कथं तर्हिव्यध्वो दुरध्वा विपथः तदध्वा कापथः समाः॑इत्यमर इति चेत्, प्रमाद एवायमिति बहवः । मनोरमायां तुपथे गतौ॑इत्यस्मात्पचाद्यचि पथति व्याप्नोतीति व्युत्पादितः पथशब्दोऽस्ति । तथा च त्रिकाण्डशेषः -॒वाटः पथश्च मार्गः स्या॑दिति । तेन पथशब्देन समासे पुंस्त्वमुपपन्नम् । न चैवं विपथसिद्धावपि कापथो न स्यात्कादेशस्य दुर्लभत्वादिति वाच्यम्,ईषदर्थे चे॑ति तत्सम्भवात्, कुत्सायामर्थतः पर्यवसानादिति स्थितम् । केचित्तु -॒पथः संख्ये॑ति वार्तिके कृतसमासान्तस्यैव ग्रहणं न तु पचाद्यजन्तस्येत्यत्र बीजाऽभावाद्विपथः कापथ इति प्रयोगो दुरुपपाद एवेत्याहुः । अत्र माधवः — ॒परवल्लिङ्गापवादत्वात्तत्पुरुष एवेदं प्रवर्तते नान्यत्र । विपथा नगरी । बहुव्रीहिरयम् । पन्तानमतिक्रान्ता अतिपथा । इहापि न,द्विगुप्राप्ते॑त्यादिना परवल्लिङ्गतायाः प्रतिषेधादिति । सामान्ये नपुंसकम् । सामान्ये नपुंसकमिति । अनियतलिङ्गविषयकमिदम् । तेनादिं पचति, प्रातरादिरिति पुंस्त्वमेव । मृदु पचतीति । क्रियाविशेषणत्वाद्द्वितीयान्तम् । धातुपात्तभावनां प्रति हि फलांशः कर्मीभूतः । तथा च फलसामानाधिकरण्येद्वितीया । अतएव सकृल्ल्वावित्यादौ कारकपूर्वकत्वाद्यण् । यत्र तु भावनां प्रति करणतया धात्वर्थविशेषोऽन्वेति तत्र तद्विशेषणानां तृतीयान्ततैव,ज्योतिष्टोमेन यजेते॑त्यत्र यथा । एतच्चतरणे यजः॑ इति सूत्रे वृत्तिपदमञ्जर्योः स्पष्टम् । Padamanjari ----------- स नपुंसकम्॥ परवल्लिङ्गतापवादो योगः। सग्रहणं व्यवहितस्य द्विगोरपि यथा स्याद्, अन्यथाऽव्यवहितस्य द्वन्द्वस्यैव स्यात्, नैतदस्ति; एकवचनमित्येतावन्मात्रमेवापेक्षिष्यामहे, नैकवचनविशेषं द्वन्द्वम्। एवं तर्हि योऽत्र प्रकरणेऽसङ्कीर्तितः समाहारद्वन्द्वस्तस्यापि यथा स्यात्? अन्यथा प्रकृतस्यैव द्वन्द्वस्य द्विगोश्च स्यात्। ननु प्रकरणमपि नापेक्षिष्यते, यद्येवम्, एकसङ्ख्य इत्यादावेकार्थस्य स्यात्, अतोऽवश्यापेक्ष्यं प्रकरणम्। तस्मिंश्चापेक्ष्यमाणे प्राण्यङ्गादिसम्बन्धादिरूपेण द्वन्द्वः प्रकृत इति तस्यैव स्यात्। स इत्येतस्मिंस्तु सति अपेक्ष्यमाणेऽपि प्रकरणे प्राण्यङ्गादिसम्बन्धपरित्यागेन योऽत्र प्रकरणे संकीर्तितो द्वन्द्वो द्विगुश्च'स नपुंसकम्' इति सर्वस्य समाहारद्वन्द्वस्य नपुंसकत्वं लभ्यते, एकादौ चातिप्रसङ्गो न भवति। तथा च'युवोरनाकौ' इत्यादावुच्यते - युवोरिति समाहारद्वन्द्वे स नपुंसकप्रसङ्गः। अतो यावान्कश्चन समाहारद्वन्द्वः प्राण्यङ्गादिसम्बन्धी, अन्यो वा, सर्वस्यास्य नपुंसकत्वं विधीयत इति सिद्धम्। अकारान्तोतरपद इति। अत्रात इत्यधिकारे'द्विगोः' इति ङीब्विधानं लिङ्गम्। पञ्चखट्वीति। स्त्रीत्वपक्षे उपसर्जनह्रस्वत्वम्। अनो नलोपश्चेति। ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात्पदत्बाभावान्नलोपवचनम्। पात्रादिभ्य इति तादर्थ्य एषा चतुर्थी पात्राद्यन्तानां द्विगूनां सिद्धय इत्यर्थः। पात्रादिराकृतिगणः॥ Nyaas ----- `पञ्चगवम्` इति। **गोरतद्धितलुकि** (5.4.92) इति टच्। सग्रहणं द्विगोरपि यथा स्यादित्येवमर्थम्। इतरथा हि `अनन्तरस्य विधिर्वा भवति प्रतिषेदो वा` (व्या।प।19) इत्यनन्तरस्यैव द्वन्द्वस्य स्यान्न व्यवहितस्य द्विगोः, नैतदस्ति; एकवचनमित्यनुवर्तते, तस्य `नपुंसकम्` इत्यनेन सम्बन्धे सति कुतो व्यवधानम् ! न ह्यत्रैकरवचनेन विशेषो द्वन्द्वोऽनेनापेक्ष्यते, किं तर्हि? एकवचनमात्रम्। प्रसिद्ध्युपसंग्रहार्थं तर्हि सग्रहणम्। स इत्येतदनुवादो भविष्यति, अनुवादश्च प्रसिद्धस्यैव भवति। तथा च यथादर्शनमियं लिङ्गव्यवस्थाऽऽख्यायत इति। तेन द्वन्द्वैकवद्भावे नित्यं नपुंसकत्वं विज्ञायते। द्विगोश्चानियता। तेन `अकारान्तोत्त्रपदो द्विगुः स्त्रियां भाष्यते` (वा।156) इत्येतदुपपन्नं भवति। `पञ्चपूली` इति। **द्विगोः** (4.1.21) इति ङीप्। एतदेव द्विगोः स्त्रीप्रकरणे ङीब्विधानं ज्ञापकम् - `क्वचित् स्त्रियां द्विगुर्भाष्यते` इति।`पञ्चखट्वम्, पञ्चखट्वी` इति। उपसर्जनह्रस्वत्वे कृते पक्षे ङीप्।`पञ्चतक्षम्, पञ्चतक्षी` इति। नलोपे कृते पक्षे ङीप्॥ Prakriyasarvasvam ----------------- यस्यैकवचनत्वमुक्तं स क्लीबम्। पञ्चानां धेनूनां समाहारः पञ्चधेनु। द्विधेनु। एकस्मिन्नपि लोभादिना बहुत्वारोपात् समाहारः स्यादित्याहुः। एकधेनु। गोसमूहवदादृतैका धेनुरित्यर्थः॥ Vartika ------- सामान्ये नपुंसकम् ।