24003: अनुवादे चरणानाम् ======================= **Padacheda:** अनुवादे | S | 7 | 1 | चरणानाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- A द्वन्द compound or words signifying persons belonging to the different Vedic-schools, when the sense is that of repetition is singular. Vasu English Translation ------------------------ A द्वन्द compound or words signifying persons belonging to the different Vedic-schools, when the sense is that of repetition is singular. The word चरण means a school or branch of any of the Vedas designated by the name of the person who founded such a branch and hence means such a person. The word अनुवाद means repetition by way of explanation, illustration or corroboration; that is to say, when a speaker demonstrates for some special purposes, a proposition which had already been demonstrated before, that is called *anuvada*. This aggregate is used with the aorist of the roots स्था and इङ् only; as उदगात् कठकालापम् '*katha* and *kalapa* arose (again, further demonstrating their doctrines)'; प्रत्यष्ठात् कठकौथुमम् '*katha* and *kauthuma* established again. Why do we say 'when meaning repetition'? Observe उदगुः कठकालापाः or प्रत्यष्ठुः कठकौथुमाः, when demonstration for the first time is meant. is the aorist of स्था and इन् which takes such a *Dvandva* and not any other verb or any other tense of these verbs; as:- अनन्दिषुः कठकालापाः and उदयन्ति कठकालापाः Note :- This *sutra* is translated thus by Mr. *Iyangar*, 'Aggregation alone is admissible between words denoting persons belonging to the different *charanas* of the Vedas, when they are used along with the aorist derived from the roots *stha* and *in* in the sense of recitation of the *charanas* as already learnt, as distinguished from learning them the first time.' Prof. Bohthlingk's translation is, 'The *Dvandva* Compound of the names of Vedic-Schools is singular, when such a school is repeatedly mentioned equally along with another.' Bhashya ------- अनुवादे चरणानाम् (534) (338 एकवद्भावसूत्रम् ॥ 2.4.1 आ.3 ॥) (आक्षेपभाष्यम्) इह कस्मान्न भवति - नन्दन्तु कठकालापाः, वर्धन्तां कठकौथुमाः? (1563 समाधानवार्तिकम् ॥ 1 ॥) - स्थेणोः - (व्याख्याभाष्यम्) स्थेणोरिति वक्तव्यम् ॥ (आक्षेपभाष्यम्) एवमपि तिष्ठन्तु कठकालापा इत्यत्रापि प्राप्नोति ॥ (1564 समाधानवार्तिकम् ॥ 2 ॥) (- अद्यतन्यां च -) (भाष्यम्) अद्यतन्यां चेति वक्तव्यम्। उदगात्कठकालापम्। प्रत्यष्ठात्कठकौथुमम्। उदगात्कौमोदपैप्पलादम् ॥ अनुवादे ॥ 3 ॥ Kashika ------- चरणशब्दः शाखानिमित्तकः पुरुषेषु वर्तते। चरणानां द्वन्द्व एकवद् भवति, अनुवादे गम्यमाने। प्रमाणान्तरावगतस्यार्थस्य शब्देन संकीर्तनमात्रमनुवादः। उदगात् कठकालापम्। प्रत्यष्ठात् कठकौथुमम्। कठकालापादीनामुदयप्रतिष्ठे प्रमाणान्तरावगते यदा पुनः शब्देनानूद्येते तदैवमुदाहरणम्। यदा तु प्रथमत एवोपदेशस्तदा प्रत्युदाहरणम्। अनुवाद इति किम्? उदगुः कठकालापाः। प्रत्यष्ठुः कठकौथुमाः ॥ स्थेणोरद्यतन्यां चेति वक्तव्यम्॥ स्थेणोरिति किम्? अनन्दिषुः कठकालापाः। अद्यतन्यामिति किम्? उद्यन्ति कठकालापाः॥ Siddhanta Kaumudi ----------------- चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे । (वार्तिकम्) ॥ उदगात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥ Balamanorama ------------ **अनुवादे चरणानाम्** - अनुवादे चरणानाम् । चरणानां द्वन्द्व एकवदिति । शाखाध्येतृविशेषणास्चारणाः । तद्वाचिना परस्परद्वन्द्वः । एकवदित्यर्थः । 'अनुवादे' इत्येतद्व्याचष्टे — सिद्धस्योपन्यासे इति । अवगतार्थस्य प्रतिपादने इत्यर्थः । स्थेणोरिति । लुङीति प्रत्येकमन्वयाभिप्रायमेकवचनम् । लुङन्ते स्थाधातौ, लुङन्ते इण्धातौ च प्रयुज्यमान एव अनुवादे चरणानां द्वन्द्व एकवदिति वक्तव्यमित्यर्थः । उदगादिति । प्रादुरभूदित्यर्थः । इण्धातोर्लुङि रूपम् । कठकालापमिति । कठेन प्रोक्तमधीयते इति कठाः । वैशम्पायनान्तेवासित्वाण्णिनिः । तस्यकठचरका॑दिति लुक् । ततोऽध्येतृप्रत्ययस्यप्रोक्ताल्लु॑गिति लुक् । कलापिना प्रोक्तमधीयते इति कालापाः । प्रोक्तार्थेकलापिनोऽण् । सब्राहृचारिपीठसर्पित्यापिना टिलोपः । ततोऽध्येत्रणःप्रोक्ताल्लु॑गिति लुक् । कठानां कालापानां च समाहार इति विग्रहः । प्रत्यष्ठादिति । प्रतिपूर्वात्स्ताधातोर्लुङि रूपम् । कठकौतुममिति । कठेन प्रोक्तमधीयत इति कठाः । कौथुमिना प्रोक्तमधीयते इति कौथुमाः । प्रोक्तेऽर्थेतेन प्रोक्त॑मित्यण् ।सब्राहृचारी॑त्यनेन टिलोपः । ततोऽध्येत्रणो लुक् । कठानां कौथुमानां च समाहार इति विग्रहः । यदा कठाः कलापाश्च उदिताः, यदा कठाः कौथुमाश्च प्रतिष्ठिताः, तदा किञ्चिदिदं वक्तव्यमिति कृतसङ्कतयोरिदं वाक्यद्वयम् । अत्रोदयप्रतिष्ठयोः पूर्वसिद्धयोरनुवादादेकत्वम् । स्थेणोः किम् । अभूवन्कठकालापा#ः । लुङि किम् । अतिष्ठन्कठकालापाः । Tattvabodhini ------------- **अनुवादे चरणानाम्** - चरणानामिति । शाखाध्येतृवाचिनामित्यर्थः ।स्थेणोर्लुङीति वक्तव्यम् । स्थेणोरिति ।ष्ठा गतिनिवृत्तौ॑ ।इण् गतौ॑ । स्थाप्रकृतिकैण्प्रकृतिकलुङन्ते उपपदे सतीत्यर्थः । स्थेणोः किम् । अभूवन् कठकालापाः । लुङिकिम् । तिष्ठन्तु कठकालापाः । उदगादिति । इह यदा कठेषु कालापेषु च प्रतिष्ठितेषु उदितेषु चाऽऽवाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्सङ्केतं विस्मृत्यासीनं प्रतिदमुच्यते । कठेन प्रोक्तमधीयते कठाः । वैशंपायनान्तेवासित्वाण्णिनिः । तस्यकठचरका॑दिति लुक् । अध्येत्रणस्तुप्रोक्ताल्लु॑गिति लुक् ।कलापिनोऽणं॑ ।सब्राहृचारी॑ त्याद्युपसङ्ख्यानाट्टिलोपः । यजुरिति । सूत्रे अध्वर्युशब्दो यजुर्वेदलक्षक इति भावः । Padamanjari ----------- अनुवादे चरणानाम्॥ Nyaas ----- `चरणशब्द` इत्यादिना सूत्रस्य विषयं दर्शयति। तथा हि - यो हि कठादिप्रोक्ताध्ययनविशेषः शाखा, तत्र यदा चरणशब्दो वर्तते तदा `जातिरप्राणिनाम्` (2.4.6) इत्येव सिद्धम्। यदा तु शाखानिमित्तकः` इति। शाखा निमित्तम्सयेति बहुव्रीहिः। `प्रमाणान्तरावगतस्य` इति। शब्दात् प्रमाणाद्यदन्यत् प्रमाणं तत् प्रमाणान्तरम्, तत्पुनःप्रत्यक्षादि। तेनावगतस्य परिच्छिन्नस्य शब्देन रसङ्कीर्तनमात्रमिति मात्रशब्दोऽर्थावगतिव्युदासार्थः। `उदगात्,प्रत्यष्ठात्` इति। उत्पूर्वादिणः प्रतिपूर्वात्तिष्ठतेर्लुङ, `इषो गा लुङि` (2.4.45) इति गादेशः, `गातिस्था` (2.4.77) इति सिचो लुक्। `कठकालापम्` इति। कठेन प्रोक्तमधीयत इति कठाः। कठशब्दात् प्रोक्तार्थे **कलापिवैशम्पायनान्तेवासिभ्यश्च** (4.3.104) इति णिनिः, तस्य **कठचरकाल्लुक्** (4.3.107) , ततः **तदधीते तद्वेद** (4.2.59) इत्यण्, तस्य **प्रोक्ताल्लुक्** (4.2.64) , **छन्दोब्राह्मणानि च तद्विषयाणि** (4.2.66) इति तद्विषयता। कलापिना प्रोक्तमधीयत इति कलापाः। प्रोक्तार्थे कलापिनोऽण्, **इनण्यनपत्ये** (6.4.164) इति प्रकृतिभावे प्राप्ते `सब्राहृचारिपीठसर्पिकलापिकुथुमितैरतिलिजाजलिलाङ्गलिशिलालिशिखष्टिश#ऊकरसद्मसुपर्वणामुपसंख्यानम्` (वा। 798) इति टिलोपः। ततः **तदधीते तद्वेद** (4.2.59) इत्यण्। तस्य **प्रोक्ताल्लुक्** (4.2.64) इति लुक्। पूर्ववत् तद्विषता च। कठाश्च कालापाश्च कठकालापम्। ` यदा तु प्रथमत एवोपदेशः` इति। अनवगतस्यैव प्राक् प्रमाणान्तरेण शब्देनाद्यं प्रत्यायनमर्थस्य प्रश्ने प्रतिवचने वोपदेशः, स यदा भवति तदात्र प्रत्युदाहरणम्। ` उदगुः` इति। `आतः` (3.4.110) इति झर्जुस्। **उस्यपदान्तात्** (6.1.96) इति पररूपत्वम्। `स्थेणोरद्यतन्याञ्चेति वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - `तुल्यार्थैरतुलोपमाभ्याम्` (2.3.72) इत्यतः सूत्रादन्यतरस्यामित्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते। तेन स्थेणोरद्यतन्यामनुवादे चरणानामेकवद्भावो भविष्यति, नान्यत्रेति। `अद्यतनी` इति लुङः पूर्वाचार्यप्रणीतैषा संज्ञा। `अनन्दिषुः` इति। `टुनदि समृद्धौ` (धातुपाठः-67), `सिजब्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुस्। `उद्यन्ति` इति। `इको यण्` (6.4.81) इति यणादेशः॥ Prakriyasarvasvam ----------------- प्रमाणान्तरसिद्धस्यानुकथनरूपे वाक्ये चरणवाचिनां द्वन्द्व एकवत् स्यात् । स्थेणोर्लुञ्चयेवेति वाच्यम् । अस्थात् खलु बह्वृचच्छन्दोगम् । अगादिति वा । इणा गा लुङीति वक्ष्यते । Vartika ------- स्थेणोर्लुङीति वक्तव्यम् ।