24002: द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ========================================== **Padacheda:** द्वन्द्वः | S | 1 | 1 | च | S | 0 | 0 | प्राणि-तूर्य-सेना-अङ्गानाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- An affix which begins with the augment इट् -- आर्धधातुकस्येड् वलादेः (7.2.35), is ङित् after the root विज् 'to fear, to move'. Vasu English Translation ------------------------ An affix which begins with the augment इट् -- आर्धधातुकस्येड् वलादेः (7.2.35), is ङित् after the root विज् 'to fear, to move'. As, पाणिपादम्, 'the hand and foot' शिरोग्रीवं 'the head and neck' मार्दङ्गिकपाणविकम् 'players on the *mridanga* and *panava* (kinds of drums)' रथिकाश्वरोहम् 'the soldiers on chariot and horse.' वीणावादकपरिवादकस्, रथिकपादातम् ॥ This rule applies to cases of *Samahara* *Dvandva* or aggregate *Dvandva* Compounds only; and not to *Itaretara* *Dvandva* (2.2.29) In the *Dvandva* Compounds of animals such as elephants, horses, &c., the singular is optional; (2.4.12) The present rule also gives us an index as to where we must make *Samahara* *Dvandva* and where an *Itaretara* *Dvandva*. The *Dvandva* compounds of words signifying members of animal body, players or army, are always and solely *Samahara* *Dvandva*. The compounds of words like दधिपयसी 'curd and milk' (2.4.14) are purely *Itaretara* *Dvandva* and can never be *Samahara* *Dvandva*; while compounds of words denoting tree, animals &c., (2.4.12) are optionally either *Samahara* or *Itaretara* *Dvandva*. Bhashya ------- द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् (533) (337 एकवद्भावसूत्रम् ॥ 2.4.1 आ 2) (अनिष्टापत्तिवारणाधिकरणम्) (1561 शेषपूर्तिवार्तिकम् ॥ 1 ॥) - प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणम् - (भाष्यम्) प्राणितूर्यसेनाङ्गानां तत्पूर्वपदोत्तरपदग्रहणं कर्तव्यम्। प्राण्यङ्गानां प्राण्यङ्गैरिति वक्तव्यम्। तूर्याङ्गानां तूर्याङ्गौरिति वक्तव्यम्। सेनाङ्गानां सेनाङ्गेरिति वक्तव्यम् ॥ किं प्रयोजनम्? व्यतिकरो मा भूदिति ॥ (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्? (समाधानभाष्यम्) न वक्तव्यम् ॥ (1562 समाधानहेतुवार्तिकम् ॥ 2 ॥) - योगविभागात्सिद्धम् - (भाष्यम्) योगविभागः करिष्यते - प्राण्यङ्गानाम् ततः - तूर्याङ्गानाम्। ततः सेनाङ्गानाम् इति ॥ (आक्षेपभाष्यम्) स तर्हि योगविभागः कर्तव्यः? (समाधानभाष्यम्) न कर्तव्यः। प्रत्येकमङ्गशब्दः परिसमाप्यते ॥ द्वन्द्वश्च ॥ 2 ॥ Kashika ------- एकवचनमिति वर्तते। अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि संपद्यन्ते। प्राण्यङ्गानां द्वन्द्व एकवद् भवति, तथा तूर्याङ्गानां सेनाङ्गानां च। प्राण्यङ्गानां तावत् — पाणिपादम्। शिरोग्रीवम्। तूर्याङ्गानाम् — मार्दङ्गिकपाणविकम्। वीणावादकपरिवादकम्। सेनाङ्गानाम् — रथिकाश्वारोहम्। रथिकपादातम्। हस्त्यश्वादिषु परत्वात् पशुद्वन्द्वे विभाषयैकवद् भवति। इतरेतरयोगे समाहारे च द्वन्द्वो विहितः। तत्र समाहारस्यैकत्वात् सिद्धमेवैकवचनम्। इदं तु प्रकरणं विषयविभागार्थम्। प्राण्यङ्गादीनां समाहार एव द्वन्द्वः। दधिपय आदीनामितरेतरयोग एव। वृक्षमृगादीनामुभयत्रेति॥ Siddhanta Kaumudi ----------------- एषां द्वन्द्व एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थं प्रकरणम् । प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥ Laghu Siddhanta Kaumudi ----------------------- एषां द्वन्द्व एकवत्। पाणिपादम्। मार्दङ्गिकवैणविकम्। रथिकाश्वारोहम्॥ Balamanorama ------------ **द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्** - द्वन्द्वश्च प्राणि ।प्राणितूर्यसेनाङ्गानी॑ति द्वन्द्वगर्भषष्ठीसमासः । द्वन्द्वान्ते श्रूयमाणोऽङ्गशब्दः प्रत्येकं संबध्यते, इत्यभिप्रेत्याह — एषामिति । प्राण्याङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्व इति । समाहारद्वन्द्व इत्यर्थः ।द्विगुरेकवचन॑मिति पूर्वसूत्रेसमाहारग्रहणं कर्तव्य॑मिति वार्तिकस्यात्राप्यनुवृत्तेः । एकवदिति ।एकवचन॑मित्यनुवर्तते । एकं वक्तीत्येकवचनम् । ल्युट् । सामान्याभिप्रायं नपुंसकम् । पाणिपादमिति । पाण्योः पादयोश्च समाहार इति विग्रहः । अत्र समाहारे एकवत्त्वं,स नपुंसक॑मिति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्प्राण्यङ्गोदाहरणमिदम् । अत तूर्याङ्गद्वन्द्वे उदाहरति — मार्दङ्गिकपाणविकमिति । मृगङ्गपणवशब्दौ वाद्यविशेषपरौ । इह तु तद्वादनेऽपि वर्तेते । मृदङ्गवादनं शिल्पमस्येत्यर्थेशिल्प॑मिति ठक् । मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम् ।स नपुंसक॑मिति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति — रतिकाआआरोहमिति । रथेन चरन्तीति रथिकाः ।पर्पादिभ्यः ष्ठन् । रथिकानामआआरोहाणा च समाहार इति विग्रहः । सेनावयवत्वादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य इति विग्रहः । सेनावयवत्वादेकवत्त्वम् । पूर्ववन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहरस्य विशेष्यत्वात्तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह — समाहारस्यैकत्वादिति । समाहार एवेति । न त्वितरेतरयोगः । एषां द्वन्द्वे नियमार्थं सूत्रमित्यर्थः । एवमुत्तरसूत्राण्यपि समाहर एवेति नियमार्थानि । नचेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु । तथा च 'पाणिपाद' इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यं,समाहारग्रहणं कर्तव्य॑मिति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाहृतत्वाच्चा । नच रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्क्यः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाह्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम् । Tattvabodhini ------------- **द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्** - द्वन्द्वश्चप्राणि । प्राणितूर्यसेनानामङ्गानीति बहुवचनान्तेनाऽङ्गशब्देन षष्ठीसमासः । अङ्गशब्दश्च प्रत्येकमन्वेति । तेन प्राण्यङ्गानां प्राण्यह्गैरेव, तूर्याङ्गेरैव, सेनाङ्गैरेव यो द्वन्द्वः स एकवद्भवति न तु व्यतिरेकेण । तेनेह न — मार्दङ्गिकाआआरोहौ । अत्र प्राणिसेनयोरङ्गं नामाऽवयवः । तूर्यस्य त्वङ्गं नामोपकारकं बोध्यम् । एषां द्वन्द्व इति । प्राण्यङ्गानां द्वन्द्वः, तूर्याङ्गानां द्वन्द्वः, सेनाङ्गानां द्वन्द्व इत्यर्थधः ।द्विगुरेकवचन॑मित्यत एकवचनं वर्तते । तत्रैकं वक्तीति व्युत्पत्त्या एकत्वविशिष्टः समाहाररूपो योऽर्थस्तत्प्रतिपादकः स्यादित्यर्थं मन्वानः फलितमाह — एकवत्स्यादिति । पाणिपादमिति । यद्यप्यत्रजातिरप्राणिना॑मित्येव सिद्धं, तथापि द्रव्यप्राधान्येऽपि भवत्विति प्राणिग्रहणमित्येके । प्राणिपणवाविति व्यतिकरे मा भूदिति नियमार्थं वचनमित्यन्ये । मार्दङ्गिकेति । मृदङ्गवादनं शिल्पमस्येत्यर्थेतदस्य शिल्प॑मिति ठक् । एवंपाणविक॑इत्यपि । रथिकाआआरोहमिति । रथेन चरन्तीति रथिकाः ।पर्पादिभ्यः ष्ठ॑न्निति ष्ठ्न् । ते चाआरोहाश्चा तेषां समाहारः । ननुचार्थे द्वन्द्वः॑इत्यनेन समाहारद्वन्द्वः सिद्धः तस्य चैकत्वादेकवचनमपि सिद्धमिति किमनेनेत्याशङ्क्याह — नियमार्तमिति । समाहार एवेति ।समाहारे प्राण्यङ्गादीनामेवे॑ति विपरीतनियमोऽत्र न भवति,तिष्यपुनर्वस्वो॑रिति सूत्रे बहुवचनग्रहणात् । तद्धि समाहारे एकवचनस्य द्विवचनं मा भूदिति कृतम् । अन्यथातिष्यपुनर्वस्वि॑ति न स्यादिति । एवं चद्वन्द्वश्च प्राणिसूत्रेय॑ति प्रकरणबहुर्भूतानामपि लसमाहारद्वन्द्वो भवत्येव, तेनसर्वो द्वन्द्वो विभाषैकवद्भवती॑ति पठमानं नाऽपूर्वं वचनमिति ज्ञेयम् । Padamanjari ----------- द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्॥ इह यस्य द्वन्द्वस्य कश्चिदवयवः प्राण्यङ्गवाची, कश्चितूर्याङ्गवाची, कश्चित्सेनाङ्गवाची; यथा - पाणिमार्दङ्गिकाश्वारोहा इति, स व्यतिकीर्णावयवोऽपि प्राण्यङ्गादीनां द्वन्द्वी भवत्येवेत्येकवद्भावः प्राप्नोति, तत्राह - अङ्गशब्दस्येत्यादि। ननु पूर्वपक्षेऽपि प्रत्येकमेव परिसमाप्तिरङ्गशब्दस्य, न हिप्राणितूर्यसेनानामेकमङ्गं सम्भवति? एवं तर्ह्यङ्गानामेव रूपस्य बहुवचनान्तस्य सतोऽङ्गशब्दस्य प्रत्येकं सम्बन्धः, न तु प्रत्येकपरिसमाप्तस्य पश्चाद्वहुवचनसम्बन्धः। त्रीणि वाक्यानि संपद्यन्त इति। सूत्रं तु तेषामेव ग्रहणकवाक्यमिति भावः। तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गयोरेव द्वन्द्वः कृतस्तस्यैकवद्भावो विधीयते, द्वितीयेन तूर्याङ्गानां तूर्याङ्गैरेव, तृतीयेन सेनाङनां सेनाङ्गैरेवेति न संकरप्रसङ्गः। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्यपेक्षते, अत्राङ्गब्द उपकारकवचनः पूर्वत्रोतरत्र चावयववचनः सेनाङ्गानां चेति पूर्ववदपेक्षा। पाणिपादमिति। अत्र'जातिरप्राणिनाम्' इत्येव सिद्धे व्यतिकरनिरासार्थं वचनम्। मार्दङ्गिकपाणविकमिति।'शिल्पम्' इति ठक्। वीणावादकएति।'नित्यं क्रीडाजीविकयोः' इति समासः, विपञ्ची परिवादिनी, तज्जीविकःउ परिवादकः। पणवमृदङ्गमित्यादौ तु'जातिरप्राणिनाम्' इत्येव सिद्धम्। रथिकाश्वारोहमिति। कथं रथवाजिपतिकरिणीसमाकुलमिति, यावतैकवद्भावे सति नपुंसकह्रस्वत्वेन भाव्यम्? निरङ्कुशाः कवयः। रथवाजिपतिसहिताः करिण्यो रथवाजिपतिकरिण्यस्ताभिः समाकुलमिति वा समर्थनीयम्। द्वन्द्वश्चेत्यारभ्य'विभाषा समीपे' इत्यन्तस्य प्रकरणस्यानारम्भणीयतां शङ्कतेइतरेतरयोग इत्यादि। सिद्धमेवैकवचनमिति। ततश्चानारम्भणीयं प्रकरणमिति भावः। परिहरति - इदं त्विति। कः पुनरसौ विषयविभाग इत्याह - प्राण्यङ्गादीनामिति। कथं पुनः प्राण्याङ्गादीनां द्वन्द्व एकवचनो भवतीत्यस्य वचनस्य प्राण्यङ्गादीनां समाहार एवेत्यर्थो भवतीति? वचनव्यक्तिभेदात्। एवं ह्यत्र वचनं व्यज्यते - य एकवचनो द्वन्द्वः स एषां भवतीति, न पुनः प्राण्यङ्गादीनां यो द्वन्द्व इत्यनूद्य तस्यैकवचनता विधीयते। एकवचनान्तश्च द्वन्द्वः समाहारद्वन्द्वः, स प्राण्यङ्गदीनामपि'चार्थे द्वन्द्वः' इत्येव सिद्ध इति स एवैषामिति नियमः संपद्यते; दधिपय आदिष्वपि येषां ब्रह्मप्रजापत्यादीनामनेन प्रकरणेन नियमस्याप्राप्तिस्तेषां तावत्'चार्थे द्वन्द्वः' इत्यनेन प्राप्तो द्वन्द्वः प्रतिषिध्यते। य एकवचनो द्वन्द्वः स एषां न भवतीति वचनव्यक्त्या श्रयेण येषामपि दधिपयसी इत्यादीनां'जातिरप्राणिनाम्' इति नियमस्य प्राप्तिस्तेषाम् ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति यद्यपि नियमस्य प्रतिषेधो युक्तः, तथापि ब्रह्मप्रजापत्यादिभिः साहचर्यादेकवचनो द्वन्द्व इत्येतावन्मात्रस्यापेक्षणात्समाहारद्वन्द्व एव प्रतिषिध्यते, न नियमः। वृक्षादिविभाषाप्रयोजनं तु तत्रैव वक्ष्यामः। अथैवं कस्मान्न विज्ञायते - इतरेतरयोगपक्षेऽप्राप्त एकवद्भावो विधीयत इति? उच्यते - यदीतरेतरयोगविहितद्वन्द्वस्यैकवद्भावो विधीयेत,'द्वन्द्वाच्चुदषहान्त' इत्यादिना समाहारनिबन्धनं कार्थ न स्याद्। दधिपयाअदिषु तु यस्य द्वन्द्वस्यैकवचनप्राप्तिस्तस्य प्रतिषिध्येतेति समाहारद्वन्द्वस्यैकवचनतायां प्रतिषिद्धायामपि द्वित्वबहुत्वाभावाद् द्विवचनबहुवचने न स्यातामतो नियम एवाङ्गीकर्तव्यः। अत्र च व्याख्यानमेव शरणम्। अथ नियमोऽपि भवन्नेवमेव कस्माद्भावति - प्राण्यङ्गादीनां समाहार एवेति? न पुनः - -प्राण्यङ्गादीनामेव समाहार इति? उच्यते - एवं हि विज्ञायमाने दधिपयाअदिषु येषामनेन प्रकरणेन नियमो न प्राप्नोति तेषु प्रतिषेधोऽनर्थकः स्यात् तिष्यपुनर्वस्वोरिति बुवचनग्रहणमनर्थकं स्यात्। तद्धितसमाहारद्वन्द्वपक्षे तिष्यपुनर्वस्विदमित्यत्रैकवचनस्य प्रसङ्गे द्विवचनं मा भूदित्येवमर्थम् यदि च त्वदुक्तो नियमः स्यातिष्यपुनर्वस्वोरत्र प्रकरणेऽसङ्कीर्तितयोः समाहारद्वन्द्वाभावादनर्थकं तत्स्यात्, अतो वृत्तिकारोक्तमेव नियमस्वरूपमिति निरवद्यम्॥ Nyaas ----- अत्राङ्गशब्दः समुदाये परिसमाप्यते? प्रत्येकं परिसमाप्यते वा? तत्र यदि समुदाये परिसमाप्येत तदैकमेवेदं वाक्यं स्यात्, तथा च व्यतिकरः प्रसज्येत। प्राणितूर्यसेनाङ्गानां परस्परसहितानां यो द्वन्द्वो व्यतिकीर्णावयवस्तस्यैकवद्भावः स्यात्। प्रत्येकं परिसमाप्तौ त्वेष दोषो न भवति। तत्र हि प्राण्यङ्गानां द्वन्द्व एकवद्भवतीत्येवमादीनि त्रीणि वाक्यानि सम्पद्यन्ते। स्वविषये यत्र बहुवचनान्तं वाक्यं क्रियते तत्र प्रथमेन वाक्येन प्राण्यङ्गानां प्राण्यङ्गैरेव यः समासस्तस्यैकवद्भावो विधीयते। द्वितीयेन वाक्येन तूर्याङ्गानां तूर्याङ्गैः। तृतीयेन सेनाङ्गानां सेनाङ्गैरिति न भवति सङ्करप्रसङ्गः। न हि चतुर्थ वाक्यमस्ति येन व्यतिकीर्णावयवस्य द्वन्द्वस्यैकार्थता स्यादिति मन्यमानः प्रत्येकं वाक्यपरिसमाप्तिपक्षमाश्रित्याह - `अङ्गशब्दस्य` इत्यादि। तथा तूर्याङ्गानामिति द्वन्द्व एकवद्भवतीत्येपेक्षते। एवं सेनाङागनाञ्चेत्यत्रापि। `पाणिपादम्` इति। अत्र यदि प्राण्यङ्गमपि प्राणिग्रहणेन गृह्रते तदा `जातिरप्राणिनाम्` (2.4.6) इत्येवं सिद्धम्। यथा - पणवमृदङ्गमिति। `रथिकाआआरोहम्` इति। रथिकाश्चाआआरोहाश्चेति वृत्तिपदार्थस्य बहुत्वं दर्शयितव्यम्। यस्माद्बहुत्वमेव सेनाङ्गत्वे कारणम्। बहुत्वाभावे सेनाङ्गत्वन्नास्तीति रथिकाआआरोहाविति भवितव्यम्। `हस्त्यआआदिषु परत्वात् पशुद्वन्द्वविभाषयैव भवितव्यम्` इति। `विभाषा वृक्षमृग` (2.4.12) इत्यादिना। `इतरेतरयोगे` इत्यादिना द्वन्द्वप्रकरणस्य प्रयोजनं दर्शयति। `प्राण्यङ्गादीनां समाहार एव` इत्यादिना विषयविभाषागार्थतां स्पष्टीकरोति॥ Prakriyasarvasvam ----------------- एषां द्वन्द्व एकवत् स्यात् । प्राण्यङ्गे दन्तोष्ठम् । तूर्याङ्गमिति वाद्योपजीविन उक्ताः । वैणिकवांशिकम् । सेनाङ्गे—रथिकाश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धेऽपि प्राण्यङ्गादीनां समाहार एव द्वन्द्व इत्यनेनोच्यते । एवं दधिपयआदीना- मेकत्वनिषेधादितरेतरयोग एव द्वन्द्वः । वृक्षमृगादीनामुभयं स्यादिति तात्पर्यम् ॥