23071: कृत्यानां कर्तरि वा ========================== **Padacheda:** कृत्यानाम् | S | 6 | 3 | कर्तरि | S | 7 | 1 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The 6th-Case-affix is optionally used in denoting the agent, (but not the object), when the word is governed by a Future Passive Participle (कृत्य). Vasu English Translation ------------------------ The 6th-Case-affix is optionally used in denoting the agent, (but not the object), when the word is governed by a Future Passive Participle (कृत्य). By (2.3.65), verbal nouns, (*krit*-formed), always govern the Genitive in denoting agent or object. The present *sutra* declares an option as to agent only, in the case of those verbal nouns which are Future Passive Participles. Thus भवतः or भवता कटः कर्तव्यः (3.1.95). Why do we say 'in denoting the agent'? In denoting the object, no option is allowed; the Genitive is compulsory. As गेयो माणवकः साम्नाम् ॥ Vart:- The prohibition of the Genitive should be stated in the case of the Future Passive Participles of those verbs which govern two objects. Thus क्रष्टव्या ग्रामं शाखा देवदत्तेन, नेतव्या ग्राममजा देवदत्तेन ॥ Bhashya ------- कृत्यानां कर्तरि वा 529 (335 षष्ठीविकल्पनसूत्रम् ॥ 2.3.3। आ. 13) (योगविभागाधिकरणम्) (आक्षेपभाष्यम्) कर्तृग्रहणं किमर्थम्? ॥ (समाधानभाष्यम्) कर्मणि मा भूदिति ॥ (समाधानबाधकभाष्यम्) नैतदस्ति प्रयोजनम्। भावकर्मणोः कृत्या विधीयन्ते। तत्र कृत्यैरभिहितत्वात्कर्मणि षष्ठी न भविष्यति। (समाधानभाष्यम्) अत उत्तरं पठति - (1553 वार्तिकम् ॥ 3 ॥) - भव्यादीनां कर्मणोनभिधानात्कृत्यानां कर्तृग्रहणम् - (भाष्यम्) भव्यादीनां कर्म कृत्यैरनभिहितं गेयो माणवकः साम्नाम् भव्यादीनां कर्मणोनभिधानात्कृत्यानां कर्तृग्रहणं क्रियते ॥ (आक्षेपभाष्यम्) किमुच्यते - भव्यादीनां कर्म कृत्यैरनभिहितमिति, नेहाप्यनभिहितं भवति - आक्रष्टव्या ग्रामं शाखेति ॥ (समाधानभाष्यम्) एवं तर्हि योगविभागः करिष्यते - कृत्यनाम् कृत्यानां प्रयोगे षष्ठी न भवतीति। किमुदाहरणम्?। ग्राममाक्रष्टव्या शाखा ॥ ततः कर्तरि वा इति ॥ (आक्षेपभाष्यम्) इहापि तर्हि प्राप्नोति - गेयो माणवकः साम्नामिति ॥ (समाधानभाष्यम्) उभयप्राप्ताविति वर्तते ॥ (समाधानबाधकभाष्यम्) ननु चोभयप्राप्तिरेवैषा। गेयो माणवकः साम्नामिति च गेयानि माणवकेन सामानीति च भवति ॥ (समाधानसाधकभाष्यम्) उभयप्राप्तिर्नाम सा भवति, यत्रोभयस्य युगपत्प्रसङ्गः। अत्र च यदा कर्मणि न तदा कर्तरि। यदा कर्तरि न तदा कर्मणीति ॥ कृत्यानाम् ॥ 71 ॥ इति श्रीभगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये द्वितीयस्याध्यायस्य तृतीये पादे तृतीयमाह्निकम् ॥ पादश्च समाप्तः ॥ Kashika ------- **कर्तृकर्मणोः कृति** (२.३.६५) इति नित्यं षष्ठी प्राप्ता कर्तरि विकल्प्यते। कृत्यानां प्रयोगे कर्तरि वा षष्ठी विभक्तिर्भवति, न कर्मणि। भवता कटः कर्तव्यः, भवतः कटः कर्तव्यः। कर्तरीति किम्? गेयो माणवकः साम्नाम्॥ उभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्यः॥ क्रष्टव्या ग्रामं शाखा देवदत्तेन। नेतव्या ग्राममजा देवदत्तेन॥ Siddhanta Kaumudi ----------------- षष्ठी वा स्यात् । मया मम वा सेव्यो हरिः । कर्तरीति किम् ? गेयो माणवकः साम्नाम् । भव्यगेय (SK2894) इति कर्तरि यद्विधानादनभिहितं कर्म । अत्र योगो विभज्यते ॥ कृत्यानाम् ॥ उभयप्राप्ताविति नेति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । ततः ॥ कर्तरि वा ॥ उक्तोऽर्थः ॥ Balamanorama ------------ **कृत्यानां कर्तरि वा** - कृत्यानाम् । शेषपूरणेन सूत्रं व्याचष्टे — षष्ठी वा स्यादिति । 'कृत्या' इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्ययविशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । कर्तृकर्मणोः॑ इति नित्यं प्राप्ते विकल्पोऽयम् । मया मम वा सेव्यो हरिरिति । 'षेवृ सेवायाम्'ऋहलोण्र्य॑दिति कर्मणि ण्यत्प्रत्ययः । अस्मच्छब्दार्थस्य कर्तुरनभिहितत्वात्षष्ठींतृतीये । गेय इति । नन्विह साम्नः कर्मत्वस्यअचो य॑दिति यत्प्रत्ययाभिहितत्वात्कथं षष्ठीप्रसक्तिरित्यत आह — भव्येति । ननुनेतव्या व्रजं गावः कृष्णेने॑त्यत्र कृत्यसंज्ञकतव्यप्रत्यययोगात् 'उभयप्राप्तौ' इति बाधित्वा कृष्णात्षष्ठीविकल्पः स्यात्, व्रज्रात्तुकर्तृकर्मणोः कृती॑ति नित्यं स्यादित्यत आह-अत्र योगो विभज्यत इति । विभागप्रकारं दर्शयति — कृत्यानामिति । अनुवर्तत इति । तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति । 'गुणकर्मणि वेष्यते' इति व्रजाद्विकल्पस्तु न भवति, नेता अआस्य रुआउघ्नस्य रुआउघ्नं वेति उभयप्राप्तिरहिते कृत्यव्यतिरेक्ते चरितार्थस्यदोग्धव्या गाः पयः कृष्णेने॑त्यादौ गुणकर्मण उक्तत्वेन प्रधानकर्मणि चरितार्थेनान#एन परत्वाद्बाधात् । ततः कर्तरि वेति ।कृत्याना॑मिति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक्प्रेणतव्यमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । उक्तोऽर्थ इति ।कृत्याना॑मित्यनुवर्त्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषयेमया मम वा सेव्यो हरि॑रित्यादाविदमवतिष्ठते । Tattvabodhini ------------- **कृत्यानां कर्तरि वा** - कृत्यानाम् ।कर्तृकर्मणोः॑ इति नित्ये प्राप्ते विभाषेयम् । सेव्य इति ।षेवृ सेवायाम् , ऋहलोः — ॑ इति कर्मणि निषेधार्थमिदम् ।गुणकर्मणि वेष्यते ॑ इति तूभयप्राप्तिरहितस्थले नेताऽआरस्येत्यादौ चरितार्थमिति दिक् । तुल्यार्थेः । शेषषष्ठआं प्राप्तायां विकल्पेन तृतीया अनेन विधीयते, तया मुक्ते षष्ठएव भवेत्तदाह -पक्षे षष्ठीति । बहुवचननिर्देशादेव पर्यायग्रहणे सिद्धे॒तुल्यार्थैः॑ इत्यर्थग्रहणं पदान्तरनैरपेक्ष्येण ये तुल्यार्थास्तेषां ग्रहणार्थं, तेन गौरवि गवय इत्यादौ नेत्याहुः । कथं तर्हितुलां यदारोहति दन्तवाससा॑ इति कालिदासः,स्फुटोपमं भूतिसितेन शम्भुना॑ इति माघश्च । उच्यते — ॒सहयुक्तेऽप्रधाने॑ इति तृतीया । न चात्र सहशब्दयोगो नेति शङ्क्यम्, विनापि तद्योगं तृतीयेत्यभ्युपगमात् । वेति वर्तमानेऽन्यतरस्याङ्ग्रहणमुत्तरसूत्रे चकारेण स्वस्यानुकर्षणार्थम् । अन्यथा हि तृतीयैवानुकृष्येत, संनिहितत्वात् । Padamanjari ----------- कृत्यानां कर्तरि वा॥ कर्तरोति किमिति।'तयोरेव कृत्यक्तखलर्थाः' इति वचनादकर्मकेभ्यो भावे सकर्मकेभ्यश्च कर्मणि कृत्यानां विधानात्कर्तुरेव तैरनभिधानं सम्भवतीति कर्तृकर्मणोर्द्वयोरधिकारेऽपि कर्तयेव षष्ठी भविष्यतीति प्रश्नः। गेय इति।'भव्यगेय' इत्यादिना कर्तरि यत्प्रत्ययः। साम्नामिति। कर्मणि नित्यमेव षष्ठी भवति। उभयप्राप्तौ कृत्य इति। उभयो कर्तृकर्मणोः प्राप्तिर्यस्मिन् कृत्ये तत्र द्वयोरपि कर्तृकर्मणोः षष्ठी न भवतीत्यर्थः। क्रष्टव्येति। कृषेद्विकर्मकत्वात्प्रधाने कर्मणि कृत्यप्रत्ययः, न त्वप्रधान इति तस्मिन् कर्मणि कर्तरि च प्राप्ता षष्ठी न भवति। एतच्चयोगविभागाल्लभ्यते, कथम्? कृत्यानामित्येको योगः, अत्रोभयप्राप्तौ नेति च वर्तते, युगपदुभयप्राप्तीनां कृत्यानां प्रयोगे षष्ठी न भवतीत्यर्थः; ततः कर्तरि वा, अत्र षष्ठीत्येवानुवर्तते, अन्यत्सर्वं निवृतम्॥ Nyaas ----- `गेयो माणवकः साम्नाम्िति। `भव्यगेय` (3.4.68) इत्यादिना कर्तरि गेयशब्दो व्युत्पादितः। गायतीति गेयः साम्नामिति कर्मणि षष्ठी नित्यमेव भवति। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - `न लोकाव्ययनिष्ठा` (2.3.69) इत्यत्र नेति योगविभागः कर्तव्यः, तेनोभयप्राप्तौ कृत्ये षष्ठआप्रतिषेधो भविष्यति। तेन क्रष्टव्या शाखा ग्रामं देवदत्तेनेति। कृषेः **अनुदात्तस्य चर्दुपधस्यान्यतरस्याम्** (6.1.59) इत्यमागमो भवति। देवदत्ते कर्तरि षष्ठी मा भूदिति। एवमुभयप्राप्तौ कृत्ये षष्ठ्याः प्रतिषेधो वक्तव्य इत्युक्तम्। कर्मणि तु शाखायां कृत्येनाभिहित्वादेव षष्ठी न भविष्यति। ग्राम्यस्याप्रधानत्वादेव यथैव हि कृत्याः प्रधाने कर्मणि भवन्ति नाप्रधाने तथा षष्ठपि। न चेह ग्रामः प्रधानं कर्म, किं तर्हि? शाखेति॥ Prakriyasarvasvam ----------------- मया सेव्यो मम सेव्यो वा हरिः । उभयप्राप्तौ कृत्ययोगे षष्ठी न । कृष्णेन माक्षं नेतव्योऽहम् ॥ Sutra Prayogas -------------- * **ते** (कुमारसम्भवम्): `कृत्यानां कर्तरि वा` इति षष्ठी। * **तव** (किरातार्जुनीयम्): `कृत्यानां कर्तरि वा` इति षष्ठी। * **सत्सहायानां** (किरातार्जुनीयम्): `कृत्यानां कर्तरि वा` इति षष्ठी। * **ते** (किरातार्जुनीयम्): `कृत्यानां कर्तरि वा` इति षष्ठी। * **राज्ञां** (शिशुपालवधम्): `कृत्यानां कर्तरि वा` इति कर्तरि षष्ठी। * **जगदर्चनीयम्** (भट्टिकाव्यम्): `कृत्यानां कर्तरि वा` इति षष्ठी। * **तेन** (भट्टिकाव्यम्): `कृत्यानां कर्तरि वा` इति तृतीया। * **मारुतेः** (भट्टिकाव्यम्): `कृत्यानां कर्तरि वा` इति पष्ठी। * **मया** (भट्टिकाव्यम्): `कृत्यानां कर्तरि वा` इति कर्तरि तृतीया।