23070: अकेनोर्भविष्यदाधमर्ण्ययोः ================================ **Padacheda:** अक-इनोः | S | 6 | 2 | भविष्यत्-आधमर्ण्ययोः | S | 7 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The 6th-Case-affix is not used when the word is governed by a verbal noun in अक denoting futurity, or in a इन् denoting 'futurity and indebtedness'. Vasu English Translation ------------------------ The 6th-Case-affix is not used when the word is governed by a verbal noun in अक denoting futurity, or in a इन् denoting 'futurity and indebtedness'. The affix अक, such as ण्वुल, वुञ् &c., denote futurity, and never denote indebtedness. The affix इन् such as णिनि (3.3.3) and (3.3.170) denotes both. Thus कटं कारको व्रजति 'he goes to make a mat.' ओदनं भोजको व्रजति 'he goes to eat rice.' So also with इन्, as ग्रामंगमी or ग्रामी 'he has to go to the village.' शतं दायी 'he owes hundred.' Why do we say 'when denoting futurity or indebtedness' ? Observe यवानां लावकः 'the cutter of barley.' सक्तूनां पावकः, अवश्यं करी कटस्य ॥ Why is the Genitive employed in the following वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शकः ? The words पूरक and दर्शक, though formed by अक (3.1.133), are not formed by that अक which denotes futurity, viz., (II . 3.10). The present *sutra* relates to this latter अक, and not every अक in general. Bhashya ------- अकेनोर्भविष्यदाधर्मण्ययोः 528 (334 कारकषष्ठीनिषेधसूत्रम् ॥ 2.3.3 आ.12) (अर्थप्रत्यययोरन्वयदर्शकाधिकरणम्) (1551 वार्तिकम् ॥ 1 ॥) - अकस्य भविष्यति - (भाष्यम्) अकस्य भविष्यतीति वक्तव्यम्। यवान् लावको व्रजति। ओदनं भोजको व्रजति ॥ (1552 वार्तिकम् ॥ 2 ॥ ) - इन आधर्मण्ये च - (भाष्यम्) तत इन आधर्मण्ये भविष्यति चेति वक्तव्यम्। शतं दायी सहस्रं दायी ग्रामं गमी ॥ अके ॥ 70 ॥ Kashika ------- अकस्य भविष्यति काले विहितस्य, इनस्तु भविष्यति चाधमर्ण्ये च विहितस्य प्रयोगे षष्ठी विभक्तिर्न भवति। कटं कारको व्रजति। ओदनं भोजको व्रजति। इनः खल्वपि — ग्रामं गमी। ग्रामं गामी। आधमर्ण्ये — शतं दायी। सहस्रं दायी। भविष्यदाधमर्ण्ययोरिति किम्? यवानां लावकः। सक्तूनां पायकः। अवश्यंकारी कटस्य। इह कस्माद् न भवति — वर्षशतस्य पूरकः, पुत्रपौत्राणां दर्शक इति? भविष्यदधिकारे विहितस्याकस्येदं ग्रहणम्॥ Siddhanta Kaumudi ----------------- भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सतः पावकोऽवतरति । व्रजं गामी । शतं दायी ॥ Tattvabodhini ------------- **अकेनोर्भविष्यदाधमर्ण्ययोः** - अकेनोः । आधमण्र्ये अकस्याऽसम्भवाह -भविष्यत्यकस्येति । इनस्तु उभयोः सम्भवादाह — भविष्यदाधमण्र्यार्थेनश्च योग इति । यथासंख्यं तु न भवति, भाष्येअकस्य भविष्यति॑इन आमण्र्ये च ॑इति योगं विभज्य व्याख्यानात् ।इह भविष्यदिति स्वर्यते, तेनभविष्यति गम्यादयः॑इत्यधिकारे विहितःतुमुन्ण्वुलौ — ॑ इति ण्वुलेव गृह्रत इत्याशयेनोदाहरति -सतः पालक इतिष सत इति शत्रन्तम् । यस्तु कालसामान्येण्वुल्तृचौ — ॑इति ण्वुलुक्तस्त्तर न निषेधः,ओदनस्य पाचकः॑पुत्रपौत्राणां दर्शक॑इतीति भावः । व्रजं गामीति ।आवश्यकाधमण्र्ययोर्णिनिः॑ इत्यावश्यके णिनिः । यद्यप्ययं कालसामान्ये विहिकस्तथापिभविष्यति गम्यादयः॑ इत्युक्तेर्भविष्यदर्थकः । गम्यादयः केचिदुणादयः, केचिदष्टाध्यायीगता इति हरदत्तः । ननुगत्यर्थकर्मणि चतुर्थी च॑ इत्येव सिद्धे द्वितीय ग्रहणमपवादविषयेऽपि द्वितीयाप्रवृत्त्यर्थमिति व्रजङघ्गमिति सिध्यत्येवेति चेत्, अत्राहुः — इहैव सूत्रे ग्रामङ्गमीति भाष्योदाहरणात्तत्सूत्रं नाङ्गीक्रियते । तेन ग्रामस्य गन्तेति षष्ठएव साध्वी, न तु ग्रामं गन्तिति द्वितीयते । शतंदायीति ।आवश्यके॑त्याधर्मण्ये णिनिः ।भविष्यदाधर्मण्यार्थेनश्च योग॑ इत्युक्तत्वान्नेह निषेधः । अवश्यं करोत्य वश्यङ्कारी कटस्य । गम्यादित्वाऽभावाद्वर्तमानेऽप्ययम् । Padamanjari ----------- अकेनोर्भविष्यदाधमर्ण्ययोः॥ अकस्य भविष्यति काले इनस्तु आधमर्ण्ये चेति। संख्यातानुदेशस्तु व्याख्यानान्न भवतीति भादः। ग्रामं गमीति।'भविष्यति गम्यादयः' ननुच नात्र षष्ठयाः प्रसंगः, कथम्? गत्यर्थकर्मणीत्यत्रोक्तम् -'द्वितीयाग्रहरगं किम्? न चुतर्थ्येव विकल्प्येत, अपवादविषये' पि यथा स्याद्ग्रामस्य गन्ताऽ इति, सत्यम्; श्रौते तावत् प्रतिषेधे लभ्यमाने किं द्वितीयाग्रहणसामर्थ्याश्रयणेनेति मन्यते॥ Nyaas ----- `अकस्य भविष्यति काले` इति। नाधमण्र्ये, तस्य तत्रासम्भवात्। `इनस्तु भविष्यदाधमण्र्ययोः` इति। तस्योभयोरपि सम्भवात्। ननु च साम्यादिह संख्यातानुदेशेन भवितव्यम्? नैतदस्ति; स्वरितेन हि संख्यातानुदेशो भवति, न चेह तदर्थं स्वरितत्वं प्रतिज्ञायते। `कटं कारको व्रजति` इति। `तुमुन्ण्वुलौ` (3.3.10) इत्यादिना ण्वुल्। `ग्रामं गमी` इति। गमेरिनिः। स च **भविष्यति गम्यादयः** (3.3.3) इति वचनाद्भविष्यत्कालविषयः। `शतं दायी` इति। `आवश्यकाधमण्र्ययोर्णिनिः` (3.3.170) । `यवानां लावकः` इति। `ण्वुलतृचौ` (3.1.133) इति ण्वुल्। `अवश्यं कारी` इति। आवश्यके णिनिः। `वर्षशतस्य पूरकः` इति। `पूरी आप्यायने` (धातुपाठः-1151) चौरादिकः। तस्मात् `ण्वुल्तृचजौ` (3.1.133) इति भविष्यत्काले ण्वुल्। स हि त्रिषु कालेषु भवति। `भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्` इति। इह हि भविष्यदिति स्वर्यते। स्वरितेनाधिकारावगतिर्भवति। तेन भविष्यदधिकारविहितस्येदमकस्य ग्रहणम्, न सर्वस्य॥ Prakriyasarvasvam ----------------- भविष्यद्विहितस्याकस्य भविष्यदाधमर्ण्ययोरिनश्च योगे षष्ठी न । अन्नं भोजको व्रजति । तुमुनर्थे ण्वुल् । इनस्तु—ग्रामं गमी । शतं दायी ॥ Sutra Prayogas -------------- * **सङ्ग्रामयायिनः** (रघुवंशम्): `अकेनोर्भविष्यदाधमर्ण्ययोः` इति षष्ठीनिषेधः। * **प्रदोषम्** (शिशुपालवधम्): `अकेनोर्भविष्यदाधमर्ण्ययोः` इति षष्ठीप्रतिषेधाद्वितीया। * **वधूः** (शिशुपालवधम्): `अकेनोर्भविष्यदाधमर्ण्ययोः` इति षष्ठीप्रतिषेधात् द्वितीया। * **कारका** (भट्टिकाव्यम्): `अकेनोर्भविष्यदाधमर्ण्ययोः` इति षष्ठीप्रतिषेधे द्वितीयैव स्यात्। * **वार्ताम्** (भट्टिकाव्यम्): `अकेनोर्भविष्यदाधमर्ण्ययोः` इति षष्ठीप्रतिषेधः।