23054: रुजार्थानां भाववचनानामज्वरेः
===================================
**Padacheda:** रुज-अर्थानाम् | S | 6 | 3 |
भाव-वचनानाम् | S | 6 | 3 |
अज्वरेः | S | 6 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
The object of verbs having the sense of रुज् 'to afflict', with the exception of the Causative verb ज्वरय 'to be feverish', takes the 6th-Case-affix, when the verb expresses a condition (i.e. when the subject is an Abstract noun).
Vasu English Translation
------------------------
The object of verbs having the sense of रुज् 'to afflict', with the exception of the Causative verb ज्वरय 'to be feverish', takes the 6th-Case-affix, when the verb expresses a condition (i.e. when the subject is an Abstract noun).
Ex. चौरस्य रुजति रोगः 'the disease afflicts the thief' चौरस्यामयति आमयः ।
Why do we say 'when the subject is an Abstract noun'? Observe नदी कूलानि रुजति 'the river breaks the banks.' So also not here चौरं ज्वरयति ज्वरः 'the fever burns the thief.' So also when the verb संताप is used, चौरं संतापयति तापः ।
३
The word शेष is also understood here. Thus चौरं रुजति रोगः ॥
Bhashya
-------
रुजार्थानां भाववचनानामज्वरेः 512 (326 प्रतिपदषष्ठीसूत्रम् ॥ 2.3.3। आ.4 सू.) (1533 शेषपूरकवार्तिकम् ॥ 1 ) - अज्वरिसंताप्योः - (भाष्यम्) अज्वरिसंताप्योरिति वक्तव्यम्। इहापि यथा स्यात् - चोरं सन्तापयति, वृषलं सन्तापयति ॥ (आक्षेपभाष्यम्) अथ किमर्थं भाववचनानाम् इत्युच्यते। यावता रुजार्था भाववचना एव भवन्ति? ॥ (समाधानभाष्यम्) भावकर्तृकाद्यथा स्यात्। इह मा भूद् - नदी कूलानि रुजतीति ॥ रुजार्थानाम् ॥ 54 ॥
Kashika
-------
रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति। चौरस्य रुजति रोगः। चौरस्यामयत्यामयः। रुजार्थानामिति किम्?
एति जीवन्तमानन्दो नरं वर्षशतादपि।
जीव पुत्रक मा मैवं तपः साहसमाचर॥
भाववचनानामिति किम्? नदी कूलानि रुजति। अज्वरेरिति किम्? चौरं ज्वरयति ज्वरः॥ अज्वरिसंताप्योरिति वक्तव्यम्॥ चौरं संतापयति तापः। शेष इत्येव — चौरं रुजति रोगः॥
Siddhanta Kaumudi
-----------------
भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् । चौरस्य रोगस्य रुजा । (वार्तिकम्) ॥ रोगस्य चौरज्वरः चौरसन्तापो वा । रोगकर्तृकं चौरसंबन्धि ज्वरादिकमित्यर्थः ॥
Balamanorama
------------
**रुजार्थानां भाववचनानामज्वरेः** - रुजार्थानाम् । रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः । भाववचनानामित्येतद्व्याचष्टे — भावकर्तृकाणामिति । वक्तीति वचनः, कर्तरि ल्युट् । प्रकृत्यर्थौ न विवक्षितः । भावो=धात्वर्थो, वचनः=कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह — कर्मणि शेष इति । इदमपि समासाऽभावार्थमेव । चौरस्य रोगस्य रुजेति । अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते । रोगश्चौरं संतापादिना पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतःकर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः । अत्र भावघञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः । सच रुजायां कर्ता । तत्कर्मश्चौरस्य शेषत्वविवक्षायां षष्ठी ।रोगस्य चोररुजे॑ति समासो न भवतीति बोध्यम् । अज्वरिसंताप्योरिति ।रुजार्थानां भाववचनानां ज्वरिसंतापिवर्जिताना॑मिति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वर इति । अत्र चौरज्वरशब्दे शेषषष्ठआ समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात् । एवं 'रोगस्य चौरसंताप' इत्यत्रापि बोध्यम् । अत्राऽज्वरिसंताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात्षष्ठी स्यादित्यतिव्याप्त दर्शयितुमाह — रोगकर्तृकमिति । रोगकर्तृको वस्तुतःकर्मीभूतचौरसंबन्धी ज्वरः संतापो वेति यावत् । एवंच ज्वरिसंताप्योः रुजार्थकत्वाद्रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नाऽनेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा । अतः-चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः ।
Tattvabodhini
-------------
**रुजार्थानां भाववचनानामज्वरेः** - रुजार्थानाम् ।रुजो भङ्गे॑ । भिदादिपाठादत एव निपातनाद्वा अङि टाप् । रुजा व्याधिरर्थो येषां तेषां रुजार्थानां धातूनां भाववाचकत्वाऽव्यभिचाराद्भावशब्देनाऽत्र घञादिवाच्यः सिद्धरूपो भाव उच्यते । वक्तीति वचनः । बाहुलकात्कर्तरि ल्युट् । प्रकृत्यर्थस्तु न विवक्षितः, नहि भावो वक्ता सम्भवति । तस्मात्प्रत्ययस्य साधुत्वनिर्वाहायैव वचिरिति बोध्यम् । तथा चायमर्थः, -भावो वचनः=कर्ता येषां तेषां भाववचनानामिति, तदेतव्द्याचष्टे -भावकर्तृकाणामिति ।रुजार्थानां भावकर्तृकाणाम् इत्येव सूत्रयितुं युक्तम् । चौरस्येति । चुरा शीलमस्य चौरः । अत्र कर्मणि शेषत्वविवक्षायामनेन षष्ठी ।अज्वरिसंताप्योरिति वाच्यम् । रोगस्येति ।पदरुज — ॑ इति घञा रोगो भावोऽभिधीयते, स च रुजायां कर्ता ।कर्तृकर्मणोः — ॑ इति रोगशब्दात्षष्ठी । भावाकर्तृकाणां किम् । श्लोष्ममश्चौररुजा ।मायुः पित्तं कफः श्लेष्मा॑ इत्यमरः ।
Padamanjari
-----------
रुजार्थानां भाववचनानामज्वरे॥ रुजो भङ्गेऽभिदादिपाठादस्मादेव निपातनाद्वाऽङ्। भाववचनानामिति। नायमर्थो भाववाचिनामिति, धातूनां भाववाचित्वाव्यभिचारात्। किं तर्हि? भावशब्देन घञादिवाच्यः सिद्धरूपो भाव उच्यते। वचन इति कर्तरि ल्युट्। तत्र प्रकृत्यर्थो न विवक्ष्यते, न हि रुजार्थानां भावो वक्ता प्रतिपादयितोच्चारयिता वोपपद्दाते। तस्मात्प्रत्ययार्थ एव कर्ता विवक्षितः - भावो वचनः कर्ता येषामित्यर्थः, तदाह - भावकर्तृकाणामिति। चौरस्यामयतीति। ठम रोगेऽ चुरादिः'नान्ये मितो' हेतौऽ इति चुरादौ वचनात्'जनीजृष्क्नसुरञ्जो' मन्ताश्चऽ इति मित्वं न भवति।'ज्ञप मिच्च' इत्यारभ्य'नान्ये मितो' हेतौऽ इतः प्राग्ये पठितास्त एव चुरादिषु मितो भवन्ति, नान्य इत्यर्थः। आमय इति आङ्पूर्वस्य मीनातेरेच्,'मीनातिमिनोति' इत्यात्वस्य'निमिमीलीयां खलचोः' इति प्रतिषेधः। नदीकूलं रुजतीति। अत्र नदी कर्त्री, न भावः। ननु रुजाशब्दो व्याधौ रूढ इति नात्र प्रसङ्गः? एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता, इदं तु प्रत्युदाहरणम् - श्लेष्मा पुरुषं रुजतीति, व्याधिना कासादिना ग्राहयतीत्यर्थः। ज्वरयतीति।'ज्वर रोगे' घटादिः। सन्तापयतीति।'हेतुमति च' इति णिच्, सन्तापोऽत्र भावः, कर्ता च॥
Nyaas
-----
रुजेति केचिद्भिदादिषु पठन्ति। ये न पठन्ति तेऽपि `चिन्तिपूजिकथिकुम्बचर्च्चश्च` (3.3.105) इति चकारस्यानुक्तसमुच्चयार्थत्वादस्मादेव निपातनाद्वा रुजाशब्दस्य साधुत्वं वर्णयन्ति। रुजा अर्थो येषां ते रुजार्थाः। `भाववचनानाम्` इति। यदि भावार्थाभिधायिनां रुजार्थानामित्येषोऽर्थो विवक्षितः स्यात्, तदाऽनर्थकमिदं वचनं स्यात्। सर्व एव हि रुजार्था भाववचनाः। तस्मान्नात्र धातुवाच्यो भावो विवक्षितः, किं तर्हि? प्रत्ययवाच्यः, यत्र `भावे` (3.3.18) इति घञ् विधीयते। वचनशब्दोऽयं कर्त्तृसाधनः, वक्तीति वचनः, **कृत्यल्युटो बहुलम्** (3.3.113) इति कर्तरि ल्युट्। न च रुजार्थानां यो भावस्तस्य वचनक्रियां प्रति कर्त्तृत्वं सम्भवतीति सामर्थ्यादवचनशब्देन प्रकृत्यर्थं परित्यज्य प्रत्ययार्थो विवक्षित इति प्रतीयते। स पुनः कर्त्तृशक्तिः। भाववचनानामिति बहुव्रीहिः - भावो वचनः कर्ता येषां ते भाववचनाः। भावकर्त्तृका इत्यर्थः। एतत्सर्वं चेतसि कृत्वाऽऽह - `भावकर्त्तृकाणाम्` इति। भावकर्त्तृकाणामित्येवं नोक्तं वैचित्र्यार्थम्। `चौरस्य रुजति` इति। `रुजो भङ्गे` (धातुपाठः-1416), तौदीदिकः। अत्र रोगो भावः कर्ता। `चौरस्यामयति` इत्यत्राप्यामयः। `अम रोगे` (धातुपाठः-1720), चौरादिकः।`एति जीवन्तमनन्दो नरं वर्षशतादपि` इति। अस्त्यत्रानन्दो भावः कर्ता। न त्वेतिर्धातू रुजार्थः, किं तर्हि? गत्यर्थः। `नदी कूलानि रुजति` इति। रुजिरत्र द्रव्यकर्त्तृकः, न भावकर्त्तृकः, नद्या द्रव्यत्वात्। नैतद्युक्तं प्रत्युदाहरणम्, रुजाशब्दो हि रुढिशब्दत्वात् व्याधिमेवाचष्टे; न चात्र व्याधिवचनः, किं तर्हि? भङ्गवचनो रुजिः। एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता वृत्तिकृता। इदन्त्वत्र प्रत्युदाहरणम् - श्लेष्मा पुरुषं रुजतीति। व्याधिना ग्राहयतीत्यर्थः। ज्वरयतीति। `ज्वर रोगे` (धातुपाठः-776), हेतुमण्णिच्। घटादित्वान्मित्त्वम्। `मितां ह्रस्वः` (6.4.92) इति ह्रस्वः।`सन्तापयति` इति। `तप सन्तापे` (धातुपाठः-985), हेतुमण्णिच्। सन्तापोऽत्र भावः कर्ता॥`सर्पिषो नाथते` इति। सर्पिर्यस्य नास्त्यतोऽर्थित्वादाशास्ते सः - सर्पिर्मे भूयादिति। `आशिषि नाथः` इत्युपसंख्यानादात्मनेपदम्।`माणवकमुपनाथति` इति। याचत इत्यर्थः॥
Prakriyasarvasvam
-----------------
भावकर्तृकाणां रुजार्थधातूनां कर्मणि षष्ठी स्याद्, ज्वरेस्तु न । देहस्य द्विषां रुजत्यर्दयते तुदतीत्याद्युदाहृतिः । नरं रुजति श्लेष्मा । 'अज्वरिसन्ताप्यो'रिति वाच्यम् । देहं ज्वरयति सन्तापयति वा रोगः । शृङ्गारे तु रोगादिपदप्रयोगं विनैव भावकर्तृकत्वमुक्तम् । तथा कर्त्रविवक्षायां क्रिया कर्त्री भवेदिह ॥ ५५२ ॥ तेषां रुजादिर्भवतीत्येवं भावस्य कर्तृता ॥ ५५१ ॥ यथा कर्माविवक्षायामकर्मत्वं सकर्मणाम् । तथा कर्त्रविवक्षायां क्रिया कर्त्री भवेदिह ॥ ५५२ ॥
Vartika
-------
अज्वरिसन्ताप्योरिति वक्तव्यम् ।
Sutra Prayogas
--------------
* **चेतः** (किरातार्जुनीयम्): `रुजार्थानां भाववचनानामज्वरेः` इति षष्ठी न भवति।
* **रावणस्येह** (भट्टिकाव्यम्): `रुजार्थानां भाववचनानामज्वरेः` इति पष्ठी।