23051: ज्ञोऽविदर्थस्य करणे
==========================
**Padacheda:** ज्ञः | S | 6 | 1 |
अविदर्थस्य | S | 6 | 1 |
करणे | S | 7 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
Of the verb ज्ञा , when not used in the sense 'to know', the instrument takes the 6th-Case-affix.
Vasu English Translation
------------------------
Of the verb ज्ञा , when not used in the sense 'to know', the instrument takes the 6th-Case-affix.
Ex. मधुनो जानीते 'he engages in sacrifice with honey'. So also सर्पिषो जानीते. The verb ज्ञा when not meaning 'to know', has the significance of 'to act, or to engage in;' or it may denote 'false knowledge'; as सर्पिषि रक्तः प्रतिहतोवा. Compare (1.3.45).
But not so here स्वरेण पुत्रं जानाति 'he recognises the son by the voice.'
Kashika
-------
जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति। सर्पिषो जानीते। मधुनो जानीते। सर्पिषा करणेन प्रवर्तत इत्यर्थः। प्रवृत्तिवचनो जानातिरविदर्थः। अथ वा मिथ्याज्ञानवचनः। सर्पिषि रक्तः प्रतिहतो वा चित्तभ्रान्त्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते। मिथ्याज्ञानमज्ञानमेव। अविदर्थस्येति किम्? स्वरेण पुत्रं जानाति॥
Siddhanta Kaumudi
-----------------
जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ॥
Balamanorama
------------
**ज्ञोऽविदर्थस्य करणे** - ज्ञोऽविदर्थस्य । ज्ञः-अविदर्थस्येति च्छेदः । 'ज्ञ' इति ज्ञाधातोरनुकरणात्षष्ठएकवचनम् । वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह — जानातेरज्ञानार्थस्येति । शेषत्वेनेति । संबन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तेरिति भावः । सर्पिषो ज्ञानमिति । वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव 'ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । 'षष्ठी शेषे' इति सिद्धेऽपिप्रतिपदविधाना षष्ठी न समस्यते॑ इत्येतदर्थं वचनम् ।
Padamanjari
-----------
ज्ञोऽविदर्थस्य करणे॥ असंदेहार्थं विदर्थस्य ज्ञः करण इत्येव वक्तव्ये तदकरणादविदर्थस्येति पदच्चेदः, लुग्विकरणश्च विदिर्गृह्यते तदर्थ एव जानातेर्वृत्तिसंभवात्, तदाह - अविदर्तस्याज्ञानार्थस्येति। सर्पिषो जानीत इति। ठपह्नवे ज्ञःऽ ठकर्मकाच्चऽ इत्यात्मनेपदम्। प्रवृत्तिवचन इति ज्ञानपूर्विकायां प्रवृतौ वर्तमान इत्यर्थः। सर्पिषि रक्त इति। रागो मिथ्याज्ञानस्य हेतुः, द्रौपद्यां रक्तो हि कीचको रहसि भीमसेनमालिङ्ग्यावोचद् - अहो उतमाङ्गनामीद्दशी सुस्पर्शतेति। प्रतिहितो वेति। प्रतिघातो द्वेषस्य हेतुः, द्वेषश्च मिथ्याज्ञानस्य हेतुः, यो हि परिहासशीलेन केनचित्पूयादिकमशुचि द्रव्यं निर्द्दिश्योक्तः - सर्पिरेतत्पिबेति, स तत्र प्रतिहतस्तत आरभ्य सर्पिद्वेष्टि, द्विषतश्चातस्मिन्नपि तज्ज्ञानमुत्पद्यते। यदि सर्वमेव ग्राह्यम्, तदात्मना सर्पिः स्वभावतया प्रतिपद्यते, एवं सत्यविदर्थत्वं नोपपद्यते तत्राह - मिथ्याज्ञानमेवेति। ज्ञानकार्याकरणादिति भावः। अविप्लुतविषयपरिच्छेदो हि ज्ञानकार्यम्, तच्च मिथ्याज्ञानेन न क्रियते, अस्मिन्पक्षे उदकादिकर्मणासकर्मकत्वाद् ठकर्मकाच्चऽ इत्यात्मनेपदानुपतेः परस्मैपदमुदाहार्यं मन्यते॥
Nyaas
-----
यद्यपि बहवो विदयः सन्ति, तथापि यस्यार्थे जानातर्वृत्तिः सम्भवति तस्यैव विदेः प्रतिषेधकरणं युक्तम्, `विद ज्ञाने` (धातुपाठः-1064) इत्यस्यैवार्थे जानातेर्वृत्तिः सम्भवति, तस्मादविदर्थस्येत्यनेन ज्ञानार्थस्यैव प्रतिषेधो विज्ञायत इत्याह - `अज्ञानार्थस्य` इत्यादि। `सर्पिषो जानीते, मधुनो जानीते` इति। **अपह्नवे ज्ञः** (1.3.44) इत्यनुवर्तमाने, **अकर्मकाच्च** (1.3.45) इत्यात्मनेपदम्। धुन इति - ` इकोऽचि विभक्तौ` (र7.1.73) इति नुम्। सर्पिषा करणभूते प्रवर्तत इत्यर्थः। यस्य प्रियतमं सर्पिस्तस्य प्रवृतिं प्रति सर्पिषः करणभूतत्वात्। धातूनामनेकार्थत्वाज्जानातिरिह प्रवृत्त्यर्थः। `सर्पिषिरक्तः प्रतिहतो वा` इति। सर्पिषि रक्तत्वं प्रतिहतत्वं च चित्तभ्रान्तेः कारणमाह। यदि सर्वमेव ग्राह्रं तदात्मना सर्पिःस्वभावतया प्रतिपद्यते। एवं सत्यविदर्थता नोपपद्यते, ज्ञानार्थत्वादित्यत आह - `मिथ्याज्ञानमज्ञानमेव` इति। ज्ञानकार्याकरणादिति भावः। अविपरीतविषयपरिच्छेदो हि ज्ञानकार्यम्, कतच्च मिथ्याज्ञानेन न क्रियत इति मिथ्याज्ञानमज्ञानमुच्यते, यथा - पुत्रकार्याकरणात् पुत्रोऽपुत्र इति॥
Prakriyasarvasvam
-----------------
अज्ञानार्थस्य जानातेः षष्ठी तु करणे भवेत् । भवाञ्छस्त्रस्य जानीतां तेन व्याप्रियतामिति ॥ ५४६ ॥ मिथ्याज्ञानार्थको वायं तस्या जानाति सोऽखिलम् । भ्रान्त्या सर्वं तया वेत्ति तद्रूपेणेति सिध्यति ॥ ५४७ ॥ करणत्वं कथञ्चिद्योज्यम् । ज्ञानार्थस्य तु पुत्रं जानाति स्वरेणेति तृतीयैव ॥